३,६७२
अथ श्रीमन्न्यायसुधायां गुहाधिकरणम्
ओं गुहां प्रविष्यावात्मानौ हि तद्दर्शनात् ओं
गुहां प्रविष्टाव् आत्मानौ हि तद्दर्शनात् । ब्ब्स्_१,२.११ ।
ऋतं पिबन्ताविति वाक्यं किं जीवेश्वरौ प्रतिपादयति किंवा परमेश्वरमेवेति संशये जीवेश्वराविति तावत्प्राप्तम् ।
कुतः ।
द्विवचनात् ।
न चानन्दमयाधिकरणन्यायेण परिहारः ।
बाधकाभावात् ।
कर्मफलभोगानुपपत्तेश्च ।
जीवेश्वरपक्षे तु छत्रिन्यायेनोपचारो भविष्यतीत्येवं प्राप्ते परमात्मानमेकमेव प्रतिपादयतीदं वाक्यं, गुहानिहितालिङ्गत्वात् ब्रह्मशब्देन
विशेषणाच्चेति सिद्धान्तितम् ।
तत्र कर्मफलभोगो भगवता भाष्ये प्रतिपादितः ।
द्विवचनस्य तु न स्पष्टं परिहारो ऽभिहितः, अतः तत्परिहारार्थमाह द्वित्वं चेति
… द्वित्वं चैकस्य युज्यते (अनुव्याख्यानम्)१,२.९ब्
न्यायसुधा-
एतदुक्तं भवति ।
परमेश्वरमात्रग्रहणे द्विवचनानुपपत्तिं वदन्पृष्टव्यः ।
कथमनुपपत्तिरिति ।
द्विवचनं भेदाभिधायि ।
नच परमात्मनि स्वगतभेदो युज्यत इति चेन्न, द्विवचनस्य भेदाभिधायित्वे ऽनुशासनाभावात् ।
अथ द्वित्वसङ्खया द्विवचनाभिधेया, सा च परमात्मन्यभेदेन एकत्वसङ्खयया च विरुद्धयत इति चेत्, न ।
अभेदेनैकत्ववत्येव घटे द्रव्यान्तरसहिते द्वित्वदर्शनात् ।
अथ द्वित्वं द्रव्यान्तरविधुरस्य न युज्यते विरोधादिति मतम् ।
तत्रेदमुपतिष्ठते ।
न केवलं संसारधर्महीनस्यर् कमफलभोगो युज्यते ।
किन्तु द्वित्वं चैकस्य निर्भेदस्य एकत्वाधारमात्रस्य च युज्यते ।
३,६७४
कथमित्यपेक्षायां तत्प्रदशर्नाय विशेषणाच्चेति सूत्रं प्रकारान्तरेण व्याचष्टे यः सेतुरिति
विशेषणाच् च । ब्ब्स्_१,२.१२ ।
यः सेतुरिति चैकत्ववचनेन विशेषणात् (अनुव्याख्यानम्)१,२.९च्द्
न्यायसुधा-
द्वित्वस्याभेदैकत्वाभ्यां न तावद्भावाभावलक्षणो विरोधः ।
तद्भावाभावात् ।
नापि वध्यधातुकभावः ।
सहावस्थानप्रसङ्गात् ।
तादात्म्याभावस्तु प्रकृते नोपयुज्यते ।
अतः सहानवस्थानमेव वक्तव्यम् ।
तस्य च नियमेन परस्परपरिहारेणापलम्भो बीजम् ।
न चासावस्ति ।
‘ऋतं पिबन्तौ’ इति द्विवचनविषयतया प्रकृतयोर्द्वित्वाधारयोः’यः सेतुः’ इत्येकवचनेन च विशेषणात् ।
अभेदैकत्वाधारतावगमादिति यावत् ।
न चात्रेकस्यैव ग्रहणम् ।
व्यावर्तकाभावादिति ।
एतेनैदपि प्रत्युक्तम् ।
‘यत्परेण बुद्धिजीवाविति पूर्वपक्षयित्वा जीवेश्वराविति सिद्धान्तितम्’ ।
तथा हि,’तत्तु समन्वयात्’ इति परमात्मन्येव समन्वयं प्रतिज्ञातवता सूत्रकारेण स एव विवरणवाक्यैः प्रपञ्चनीयः ।
जीवेश्वरयोरस्य वाक्यस्य समन्वयं प्रतिपादयन्प्रक्रमं जह्यात् ।
बाधके सति नायं दोष इति चेन्न ।
तदनिरूपणात् ।
द्विवचनमिति चेत् ।
तर्हि जीवेश्वराङ्गीकारो ऽपि न स्यात् ।
तयोरैक्याङ्गीकारात् ।
काल्पनिको ऽस्ति तयोर्भेद इति चेत् ।
तर्हीश्वरस्यैवाद्भुताचिन्त्यैश्वर्यवशाद् द्विरूपत्वेन द्वित्वमुपपद्यताम् ।
तथा च प्रक्रमानुगुणं सूत्रं स्यात् ।
तत्त्वावेदकं च शास्त्रमिति ।
नन्वेकवचनेनेति वक्तव्यम् ।
एकत्ववचनेनेति कथम् ।
एकत्वादिसङ्खयाहि प्रत्ययार्थः ।
यथोक्तम् ।
‘द्वयेकयोर्द्विवचनैकवचने’ इति ।
द्वित्वैकत्वयोरित्यर्थः ।
अन्यथा द्वयेकेष्विति स्यात् ।
तस्मादेकत्वस्य वचनमेकत्ववचनमित्येव युक्तम् ।
अन्यत्रापि भावप्रधानो निर्देशः प्रतिपत्तव्य इति ।
इति श्रीमन्न्यायसुधायां गुहाधिकरणम्
__