४,१
भिन्नवाक्यत्वादिसिद्धये तृतीयपादप्रतिपाद्यमर्थं दर्शयति तत्रेति
तत्रान्यत्र च सिद्धानां लिङ्गनाम्नां पुनर्हरिः ।
विशेषान्मुख्यतो वृत्तिं स्वस्मिन्नेवात्र वक्तयजः (अनुव्याख्यानम्)१,३.१
४,१फ़्.
न्यायसुधा-
हरिः सूत्रकारः अत्र पादे लिङ्गानां नाम्नां च स्वस्मिन्वृत्तिं वक्ति ।
ननु पूर्वेण पादद्वयेनोक्ता सेत्यत उक्तम् पुनरिति
ननु तर्हि वैयर्थ्यमित्यत उक्तं तत्र हरौ, अन्यत्र च तस्मात्, प्रसिद्धानामिति ।
पूर्वत्र त्वन्यत्र प्रसिद्धानामित्युक्तमेव ।
परमेश्वरे प्रसिद्धानि चेल्लिङ्गनामानि किं समन्वयप्रतिपादनेन ।
सिद्धत्वादित्यत उक्तम् स्वस्मिन्नेवेति
अन्ययोगव्यवच्छेदः, प्रयोजनमिति भावः ।
तत्किमन्यत्र शब्दवृत्तिरेव नास्ति ।
न नास्ति ।
किन्तु मुख्यतः परमेश्वरे अन्यत्र त्वमुख्येत्युक्तम् मुख्यत इति
एवं सत्यन्यत्र लक्षणादिकमेव प्राप्तमित्यत उक्तम् विशेषादिति
परममुख्या वृत्तिरीश्वरे अन्यत्र मुख्यादीति ।
एतदुक्तं भवति ।
ये शब्दाः लोकदृष्टया अन्यत्र शक्तिमन्तः तेषां वेदवाक्येष्वन्यपरत्वे प्राप्ते शक्तितात्पर्याभ्यां भगवदेकनिष्ठत्वं पादद्वयेन प्रतिपादितम् ।
अत्र तूभयत्र शक्तिमत्तया लोकप्रसिद्धानामन्यत्र तात्पर्ये प्राप्ते, भगवत्येव शक्तितात्पर्ये प्रतिपाद्येते इति ।
यद्यपि प्राधान्यक्रमानुरोधेन नामलिङ्गानामिति वक्तव्यम् ।
तथाप्युत्तरप्रतिपादनानुसारेण लिङ्गनाम्नामित्यभिहितम् ।
४,५
ओं द्युभ्वाद्यायतनं स्वशब्दात् ओं
द्युभ्वाद्यायतनं स्वशब्दात् । ब्ब्स्_१,३.१ ।
अत्र’यस्मिन् द्यौः’ इत्यदिवाक्यप्रतिपाद्यं द्युभ्वाद्यायतनं विष्णुरेवेति प्रतिपाद्य, पूर्वपक्षिणा शङ्कितानां रुद्रादीनां निराकरणार्थं सूत्रितम् ओं
नानुमानमतच्छब्दात् ओं ।
ओं प्राणभृच्चेति ओं
तत्रातच्छब्दादिति तच्छब्दाभावादिति व्याख्यातं भाष्ये ।
तदयुक्तमिवाभाति ।
असामर्थ्येन समासानुपपत्तेः ।
तत्र’छन्दोवत्सूत्राणि भवन्ति’ इति वा ।
‘अकर्तरि च कारके’ इति ज्ञापकादसामर्थ्ये ऽपि क्वचित्समासो भवतीति वाऽ‘अर्थाभावे यदव्ययम्’ इत्यव्ययीभावो वेति
समाधानमवधातव्यम् ।
अथवा तेभ्यः शिवादिभ्यो ऽन्यत् अतद् ब्रह्म तस्य, शब्दो ऽतच्छब्दस्तस्मादिति व्याख्यानमित्याशयवानाह विष्णावेवेति
नानुमानम् अतच्छब्दात् । ब्ब्स्_१,३.३ ।
विष्णावेवात्मशब्दस्य रूढत्वान्न शिवादिकान् ।
श्रुतिर्वक्त्य्… (अनुव्याख्यानम्)१,३.२अच्
न्यायसुधा-
रूढत्वात्प्रसिद्धत्वादित्यर्थः ।
नतु रूढिवृत्त्योपेतत्वादिति ।
महारूढियोगाभ्यां तस्य तत्र प्रवृत्तेः ।
तस्य चात्र श्रवणादिति शेषः ।
श्रुतिः’यस्मिन्द्यौः’ इत्यादिका ।
अथवा अन्यत्रापि सिद्धान्तसाधकस्यैव पूर्वपक्षनिरासे ऽपि हेतुत्वं द्रष्टव्यम् ।
तेन न न्यूनतादोष इत्येतत्प्रदर्शयितुं सिद्धान्तसाधकस्यैव पूर्वपक्षनिरासे ऽपि व्यापारं दर्शयितुमिदं सूत्रद्वयमित्यनेनोच्यते ।
ननु तर्हि तच्छब्दादित्येवास्तु ।
तदिति च ब्रह्मपरामर्शो व्याख्यास्यते ।
मैवम् ।
अनेकार्थत्वे तच्छब्दो ऽन्यार्थो ऽपि सम्भवति ।
अतस्तस्यैव शब्दादिति वक्तव्यम् ।
तदर्थमतच्छब्दादिति प्रयुक्तम् ।
(दित्युक्तम् । ) अत एवाह विष्णावेवेति
__
४,१४फ़्.