४,६७
अथ श्रीमन्न्यायसुधायां आनुमानिकाधिकरणम्
अन्यत्रैव प्रसिद्धशब्दसमन्वयप्रतिपादनं पादार्थ इति भाष्यात्परिशेषाद्वा सिद्धम् ।
अन्यत्र प्रसिद्धेभ्यो ऽन्यत्रैव प्रसिद्धानां विवेकश्च भाष्य एवोपपादित इति नेहोच्यते ।
ओं आनुमानिकमप्येकेषामिति चेन्न शरीररूपकविन्यस्तगृहीतेर्दर्शयति च ओं
आनुमानिकम् अप्य् एकेषाम् इति चेन् न शरीररूपकविन्यस्तगृहीतेर् दर्शयति च । ब्ब्स्_१,४.१ ।
न्यायसुधा-
अत्र’महतः परमव्यक्तमव्यक्तात्पुरुषः परः’ इति वाक्यमुदाहृत्य, अव्यक्तशब्दं परं ब्रह्मैवेत्युपपादितम् ।
तत्र यदुक्तं पूर्वपक्षिणा’अव्यक्तं चेत्परं ब्रह्म तदा तस्य पुरुषादवरत्वं प्राप्नोति ।
नच तद्युक्तम् ।
सकलश्रुत्यादिविरोधात्’ इति ।
तत्परिहारार्थं सूत्रम्
तदधीनत्वादर्थवदिति ।
तदधीनत्वाद् अर्थवत् । ब्ब्स्_१,४.३ ।
तस्यार्थं विवृणोति दुःखीति
दुःखिबद्धावराद्यास्तु तदधीनत्वहेतुतः ।
शब्दा ब्रह्मणि वर्तन्ते … (अनुव्याख्यानम्)१,४.१अच्
न्यायसुधा-
अव्यक्तग्रहणमुपलक्षणम् ।
यत्र वाक्ये सर्वेश्वरत्वविरोधि दुःखित्वादिकं प्रतीयते’जीवा एव तु दुःखिनःऽ,’योनिमन्ये प्रपद्यन्ते’ इत्यादौ, तस्य सर्वस्यापि समन्वयो ऽत्र
प्रतिपाद्यत इत्यतो दुःख्यादग्रहणम् ।
नाव्यक्तादिशब्दानां ब्रह्मपरत्वे ऽप्यवरत्वादिप्राप्त्या सर्वमानविरोधो ऽस्ति ।
यतः स्वस्मिन्नवरत्वाद्यभावे ऽपि तद्वतां प्रधानादीनां ब्रह्माधीनत्वेन हेतुना दुःखी,बद्धः,अवरः, इत्याद्या अपि शब्दा ब्रह्मणि वर्तन्त इत्यङ्गीकृतम् ।
एतदुक्तं भवति ।
दुःख्यादिशब्दबलादेव हि दुःखित्वादिप्राप्तिः ।
ततश्च प्रमाणविरोधो वाच्यः ।
नच दुःख्यादिशब्दो नियमेन दुःखादिसमवायस्य वाचकः ।
किन्तु तदस्यास्तीति तत्सम्बन्धमात्रस्य ।
सम्बन्धश्च समवाय इव स्वाम्यमपि भवति ।
‘तत्र निरनिष्यो निरवद्यःऽ‘नामानि सर्वाणि यमाविशन्ति’ इति निरवकाशश्रुतिद्वयान्यथानुपपत्त्या दुःखादिनियन्तृत्वेन
दुःख्यादिशब्दप्रवृत्तिरित्यङ्गीकारे कानुपपत्तिरिति ।
४,७१
भवत्वेवं तद्धितान्तेषु गतिः ।
कृदन्तेषु बद्धादिशब्देषु रूढेषु चावरादिशब्देषु कथम् ।
इत्थम् ।
बद्धशब्दस्य बन्धं प्रति कर्मत्वं प्रवृत्तिनिमित्तम् ।
तद्यस्यास्ति तत्र स शब्दो वर्तते ।
यस्यास्तीति च सम्बन्धमात्रमुच्यते ।
सम्बन्धविशेषे प्रमाणाभावात् ।
एवं कारकान्तरवाचिष्वपि द्रष्टव्यम् ।
अवरादिशब्दा अपि अवरत्वादिनिमित्ताधीनप्रवृत्तय एवमेव योज्याः ।
किञ्च’प्रातिपदिकाद्धात्वर्थः’ इति ण्यन्तेभ्यः पचाद्यचि विहिते सुलभैवावरादिशब्दप्रवृत्तिः ।
स्यादेषा व्याख्या, यत्र शब्दतो ऽवरत्वादिप्रतीतिः ।
यत्र पुनः’अव्यक्तात्पुरुषः पर इत्यादावर्थादवत्वादिप्राप्तिस्तत्र कथम् ।
नहि शब्दवदुपपत्तिर्व्याख्यानमर्हति ।
उच्यते ।
अव्यक्तादिति पञ्चम्या हि पुरुषगतं परत्वं प्रति अव्यक्तस्यावधित्वमस्तीत्येतावदेव लभ्यते ।
नच’तदस्यास्ति’ इत्यनेन समवाय एव प्राप्नोतीति नियमो ऽस्ति ।
तत्स्वामित्वेनाप्युपपत्तेः ।
ततश्च यद्गतं परत्वं प्रति अवधित्वं तस्यावरत्वमर्थादापद्यताम् ।
परगतं तु यत्स्वामिकं तस्यावरत्वादिकं प्रति स्वाम्यमेवार्थादापद्यत इति न कश्चिद्विरोधः ।
४,७६
स्यादेतत् ।
यद्यपि तदस्यास्तीति सम्बन्धसामान्यं दुःख्यादिशब्दप्रवृत्तिनिमित्तमुच्यते ।
तथापि समवायादिरेव न स्वामित्वम् ।
प्रयोगानुसारित्वात्कृत्तद्धितसमासानाम् ।
प्रयोगश्च समवायादिनिमित्त एव दृश्यते ।
न स्वामित्वनिमित्तः ।
अत एव’तदस्यास्त्यस्मिन्निति मतुब्’ इतीतिकरणो विविक्षितार्थो निबद्धः ।
तस्मान्न तदधीनत्वहेतुतो दुःख्यादिशब्दानां ब्रह्मणि प्रवृत्तिः इत्यतो ऽस्ति तदधीनत्वनिमित्तो ऽपि प्रयोग इत्याह राज्ञीति
… राज्ञि यद्वत् पराजयः (अनुव्याख्यानम्)१,४.१द्
न्यायसुधा-
भृत्यसमवेतस्य पराजयस्य राजाधीनत्वेन यथा राज्ञि पराजयः पराजयनिमित्तकः पराजयीतिशब्दो वर्तते पराजयी भद्रसेन इति तथेत्यर्थः ।
किञ्च स्वाम्यसम्बन्धेन मतुबर्थाप्रवृत्तौ गोमान्देवदत्त इत्यादिकमपि न स्यात् ।
४,७८
एतदेव विवृणोति स्वातन्त्र्यमिति
स्वातन्त्र्यं तद्गतत्वं च शब्दवृत्तेर्हि कारणम् (अनुव्याख्यानम्)१,४.२अब्
न्यायसुधा-
यस्मात् प्रवृत्तिनिमित्तानां दुःखादीनां तद्गतत्वमिव परगतेषु स्वातन्त्र्यमपि दुःख्यादिशब्दप्रवृत्तेः कारणम् ।
अनुशासनप्रयोगयोरुभयत्र साम्यात् ।
तस्माद्दुःख्यादिशब्दा अपि उक्तार्थापत्तिबलात्तदधीनत्वहेतुतो ब्रह्मणि वर्तन्त इति सम्बन्धः ।
४,७९
अस्तु स्वातन्त्र्यमपि शब्दप्रवृत्तिनिमित्तम् ।
किं त्वमुख्यमेव ।
तत्र प्रयोगस्याप्रचुरत्वात् ।
प्रयोगप्राचुर्यात्तद्गतत्वमेव मुख्यम् ।
तथाच दुःख्यादिशब्दानां जीवादिष्वेव मुख्यत्वाद्ब्रह्मण्यमुख्यत्वात्’तत्तु समन्वयात्’ इत्यनुपपन्नमित्यत आह स्वातन्त्र्यमिति
स्वातन्त्र्यं तत्र मुख्यं स्यात् … (अनुव्याख्यानम्)१,४.२च्
न्यायसुधा-
तत्र स्वातन्त्र्यतद्गतत्वयोर्मध्ये स्वातन्त्र्यमेव मुख्यं शब्दप्रवृत्तिनिमित्तं स्यात् ।
नतु तद्गतत्वमित्यर्थः ।
४,८०
स्वातन्त्र्यमपि शब्दप्रवृत्तिकारणमिति मुख्यमिति च क्रमेण प्रतिज्ञातम् ।
तत्क्रमेणैवोपपिपादयिषुः स्वातन्त्र्यस्य कारणत्वानभ्युपगमे बादकमाह कुत इति
… कुतो राज्ञि जयो ऽन्यथा (अनुव्याख्यानम्)१,४.२द्
न्यायसुधा-
अन्यथा स्वातन्त्र्यस्य शब्दप्रवृत्तिकारणत्वाभावे, राज्ञि जयो जयनिमित्तको जयिशब्दः कुतः ।
कथम् ।
स्वधामोपविष्ये राज्ञि जयः कुतः, न कुतो ऽपि यतः, इत्यर्थः ।
जयस्य राजगतत्वाभावात्स्वातन्त्र्यमपि यदि शब्दप्रवृत्तिनिमित्तं न स्यात् तदा निमित्ताभावाद्राज्ञि जयिशब्दप्रवृत्तिर्न स्यात् ।
न चैवम् ।
तस्मात्स्वातन्त्र्यमपि कारणमङ्गीकरणीयमिति ।
लक्षणया प्रयोगो ऽस्त्विति चेन्न ।
तदस्यास्तीति निमित्तसाम्यात् ।
अन्यथा वैपरीत्यस्याप्यापातात् ।
पराजयस्य प्रकृतत्वे ऽपि जयग्रहणं व्याप्त्यर्थम् ।
४,८२
स्वातन्त्र्यस्य मुख्यकारणत्वमुपपादयति न हीति
नहि भृत्यस्य विजयिशब्दस्तावत् प्रयुज्यते ।
यावद् राज्ञ्यन्यगत्वे ऽपि स्वातन्त्र्याभासमात्रतः (अनुव्याख्यानम्)१,४.३
न्यायसुधा-
हिशब्दो यस्मादित्यर्थे ।
तावद्यावदिति क्रियाविशेषणे ।
जयस्यान्यगत्वे ऽपि भृत्यगतत्वे ऽपि तं जयं प्रति स्वातन्त्र्याभासमात्रेण राज्ञि विजयिशब्दो यावत्प्रयुज्यते तावज्जयाधिकरणस्यापि भृत्यस्य
सम्बन्धितया न प्रयुज्यते यस्मात्तस्मात्स्वातन्त्र्यं तत्र मुख्यं स्यादिति सम्बन्धः ।
स्वातन्त्र्यादिति वक्तव्ये स्वातन्त्र्याभासमात्रत इति वचनं किमुतानुपचरितस्वातन्त्र्ये परमात्मनीति कैमुत्यद्योतनार्थम् ।
भृत्याज्ञाननिमित्तं राज्ञि प्रयोगप्राचुर्यमिति चेन्न ।
भृत्यज्ञाने ऽपि तदुपलम्भात् ।
ननु प्रयोगप्राचुर्यं न मुख्यताहेतुः ।
अज्ञातमुख्यलाक्षणिकादिप्रयोगेष्वपि दर्शनादिति चेत् ।
सत्यम् ।
प्रयोगप्राचुर्यात्तद्गतत्वमेव मुख्यम् ।
स्वातन्त्र्यं तु तदप्राचुर्यादमुख्यमिति परेण पर्यनुयुक्ते ऽसिद्धिरनेनाभिधीयते ।
नतु प्रयोगप्राचुर्येण मुख्यता साध्यते ।
येन व्यभिचारचोदना सङ्गता स्यात् ।
यद्यप्यत्र प्रयोगप्राचुर्यस्य मुख्याज्ञाननिमित्तत्वादिनान्यथासिद्धिर्व्यभिचारो वा शक्यते वक्तुम् ।
तथापि’जगद्वाचित्वात्’ इति सूत्रदिशा शिष्यैरेव ज्ञातुं शक्यत इत्यसिद्धिरेवोक्ता ।
कुतस्तर्हि मुख्यतासिद्धिरिति चेत् ।
४,८६फ़्.
ननु यदि स्वास्यं प्रवृत्तिनिमित्तं स्यात्तदा भृत्ये बद्धे मृते वा, राजा बद्धो राजा मृत इति प्रयोगः स्यात् ।
न चैवमस्ति ।
तेन जानीमो न स्वाम्यं प्रवृत्तिनिमित्तमिति ।
नच वाच्यं प्रयोगे सति निमित्तानुसरणम् ।
नतु निमित्तमस्तीति प्रयोग इति ।
अमुख्यप्रयोगविषयत्वादस्य न्यायस्य ।
तत्र हि निमित्तं न सामग्री ।
किन्तु तदेकदेशः ।
मुख्यप्रयोगे तु निमित्तमेव सामग्री ।
नहि सिंहशब्दस्य शार्दूले प्रयोगाभाववत् उपगोरपत्ये ऽप्यौपगवशब्दप्रयोगाभावो भवतीति ।
अत्र वक्तव्यम् ।
को ऽयं प्रयोगो नाम ।
किं शब्दशक्तिः प्रयोगमूलं व्याकरणमिति यथा ।
किं वोच्चारणम् ।
नाद्यः प्रसङ्गस्येष्टत्वात् ।
विपर्ययपर्यवसाने चासिद्धेः ।
द्वितीये त्वन्यथासिद्धमाह भृत्येति
४,८७
भृत्यबन्धादिकं राज्ञि राज्ञो बन्धादियोग्यतः ।
कारणं संशयस्य स्यादिति नैव प्रयुज्यते (अनुव्याख्यानम्)१,४.४
न्यायसुधा-
राजाधीनभृत्यबन्धादिकं विवक्षित्वा राज्ञि राजा बद्धो मृत इत्यादिवाक्यं न प्रयुज्यते ।
किं कारणम् ।
स प्रयोग संशयस्य कारणं स्यादित्येव ।
नतु स्वातन्त्र्यस्य अकारणत्वात् ।
कुतः संशयस्य कारणम् ।
राज्ञो ऽपि बन्धादियोग्यत्वात् ।
इदमुक्तं भवति ।
भवत्येव स्वातन्त्र्यं शब्दप्रवृत्तिनिमित्तं, प्रयोगभावस्तु प्रतिबन्धकनिमित्तः ।
राजा बद्धो मृत इति प्रयोगे हि संशयो व्युत्पन्नस्य स्यात् ।
किं राजाधीनस्य भृत्यस्य बद्धत्वादिनैवमुच्यते ।
किं वा राज्ञ एव बद्धत्वादिनेति ।
आकाङ्क्षासन्निधियोग्यतानामुभयत्र सद्भावेनार्थद्वयप्रतीतेरवर्जनीयत्वात् ।
नच संशयो मा भूदित्येवं निवृत्तः प्रयोगाकारणत्वं स्वातन्त्र्यस्य गमयति ।
नहि मणिमन्त्रादिप्रतिबद्धो ऽग्निर्नाधाक्षीदिति न तत्कारणमिति ।
४,९०
न संशयकारणत्वमात्रं प्रयोगप्रतिबन्धकम् ।
व्याख्यानतः संशयनिवृत्तिसम्भवात् ।
यथोक्तम् ।
‘व्याख्यानतो विशेषप्रतिपत्तिनर् हि सन्देहादलक्षणम्’ इति ।
अन्यथा राजा जयीत्यपि प्रयोगो न स्यात् ।
तत्राप्युक्तविधया संशयावतारादित्यत आह अमङ्गलतवादिति
अमङ्गलत्वाच्छब्दानां राज्ञो योगादमङ्गले ।
अप्रियत्वात्तु शब्दस्य स्यात् प्रयोगनिवर्तनम् (अनुव्याख्यानम्)१,४.५
न्यायसुधा-
तुशब्दो ऽवधारणे ।
शब्दस्येति जात्येकवचनम् ।
राज्ञो बन्धनादावमङ्गले योगाद्योग्यतासद्भावात् ।
आकाङ्क्षादेश्च स्फुटत्वाद्राजा बद्ध इत्यादिपदानां पाक्षिकराजबन्धाद्यमङ्गलप्रतीतिजनकत्वसम्भवात् ।
राज्ञो ऽमङ्गलाभिधानस्य च राजतत्पुरुषाप्रीतिहेतुत्वादेव शब्दस्य प्रयोगनिवर्तनं स्यात् ।
अयमभिसन्धिः ।
न केवलं संशयप्राप्तेः प्रयोगाभावः ।
किन्तु संशयनिमित्ताप्रीतिहेतुकानर्थशङ्कयैव ।
न पुनः स्वातन्त्र्यस्याकारणत्वादिति ।
तर्हि राजा पराजयीत्यपि न प्रयोक्तव्यमिति चेत् ।
भृत्यद्वारैव राजा विजयते पराजयते चेति प्रसिद्धतया संशयानुत्पादात् ।
४,९३
नन्वस्ति तावद् राजा बद्ध इत्यादिप्रयोगाभावः ।
स तु स्वाम्यस्याकारणत्वान्न भवति ।
किं तूक्तसंशयप्रतिबन्धादिति कुतो निश्चेयम् ।
नच वाच्यं मा भूदयं निश्चयः ।
प्रयोगाभावस्यान्यथासिद्धिशङ्कापि तर्कानुमाने शक्नोति दूषयितुमिति ।
वादिनो ऽपि निश्चयस्यावश्यकत्वात् ।
अन्यथा स्वातन्त्र्यनिमित्तकसमन्वयानवधारणापातादित्यत आह गुणास्त्विति
गुणास्तु तादृशा यत्र प्रयुज्यन्ते ऽखिला अपि (अनुव्याख्यानम्)१,४.६अब्
न्यायसुधा-
तादृशाः स्वाम्यनिमित्तकाः शब्दाः ।
यत्र यदि ।
गुणाः शुभाभिधायिनो नतु पक्षिकमप्यमङ्गलं प्रत्ययाययन्ति ।
तत्र तर्हि ।
ते अखिला अपि प्रयुज्यन्ते ।
यथा जितं राज्ञेत्यादयः ।
प्राप्ताप्राप्तविवेकेनानार्थशङ्कैव प्रयोगाभावकारणम्, नतु स्वातन्त्र्यस्यानिमित्तत्वमिति निश्चीयत इति भावः ।
अत एवोक्तमखिला अपीति ।
नचायं नियमो ऽस्ति ।
निमित्तसद्भावे प्रयोगो भवतीति ।
अनन्तानां हि शब्दानां लक्षणानि व्याकरणकारैरुक्तानि ।
नच तेषां प्रयोगो दृश्यत इति स्फुटत्वान्नोक्तम् ।
तदेवं स्वातन्त्र्यस्य शब्दप्रवृत्तिहेतुत्वं मुख्यत्वं च सिद्धमित्याह पूज्येष्विति
४,९४
पूज्येष्वेव विशेषेण स्वातन्त्र्यं मुख्यकारणम् (अनुव्याख्यानम्)१,४.६च्द्
न्यायसुधा-
यतः पूज्येषु स्वामिषु जयिप्रभृतयः शब्दाः प्रयुज्यन्ते ।
तेन ज्ञायते स्वातन्त्र्यं शब्दप्रवृत्तिकारणमिति ।
यतश्च पूज्येष्वेव विशेषेण प्राचुर्येण प्रयुज्यन्ते न भृत्येषु ।
तेन निश्चीयते स्वातन्त्र्यं शब्दप्रवृत्तौ तद्गतत्वादपि मुख्यं कारणमिति ।
व्यास(१)
४,९७फ़्.
किमतो यद्येवमित्यत आह अत इति
ततो दोषातिदूरत्वात् संशयस्याप्यसम्भवात् ।
दोषाणां विष्णुगत्वस्य प्राज्ञबुद्धिव्यपेक्षया (अनुव्याख्यानम्)१,४.७
स्वातन्त्र्यार्थमभिप्रेत्य दोषशब्दाश्च विष्णवि (अनुव्याख्यानम्)१,४.८अब्
न्यायसुधा-
यतः स्वातन्त्र्यं कारणं मुख्यं चातः स्वातन्त्र्यार्थमभिप्रेत्य दुःखिबद्धावराद्या दोषशब्दा अपि विष्णवि विष्णौ’जीवा एव तु दुःखिनः’ इत्यादौ
प्रयुज्यन्त इति सम्बन्धः ।
सत्यपि निमित्ते यथा राजा बद्ध इत्यादिप्रयोगाभावस्तथा विष्णुर्दुःखीत्यादिप्रयोगाभावो ऽपि कुतो न भवेत् अत्रापि पाक्षिकस्य विष्णुवैष्णवभयस्य
प्रतिबन्धकत्वसम्भवादित्यत उक्तम् दोषेति
निरनिष्यो निरवद्य इत्यादिश्रुतेर्विष्णौ दोषातिदूरत्वनिश्चयात् ।
प्राज्ञबुद्धिव्यपेक्षया दोषाणां विष्णुगत्वस्य तद्विषयस्य संशयस्यासम्भवात् ।
निमित्तसद्भावात्प्रतिबन्धकाभावादपीत्यपेरर्थः ।
एतदुक्तं भवति ।
सत्यपि निमित्ते वैदिकप्रयोगनिवृत्तिर्हि विष्णुवैष्णवेभ्यो भयात्स्यात् ।
तत्कारणं च तदप्रीतिः ।
तत्रापि हेतुर्विष्णोरनेन दोषित्वमुच्यत इति संशयः ।
तस्य च निमित्तं वाक्यस्योभयार्थप्रतीतिजनकत्वम् ।
तस्याप्युभयत्र योग्यतादिसद्भावः ।
नचासावस्ति प्रकृते ।
विष्णुर्वैष्णवानां परमेश्वरनिर्दोषतानिश्चयवत्त्वेन योग्यताध्यवसायानुपपत्तेः ।
अन्यथा जरद्गवादिवाक्ये ऽपि तत्प्रसङ्गात् ।
यद्यपि वाक्यतात्पर्याज्ञे ऽप्रीतिसम्भवस्तथापि सदभिप्रायवाक्यप्रयोगनिवृत्तौ किमायातमिति ।
एतदप्युक्तम् प्राज्ञबुद्धिव्यपेक्षयेति ।
स्वस्य परमवैदिकताख्यापनाय विष्णवीति वैदिकप्रयोगः ।
४,१००
अत्र श्रुतिसम्मतिमप्याह वासुदेवेति ।
वासुदेवश्रुतिश्चाह नैव विष्णावमङ्गलम् (अनुव्याख्यानम्)१,४.८च्द्
मङ्गलामङ्गले ऽन्यत्र ततो नामङ्गलं वदेत् ।
स्वातन्त्र्यापेक्षया विष्णौ दोषो नामङ्गलोक्तितः (अनुव्याख्यानम्)१,४.९
न्यायसुधा-
आह एतमर्हम् इति शेषः ।
यतो नैव विष्णौ अमङ्गलं दुःखादिकमस्ति ।
ततो योग्यताविरहेणार्थान्तरप्रतीत्यभावात्स्वातन्त्र्यापेक्षया विष्णावमङ्गलोक्तितो दोषोऽनर्थो नास्ति ।
तास्माद्दुःख्यादिशब्दा अपि विष्णौ वेदे प्रयुज्यन्त इति शेषः ।
अन्यत्र तु राजादौ यतो मङ्गलामङ्गले सम्भवतोऽतो योग्यतासम्भवेनार्थान्तरप्रतिभासनात्पाक्षिकानर्थशङ्कया तत्रामङ्गलं राजा बद्ध इत्यादिकं
न वदेत्यर्थः ।
एकस्यैव शब्दस्य क्वचिद्दोषप्रत्यायकत्वेनानर्थहेतुत्वं क्वचित्तदभाव इत्येतद्दृष्टान्तेन बोधयति बहुभुक्त्वम् इति ।
बहुभुक्तवं यथा दोषो नृषु नैव हरौ क्वचित् (अनुव्याख्यानम्)१,४.१०अब्
४,१००फ़्.
न्यायसुधा-
यथा बहुभुग्देवदत्त इत्युक्ते बहुभोगवानिति निन्द्यश्चेति प्रतीयते ।
अस्वर्ग्यं चातिभोजनम् इति स्मृतेः ।
उभयस्यापि देवदत्ते सम्भवेन योग्यत्वात् ।
अत एव देवदत्ताद्भीरुणा नैवं प्रयुज्यते ।
परमेश्वरे तु संसारधर्माणामत्यन्तासम्भावान्न ।
किन्तु सर्वसंहर्तृत्वादिकमेव प्रतीयत इति ।
तत्र तत्प्रयोगः ।
दार्ष्टान्तिकमाह एवम् इति ।
एवं दुःख्यादिशब्दाश्च स्वातन्त्र्यापेक्षयोदिताः (अनुव्याख्यानम्)१,४.१०च्द्
नैव दोषा हरौ … (अनुव्याख्यानम्)१,४.११अ
न्यायसुधा-
दोषा दोषहेतवः ।
प्रथमदृष्टान्तस्यापि दार्ष्टान्तिकमध्याहार्यम् ।
कथं तर्हि परमेश्वरे दुःखत्वादिवेदनमनर्थहेतुत्वेनोच्यतेऽसन्नेव स भवतीत्यादावित्यत आह तद्गबुध्येति ।
… तद्गबुद्धयोक्ता दोषकारिणः ।
तस्मात् ते दोषशब्दाश्च तत्रैव गुणवाचकाः (अनुव्याख्यानम्)१,४.११
न्यायसुधा-
दुःखादीनां तद्गतत्वविक्षयेत्यर्थः ।
तस्मादिति श्रुतिः स्वोक्तार्थमुपसंहरति ।
अतोऽव्यक्तादिशब्दवाच्यः परमात्मेति सिद्धम् ।
इति श्रीमन्न्यायसुधायां आनुमानिकाधिकरणम्
__
४,१०३