१६ अन्तर्याम्यधिकरणम्

३,६८९
ओं अन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात् ओं
अन्तर्याम्यधिदैवाधिलोकादिषु तद्धर्मव्यपदेशात् । ब्ब्स्_१,२.१८ ।
नन्वेतदनन्तरातीतेनैव गतार्थम् ।
अन्तर्यामित्वं ह्यन्तःस्थित्वा नियामकत्वम् ।
एतदेवान्तर उपपत्तेरित्युक्तम् ।
नच तत्र नियामकत्वं न विवक्षितम् ।
तथा सत्यनवस्थितेरसम्भवाच्चेति दूषणस्यालग्नकत्वप्रसङ्गादित्यतः प्रमेयभेदं दर्शयितुं एतदधिकरणनिवर्तनीयामाशङ्कामाह रमणमिति
रमणं नातियत्नस्य विक्षेपादेव युज्यते (अनुव्याख्यानम्)१,२.१४अब्
न्यायसुधा-
पूर्वाधिकरणे ऽक्ष्यादिषु स्थित्वा रममाणस्तत्प्रेरको हरिरित्युक्तम् ।
तदसत् ।
व्याहतत्वात् ।
आदित्यादिनियमनार्थमतियत्नेन हि भाव्यम् ।
प्रयत्नस्य व्यापारानुगुणत्वदर्शनात् ।
अतियत्नवतश्च चित्तविक्षेपो नियतः ।
नच चित्तविक्षेपवतो रमणमुपपद्यते ।
अतो नियामकश्च रतिमांश्चेति व्याहतम् ।
नच व्याहतं शतेनापि हेतूनां सिद्धयति ।
तदुक्तम्,’बहुव्यापारतायाश्च क्लेशो ऽधिकतरो भवेत्’ इति ।
उक्तव्याप्तिपक्षधर्मतावधारणाय एवशब्दः ।
एतत्परिहारत्वेन गूढाभिसन्धिरधिकरणार्थमाह इति चेदिति
इति चेत् सर्वनियमो यस्य कस्मान्न शक्यते (अनुव्याख्यानम्)१,२.१४च्द्
न्यायसुधा-
तत्रेदमुत्तरमिति शेषः ।
यस्य परमेश्वरस्य सर्वनियमः सर्वान्तर्यामित्वमस्ति(?) ।
तस्य कस्मान्न शक्यते रमणमिति प्रकृतम् ।
एतामाशङ्कां परिहर्तुं सर्वान्तर्यामित्वमिह हेतुतयोच्यत इति भावः ।
नन्वेतत्पिण्याकयाचनार्थं गतस्य खारीतैलदानमिव ।
यत् आदित्यादिनियामकस्य चित्तविक्षेपसम्भवेन रमणं न युज्यत इत्युक्ते, सर्वनियामकत्वमुक्तम् ।
ततो ह्यतिशयेन चित्तविक्षेपाद्रमणानुपपत्तिः, इत्यतो ऽभिप्रायमुद्घाटयति स्वात्मनेति
स्वात्मनानियतं वस्तु प्रतीपं ह्यात्मनो भवेत् ।
स्वाधीनसत्ताशक्तयादि कथमात्मप्रतीपकम् (अनुव्याख्यानम्)१,२.१५
३,६८९फ़्.
न्यायसुधा-
यद्वस्तु स्वात्मना देवदत्तेनानियतं देवदत्तानधीनसत्ताप्रतीतिप्रवृत्तिकं, तदेवात्मनो देवदत्तस्य प्रतीपं चित्तविक्षेपकं भवेदिति हि दृष्टम् ।
इदं तु जगदीश्वराधीनसत्तादिकम् ।
तत्कथं तस्य चित्तविक्षेपकं भवेत् ।
अथवा यदीदं यस्तु विश्वं स्वात्मनेश्वरेणानियतं स्यात् ।
तदधीनसत्तादिकं न स्यात्, तदैव ह्यात्मनः परमेश्वरस्य प्रतीपं भवेत् ।
नचैवमिति योज्यम् ।
न राजादिवन्नियामकत्वमात्रमन्तर्यामित्वम्, अपि तर्हि सत्तादिप्रदत्वमित्युक्तं भवति ।
इति श्रीमन्न्यायसुधायां अन्तर्याम्यधिकरणम्


__