अत्र देवानां वेदविद्याधिकाराक्षेपार्थं सूत्रद्वयम्’मध्वादिष्वसम्भवादनधिकारं जैमिनिःऽ‘ज्योतिषि भावाच्च’ इति ।
तस्यार्थः ।
न देवा वैदिकोपासनादावधिक्रियन्ते ।
तान्प्रति वैदिकविधेरभावात् ।
‘आत्मानमुपासीत’ इत्यादिविधिरेव तान्विषयीकरोतीति चेन्न ।
विकल्पानुपपत्तेः ।
तथाहि ।
किं तेषां सर्ववेदोक्तोपासनादावधिकारः ।
किं वा क्वचित् ।
नाद्यः ।
सर्वत्र तेषां नियोज्यत्वाभावात् ।
तत्साध्यफलकामो हि तत्र नियुज्यते ।
फलं च तदुच्यते ।
यदप्राप्तमननुष्ठितसाधनं च ।
नच सर्वोपासनादिफले देवानां कामः सम्भवति ।
मध्वाद्युपासनानां देवतापदप्राप्तिफलत्वात् ।
तस्य च तैः प्राप्तत्वात् ।
सर्वज्ञत्वेनोपासनासाध्यज्ञानस्यापि नित्यसिद्धत्वात् ।
अत एव न द्वितीयः ।
किञ्च जैमिनिरप्येवं मन्यत इति ।
४,५९
एवमवान्तरफलस्य परमप्रयोजनस्य च पदादेः प्राप्तत्वेन विधेरसम्भवाज्जैमिनिवचनाच्च देवानामनधिकार इति प्राप्ते तत्प्रतिविधानार्थं सूत्रम् ।
ओं भावं तु बादरायणो ऽस्ति हीति ओं
तत्फलाय विधिः सिद्धे चोपासाया निराकृतः (अनुव्याख्यानम्)१,३.१४च्द्
यतो जैमिनिनान्यार्थमसिद्धे ऽर्थे विधिस्तथा ।
विद्याधिराजस्य मतमविरोधस्तयोस्ततः (अनुव्याख्यानम्)१,३.१५
न्यायसुधा-
तत्र यत्पूर्वपक्षिणोदाहृतं जैमिनिवचनं तस्य परिहारो नास्ति ।
तत्किं भगवन्मतविरुद्धत्वेनाप्रमाणमेव प्रतिपत्तव्यमिति ।
मैवम् ।
भिन्नविषयत्वेन विरोधाभावादित्याह तत्फलायेति
तदिति ‘वसूनामेवैको भूत्वा’ इत्यादिश्रुतिप्रसिद्धं परामृशति ।
सिद्धे ज्ञाते ब्रह्मस्वरूपे, विषयसप्तमीयम् ।
उपासाया विधिरिति सम्बन्धः ।
अन्यार्थं फलान्तरार्थम् ।
तथा असिद्धे ऽर्थे विधिरुपासाया इत्यत्राप्यनुवर्तते ।
अत्रेतिशब्दाध्याहारेण मतमिति योज्यम् ।
तयोमर्तयोः ।
४,६१
ननु किं तदन्यफलं कथं च सर्वज्ञानामसिद्धो ऽथर्ः ।
येन देवानामप्युपासनाविधानोपपत्तिरित्यत आह मोक्ष इति
मोक्षे फलविशेषो ऽस्ति नच सर्वं प्रकाशते ।
सर्वदा तेन देवानामपि युक्ता ह्युपासना (अनुव्याख्यानम्)१,३.१६
न्यायसुधा-
यच्च प्रकाशते, न तत्सर्वदा ।
तेन तदुभयार्थम् ।
हिशब्दो यस्मादित्यर्थे ।
ननु सर्वज्ञानां सर्वं न प्रकाशत इति विप्रतिषिद्धम् ।
मैवम् ।
परमेश्वरव्यतिरिक्तानां सर्वज्ञत्वासिद्धेरित्याह नित्यमिति
नित्यं वृद्धिक्षयापेतं विष्णोः पूर्णं तु वेदनम् ।
स्पष्टातिस्पष्टविशदं ब्रह्मणो ऽशेषवस्तुगम् (अनुव्याख्यानम्)१,३.१७
अन्येषां क्रमशो ज्ञानं मितवस्तुगतं सदा (अनुव्याख्यानम्)१,३.१८अब्
४,६२
न्यायसुधा-
पूर्णम् अशेषार्थविषयम् ।
तुशब्दो ऽवधारणे, विष्णोरेवेति सम्बध्यते ।
स्पष्टातिस्पष्टविषयमिति ।
निरतिशयस्पष्टमित्यर्थः ।
ननु स्पष्टता नाम ज्ञानस्य विशेषविषयता ।
सा च पूर्णमित्यनेनैव गता ।
मैवम् ।
अपरोक्षत्वादिवत्स्पष्टताया विषयानपेक्षज्ञानधर्मत्वाङ्गीकारात् ।
तस्य चानुभवसिद्धत्वात् ।
ब्रह्मणो हिरण्यगर्भस्य ।
अशेषवस्तुगं परब्रह्मातिरिक्ताशेषवस्तुविषयम् ।
अत्राप्येवेति सम्बद्धयते ।
नतु सर्वार्थविषयत्वाद्युक्तविशेषणोपेतमित्यर्थः ।
अत्र ब्रह्मसंवेदनस्य पृथगुक्तिः कैमुत्यार्थम् ।
विष्णुसंवेदनोक्तिस्तु सर्वविषयत्वस्य विष्णुज्ञानलक्षणत्वेनेतरेषां तदसम्भावितमिति सूचयितुम् ।
मितवस्तुगतं परमेश्वरातिरिक्तकतिपयार्थविषयम् ।
एतेन भावमिति सूत्रं व्याख्यातं भवति ।
अत्र च’यावत्सेवा’ इत्यादिभाष्योदाहृतं वचनं प्रमाणमिति ।
ननु जैमिनिभगवन्मतयोरविरोध इति न युक्तम् ।
जैमिनिर्हि श्रुतफलाद्यतिरिक्तं फलादिकं विद्यानामस्तीति वा मन्यते नास्तीति वा ।
आद्ये कथमनधिकारं ब्रूयात् ।
द्वितीये तु कथं न विरोध इति चेन्न ।
भगवतः सूत्रकारस्याशेषविशेषज्ञत्वेन विशदं वचनम् ।
जैमिनिस्तु सामान्यवेदी फलान्तरादिकमजानन्न निराकुवर्न्यथाश्रुतमङ्गीकृत्यानधिकारमुक्तवानित्यविरोधोपपत्तेरित्याह इत्यादय इति
इत्यादयो विशेषास्तु सदा विद्यापतेर्हृदि (अनुव्याख्यानम्)१,३.१८च्द्
जैमिन्याद्यास्तु सामान्यवेत्तृत्वात् तत् तथावदन् ।
विद्येशमतमेतस्मान्नैव सद्भिर्विरुद्धयते (अनुव्याख्यानम्)१,३.१९
न्यायसुधा-
मोक्ष इत्युक्तपरामर्शार्थ इतिशब्दः ।
तुशब्दो विद्यापतेस्तु इति योज्यः ।
हृदि वर्तन्ते ।
तस्मादसौ विशदमवादीदिति शेषः ।
तत देवतानधिकारादिकम् ।
तथेति ।
सम्मुग्धमित्यर्थः ।
अस्याप्युपपादनाय नित्यमित्यादिपूवर्वाक्यमनुसन्धेयम् ।
विद्येशेत्युपसंहारः ।
अयं न्यायो ऽन्यत्राप्यनुसन्धेय इति ज्ञापयितुमित्यादय इत्रत जैमिन्याद्या इति सद्भिरिति चोक्तमिति ।
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।
कृतायां टीकायां विषमपदवाक्यार्थविवृतौ तृतीयः पादो ऽयं प्रथमविषये पर्यवसितः ।
इति श्रीमन्न्यासुधायां प्रथमाध्यायस्य तृतीयः पादः
अध्यय १, पद ४