३,६९२
अथ श्रीमन्न्यायसुधायां अदृश्यत्वाधिकरणम्
ओं अदृश्यत्वादिगुणको धर्मोक्तेः ओं
अदृश्यत्वादिगुणको धर्मोक्तेः । ब्ब्स्_१,२.२१ ।
अत्र यत्तदद्रेश्यमित्यादिवाक्योक्तानामदृश्यत्वादीनां धर्माणां ब्रह्मणि समन्वयः प्रतिपाद्यते ।
तेषां चोक्तरीत्या ब्रह्मस्वरूपत्वमभ्युपगतं तदभ्यधिकाशङ्कायाऽक्षिपति गुणेति
गुणक्रियादयो भावा यदिवा स्युरभेदिनः ।
अभेदो ऽभावधर्माणां ब्रह्मणा युज्यते कथम् (अनुव्याख्यानम्)१,२.१६
न्यायसुधा-
आनन्दादयो गुणाः संहरणादिक्रियाः सर्वगतत्वादिभावाः ।
अन्नमयादिरूपाणि पुच्छाद्यवयवाश्च यद्यभेदिनो ऽङ्गीकृताः तदा तथा स्युर्वा ।
तेषां भावत्वन वक्ष्यमाणानुपपत्तेरभावात् ।
अनुपपत्त्यन्तराणां च परिहृतत्वात् ।
अदृश्यत्वादीनां तु धर्माणां ब्रह्मणाभेदो न युज्यते ।
तेषामभावत्वाद्ब्रह्मणो भावत्वात् ।
भावाभावयोरैक्यस्य विरुद्धत्वादिति ।
परिहरति नाभाव इति
नाभावो भाव इति च विशेषः प्रायशो भवेत् (अनुव्याख्यानम्)१,२.१७अब्
न्यायसुधा-
इह हि दृश्यादन्यो ऽदृश्यः तस्य भावो ऽदृश्यत्वमित्यदृश्य(त्व)आदिशब्दैर्दृश्याद्यन्योन्याभावो ऽभिधीयते ।
अश्वादन्यो ऽनश्वः तस्य भावो ऽनश्वत्वमिति यथा ।
न पुनस्तत्प्रागभावादिः ।
असामथ्यरेन(?) समासासम्भवात् ।
दृश्यादिविरोधित्वमर्थो ऽस्त्विति चेन्न ।
सहानवस्थानवध्यघात(तु)कभावभावाभावालक्षणविरोधानामसम्भवात् ।
तादात्म्यविरोधस्य चान्योन्याभावानतिरेकात् ।
तथा चाभावो अन्योन्याभाव इति भाव इति चैतयोर्लोके ऽपि विशेषो भेदो न भवेत् ।
एवं(च) सति ब्रह्मण्येव कानुपपत्तिरिति ।
तदभावो हीति वक्ष्यमाणाभिप्रायेण प्रायश इत्युक्तम् ।
अथवाभाव इति चतुर्विधे ऽप्यभावे प्राप्ते ऽन्योन्याभावपरिग्रहणार्थं प्रायश इत्युक्त(त्यभिहित)म् ।
अन्योन्याभावो हि प्रागभावादिभ्यो(ऽपि) बहुतरः प्रतिवस्तु नियतत्वात् ।
नित्यानादिसम्बन्धिनः प्रागभावादेरभावात् ।
३,६९६फ़्.
ननु प्रागभावप्रध्वंसाभावात्यन्ताभावभिन्नः संसर्गाभावः, किं धर्मिणो भिन्न उताभिन्नः ।
नाद्यः ।
ब्रह्मगतस्यापि भेदप्रसङ्गात् ।
तथा च’एवं धर्मान्’ इत्यादिश्रुतिविरोधात् ।
नच ब्रह्मणि नासौ श्रुत इति वाच्यम् ।
अगोत्रमवर्णमित्यादिना प्रतीतत्वात् ।
न विद्यते गोत्रादिकं यस्य तद्धि तथोच्यते ।
द्वितीये किमन्योन्याभावनिर्धारणेन ।
अभाव इत्येव वक्तव्यम् ।
तथा चाशेषश्रुतिव्याख्यानं भवतीति ।
अत्र ब्रूमः ।
भिन्न एव धर्मिणः प्रागभावादिः ।
धर्मिविनाशे ऽप्यविनाशात् ।
यत्र हि भूतले घटाभावस्तस्य खननादिना विनाशे ऽपि घटाभावो ऽनुवर्तत एव ।
धर्मित्वं च भूतलादेः प्रातीतिकं न वस्तुकृतम् ।
अत एव भाववदभावस्यापि तत्त्वान्तरत्वमभिधाय भावाभावस्वरूपत्वात् इत्यन्योन्याभावस्य धर्मिस्वरूपतामाह ।
ननु तर्हि ब्रह्मण्यपि तथात्वप्रसङ्गः ।
सत्यम् ।
गोत्रादिसंसर्गा(स्या)भावस्य ब्रह्मातिरिक्ताभ्युपगमात् ।
यथा हि दण्डो देवदत्तस्य विशेषणम् ।
तथा गोत्राद्यभावो ऽपि ब्रह्मणो विशेषणम् ।
नच श्रुतिविरोधः ।
दण्डित्ववदभाववत्त्वस्य धर्मत्वेन विवक्षितत्वात् ।
नच आनन्दादावप्येवं कल्पना ।
‘आनन्दो ब्रह्म’ इत्यादिवचनात् ।
बाधकाभावाच्च ।
तस्मादन्योन्याभाव एवान्यत्र धर्मिस्वरूपमिति ब्रह्मण्यपि तथाभ्युपगन्तव्यः ।
गोत्राद्यभाववत्ता तु भावरूपैव इति न तस्या ब्रह्मस्वरूपत्वे काचिदनुपपत्तिरिति नेह विचार्यते ।
३,७०१
यस्त्वन्योन्याभावस्य धर्मिस्वरूपतां क्वापि न मन्यते ।
स प्रष्टव्यः ।
किन्निमित्तो ऽयमनभ्युपगमः ।
किं विरोधादुत, प्रमाणाभावात्, अथ बाधकसद्भावात् ।
आद्ये कथमन्योन्याभावस्य धर्मिणा विरोध इति वक्तव्यम् ।
विधिनिषेधरूपत्वेनेति चेत्, तदेव कथम् ।
नञः प्रयोगाप्रयोगाभ्यामिति चेत् तत्राह अतद्भाव इति
अतद्भावो ऽन्यता चेति न विशेषो ऽस्ति कश्चन (अनुव्याख्यानम्)१,२.१७च्द्
न्यायसुधा-
पटस्य ह्यघटत्वं घटादन्यत्वं चैकमेव ।
अघटो घटादन्य इत्यनयोर्विशेषाप्रतीतेः ।
विद्येते च नञः प्रयोगाप्रयोगौ इत्यतो व्यभिचार इत्यर्थः ।
स्थलान्तरे व्यभिचारं दर्शयति दोषाभाव इति
दोषाभावो गुण इति प्रसिद्धो लौकिकेष्वपि (अनुव्याख्यानम्)१,२.१८अब्
न्यायसुधा-
आरोग्यं गुणः अक्रौर्यं गुणः, इति नञ्प्रयोगविषयस्य निषेधस्य रोगाद्यभावस्य, नञ्प्रयोगाविषयो विधिरूपत्वं गुणत्वं, लौकिकवैदिकेषु
व्यवहारेषु प्रसिद्धम् ।
उपलक्षणं चैतत् ।
अनौदार्यं दोषः, इति गुणाभावस्य दोषत्वमपि प्रसिद्धम् ।
अतो(ऽपि), व्यभिचार इत्यर्थः ।
अन्योन्याभावस्य धर्मिस्वरूपत्वसमर्थनं न औत्प्रेक्षिकम् ।
किन्तु सूत्रकृतो ऽप्यभिमतमिति दर्श(सूच)यितुं सूत्रकृताप्ययं व्यभिचारः सूचित इत्याह अदृश्यत्वादिकानिति
अदृश्यत्वादिकांस्तस्माद् गुणानाह स्वयं प्रभुः (अनुव्याख्यानम्)१,२.१८च्द्
न्यायसुधा-
यस्मान्नञः प्रयोगाप्रयोगौ नाभेदविरोधिनौ, तस्मात्तदेव सूचयितुमदृश्यत्वादिगुणक इत्यदृश्यत्वादीनां नञ्वाच्यानामतथाभूतानां गुणानां
चैक्यमाह सूत्रकारः ।
अन्यथा दृश्यत्वादीत्यवक्ष्यदिति ।
अनेन सप्रतियोगित्वनिष्प्रतियोगिकत्वाभ्यां विरोधो ऽपि परास्तो वेदितव्यः ।
३,७०३
नन्वेवं भावाभावयोरैक्ये भावाभावलक्षणो विरोधः क्वापि न स्यात् ।
असति च तस्मिन्विरोधवार्तैव लुप्येत ।
भावाभावयोर्हि साक्षाद्विरोधस्तद्द्वारान्ययोरिति चेत् ।
किमविशिष्टयोर्भावाभावयोर्विरोधमङ्गीकृत्य तदभाव आपाद्यते, उतावच्छिन्नयोः ।
आद्ये त्विष्यापादनमित्याह भावेति
भावाभावविरोधो ऽपि न तु सर्वत्र विद्यते (अनुव्याख्यानम्)१,२.१९अब्
न्यायसुधा-
सर्वत्रेत्यनेनाविशिष्टत्वं द्योतयति ।
घटवति पटाभावदशर्नादिति भावः ।
द्वितीये त्वापादकासिद्धिरिति भावेन तत्स्वरूपमाह तदभावो हीति
तदभावो हि तद्भावविरोधी न ततो ऽपरः (अनुव्याख्यानम्)१,२.१९च्द्
३,७०३फ़्.
न्यायसुधा-
उभयत्राप्यनुभवप्रसिद्धिं हिशब्देन द्योतयति ।
नन्वेतत्सर्वं तृतीये ऽन्तर्भवति ।
सत्यम् ।
तथाप्युल्बणतया पृथग्दूषितमित्यदोषः ।
अस्तु तर्ह्यन्योन्याभावस्य धर्मिस्वरूपत्वे प्रमाणाभाव इति द्वितीयः पक्षः ।
मैवम्, भेदो हि वस्तुस्वरूपमिति सर्वैरभ्युपगन्तव्यम् ।
अन्यथानवस्थादिदोषप्रसङ्गात् ।
अभावे स्वरूपातिरिक्तस्यासम्भवेन भेदाभावप्रसक्तेश्च ।
अन्योन्याभावश्च भेद एवेति कथं धर्मिस्वरूपत्वं न स्यात् ।
३,७०६
अथ मतम् ।
भेदस्त्रिविधो ऽस्माभिरभ्युपगम्यते ।
पृथक्तवम् अन्योन्याभावः, स्वरूपं चेति ।
तत्र द्रव्ये त्रिविधो ऽपि सम्भवति ।
गुणादिपञ्चके तु द्विविध एव ।
पृथक्तवस्य गुणत्वेन तत्रासम्भवात् ।
अभावे तु स्वरूपभेद एव ।
तत्रान्योन्याभावाभ्युपगमे ऽनवस्थाप्रसङ्गात् ।
अतो ऽन्योन्याभावस्य भेदत्वे ऽपि, भेदस्य (तु) स्वरूपत्वे ऽपि, नान्योन्याभावस्य धर्मिस्वरूपत्वम् ।
स्वरूपभेदातिरिक्तभेदत्वादन्योन्याभावस्येत्यत आह पृथक्तवेति
पृथक्तवाभावतद्रूपान् भेदांस्त्रीन् कल्पयन्ति चेत् ।
कल्पनागौरवाद्यास्तु दोषास्तत्र विरोधिनः (अनुव्याख्यानम्)१,२.२०
न्यायसुधा-
अभावो ऽन्योन्याभावः स धर्मी रूपमात्मा यस्यासौ तद्रूपः ।
आद्यग्रहणेन दृष्टहानिरदृष्टकल्पना च गृह्यते ।
तत्र तु तथाकल्पने त्वित्यर्थः ।
कथं पृथक्तवान्योन्याभावस्वरूपभेदानां भेदाङ्गीकारे कल्पनागौरवादिकमित्यत आह पृथक्तवेति
पृथक्तवान्यत्वभेदास्तु पर्यायेणैव लौकिकैः ।
व्यवह्रियन्ते सततं वैदिकैरपि सर्वशः (अनुव्याख्यानम्)१,२.२१
न्यायसुधा-
अन्यत्वमन्योन्याभावः ।
भेदः स्वरूपभेदो घटात्पृथक् घटो न भवति पट एवेति ।
पृथक्तवान्योन्याभावस्वरूपभेदाः सर्वैर्लौकिकैर्वैदिकैश्च पर्यायेणैव क्रमेणैव पृथग्वाक्यतया व्यवह्रियन्ते, न जातु एकवाक्यनिवेशेन ।
३,७०७
एतदुक्तं भवति ।
यथा घटकलशकुम्भव्यवहाराणां पर्यायत्वात् एकेनैव निमित्तेनोपपत्तौ घटत्वाद्यनेकनिमित्तकल्पने कल्पनागौरवम् ।
यथा च घटादिव्यवहारान् पर्यायेणैव कुर्वाणैस्तन्निमित्तमेकतयैव दृष्टमिति, तत्त्रित्वाङ्गीकारे दृष्टहानिरदृष्टकल्पना च भवति ।
तथा पृथग(क्तव)आदिव्यवहाराणामपि पर्यायत्वात् एकेनैव स्वरूपभेदेनोपपत्तौ, निमित्तत्रयकल्पने कल्पनागौरवम् ।
नियमेनासहप्रयोक्तृभिः पृथक्तवादीनामैक्यं दृष्टमिति, तत्परित्यागेन त्रित्वकल्पनायां दृष्टहानिरदृष्टकल्पना च स्यादिति ।
अविनाभावित्वान्न सहप्रयोग इति चेत् ।
मा भूद्घटात्पृथगित्युक्तवा घटो न भवतीति प्रयोगः ।
घटो न भवतीत्युक्तवा घटात्पृथगिति कस्मान्न भवेत् ।
पृथक्तवे सति अन्योन्याभावादिकं नियतं न त्वन्योन्याभावे पृथक्तवमिति परेणैव व्युत्पादितत्वात् ।
नचायमस्ति नियमो ऽविनाभूतं सह नोच्यत इति ।
पृथिव्यप्तेजोवायुमनसां क्रियावत्त्वमूर्तत्वपरत्वापरत्ववेगवत्त्वादीनीति तदीयग्रन्थ एव व्यवहारदर्शनात् ।
लौकिकाः प्रयोजनमात्रपराः ।
अन्यतमव्यवहारेणैव तत्प्रयोजनसिद्धेर्न सहव्यवहारन्तीति चेन्न ।
वैदिकैरप्येवमेव व्यवहारात् ।
तदिदमुक्तम् ।
वैदिकैरपीति ।
किञ्च पर्यायप्रयोगस्यान्यथात्वकल्पनं क्वचिदपर्यायप्रयोगे सति स्यात् ।
अन्यथा घटादिव्यवहारे ऽपि तथाप्रसङ्गात् ।
न चैतदस्ति ।
तत्कथमन्यथाकल्पनं निर्मूलमुपपद्येत इति ।
एतदप्युक्तम् सर्वश इति, सततमिति च
३,७०९फ़्.
अथ मतम् ।
पृथक्तवान्योन्याभावयोस्तावत्स्फुटो विवेकः ।
यत्पृथक्तवमवधिनिरूप्यम् ।
अन्योन्याभावस्तु प्रतियोगिनिरूप्यः ।
किञ्च,’अन्यारादितरर्त’ इति पृथक्तववाचिपदयोगे पञ्चम्यनुशिष्यते ।
अन्य इत्यर्थग्रहणमिति वचनात् ।
अन्यथा भिन्नो घटात्पटो ऽर्थान्तरं घटात्पट इत्यादौ पञ्चमी न स्यात् ।
अनुशासनान्तराभावात् ।
तथाच पृथक्तवमेव चेदन्योन्याभावः तदा घटो न भवति पट इत्यत्रापि पञ्चमी स्यात् ।
नचैवम् ।
तेन जानीमो ऽन्यत्पृथक्तवम्, अन्यश्चान्योन्याभाव इति ।
स्वरूपभेदस्य चाभ्यां उभयाभ्यां विवेकः ।
परनिरूप्यत्वविरहाद्विधिरूपत्वाच्च ।
एवञ्च व्यवहारपर्यायतान्यथोपपादनीयेति ।
३,७१२
अत्रोच्यते ।
यत्तावदुक्तं निरूपकभेदाद्भेद इति, तदसत् ।
अवधिप्रतियोगिनोरेव भेदस्य निरूपयितुमशक्यत्वात् ।
पृथक्तवनिरूपकत्वमवधित्वम्, अभावनिरूपकत्वं प्रतियोगित्वमिति चेन्न ।
पृथक्तवान्योन्याभावभेदस्याद्याप्यसिद्धत्वेन इतरेतराश्रयत्वात् ।
पञ्चमीप्रयोगाप्रयोगाभ्यां भेदश्चानुपपन्नः ।
अन्यशब्दोपपदे पञ्चमीविधानात् ।
कथं तर्हि भिन्नादियोगे पञ्चमीति चेत् ।
विलक्षणो यज्ञदत्तो देवदत्तादित्यत्र कथम् ।
नहि वैलक्षण्यं पृथक्तवम् ।
गुणादिष्वपि सद्भावात् ।
अथ कथञ्चिदपादानत्वं तत्र व्युत्पादयिष्यत इति चेत् ।
भिन्न इत्यादावपि किं न व्युत्पाद्यते ।
तथा सत्यन्य इत्यत्रापि साम्यात्सूत्रवैयर्थ्यमापद्यत इति चेन्न ।
प्रपञ्चाथर्त्वेनोपपत्तेः ।
३,७१५
विलक्षणयोगे पञ्चमी वक्तव्येति चेत् ।
विशिष्टव्यावृत्तादियोगे ऽपि कथम् ।
न विशिष्टादिकं पृथक्तवमिति च स्वयमेव व्युत्पादितम् ।
सर्वत्रोपसङ्खयाने भिन्नादिष्वपि तथा भविष्यति ।
किमन्येत्यत्रार्थग्रहणव्याख्यानेन ।
३,७१६
‘पृथग्विनानानाभिस्तृतीयान्यतरस्याम्’ इति विकल्पविधानसामर्थ्यादिद(त्थ)माश्रीयत इति चेन्न ।
अप्राप्ते ऽपि विकल्पविधानस्य बहुलमुपलम्भात् ।
३,७१९
अस्तु वान्येत्यर्थग्रहणम् ।
तथापि पृथक्तववाचिपदयोगे पञ्चमीविधानस्य व्याख्यानात् ।
घटः पटो न भवतीत्यत्र तु, वाक्यप्रतिपाद्यं पृथक्तवमिति पञ्चमी न भविष्यति ।
प्रतियोगिनिरूप्यत्वानिरूप्यत्वाभ्यां तु विवेकः स्वरूपभेदवादिना वक्तुमशक्य इति वक्ष्यामः ।
विधिरूपत्वं चोक्तन्यायपराहतम् ।
अत एव पृथक्तवान्योन्याभावविवेचकत्वमपि निरस्तम् ।
किं चानश्व इति किमन्योन्याभावो नञर्थः ।
किंवा पृथक्तवम् ।
आद्ये कथमश्वादन्य इति विग्रहवाक्ये पञ्चमी ।
नच तत्र पृथक्तवमन्यशब्दार्थ इति युक्तम् ।
समासविग्रहवाक्ययोः समानार्थत्वात् ।
द्वितीये पृथक्तवस्यापि निषेधतेत्यलं पल्लवेन ।
३,७२३
सन्तु कल्पनागौरवदृष्टहान्यदृष्टकल्पनाः ।
ततः किमिति चेत् ।
तत्किं कल्पनागौरवादिकं दूषणमेव न भवति, किंवा भवति दूषणम् ।
किन्तु दोषोन्नायकत्वेनैवेति ।
आद्यं निराकरोति दृष्टेति
दृष्टहानिरदृष्टस्य कल्पनेत्येव दूषणम् ।
यदा तदधिको दोषो विद्यते को नु वादिनाम् (अनुव्याख्यानम्)१,२.२२
न्यायसुधा-
इतिशब्द आद्यर्थे ।
तेन कल्पनागौरवं सङ्गृह्यते ।
दूषणमेवेति योजना ।
कुत इत्यत आह यदेति
यदाशब्दो यस्मादित्यर्थे ।
तदधिकः तदतिरिक्तः ।
किमाक्षेपे ।
नु वितर्के ।
वादिनामिति ।
वैपरीत्यलक्षणया परिहासः ।
अनिष्यप्रसञ्जनार्थं वा ।
एतदुक्तं भवति ।
यदि दृष्टहान्यादिकं न दूषणं तदासिद्धयादिकमपि कुतो दूषणमिति वक्तव्यम् ।
अङ्गवैकल्यहेतुत्वादिति चेत् ।
अथ विकलाङ्गमपि कुतो न साधनम् ।
तथा सत्याकाशादीनामनित्यतादिकमापद्येत, तच्च प्रमाणविरुद्धमिति चेत् ।
स्वीकृतं तर्हि दृष्टहानादेर्दोषत्वम् ।
३,७२३फ़्.
अङ्गविकलस्याप्यनुमानत्वे ऽप्रामाणिकान्यनेकानि प्रसज्यन्त इति चेत् ।
तदिदमदृष्टकल्पनं कल्पनागौरवं च ।
विकलाङ्गं च साधनं चेति व्याहतमिति चेत् ।
कथं व्याहतम् ।
सकलाङ्गस्यैव साधकत्वदर्शनाद्विकलाङ्गस्य अदर्शनादिति चेत् ।
दृष्टहान्यादिकमेवैतत् ।
अथ मा भूदसिद्धयादिकं दूषणमिति ब्रूयात् ।
तदा वादित्वमेव न स्यात् ।
दूष्यपक्षाभावात् ।
तदभावे साध्यस्याप्यभावादिति ।
द्वितीयस्याप्येतदेवोत्तरम् दृष्टहानिरिति
३,७२४
अत्रैतदेव दूषणम् ।
नतु दोषान्तरोन्नायकत्वेनेति यथास्थित एव सम्बन्धः ।
तत्र हेतुमाह यदेति
यदा दृष्टहान्यादिकमुद्भाव्येत तदा ततः किमित्याशङ्कायां तदधिकस्तदुन्नेयो दोषः को नु वक्तव्यो विद्यते न को ऽपि ।
यो ऽप्युच्येत तस्यापि दृष्टहान्याद्यनतिरेकादिति भावः ।
३,७२५
अन्योन्याभावस्य भावस्वभावत्वे, धर्मधर्मिभावस्तच्छब्दानां सहप्रयोगः ।
कदाचिद् दृष्टे ऽपि वस्तुनि तददर्शनमित्यादिकं न स्यादिति, तृतीयस्य प्रागुक्तमेव परिहारं स्मारयति भावेति
भावाभावस्वरूपास्तु विशेषा एव वस्तुनः ।
अभिन्ना एव सङ्ग्राह्या व्यवहारप्रसिद्धये (अनुव्याख्यानम्)१,२.२३
न्यायसुधा-
भावग्रहणेन अत्तृत्वादिष्वप्ययं परिहारो ऽनुसन्धेय इति दशर्यति ।
भावभावस्वरूपा अत्तृत्वादयो ऽदृश्यत्वादयश्च यद्यपि परब्रह्मणाभिन्ना एव ।
तथापि धर्मधर्म्यादिव्यवहारप्रसिद्धये वस्तुनो धर्मिणो विशेषा एव सङ्ग्राह्याः ।
न वस्तुतन्मात्रमिति ।
इदमुक्तं भवति ।
अत्तृत्वादीनामदृश्यत्वादीनां च ब्रह्मस्वरूपत्वं तावच्छ्रुत्यादिसिद्धम् ।
अस्ति च धर्मधर्म्यादिव्यवहारो ऽपि प्रमितः ।
नचान्यतरस्यापि बाधोपपन्ना ।
ततस्तदन्यथानुपपत्त्या सविशेषाभेदो ऽङ्गीकरणीयः ।
विशेषस्य चाभिन्ने ऽपि भेदनिमित्तव्यवहारनिर्वाहकत्वं स्वरूपग्राहकप्रमाणेनैव सिद्धमिति ।
अत्रैके, गुणक्रियादीनां द्रव्येणात्यन्तभेदं समवायं चाङ्गीकृत्य व्यवहारानुपपादयन्तः श्रुतीनामुपासनार्थत्वं अनागन्तुकार्थत्वं वा, वदन्तो विशेषं
नाभ्युपगच्छन्ति ।
अपरे तु, भेदाभेदाभ्यां व्यवहारनिर्वाहं पश्यन्तः केवरभेदप्रतिषेधं च श्रुतीनामर्थं ब्रुवाणा न विशेषमिच्छन्ति ।
अन्ये तु, अखण्डमेव ब्रह्माभ्युपगम्य धर्मधर्म्यादिव्यवहाराः सर्वे ऽप्यविद्याऽरोपनिमित्ता इति मन्यमाना विशेषमवजानते ।
तत्र भेदवादिना भेदाभेदवादिना च विशेषमङ्गीकारयति यथेति
३,७२६
यथैकः समवायो ऽपि भेदाभेदौ च वस्तुनि ।
अङ्गीकार्या विशेषेण स्थानेषु व्यवहर्तृभिः (अनुव्याख्यानम्)१,२.२४
न्यायसुधा-
स्थानेषु स्वशास्त्रप्रदेशेषु एकः समवाय इति वस्तुनि भेदाभेदाविति च व्यवहर्तृभिर्यथा ते समवायभेदाभेदा विशेषेण विशेषवन्तोङ्गीकार्यास्तथा
भावाभावस्वरूपाश्चेति योजना ।
एतदुक्तं भवति ।
धर्मधर्मिभेदवादिना तावदेकः समवाय इति व्यवह्रियते ।
तत्त्वं भावेनेति सूत्रितत्वात् ।
तत्र समवायस्यैकत्वं किं ततो भिन्नमुत तत्स्वरूपम् ।
नाद्यः ।
समवाये द्रव्यगुणादेरसम्भवात् ।
द्वितीये तु कथं सहप्रयोगः ।
षष्ठीव्यवहारो वा ।
औपचारिक इति चेन्न ।
समवायैकत्वसाधनप्रयासवैयर्थ्यापत्तेः ।
ततो गत्यन्तराभावात्सविशेषाभेदो ऽङ्गीकार्यः ।
तथाच किं ब्रह्मणि श्रुतीनामन्यपरत्वं प्रकल्प्य भेदसमवायकल्पनया ।
अन्ततो ऽप्यङ्गीकार्येण विशेषेणैव सर्वस्योपपत्तेः ।
समवायप्रतियोगिकभेदाभावः समवायस्यैकत्वमिति चेत् ।
तथापि समवायस्येति षष्ठयर्थस्य पृथगभावेन तत्र विशेषस्याङ्गीकार्यत्वात् ।
यस्तु भेदवादी समवाये ऽप्येकत्वसङ्खयामङ्गीकरोति, तेनापि समवायस्य सम्बन्धो ऽङ्गीक्रियते, न वा ।
आद्ये किं स एव, समवायान्तरं वा ।
न प्रथमः ।
सम्बन्ध्यतिरिक्तसम्बन्धाभावेनैकः समवाय इति व्यवहारानुपपत्तेः ।
अत एव न तृतीयः ।
स्वनिर्वाहकत्वे पुनः सविशेषत्वमेवाङ्गीकरणीयम् ।
न द्वितीयः ।
एकः समवाय इत्यस्यानुपपत्तेः ।
३,७३०
किञ्च वस्तुनि समवाय इति कथम् ।
न ह्यवयवावयव्यादीनां सम्बन्धो ऽस्ति यत एकः समवायः ।
स्वनिर्वाहकत्वे तूक्तम् ।
अपि चैकस्वभाव एव समवायः ।
स कथमवयवादीनाधारत्वेनावयव्यादीनाधेयत्वेन नियच्छेत् ।
अवयवादीनां स्वभावभेदादिति चेत् ।
अलं तर्हि समवायेन ।
अथ समवायस्यैव विचित्रस्वभावत्वं तदा सविशेषत्वमेवेति ।
भेदाभेदवादिना त्ववश्यमङ्गीकरणीयो विशेषः ।
परस्परविरुद्धयोर्भेदाभेदयोरेकत्र तमन्तरेण अनुपपत्तेः ।
किञ्च भेदाभेदयोरपि वस्तुना परस्परं च भेदाभेदान्तराभ्युपगमे ऽनवस्था ।
स्वनिर्वाहकत्वे तु विशेषाङ्गीकारः ।
भेदे, वस्तुनि भेदाभेदाविति व्यवहारानुपपत्तिः ।
वस्तुना तयाः सम्बन्धाभावात् ।
अत्यन्ताभेदे ऽपि वस्तुनि भेदाभेदावित्याधाराधेयभावो द्विवचनं चानुपपन्नं स्यात् ।
वस्तुतन्मात्रत्वात् ।
ततश्च तन्निर्वाहार्थमवश्यमङ्गीकरणीये विशेषे तत एव ब्रह्मणि सर्वस्योपपत्तौ किं भेदाभेदाभ्युपगमेनेति ।
यथा च तन्तुपटादौ भेदाभेदाभ्युपगमस्तद्वक्ष्यामः ।
३,७३३
अखण्डवादिनापि विशेषमङ्गीकारयति अखण्डेति
अखण्डवादिनो’ पि स्याद्विशेषो … (अनुव्याख्यानम्)१,२.२५अब्
न्यायसुधा-
अङ्गीकार्य इति वचनविपरिणामेन सम्बद्धयते ।
नन्वखण्डवादिनो ऽपि विशेषो ऽङ्गीकार्य इति व्याहतम् ।
अखण्डत्वं निर्विशेषत्वमित्यनर्थान्तरत्वादित्यत उक्तम् अनिच्छतो ऽपीति
… ऽनिच्छतो ऽप्यसौ ।
व्यावृत्ते निर्विशेषे तु किं व्यावर्त्यबहुत्वतः (अनुव्याख्यानम्)१,२.२५ब्द्
न्यायसुधा-
स्वाभ्युपगममात्रेणाखण्डवादित्वे ऽपि न्यायप्राप्तत्वाद्विशेषाङ्गीकरणमिति ।
असौ पूर्वोपपादितः ।
अनेन पूर्वोक्तार्थस्मरणार्थत्वादस्य न पुनरुक्तिदोष इति सूचितम् ।
यद्वा ।
यस्मिन्ननङ्गीकृते सत्यज्ञानादिपदानां पर्यायव्यर्थते स्याताम् ।
सत्यत्वादीनां ब्रह्मतन्मात्रत्वाङ्गीकारात् ।
अङ्गीकृते च तन्निवृत्तिः ।
तस्यापर्यायशब्दप्रवृत्तावभिन्ने ऽपि निमित्तत्वात् ।
असौ इत्यङ्गीकार्यत्वहेतुसूचनम् ।
ननु ब्रह्मातिरिक्ते सत्यज्ञानानन्दादौ वाचकत्वशक्तिमतां सत्यादिपदानां लक्ष्यमेव ब्रह्माभ्युपगम्यते ।
तत्कथं पर्यायता ।
वाच्यार्थभेदसद्भावात् ।
मैवम् ।
सत्यज्ञानानन्तानन्दादीनां ब्रह्मातिरिक्तानां परेणानङ्गीकृतत्वात् ।
अस्ति कथञ्चित्सत्यादिकमन्यदिति चेन्न ।
कथञ्चित्सत्यादिकं वाच्यम् ।
साक्षात्सत्यादिकं तु लक्ष्यमिति वैपरीत्यस्यानुचितत्वात् ।
अस्तु वा कथञ्चित्पर्यायतापरिहारः ।
तथाप्येकेन पदेन लक्षितस्यैवान्येनापि लक्षणायां व्यथर्ता न परिहर्तुं शक्या ।
ननु च लक्ष्यार्थभेदाभावे ऽपि ब्रह्मण्यारोपितासत्यत्वादिधर्माणां व्यावर्त्यानां बहुलत्वात् तद्वयावर्तकत्वेन सार्थक्यं पदानामित्यत आह व्यावृत्त
इति
व्याख्यातचरमिदम् ।
तदेवं विशेषस्य सर्ववादिभिरङ्गीकायर्त्वात्तद्बलेन धर्मधर्म्यादिव्यवहारोपपत्तेर्युक्तम् अदृश्यत्वादिगुणानां ब्रह्मणैक्यमिति सिद्धम् ।
__