अथ श्रीमन्न्यायसुधायां ज्योतिरुपक्रमाधिकरणम्
ओं ज्योतिरुपक्रमात्तु तथा ह्यधीयत एके ओं
ज्योतिरुपक्रमा तु तथा ह्य् अधीयत एके । ब्ब्स्_१,४.९ ।
ज्योतिष्योमेन स्वर्गकामो यजेत ।
वसन्त वसन्ते ज्योतिषा यजेतेत्यादिकर्मकाण्डगते वाक्ये सन्देहः किमेतत् ब्रह्मणि समन्वेत्युत नेति ।
नेति पूर्वः पक्षः ।
तथाहि ।
किमत्र वाक्यार्थो ब्रह्म किंवा पदार्थः ।
नाद्यः ।
ज्योतिष्योमकतर्व्यतादेर्वाक्यार्थतया प्रतीतेः ।
न द्वितीयः ।
पदानि हि अमूनि किं रूढ्या ब्रह्मवाचीनि किंवा योगेन ।
आद्ये ऽपि किं प्रसिद्धवसन्ताद्यात्मकत्वेन तत्पदानां ब्रह्मणि रूढिराश्रीयते उत पृथगेव ।
नाद्यः ।
तेषां जडत्वानियत्वादिना ब्रह्मणो ऽपि दूषणप्रसङ्गात् ।
न द्वितीयः ।
अनेकार्थतास्वीकारस्यान्याय्यत्वात् ।
न हीश्वरे वसन्तादिशब्दानां रूढिः प्रमाणवती ।
नच रूढ्या समन्वयसमाश्रयणष प्रयोजनमस्ति ।
गुणपूर्त्यसिद्धेः ।
नापि योगेन ।
योगस्य रूढेर्जघन्यवृत्तित्वेन मुख्यार्थतासिद्धेः ।
न चैवंविधं योगमपि पश्यामः ।
योगे च प्रकृत्यादिविभागः पूर्वोत्तरपदविभागश्चाङ्गीकरणीयः ।
तत्र प्रकृत्यादेरीश्वरवाचित्वमस्ति न वा ।
आद्ये योगानुपपत्तिः सामर्थ्याभावात् ।
द्वितीये ब्रह्मणि सर्वशब्दसमन्वयानुपपत्तिः ।
प्रकृत्यादेरन्यपरत्वात् ।
किञ्च सर्वेषां पदानां ब्रह्मपरत्वे विभक्तिवैयर्थ्यं कर्मानुष्ठानविलोपश्च प्राप्नोति ।
क्रियोपहितरूपत्वात्कारकाणां क्रियाभिधायकस्य चाभावात् ।
अनुष्ठापकप्रमाणान्तरदर्शनात् ।
तस्मादयुक्तं समन्वयसूत्रमिति ।
४,१०६फ़्.
अत्रोच्यते ।
यत्तावदुक्तं किं ब्रह्मणि वाक्यस्यान्वयः किंवा पदानामिति ।
तत्र तावत्पदानामिति ब्रूमः ।
नच वृत्त्यसम्भवः ।
योगसद्भावादित्यभिप्रेत्य निर्वक्ति जातमिति
जातमोतं हरौ यस्माज्ज्योतिः षः प्राणरूपतः (अनुव्याख्यानम्)१,४.१२अब्
न्यायसुधा-
जिर्जातम् ।
जनेरौणादिको डिप्रत्ययः ओतिरोतम् ।
अवतेः क्तिन् ।
जातं जगत् ओतं प्रविष्यं यस्मिन्नसौ ज्योतिः ।
प्राणरूपतश्चेष्यकरूपत्वात् ।
षकारः प्राण आत्मा’ इति श्रुतेः ।
ज्योतिश्चासौ षश्चेति ज्योतिषः ।
तस्य सम्बुद्धिर्ज्योतिष ।
४,१०९
आयज्ञेतश्चायजेतो … (अनुव्याख्यानम्)१,४.१२च्
न्यायसुधा-
यजतेर्भावे ।
घञर्थे’कविधानम्’ इति कप्रत्ययः ।
सम्प्रसारणाभावः (तु) छान्दसः ।
यजो यज्ञः ।
अथवा कर्तर्येव पचाद्यच् ।
तथाच आउसम्यक् समन्ताद्वा, यजेन यज्ञेन कर्मणा याजकेन पुरुषेण वा, इतः प्राप्तः, आयजेतः ।
सकलयज्ञभोक्ता यज्वभिर्ज्ञानद्वारा प्राप्यश्चेत्यर्थः ।
तस्य सम्बुद्धिरायजेत ।
४,१११
… वसन्तिश्च वसन्ततः (अनुव्याख्यानम्)१,४.१२द्
न्यायसुधा-
वसतेः पचाद्यच् ।
वसतीति वसः ।
तनोतेरौणादिको डिप्रत्ययः ।
तनोतीति तिः ।
‘वर्णागमो वर्णविपर्ययश्च’ इति पूर्वपदस्य नकारागमः ।
वसंश्चासौ तिश्चेति वसन्तिः ।
व्याप्तो वर्तत इत्यर्थः ।
तत्सम्बुद्धिर्वसन्ते ।
द्विरुक्तिरादरार्था ।
४,११२
विगतच्छादनत्वात् तु गच्छ … (अनुव्याख्यानम्)१,४.१३अब्
न्यायसुधा-
अमेश्छदेश्च डोऽन्यत्रापि दृश्यत इति डप्रत्ययः ।
गं विगतं, छं छादनमविद्यादिकं यस्मादसौ गच्छस्तस्य सम्बुद्धिर् गच्छ ।
ऽइन्द्रागच्छेऽत्यादिव्याख्यानमेतत् ।
४,११५
… भूतक्षयङ्करः ।
भुङ्क्षेत्युक्तो हरिर् … (अनुव्याख्यानम्)१,४.१३ब्च्
न्यायसुधा-
सुशब्दो भूतशब्दस्यादेशः क्षयशब्दस्य च क्ष्वः पूर्वपदस्य मकारागमः ।
पृष्टोदरादिरयम् ।
यद्वा क्षि क्षय इत्यस्मात् ड्वप्रत्ययः ।
अयमपि सम्बुद्ध्यतः ।
४,११७
… हुं च हुतमस्मिन् जगद् यतः (अनुव्याख्यानम्)१,४.१३च्द्
न्यायसुधा-
जुहोतेरधिकरणे मकारप्रत्ययः ।
कृन्मेजन्त इत्यव्ययत्वम् ।
हुतं स्वेनैवास्मिन्विष्णौ जगत्प्रलयादौ यतो ऽतो हुं च असावित्यर्थः ।
कर्मविशेषानुक्तेर्जगदित्युक्तम् ।
४,११८
स्फुटत्वात् फडिति प्रोक्तः … (अनुव्याख्यानम्)१,४.१४अ
न्यायसुधा-
स्फौटविकसन इत्यस्मात्कर्तरि क्विप् ।
सकारलोपः ।
उकारस्याकारः ।
स्फुटत्वात्स्वात्मानं प्रति व्यक्तत्वादसङ्कुचितवृत्तित्वात् (इति) वा ।
… कवरक्षण इत्यतः ।
कवचं … (अनुव्याख्यानम्)१,४.१४ब्च्
न्यायसुधा-
कवरक्षण इत्यतः इत्यस्य(स्मात्) धातो रूपं कवचमित्येतदित्यर्थः ।
कवतेरच इत्येतावानेव प्रत्ययः ।
कवति रक्षतीति कवचम् ।
४,११९
… वतर्ते यस्मात् षड्गुणत्वेन सर्वदा ।
वषत् … (अनुव्याख्यानम्)१,४.१४च्ए
न्यायसुधा-
वृतु वर्तने डप्रत्ययः, वर्तत इति वः ।
षड्गुणात्मकत्वात् षट् ।
वश्चासौ षट् चेति वषट् ।
तस्य तात्पर्यं वर्तत इत्यादि ।
ऐश्वर्यवीर्ययशःश्रीज्ञानवैराग्याणि षड्गुणाः ।
… तद्गत्वतस्तेषां वौषड् … (अनुव्याख्यानम्)१,४.१४एफ़्
न्यायसुधा-
विः विष्णुः ।
‘अकयप्रविसम्भूमसखाहा विष्णुवाचकाः’ इति वचनात् ।
तस्मिन् वौ वर्तमानाः षट् गुणा वौषट् ।
सप्तम्या अलुक् ।
अस्य तात्पर्यार्थः ।
तेषां षण्णां गुणानां तद्ग(त)त्वतो वौषडिति ।
४,१२०
… इत्येव कथ्यते (अनुव्याख्यानम्)१,४.१४फ़्
न्यायसुधा-
नचैवं भगवन्नामत्वानुपपत्तिः ।
तद्गतगुणानामपि तदात्मकत्वात् ।
तदिदमुक्तम् इत्येवेति
तर्हि कथ्यत इति कथम् ।
भावे प्रयोगो न कर्मणीत्यतो न दोषः ।
४,१२५
स्वीयं स्वीकुरुते यस्मात् स्वाहेत्युक्तो जनार्दनः (अनुव्याख्यानम्)१,४.१५अब्
न्यायसुधा-
हरतेर्जहातेर्वा डः ।
द्वावप्याङ्पूर्वौर्(वकौ) स्वीकारे वर्तेते ।
स्वं स्वभावतः स्वीयमेव हविरादि(इतरेषां) भ्रान्त्यास्ववत् प्रतीतं स्वीकुरुत इति स्वाहः ।
स चासौ अश्चेति स्वाहेति सम्बुद्धिः ।
४,१२६
नमन्त्यस्मिन् गुणा यस्यान्नम इत्येव कथ्यते (अनुव्याख्यानम्)१,४.१५च्द्
न्यायसुधा-
नमतेरधिकरणे ऽसुन्प्रत्ययः ।
नपुंसकलिङ्गता तु शब्दानुसारिणी ।
गुणा इति योग्यतया सम्बन्धः ।
नमनेनात्यन्तिकसम्बन्धमुपलक्षयति ।
अथवा अस्मिन् परमेश्वरे विषये गुणाः उपसर्जनभूता ब्रह्मादयो नमन्ति प्रह्वीभवन्तीति व्याख्येयम् ।
४,१२७
एवं योगवृत्या पदसमन्वये ऽङ्गीकृते लब्धं प्रयोजनमाह इत्यशेषेति
इत्यशेषक्रियानामशब्दैरेको जनार्दनः ।
उच्यते मुख्यतो यस्मात् पदवर्णस्वरादिभिः (अनुव्याख्यानम्)१,४.१६
तस्मादनन्तगुणता … (अनुव्याख्यानम्)१,४.१७अ
न्यायसुधा-
इति उक्तदिशा ।
तेन च विभक्त्यर्थानुपपत्तिः ।
क्रियाशब्दा आख्यातपदानि ।
नामशब्दाः सुबन्ता(पदा)नि ।
‘एकः’ इति शब्दान्तरन्यायेन प्राप्तं भेदमपाकरोति ।
अभिधेयभेदे हि नानन्तगुणता सिद्धयति ।
मुख्यतो योगवृत्त्या ।
क्रियानामशब्दैरित्यस्यानुवादः पदवर्णस्वरात्मभिरिति ।
न केवलं पदवर्णात्मभिः किं तूदात्तादिस्वरात्मभिश्च ।
ननु वर्णानामपि वाचकत्वे विभक्त्यन्तत्वे च पदत्वमेव ।
तत्किमर्थं पृथग्ग्रहणम् ।
एकानेकवर्णात्मकत्वविवक्षयेति ब्रूमः ।
अनन्तगुणता सिद्धयतीति शेषः ।
हिशब्दो ऽपर्यायत्वादिति सूचयति ।
अनेन रूढिमात्रेण पदसमन्वयाङ्गीकारो निष्प्रयोजनः अनन्तगुणत्वासिद्धेरिति पूर्वपक्षिणोक्तं परिहृतमित्युक्तं भवति ।
ननु च न निर्वचनस्य शक्यकारणत्वमात्रेणानन्तगुणत्वं परमेश्वरस्य वेदतः सिद्धयति ।
निर्वचनस्य व्याख्यातृमतिपरिकल्पितस्यार्थान्तरे ऽन्यथा च सम्भवात् ।
अन्यथा श्वित्री शोधनं करोति इत्यभिप्रायेण प्रयुक्तस्य श्वेतो धावतीति वाक्यस्य इतः सारमेयो द्रुतं गच्छतीत्यपि प्रमेयं प्रसज्येतेत्यत उक्तम्
श्रुतीति
४,१२८
… श्रुतितात्पर्यतो ऽस्य हि (अनुव्याख्यानम्)१,४.१७ब्
न्यायसुधा-
भवेदेवम् यदि वसन्त इत्यादिश्रुतीनामुक्तविधिनिर्वचनेन परमेश्वरगुणेषु तात्पर्यं न स्यात् ।
तच्चास्तीत्युपपादयिष्याम इति च हिशब्दः ।
योगवृत्त्यङ्गीकारस्य प्रयोजनान्तरमाह विज्ञानेति
विज्ञानार्थत्वतः सर्वशब्दानां नास्ति दूषणम् (अनुव्याख्यानम्)१,४.१७च्द्
न्यायसुधा-
वैदिकानां सर्वशब्दानामेवं योगवृत्त्या विज्ञानार्थत्वतो ऽनन्तगुणोपेततया परमेश्वरज्ञानार्थत्वेनाङ्गीकृतत्वाद्वसन्ताद्यात्मकतया
रूढ्यङ्गीकारप्रयुक्तं यदनित्यत्वादिदूषणमुक्तं तन्नास्तीत्यर्थः ।
तदनेन’ज्योतिः’ इति सूत्रस्य लेशतस्तात्पर्यमुक्तं भवति ।
एवं कर्मकाण्डस्य ब्रह्मणि प्रतिपदसमन्वयप्रतिपादनेन समन्वयसूत्रस्यानुपपत्तिः परिहृता ।
इदानीं वाक्यान्वयपक्षाङ्गीकारेणापि तां परिहरति अङ्गीकृते ऽपीति
अङ्गीकृते ऽपि नैवास्ति दोषो वाक्यसमन्वये (अनुव्याख्यानम्)१,४.१८अब्
न्यायसुधा-
वाक्यसमन्वये ऽङ्गीकृते ऽपि ब्रह्मणि वसन्त इत्यादिवाक्यानां समन्वयाङ्गीकारादपि दोषः समन्वयसूत्रानुपपत्तिर्नैवास्तीत्यर्थः ।
अनेन वाक्यान्वयस्यादिति सूत्रस्य तात्पर्यमुक्तं भवति ।
४,१३०फ़्.
ननूक्तमत्र न वाक्यानां ब्रह्मणि समन्वयो घटते ।
साङ्गकमर्परत्वावगमादागमनामिति तत्राह तदर्थत्वेनेति
तदर्थत्वेन कर्मादेः सम्भवादल्पबुद्धये (अनुव्याख्यानम्)१,४.१८च्द्
न्यायसुधा-
तदिति विज्ञानं परामृशति ।
अल्पबुद्धय इति षष्ठयर्थे चतुर्थी ।
‘अहल्यायै जारः’ इति यथा ।
न वाक्यान्वयानुपपत्तिरिति शेषः ।
यथा खलु यूपाहवनीयादिवाक्यानि न निष्फले तावन्मात्रे पर्यवस्यन्ति ।
किन्तु ज्योतिष्योमादीतिकर्तव्यतापराणि ।
तथा सर्वमपि कर्मकाण्डं नाल्पास्थिरफले पर्यवस्यति, किन्तु ब्रह्मज्ञानार्थमेव ।
तत्प्रतिपादितस्य कर्मादेर्ब्रह्मज्ञानाथर्त्वात् ।
‘विविदिषन्ति यज्ञेन दानेन तपसानाशकेन’ इत्यादिश्रुतेरिति भावः ।
ननु च यः कर्मकाण्डस्य ब्रह्मणि प्रतिपदसमन्वयो ऽभिहितः स युक्तो न वा ।
नेति पक्षे न व्युत्पादनीयः ।
आद्ये किमनेन वाक्यान्वयाङ्गीकारेणेत्यत उक्तम् अल्पबुद्धय इति
प्रपञ्चयिष्यते चैतत् ।
अनेन’अन्यार्थम्’ इत्यादिसूत्राणां तात्पर्यमुक्तं भवति ।
४,१३३
नन्वल्पबुद्धीनामपि प्रतिपदान्वय एव ब्रह्मज्ञानहेतुर्भ(विष्यतीति)वतीति किं वाक्यान्वयेत्यत आह क इति
कश्छन्दसां योगमिति श्रुतेर् … (अनुव्याख्यानम्)१,४.१९अ
न्यायसुधा-
‘कच्छन्दसां योगमावेद धीरः’ इति श्रुतेर्वैदिकपदयोगवृत्तेरल्पबुद्धिभिरशक्यज्ञानत्वाद्यु(त्वेन)क्तं वाक्यान्वयव्युत्पादनमिति शेषः ।
नन्वेवं तर्हि योगवृत्त्या प्रतिपदसमन्वयव्युत्पादनं न कर्तव्यम् ।
को धीरश्छन्दसां योगं ब्रह्मणि योगवृत्तिम् आवेद न को ऽपीति निरधिकारिकत्वश्रवणात् ।
नहि गायमानो बधिरेषु गायतीत्यत आह योगार्थेति
… योगार्थतत्त्ववित् ।
ब्रह्मैको नैव चान्यो ऽस्ति … (अनुव्याख्यानम्)१,४.१९ब्च्
न्यायसुधा-
योगस्यार्थो योगार्थः ।
तस्य तत्त्वं याथार्थ्यम् ।
चशब्दो ऽर्थद्वयसमुच्चयार्थः ।
अयमस्याः श्रुतेरर्थ इति शेषः ।
एतदुपपादयति क इति
… क इत्यस्यरोभयार्थतः (अनुव्याख्यानम्)१,४.१९द्
न्यायसुधा-
‘प्रजापतिर्वै कः’ इति श्रुतेः कशब्दो ब्रह्मार्थः ।
किंवृत्तस्य चाक्षेपे वृत्तिः सुप्रसिद्धा ।
तथा च क इत्यस्योभयार्थत्वाद्ब्रह्मार्थत्वे तस्य योगवृत्तिज्ञाने सामर्थ्यकथनान्नानधिकारिकत्वम् ।
आक्षेपार्थत्वे तदन्येषामनधिकारकथनाद्युक्तो वाक्यान्वयाभ्युपगमः ।
ननु कथमेतत् ।
आवृत्तेस्तन्त्रधर्माद्वेत्यदोषः ।
प्रमाणं चात्रान्यथानुपपत्तिरिति ।
४,१३५
यदि ब्रह्मा एक एव पदानां योगवृत्त्या ऽर्थसम्बन्धं वेद तदा’एकस्य प्रतिभातं तु कृतकान्न विशिष्टते’ इति न्यायात्कृतकत्वं
शब्दार्थसम्बन्धस्येत्याद्यापद्यते ।
तथा’चौत्पत्तिकस्तु शब्दस्यार्थेन सम्बन्धः’ इति जैमिन्युक्तः शब्दानामर्थैर्नित्ययोगः परित्यक्तः स्यादित्यत आह तस्यापीति
४,१३६
तस्यापि पूर्वसिद्धस्य ज्ञानमेवेति निश्चयात् ।
नित्ययोगो ऽपि शब्दानामर्थैर्नैव निषिद्धयते (अनुव्याख्यानम्)१,४.२०अद्
न्यायसुधा-
यद्यप्येक एव प्रतिपत्ता तथापि तस्य पूर्वसिद्धस्येव पूर्वस्थितस्यैव ज्ञातस्यैव च शब्दार्थसम्बन्धस्य प्रमितिरेव भवति न तूत्प्रेक्षामात्रम् इति
अस्यार्थस्य श्रुत्यादिभ्यो निश्चयात् जैमिन्युक्तः अर्थैः शब्दानां नित्ययोगो नैवास्माभिस्त्यज्यत इति योजना ।
एतदुक्तं भवति ।
स्यादयं दोषो यदि ब्रह्मणः शब्दार्थसम्बन्धज्ञानमुत्प्रेक्षारूपं स्यात् ।
न चैवम् ।
किन्तु पूर्वजन्मनि प्रतीतं स्वतः सिद्धमेव सम्बन्धमिह जन्मनि सुप्तप्रबुद्धन्यायेनेश्वरप्रसादादवबुद्धयत इति ।
तथाच श्रुतिः’यो ब्रह्माणम्’ इत्येवञ्जातीयका ।
एकदेशे पुरुषान्तरप्रतिपत्तिसंवादाच्चैतदेवम् ।
तथाच स्मृतिः ।
‘जन्मान्तरे श्रुतास्तास्तु’ इत्यादिका ।
अत एव श्रुतिः’आवेद’ इत्याह ।
एतेन नैकाधिकारिकं शास्त्रमित्यपि परास्तम् ।
इति श्रीमन्न्यायसुधायां ज्योतिरुपक्रमाधिकरणम्
__
४,१३८