२२ वामनाधिकरणम्

अतःपराणि सूत्राणि भाष्य एव स्पष्टार्थानीति न तत्र वक्तव्यमस्ति ।
परमाख्यविद्याव्याख्यां करोमीति च प्रतिज्ञातम् ।
तदुभयसिद्धयर्थमेतत्पादाधिकरणविषयपूर्वपक्षसिद्धान्तन्यायान् सङ्ग्रहेण दर्शयति लिङ्गमिति
लिङ्गं साधारणं शब्दौ स्थानं लिङ्गमनुग्रहः ।
पुनः शब्दा लिङ्गशब्दौ विचार्या द्विस्थिता इह (अनुव्याख्यानम्)१,३.७
बाहुल्यं लिङ्गशब्दानामनुक्तिश्च विरुद्धता ।
अदृष्टिरन्वयाभावो विपरीतश्रुतिभ्रमः (अनुव्याख्यानम्)१,३.८
लिङ्गावकाशराहित्यभ्रमस्तादृग् द्वयं तथा ।
बहुतादृक्तवमुक्तस्य विरोधो ऽर्थात् तथा गतिः ।
समस्तमेतदित्यत्र पूर्वपक्षेषु युक्तयः (अनुव्याख्यानम्)१,३.९
त एव बलवन्तस्तु गत्यन्तरविवर्जिताः ।
सिद्धान्तयुक्तयो ज्ञेया दृश्यन्ते ताश्च सर्वशः (अनुव्याख्यानम्)१,३.१०
न्यायसुधा-
एतच्च न्यायविवरणे स्वयमेवाचार्येण व्याख्यातमिति तत्रैवावगन्तव्यम् ।
४,४०
सूत्रसूचितान्सिद्धान्तन्यायानभिधाय साक्षादुक्तानप्याह मुक्तेति
मुक्तोपसृप्यता प्राणादाधिक्यं सर्वतस्तथा ।
वैलक्षण्यं स्वभावस्य प्रेक्षापूर्वक्रिया तथा (अनुव्याख्यानम्)१,३.११
अरस्य ण्यस्य चेशत्वं सूर्याद्यनुकृतिस्तथा ।
वामनाख्या सर्वकम्पस्तच्छब्दानन्यसिद्धता (अनुव्याख्यानम्)१,३.१२
अनामरूपता भेदस्योपजीव्यप्रमाणता ।
सर्वैश्वर्यादिकाद्यास्ता वेदेशेन प्रदर्शिताः (अनुव्याख्यानम्)१,३.१३
न्यायसुधा-
अत एव पूर्वं दृश्यन्त इत्युक्त्वात्र प्रदर्शिता इत्युक्तम् ।
सर्वतस्तथा इत्येतत्पूर्वेणोत्तरेण च सम्बद्धयते ।
प्राणादाधिक्यं तथा सर्वत आधिक्यमिति ।
स्वभावस्य सर्वतो वैलक्षण्यं तथाम्बरान्तधृत्यादीति ।
प्रेक्षापूर्वक्रिया तथेति तथाशब्द उत्तरत्र सम्बध्यते ।
तेनापहतपाप्मत्वादीनां ग्रहणम् ।
सूर्याद्यनुकृतिस्तथा सर्वप्रकाशकत्वम् ।
तच्छब्दानन्यसिद्धतेति ज्योतिःशब्दस्यान्यत्रासम्भव इत्यर्थः ।
उपजीव्यं प्रमाणं यस्यासौ तथोक्तस्तस्य भाव उपजीव्यप्रमाणता ।
ता इति सिद्धान्तयुक्तयः ।
४,४२
नन्वत्र पादे चतुर्दशाधिकरणानि भाष्यादवगम्यन्ते ।
विषयाः पूर्वपक्षन्यायाः सिद्धान्तन्यायाश्चात्र द्वादशैवोक्ताः न च विषयादिना विनाधिकरणं सम्भवति ।
तत्कथमेतदिति चेत् ।
इत्थम् ।
‘तदुपर्यपि बादरायणः सम्भवात्ऽ‘शुगस्य तदनादरश्रवणात्तदाद्रवणात्सूच्यते हि’ इत्येतदधिकरणद्वयं न समन्वयसमर्थनार्थम् ।
किं नाम देवादीनां वेदविद्याधिकारसमर्थनार्थमाद्यम् ।
द्वितीयं तु त्रैवर्णिकव्यतिरिक्तानां तदभावसमर्थनाथर्मित्येतज्ज्ञापयितुमेतदधिकरणद्वयविषयविषयाद्यनुक्तिः ।
अन्यथा तत्रापि समन्वयसम्बन्धान्वेषणेन शिष्याणां वृथा प्रयासः प्रसज्येत ।
४,४४
नन्वेतद्द्वयमत्र न विचारणीयम् ।
असङ्गतत्वात् ।
तथाहि ।
सङ्गतिस्तावद्द्विविधा भवति ।
अन्तर्भावलक्षणाऽनन्तर्यलक्षणा च ।
तत्राद्या तावदनयोरधिकरणयोर्न सम्भवति ।
समन्वयलक्षणे प्रथमाध्याये ऽनन्तर्भावस्य भवद्भिरेवोक्तत्वात् ।
अध्यायानन्तर्भूतयोश्च पादान्तर्भावासम्भवात् ।
उत्तरापि षोढा भवति ।
प्रसङ्गोपोद्घातावसरप्राप्तिकारणकार्यत्वैककार्यत्वभेदात् ।
तत्र न तावत्प्रथमात्रास्ति ।
स्मारकाभावात् ।
न द्वितीया ।
विनैव तेन प्रकृतसिद्धेः ।
न तृतीया ।
समन्वयशेषेणावरुद्धत्वात् ।
न चतुर्थी ।
उत्तरं प्रबन्धं प्रति कारणत्वानुपलम्भात् ।
न पञ्चमी ।
पूर्वप्रबन्धकार्यत्वादर्शनात् ।
नापि षष्ठी ।
पूर्वेणानेनोत्तरेण चैकस्याजननात् ।
तस्मादिदं नेहावकाशमर्हतीत्यत आह अधिकारश्चेति
अधिकारश्च तद्धानिः प्रसङ्गादेव चिन्तितौ (अनुव्याख्यानम्)१,३.१४अब्
न्यायसुधा-
अन्तर्भावलक्षणसङ्गत्यभावे ऽपि देवानां वेदविद्याधिकारः तदभावः शूद्रादीनामत्र प्रसङ्गादेव चिन्तितौ ।
प्रसङ्गश्च मनुष्याधिकारत्वादिति पूर्वसूत्रोक्त्योपोद्बलित इति भावः ।
नच प्रसक्तानुप्रसक्तविचन्तने ऽतिप्रसङ्गः ।
प्रयोजनभावाभावाभ्यां व्यवस्थानात् ।
प्रकृते च’विश्वेदेवा उपासते’ इत्युक्तोपपन्नत्वादिकं प्रयोजनमस्ति ।
४,५०
ननु चिन्तिताविति कथम् ।
विप्रतिषेधे परं कार्यमिति स्त्रीलिङ्गेन भाव्यम् ।
मैवम् ।
इतामौ विषयावित्यध्याहारम् ।
४,५८


__