३,७३५
ओं वैश्वानरः साधारणशब्दविशेषात् ओं
वैश्वानरः साधारणशब्दविशेषात् । ब्ब्स्_१,२.२४ ।
अस्याधिकरणस्य नात्रान्तर्भावः सम्भवति ।
नामात्मकशब्दसमन्वयार्थत्वात् ।
नापि पूर्वत्र ।
लिङ्गसमन्वयस्याप्यत्र सिद्धत्वात् ।
न चोभयबहिर्भावः ।
अन्यत्र प्रसिद्धशब्दविषयत्वात् ।
न चावक्तव्यता ।
समन्वयासिद्धिप्रसङ्गात् ।
तत्कथमित्यतो लिङ्गाधिकेत्यत्रान्तर्भावः समर्थितः ।
यद्वा पादद्वयार्थत्वेनैकत्र प्रवेशानुपपत्तेः पादद्वयशेषो ऽयम् ।
अत एव पदद्वयान्ते निबन्धनमिति ज्ञापयितुं पादद्वयार्थं तावदुपसंहरति बहुलिङ्गेति
बहुलिङ्गसमायुक्तैर्बहुभी रूढनामभिः ।
प्रसिद्धैरन्यगत्वेन वाच्यः साक्षाज्जनार्दनः (अनुव्याख्यानम्)१,२.२६
वैश्वानरादयः शब्दा अपि तद्वाचिनस्ततः (अनुव्याख्यानम्)१,२.२७अब्
न्यायसुधा-
रूढेत्यस्यैव विवरणं प्रसिद्धैरन्यगत्वेनेति ।
अन्यथा यौगिकनामपरित्यागः स्यात् ।
एतच्च लिङ्गानामपि विशेषणम् ।
साक्षात् मुख्यया वृत्त्या ।
इदानीं वैश्वानराधिकरणतात्पर्यमाह वैश्वानरादय इति
आदिशब्दप्रयोगाद्वैश्वानरशब्दस्योपलक्षणत्वमिति दर्शयति ।
तत इति सौत्रात्मशब्दादिकं परामृशति ।
तद्वाचिनः परमेश्वरवाचिनः ।
ननु कथं वैश्वानरस्य विष्णुत्वनिर्धारः ।
पक्षान्तरे ऽप्यग्न्यादिशब्दानां होमाधिकरणत्वादिलिङ्गानां च श्रवणादित्यत आह तानीति
तानि लिङ्गानि ते शब्दा अपि तद्गा हि सर्वशः (अनुव्याख्यानम्)१,२.२७च्द्
न्यायसुधा-
तद्गाः परमेश्वरविषयाः ।
हीति तथा दृष्टयुपदेशं हेतुमाचष्टे ।
यस्मादेवं तस्मादिति पूर्वेण वा सम्बन्धः ।
अनेन शब्दादिभ्य इति सूत्रस्य तात्पर्यमुक्तं वेदितव्यम् ।
ननु कथमग्न्यादिशब्दानां विष्णुपरत्वम् ।
अन्यत्र रूढत्वात् ।
नच विष्णावपि रूढिरस्तीति वाच्यम् ।
बहुत्वेनान्यत्र रूढेः प्रबलत्वेनाल्पपरमेश्वररूढिबाधकत्वोपपत्तेरित्यत आह बहुलापीति
बहुलाप्यज्ञरूढिस्तत्प्रज्ञारूढिं न बाधते (अनुव्याख्यानम्)१,२.२७एफ़्
न्यायसुधा-
तत् तस्मादज्ञप्राज्ञरूढित्वादेव ।
आनन्दमयाधिकरणान्ते व्युत्पादितन्यायादिति वेति ।
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना कृतायां टीकायां विषमपदवाक्यार्थविवृतौ द्वितीयः पादो ऽयं
प्रथमविषये पर्यवसितः
इति श्रीमन्न्यायसुधायां प्रथमाध्यायस्य द्वितीयः पादः
अध्यय १, पद ३