ओं अक्षरमम्बरान्तधृतेः ओं
अक्षरम् अम्बरान्तधृतेः । ब्ब्स्_१,३.१० ।
‘एतद्वै तदक्षरं गार्गी’ इत्यत्रोक्तमक्षरं ब्रह्मैवेत्युक्तम् ।
अत्र सूत्रम्
ओं अन्यभावव्यावृत्तेश्चेति ओं
तदिदमक्षरस्य ब्रह्मत्वोपपादनाय हेत्वन्तराभिधायकतया व्याख्यातं भाष्ये ।
आक्षेपनिवर्तकतयाप्यतो विरुद्धवदित्यादिना व्याख्यायते ।
तथाहि ।
नेदमक्षरं ब्रह्म ।
‘अस्थूलमनण्वह्रस्वमदीर्घमलोहितमच्छायमतमो ऽवाय्वनाकाशमसङ्गमरसमवागमनो ऽचक्षुष्कमप्राणमसुखम(गोत्र)मात्रमनन्तरमबाह्यं न
तदश्नाति किञ्चन’ इत्यक्षरस्यास्थूलत्वादिश्रवणात् ।
नचैतद्ब्रह्मणः सम्भवति ।
अस्थूलत्वादिपदैर्हि स्थूलत्वादिविपरीतम् अणुत्वाद्यभिधानं वा स्यात् ।
स्थूलत्वादिनिवृत्तिमात्रपर्यवसानं वा ।
आद्ये परस्परविरोधः ।
अस्थूलमित्यनेन ह्यणुपरिमाणं वक्तव्यम् ।
अनण्वित्यनेन च महत्त्वम् ।
नचोभयमेकत्र युज्यते ।
परस्परपरिहारेणैव वृत्तिदर्शनात् ।
एवमह्रस्वमदीर्घमित्यत्रापि विरोधो द्रष्टव्यः ।
नचैकपरिमाणोपेतमेवोत्कृष्टापेक्षयाणु महद्दीर्घं ह्रस्वं चेत्युच्यत इत्याश्रयणेन विरोधपरिहारः ।
घटादितुल्यत्वेनावक्तव्यत्वात् ।
उत्कृष्टापकृष्टपरिमाणद्रव्यान्तराभावाच्च ।
द्वितीये तु निःस्वभावं ब्रह्मेत्यापन्नम् ।
तथाच’सर्वत्र प्रसिद्धोपदेशात् ।
अत्ता चराचरग्रहणात् ।
रूपोपन्यासाच्च’ इत्युक्तविरोधः स्यादिति ।
तत्र तावत्प्रथमपक्षमभ्युपेत्य चशब्दसूचितं परिहारमाह अत इति
अन्यभावव्यावृत्तेश् च । ब्ब्स्_१,३.१२ ।
अतो विरुद्धवद् भातमपि व्याख्याय तत्त्वतः ।
योजनीयं हरौ वाक्यं विरुद्धैर्लक्षणैर्युतम् (अनुव्याख्यानम्)१,३.३
ब्रह्मैव … (अनुव्याख्यानम्)१,३.४अ
४,१८फ़्.
न्यायसुधा-
यतो ब्रह्म विरुद्धैर्लक्षणैर्युतमेव अतो, विरुद्धवतुउक्तोभयविधविरुद्धार्थप्रतिपादकमिव, भातंउप्रतीतमपि वाक्यं तत्त्वतो व्याख्याय हरौ
योजनीयम् योजयितुं शक्यमिति योजना ।
यतो ऽम्बरान्तधृत्यादिनाक्षरस्य विष्णुत्वं निश्चितमतो विरुद्धवद्भातमपि वाक्यं तत्त्वतो व्याख्याय हरौ योजयितव्यमिति वा ।
कथं तत्त्वतो व्याख्यानमित्यपेक्षायां विरुद्धैरिति सम्बद्धयते ।
अथवा अत इत्यस्य पूर्वत्र सम्बन्धः ।
यतः सुखाधिको ऽतो भूमा विष्णुरि(विष्णुरतो भूमे०ति ।
विरुद्धवदिति प्रतिज्ञायां विरुद्धैरिति हेतुतया सम्बद्धयते ।
४,१९
एतदुक्तं भवति ।
नाक्षरस्य ब्रह्मत्वे ऽस्थूलमित्यदिवाक्यस्यानवकाशः ।
अस्थूलादिपदैस्तद्विपरीताणुत्वाद्यभिधानमिति व्याख्यानस्याङ्गीकारात् ।
नचैवं सति परस्परविरोध इति वाच्यम् ।
विरुद्धधर्माणां ब्रह्मण्यवस्थानस्य श्रुत्यादिसिद्धत्वादिति ।
४,२५
विरुद्धैर्लक्षणैर्युतं ब्रह्मेत्युक्तम् ।
मे माता वन्ध्येतिवद्वयाहतत्वात् ।
यदि हि महत्त्वाणुत्वादीनि विरुद्धानि ।
कथं तर्हि तैर्युतमेकं स्यात् ।
विरोधस्य सहानवस्थानात्मकत्वात् ।
यदि चैकं तैर्युतं कथं तर्हि तानि विरुद्धानि स्युः ।
सहावस्थानस्याविरोधरूपत्वादित्याशङ्कयोक्तं विवृणोति तानीति
… तानि लिङ्गानि तदन्यत्र त्वसन्त्यपि ।
अविरोधेन गोविन्दे सन्त्यस्थूलादिकानि च (अनुव्याख्यानम्)१,३.४
न्यायसुधा-
विरुद्धैर्लक्षणैर्युक्तं ब्रह्मेत्यनेनैतदस्माभिरभिप्रेतम् ।
तान्यस्थूलादिकानि अणुत्वमहत्त्वादिकानि लिङ्गानि तस्माद्ब्रह्मणो ऽन्यत्र सहासन्त्यपि गोविन्दे ऽविरोधेनैव सहैवेति यावत् सन्तीति ।
न पुनर्विरोधमभ्युपेत्यैकत्रावस्थानमुच्यते येन व्याघातः स्यात् इत्यवधारणार्थस्य चशब्दस्याथर्ः ।
गोविन्द इत्यनेन यशोदादिप्रत्यक्षमप्यत्रार्थे प्रमाणमिति सूचयति ।
अयमभिसन्धिः ।
अणुत्वमहत्त्वादिकं ब्रह्मणि किं प्रमाणाभावान्नाभ्युपेयम् ।
किंवा विरुद्धत्वात् ।
नाद्यः ।
‘अणोरणीयान्’ इत्याद्यागमस्योभयकार्यदर्शनानुमानस्योदाहृतप्रत्यक्षस्य च तत्र प्रमाणत्वात् ।
द्वितीये ऽपि किं विरोधः प्रमाणेनाथ परस्परम् ।
न प्रथमः ।
विपरीतप्रमाणादर्शनात् ।
द्रव्यत्वादेस्तूक्तप्रमाणविरुद्धत्वेन कालात्ययापदिष्टत्वात् ।
४,२८
किञ्चाकाशस्य परमाणुसंयोगः किमाकाशैकदेशे वर्तते, उताकाश एव ।
आद्ये किमेकदेशो नामावयवः, प्रदेशभेदो वा ।
नाद्यः ।
अनभ्युपगमात् ।
द्वितीये किमसावाकाशस्वरूपमेवाथार्थान्तरम् ।
आद्यो ऽन्त्ये ऽन्तर्भवति ।
द्वितीयो ऽप्यभ्युपगमविरुद्धः ।
औपाधिकाङ्गीकारे त्वात्माश्रयादिकम् ।
न द्वितीयः ।
भेरीसंयोगस्यापि तथात्वापत्तेः ।
तथाच सर्वत्र शब्दोपलब्धिप्रसङ्गात् ।
अतः परमाणुसंयोगार्थमाकाशो ऽणुरभ्युपगन्तव्य इति व्यभिचारश्च ।
न द्वितीयः ।
परस्परविरोधादन्यत्र सर्वत्र ।
स हि सर्वत्र सहानवस्थानदर्शनाद्वा कल्पनीयः ।
उत क्वचित् ।
किं वा विमतिपदादन्यत्र सर्वत्र ।
नाद्यः ।
ब्रह्मणि श्रुत्यादिना सहावस्थानस्य दर्शनात् ।
न द्वितीयः ।
आकाशमनसोः परस्परपरिहारेण वर्तमानयोरपि भूतत्वमूर्तत्वयोर्विरोधाभावात् ।
अन्यथा पृथिव्यादौ तदुभयं न स्यात् ।
न तृतीयः ।
नित्यत्वज्ञानत्वयोरशरीरत्वकर्तृत्वयोश्चान्यत्र सर्वत्र सहानवस्थितयोरीश्वरबुद्धावीश्वरे च समावेशाभावप्रसङ्गात् ।
४,३१फ़्.
किञ्च ।
संयोगादीनां प्रदेशवृत्तित्वमङ्गीकुर्वता न तावत्प्रदेशवृत्तित्वमवयववृत्तित्वमङ्गीकर्तुमुचितम् ।
आकाशादीनां तदभावात् ।
अन्यधर्मस्यान्यवृत्तित्वाभ्युपगमे ऽतिप्रसङ्गाच्च ।
किन्तु स्वात्यन्ताभावसमानाधिकरणत्वमेव वक्तव्यम् ।
तथाच भावाभावयोरन्यत्र सर्वत्र सहानवस्थितं कथं विरोधो न भवेत् ।
दर्शनादिति चेत्समं प्रकृते ऽपि ।
तस्मादन्यत्र सर्वत्र सहानवस्थितं कथं नाम सहावतिष्ठत इत्येवं प्रश्नमात्रमवशिष्यते ।
तत्र वस्तुस्वभाव एव तादृश इति परिहारः ।
न चैवमतिप्रसङ्गः ।
प्रमाणभावाभावाभ्यां तद्व्युदासात् ।
एवं सति वाक्यव्यवस्था न क्वाप्याश्रयणीयेति चेन्न ।
प्रमाणस्वरूपावधारणे त्वेवमेतदित्यङ्गीकारात् ।
अत एव न मीमांसावैयर्थ्यमिति ।
४,३४
एवं तावदस्थूलादिपदानामणुत्वाद्यभिधायकत्वपक्षमुपादाय श्रुतेर्ब्रह्मविषयत्वमुपपादितम् ।
इदानीं स्थूलत्वादिनिवृत्तिपरत्वे ऽपि न दाष इत्येवम्परतया सूत्रं व्याचष्टे अन्येति
अन्यवस्तुस्वभावानां स्थौल्यादीनामपाकृतिम् ।
नारायणे श्रुतिर्वक्ति नतु तस्यास्वभावताम् (अनुव्याख्यानम्)१,३.५
४,३४फ़्.
न्यायसुधा-
ब्रह्मणो ऽन्यानि वस्तूनि घटादीनि ।
तत्स्वभावभूतानि यानि स्थौल्यादीनि जडानि परतन्त्राणि कार्याणि विनाशवन्त्यणुत्वादिभिः सहानवस्थितानि च ।
तथाविधानां स्थौल्यादीनामभावं नारायणे’अस्थूलमनणुः’ इत्यादिश्रुतिर्वक्ति ।
नतु तस्य निःस्वभावत्वं येनोक्तविरोधः स्यादित्यर्थः ।
कुत एवं श्रुतेरर्थसङ्कोचः क्रियते ।
निःस्वभावत्वमेवार्थः किं न स्यादित्यत आह सर्वधर्मेति
४,३५
सर्वधर्मा सर्वनामा सर्वकर्मा गुणाः श्रुताः ।
दोषाः श्रुताश्च नेत्याद्या प्रमाणं श्रुतिरत्र च (अनुव्याख्यानम्)१,३.६
न्यायसुधा-
अत्र परमेश्वरस्य सस्वभावत्वे न केवलमत्र किं नाम पूर्वोक्ताणुत्वमहात्त्वादौ चेत्यर्थः ।
इहाच्छायमतम इत्यादेरसङ्कुचितवृत्तित्वमेव ज्ञेयम् ।
बहुपदविषटत्वादिदं व्याख्यानं स्वशब्देन विधाय सूत्रकारः, कतिपयपदविषयं पूर्वव्याख्यानं चशब्देन समुच्चितवानिति ।
४,३७
__