२० भूमाधिकरणम्

ओं भूमासम्प्रसादादभ्युपदेशात् ओं
इदं कश्चिद्वयाख्याति ।
भूमा परमात्मा ।
कुतः ।
सम्प्रसीदत्यत्रेति सम्प्रसादः सुप्तिः ।
तत्र जाग्रत्प्राणः सम्प्रसादशब्देन लक्ष्यते ।
तस्मादूर्ध्वमुपदेशादिति ।
अपर आह’सम्प्रसादो जीवात्मा ।
तस्मादूर्ध्वमुपदेशादिति ।
तदुभयमप्यसत् ।
प्रसिद्धप्राणादिपदपरित्यागेनाप्रसिद्धसम्प्रसादपदोपादाने कारणाभावात् ।
अतो ऽध्युपदेशादित्येव हेतुः ।
ननु कथं तस्य परमात्मत्वसाधकता ।
अन्यत्रापि सम्भवादित्यतो व्याख्याति अखिलेशत्वादिति
४,१५
भूमा सम्प्रसादाद् अध्युपदेशात् । ब्ब्स्_१,३.८ ।
…अखिलेशत्वाद् भूमा विष्णुः सुखाधिकः (अनुव्याख्यानम्)१,३.२च्द्
न्यायसुधा-
अधिशब्दो हीश्वरवाची ।
तथाच विशेषानुक्तेरखिलेशत्वमेवोक्तं भवति ।
नचैतदसिद्धम् ।
नामवागादीनां पूर्वपूर्वाधिपत्यस्योक्तत्वादिति ।
ननु तर्हि सम्प्रसादादित्येतदनाकाङ्क्षितत्वात् व्यर्थमापन्नमिति चेन्न ।
हेत्वन्तराभिधायकत्वादित्याशयेन व्याचष्टे सुखाधिक इति
प्रसीदत्य(न्त्य)नेनेति प्रसादः सुखम् ।
सम्यक् प्रसादः सम्प्रसादः ।
गुणगुणिभावाभ्युपगमेन सुखाधिक इति तात्पर्यार्थो ऽभिहितः ।
य(स्मात्तस्मा)तस्तस्मादिति शेषः ।


__
४,१८