३,६७७
अथ श्रीमन्न्यायसुधायां अन्तराधिकरणम्
ओं अन्तर उपपत्तेः ओं
अन्तर उपपत्तेः । ब्ब्स्_१,२.१३ ।
अत्र क्रियाभावरूपलिङ्गसमन्वयश्चिन्त्यत इत्युक्तम् ।
तदयुक्तम् ।
सूत्रे भावस्यैव प्रतिज्ञानात् क्रियया अनुक्तेरित्यतो ऽन्तरशब्दमुभयार्थतया व्याख्याति अन्तरिति
अन्तः स्थित्वा रमणकृदन्तरः समुदाहृतः ।
रमणं चात्मशब्देनादेयं मातीति चोच्यते (अनुव्याख्यानम्)१,२.१०
न्यायसुधा-
अन्तःशब्दोपपदाद्रमतेर्ञमन्ताड्ड इति डः ।
उणादयो बहुलमित्युपपदलोपः ।
विवक्षितं चैतत्सूत्रकारस्य ।
अन्यथा’अन्तस्तद्धर्मोपदेशात्’ इतिवत् अन्तरुपपत्तेरित्यवक्ष्यत् ।
लघु चैवं सति सूत्रं स्यात् ।
अन्तर इति कुर्वन्निममेवार्थं प्रतिजानीत इति ।
ननु च’य एषो ऽन्तरि()क्षणि पुरुषो दृश्यते, एष आत्मेति होवाच’ इत्येतदत्रोदाहरणवाक्यम् ।
अत्र चाक्षिस्थ एव प्रतीयते ।
न तस्य रमणकर्तृत्वम् ।
श्रुत्युक्तमेव सूत्रैः प्रतिज्ञातव्यम् ।
तत्कथं श्रुतावनुक्तं रमणकर्तृत्वं सूत्रकृता प्रतिज्ञायत इत्यत आह रमणं चेति
न केवलमक्षिस्थत्वम् ।
किन्तु रमणं रमणकर्तृत्वं चेति आद्यश्चशब्दः ।
न केवलं सूत्रे ऽपि तु श्रुतौ चेति द्वितीयः ।
आत्मशब्देन एष आत्मेत्यनेन ।
आदेयम् उपादेयं सुखं सुखसाधनं च माति अनुभवतीति निर्वचनेनेत्यर्थः ।
आङ्पूर्वकाद्ददातेर्मन्यतेश्च क्विप् ।
३,६८०
सुखविशिष्टाभिधानाद् एव च । ब्ब्स्_१,२.१५ ।
चक्षुरन्तरस्य परमेश्वरत्वोपपादकमपरं सूत्रम् ।
सुखविशिष्टाभिधानादेव चेति ।
अत्र विशिष्टपदं व्यर्थं सुखाभिधानादेवचेत्येतावता पूर्णत्वात् ।
सुखसम्बन्धाभिधानार्थं विशिष्टपदमिति चेत् न, सुखित्वाभिधानादेव चेति कर्तुं शक्यत्वात् ।
लघु चैवं सति सूत्रं स्यात् ।
अयुक्तं च सुखसम्बन्धाभिधानम् ।
‘प्राणो ब्रह्म कं ब्रह्म’ इति श्रुतौ सुखमात्राभिधानादित्यतो ऽन्यथा व्याचष्टे विशिष्टेति
विशिष्टसुखवत्त्वाच्च … (अनुव्याख्यानम्)१,२.११अ
न्यायसुधा-
नात्र सुखविशिष्टशब्दः तद्वत्तामाचष्टे ।
येनानुपादेयः स्यात् ।
किन्तु सुखस्य वैशिष्ययं पूर्णतालक्षणम् ।
यदि हि सुखाभिधानादित्येव ब्रूयात् तदा सुखस्यान्यत्रापि सद्भावेन व्यभिचारः स्यात् ।
ततः सार्थकं विशेषणोपादानम् ।
ननु कथमत्र विग्रहः ।
सुखेन विशिष्टः श्रेष्ठ इति ।
कथं तर्हि विशिष्टसुखेत्युक्तम् ।
अर्थकथनमात्रमेतदित्यदोषः ।
सुखेन श्रेष्ठो हि तदा स्यात् यदि तत्सुखं श्रेष्ठं भवेदित्यर्थाद्, वैशिष्ययं सुखधर्मो भवति ।
अथवा’कडाराः कर्मधारये’ इति विशेषणस्य परनिपातं मन्यमानेन विशिष्टसुखेत्युक्तम् ।
कथं तर्हि मतुप्प्रयोगः, श्रुतावनुक्तत्वात् ।
स्वरूपेणापि सुखेन विशेषशक्तया तद्वान् भवतीति ज्ञापयितुमिति ।
नन्वेवं व्याख्याने हेतुससिद्धः स्यात् ।
सुखविशेषणस्य विशिष्टत्वस्य श्रुतावनुक्तत्वादिति चेन्न ।
मुख्यामुख्ययोर्मुख्यस्यैव ग्राह्यत्वात् ।
उक्ता च सुखस्य विशिष्टता श्रुतावित्याह ब्रह्मत्वं चेति
३,६८१
… ब्रह्मत्वं च विशिष्टता (अनुव्याख्यानम्)१,२.११ब्
न्यायसुधा-
सुखविशेषणं विशिष्टता च ब्रह्मत्वं ब्रह्मशब्दार्थः ।
‘कं ब्रह्मेति’ ब्रह्मशब्देनोक्तेति यावत् ।
ब्रह्मशब्दो हि पूर्णतामाह ।
तद्विशेष्याकाङ्क्षायां सन्निहितपरित्यागे कारणाभावात्सुखमेव सम्बद्धयत इति ।
३,६८२
अनवस्थितेर् असम्भवाच् च नेतरः । ब्ब्स्_१,२.१७ ।
चक्षुरन्तरस्येश्वरत्वं प्रतिपाद्य, अक्ष्यादित्ययोरग्निरेव नियामकतयात्रोच्यत इति यत् पूर्वपक्षिणोक्तं तन्निराकर्तुं सूत्रम् अनवस्थितेरसम्भवाच्च
नेतर इति
३,६८३
तस्यार्थः ।
जीवस्याग्नेर्जीवान्तरनियामकत्वे तस्यापि नियामकान्तरेण भाव्यमित्यनवस्थितेः उभयोर्जीवत्वसाम्येन नियम्यनियामकभावासम्भवाच्च
नाग्निरक्ष्यादित्यस्थतया अत्रोच्यत इति ।
एतदयुक्तम् ।
स्वव्याघातात् ।
अस्माभिरपि हि ब्रह्मादिजीवानां मानुषादिजीवनियामकत्वमङ्गीक्रियते ।
तत्र यदि परस्यानविस्थित्यसम्भवौ अस्माकमपि कुतो न भवतः ।
यथा च नास्माकं, तथा न परस्यापीत्यतः सूत्रं सम्यग्व्याख्यातुं पीठमारचयति अन्योन्येति
अन्योन्यनियतिश्चेशनियमे नान्यथा भवेत् (अनुव्याख्यानम्)१,२.११च्द्
न्यायसुधा-
चशब्दो ऽवधारणे ।
चेतनानामिति वक्ष्यमाणमत्रापि सम्बद्धयते ।
चेतनानां यो ऽन्योन्यनियतिः ब्रह्मादीनां नियामकता, मानुषादीनां तु नियम्यता, सा ईशनियमे प्रेरणे सत्येवोपपन्ना भवेत् ।
अनवस्थित्यसम्भवाभावात् ।
प्रेरकपरम्परा हि परनिरपेक्षे परमेश्वरे विश्राम्यति ।
तन्नियत्या चेतरेषां नियम्यनियामकभावो भविष्यति ।
नियन्तुरीश्वरस्याभावे अन्योन्यनियतिरुपपन्ना न भवेत् ।
अनवस्थित्यसम्भवपरिहारोपायाभावात् ।
ननु ब्रह्मादीनां नियामकत्वं मानुषादीनां नियम्यत्वमित्येष विशेषः तेषां स्वभाव एव ।
यद्वक्ष्यति न चाऽधिकारिकमिति मोक्षे ऽप्यनुवृत्तेश्च ।
आधिकारिमण्डलस्थोक्तेरिति वचनात् ।
स्वमते च का नाम परमेश्वरापेक्षेत्यत आह चेतनानामिति
चेतनानां विशेषो यः स्वभावो ऽपीश्वरापिर्तः (अनुव्याख्यानम्)१,२.१२अब्
न्यायसुधा-
चेतनानां ब्रह्मादीनां मानुषादीनां च, यो विशेषो नियम्यनियामकत्वलक्षणः, सः तेषां स्वभाव एव ।
‘न तदस्ति विना यत्स्यान्मया भूतं चराचरम्’ इति वचनात् ।
अन्यथेश्वरस्य सर्वैश्वर्यं न स्यात् ।
स्याच्च परेषां स्वातन्तृयम् ।
अङ्गीकृतं च परैराकाशे ऽनादिनो ऽपि द्रव्यत्वस्य गुणवत्त्वाधीनत्वम् ।
अद्वैतिभिश्चाविद्याधीनत्वं जीवब्रह्मविभागस्य ।
यो हीश्वरेण यस्य सर्वदा नियम्यते, स तस्य स्वभाव इत्युच्यते ।
यस्तु कदाचित् सो ऽस्वभाव इति ।
३,६८५
किमतो यद्येवं स्वव्याघातेन विना सूत्रार्थो निष्पन्न इत्याह अन्योन्येति
अन्योन्यनियमे तस्मादनवस्थित्यसम्भवौ (अनुव्याख्यानम्)१,२.१२च्द्
न्यायसुधा-
यस्मादीश्वराङ्गीकारे ऽन्योन्यनियमो युज्यते ।
नान्यथा तस्मादीश्वरमनङ्गीकृत्य परेणान्योन्यनियमे ऽङ्गीक्रियमाणे ऽनवस्थित्यसम्भवौ सूत्रकृतोक्तौ युक्तावित्यर्थः ।
नन्वनवस्थित्यसम्भवयोः को भेदः ।
उभयत्रापि प्रवृत्त्यनुपपत्तिसाम्यात् ।
उच्यते ।
अनवस्थायां हि प्राक् सिद्धमूलाभावेन प्रवृत्तिनिरोधः ।
असम्भवे तु समानतयाविनि(य)गम्यत्वेनेति भेदः ।
यथा पृथिवीसम्बन्धाद्गन्धोपलब्धिः पयसीति वदन्तं प्रत्युच्यते ।
पयःसम्बन्धात्पृथिव्यां तदुपलब्धिरिति किं न स्यात् ।
विनिगमकाभावादिति ।
तदनेनानीश्वरवादिनं प्रतीदं दोषाभिधानामित्युक्तम् ।
ईश्वरमङ्गीकृत्याक्ष्यादित्यस्थतयात्राग्निरुच्यत इति वदतः को दोष इत्यत आह ईश्वरश्चेदिति
३,६८६
ईश्वरश्चेन्नियन्ता च स एव प्रथमागतः ।
किमित्यपोद्यते कस्माद् वृथावस्थितिकल्पना (अनुव्याख्यानम्)१,२.१३अद्
न्यायसुधा-
यदीश्वरः सर्वनियन्ताभ्युपगतः स्यात्तदा स एव प्रथमागतः साक्षादक्ष्यादित्यस्थत्वेनामृतत्वादिप्रमाणैः प्रतीतः कस्मात्परित्यजन्ते ।
कस्याच्चेश्वरस्यादित्यादीनां च मध्ये वृथाग्नेनिर्यामकत्वेनावस्थितिकल्पना क्रियते ।
पूर्वपक्षप्रापकाणां भाष्ये निरस्तत्वादिति ।
ईश्वरपरित्यागे मध्ये ऽग्निकल्पने च प्रमाणं नास्तीत्युक्तम् ।
ततः किमित्यत आह दोषवतीति
दोषवत्येव तस्मात् सा नैव कार्या कथञ्चन (अनुव्याख्यानम्)१,२.१३एफ़्
न्यायसुधा-
दोषः श्रुतहानिरश्रुतकल्पना च ।
आद्येन एवशब्देन दोषद्वयस्यापरिहार्यत्वमाह ।
तस्मात् उभयत्र प्रमाणाभावात् ।
सा परमेश्वरपरित्यागेनावस्थितिकल्पना ।
अनेन सूत्रस्यार्थान्तरमुक्तं वेदितव्यम् ।
मध्ये ऽग्नेरवस्थितिकल्पकाभावात् ।
प्रथमावगतेश्वरपरित्यागासम्भवाच्च नेतर इति ।
इदमुक्तं भवति ।
अक्ष्यादित्यस्थतयात्र प्रतिपाद्यमग्निं प्रतिपाद्यमानं प्रति किं स्वतन्त्रमीश्वरमनभ्युपगम्यैतदुच्यते, उताभ्युपगम्येति विकल्प्य, पक्षद्वये सूत्रकारेण
दूषणमुक्तमिति ।
अथवा प्रतिवादिनं निरीश्वरं निश्चित्य सूत्रकृतानवस्थित्यसम्भवावुक्ताविति पूर्वग्रन्थार्थः ।
तत्कथं निश्चितमित्यत आह ईश्वरश्चेदिति
यदि सर्वनियन्तेश्वरः प्रतिवादिनाभ्युपगतः स्यात्, तदा स एव प्रथमागतः किमित्यपोद्येत ।
कस्माच्च वृथावस्थितिकल्पना क्रियते ।
किं तु निर्निमित्तत्वात्सा नैव कार्या स्यात् ।
न हि पूर्वपक्षी सर्वथाप्यप्रेक्षावान् ।
तथा सत्युन्मत्तवदुपेक्षणीयः स्यात् ।
नहि पूर्वपक्षी सर्वथाप्यप्रेक्षावान् ।
तथा सत्युन्मत्तवदुपेक्षणीयः स्यात् कृता च तेनेयं सर्वा कल्पना ।
तेन जानीमो ऽयं निरीश्वर इत्ययमभिप्रायः सूत्रकारस्येति ।
__