१३ अत्तृत्वाधिकरणम्

३,६२८
अथ अत्तृत्वाधिकरणम्
ओं अत्ता चराचरग्रहणात् ओं
अत्ता चराचरग्रहणात् । ब्ब्स्_१,२.९ ।
अत्र’यस्य ब्रह्म च क्षत्रं चोभे भवत ओदनः ।
मृत्युर्यस्योपसेचनं क इत्था वेद यत्र सः’ इति वाक्यमुदाहृत्य, अत्तारं केचिद्वृत्तिकारा विचारितवन्तः ।
तद्विहाय’स यद्यदेवासृजत तत्तदत्तुमध्रियते’ इति वाक्यमुदाहृत्य अत्तारं व्यचीचरद्भगवान् भाष्यकारः ।
कश्चात्र विशेषः ।
उच्यते ।
अत्र’अत्तुमध्रियतेऽ,’अत्ति’ इति च अत्ता साक्षात्प्रतीयते ।
तत्र तु ओदनोपसेचनपदाभ्यामुपलक्षणीयः ।
अद(दि)धात्वनुगतिश्चात्र ।
न चोपलक्षिते नियमो ऽस्ति ।
किञ्च चराचरग्रहणादिति हेतुरत्र सर्वं वात्तीति कण्ठोक्तः ।
तत्र तु ब्रह्मक्षत्रमृत्युपदैश्चराचरस्योपलक्षणमित्यस्ति महान्विशेषः ।
नन्वेवं तर्हि श्रुत्यनुगमाय सर्वग्रहणादिति कुतो न कृतम् ।
अस्ति प्रयोजनं चराचरग्रहणस्य ।
सर्वग्रहणादित्युक्ते शक्नोति पूर्ववादी वदितुम् ।
अदितिरपि सर्वस्य स्वभोज्यस्यान्नपानादेर्भोक्त्रीति ।
तत्र नायं सर्वशब्दः सङ्कुचितवृत्तिः ।
किं नाम’स तया वाचा’ इत्यादिपूर्ववाक्यपर्यालोचनया चराचरवाचीति वक्तव्यम् ।
तदेतदनेन द्योतयतीति ।
३,६३०
यदस्मिन्नध्याये समन्वीयते तत्सर्वं लक्षणत्वेन प्रकृतमित्यानन्दमयाधिकरणान्ते ऽभिहितम्, लक्षणं च लक्ष्येण ब्रह्मणाभिन्नमिति लक्षणसूत्रे
प्रतिपादितम् ।
अत्र च क्रियालिङ्गसमन्वय इत्युक्तम् ।
तथाचादनादिक्रियाणां परमेश्वरस्वरूपत्वमुक्तमिति तदाक्षिपति अनित्यत्वादिति
अनित्यत्वात् क्रियाणां तु कथमेव स्वरूपता (अनुव्याख्यानम्)१,२.५च्द्
न्यायसुधा-
तुशब्दः सर्वगतत्वादिव्यवच्छेदार्थः ।
सो ऽपि चोद्यस्यात्रावकाशसम्भावनार्थः ।
कथमित्याक्षेपे ।
कथमेव न कथञ्चिदपीत्यर्थः ।
स्वरूपता परमेश्वरस्वरूपता ।
परमेश्वरस्य हि नित्यत्वं जन्मादिसूत्रलब्धम् ।
स्वयमनित्यस्य सकलकारणत्वानुपपत्तेः ।
यत्खलु यस्य जनकं न तस्यासौ जनको, यच्च तस्य विनाशकं न तस्यासौ विनाशक इति ।
क्रियाणां त्वनित्यत्वं सुप्रसिद्धम् ।
तथा च नित्यानित्ययोः कथमभेदः स्यात् ।
विरुद्धधर्माध्यासस्य भावभेदाव्यभिचारात् ।
अन्यथा जगति भेदाभावप्रसङ्गात् ।
ततो यदि नाम सर्वगतत्वादीनां यावद्द्रव्यभाविनामभेदः तथापि न क्रियाणामसौ युज्यत इति ।
३,६३२
परिहरति इति चेदिति
इति चेत् स विशेषो ऽपि क्रियाशक्तयात्मना स्थिरः (अनुव्याख्यानम्)१,२.६अब्
३,६३२फ़्.
न्यायसुधा-
नेत्यध्याहारः ।
कुतः ।
न केवलमीश्वरः स्थिरो ऽपि तु स तदीयो विशेषो धर्मो ऽपि क्रियारूपः स्थितरो यत इति शेषः ।
अत्र(तु) क्रियास्थिरेत्येतावदेव वक्तव्यं विशेष इति तु क्रियायाः परमेश्वरैक्ये ऽप्युक्तवक्ष्यमाणन्यायेन तद्धर्मतयाप्यङ्गीकरणीयेति ज्ञापयितुम् ।
न केवलं स विशेषः सर्वगतत्वादिः स्थिरः, किन्तु क्रियापि पारमेश्वरी स्थिरा यत इति वा योज्यम् ।
अनेन क्रियाया अपि नित्यत्वप्रतिज्ञानेन विरुद्धधर्माध्यासस्यासिद्धिरुक्ता ।
तथाहि ।
ईश्वरस्य संहरणादिक्रियाणामनित्यत्वं किं प्रमाणबलादङ्गीक्रियते, उत नित्यत्वे बाधकसद्भावात्, अथवा तत्साधकप्रमाणाभावात् ।
नाद्यः ।
ईश्वरस्य तत्क्रियायाश्च अप्रत्यक्षत्वेन तदनित्यत्वस्य प्रत्यक्षेण प्रत्येतुमशक्यत्वात् ।
लिङ्गाभावेनानुमानानुपपत्तेः ।
क्रियात्वं लिङ्गमिति चेत्, तत्किं धात्वर्थत्वम् परिस्पन्दत्वं वा ।
नाद्यः ।
ज्ञानेच्छाप्रयत्नैः सत्तया च व्यभिचारात् ।
न द्वितीयः ।
सर्वक्रियाणामपरिस्पन्दत्वेन भागासिद्धत्वात् ।
ईश्वरपरिस्पन्दपक्षीकारेत्वाश्रयासिद्धेः ।
परेण तस्यानङ्गीकृतत्वात् ।
अङ्गीकारे ऽप्यनैकान्त्यम् ।
क्वचिदनीश्वरपरिस्पन्दानामपि नित्यत्वस्य वक्ष्यमाणत्वात् ।
क्रियात्वस्य नित्यत्वेन विना वृत्तौ बाधकाभावादप्रयोजकता च ।
कार्यत्वेन सोपाधिकत्वं च ।
तस्यापि साधने बाधः ।
प्रमाणस्य वक्ष्यमाणत्वात् ।
असत्यावरणादौ प्रागूर्ध्वं चानुपलम्भो लिङ्गमिति चेत् ।
अनुपलम्भः किं प्रत्यक्षेणोत प्रमाणमात्रेण ।
नाद्यः ।
योग्यतया विशेषणे ऽसिद्धेः ।
अन्यथा गगनादिना व्यभिचारात् ।
द्वितीये त्वसिद्धिः ।
आगमादिनोपलब्धेः ।
एतेनावरणाद्यभावे सति कदाचिदेवोलब्धिरपि प्रत्युक्ता ।
वर्णनित्यत्ववादे ऽनैकान्त्याच्च ।
किञ्च नित्यो ऽपि ईश्वरपरिस्पन्दः कदाचिदभिव्यक्तेः कदाचिदेवोपलभ्यत इत्यङ्गीकारे न बाधकं पश्यामः ।
व्यक्तिरप्यादिग्रहणेन गृह्यत इति चेन्न ।
सन्दिग्धविशेषणासिद्धेः ।
अस्तु तर्हि फलानुपलम्भो लिङ्गमिति चेन्न ।
सर्वथानुपम्भस्यासिद्धत्वात् ।
न हीश्वरपरिस्पन्दक्रिया कदापि न संयोगविभागलक्षणं फलं जनयतीति युज्यते ।
तथा सति परिस्पन्दत्वानुपपत्तेः ।
नित्यसंयोगविभागजन्मानुपलब्धेरिति चेन्न ।
नित्यगुणादिना व्यभिचारात् ।
कदाचिदेव संयोगादिजन्म विवक्षितमिति चेत् ।
तथापि गगनादिना व्यभिचारः ।
कदाचिदेव संयोगाद्यसमवायिकारणत्वमस्त्विति चेन्न ।
कदाचिदिति विशेषणवैयर्थ्यात् ।
तत्परित्यागे ऽप्यसमवायिकारणत्वस्य दुर्निरूपत्वेनासिद्धेः ।
३,६३८
किञ्च द्वितन्तुकारम्भके(वयवे)तन्तौ कर्मोत्पन्नं तन्त्वन्तराद्विभागं करोति ।
ततो द्वितन्तुकारम्भकसंयोगविनाशः ।
तन्नाशे द्वितन्तुकविनाशः ।
अथेदानीं तन्तोः कार्यसंयुक्तप्रदेशविभागः ।
ततश्चोत्तरदेशसंयोगः ।
तस्मात्कर्मणो विनाश इति परेषां प्रक्रिया ।
एवं च यथानेककालवर्तिन्यपि क्रिया कदाचित्संयोगाद्यारभते न यावत्सत्त्वम् ।
तथा नित्यापि कदाचित्संयोगाद्यारभतां को विरोधः ।
सामान्यवत्त्वे सत्यस्मदादिबाह्येन्द्रियग्राह्यत्वं हेतुरस्त्विति चेन्न ।
विशेष्यासिद्धेः ।
बाह्येन्द्रियग्राह्यसजातीयत्वस्य परमाण्वादौ व्यभिचारात् ।
किञ्च वर्णनित्यत्वे स्फुटो ऽस्य व्यभिचारः ।
नाप्यागमादीश्वरक्रियानित्यतावगतिः ।
स हीश्वरक्रियानित्येत्येवमात्मको वा, स इमान्लोकानसृजतेत्येवमात्मको वा ।
आद्यस्तु नोपलभ्यते ।
द्वितीयस्तु स ऐक्षत सो ऽकामयतेत्यादिना तुल्यः ।
तत्र यदि क्रियाया अनित्यत्वं, ज्ञानादेरपि कुतो न भवेदिति ।
अस्तु तर्हि नित्यत्वे बाधकसद्भावादिति द्वितीयः पक्षः ।
तथा हि ।
यदि सृष्टिसमये ऽपि संहारक्रिया विद्येत तदा तथैव श्रुत्यादावुपलभ्येत ।
जननविनाशौ च घटस्य युगपत्प्रसज्येयाताम् ।
किञ्च यदीश्वरक्रिया नित्या स्यात्तर्हि क्रियायाः संयोगविभागौ प्रति अनपेक्षकारणत्वात्तदुत्पत्तिसातत्यप्रसङ्गः ।
अपि चेश्वरक्रिया संयोगविभागौ करोति न वा ।
नेति पक्षे क्रियात्वं व्याहन्येत ।
आद्ये ऽपि किं स्वसत्तोत्तरक्षणे उत विरम्य ।
नाद्यः ।
स्वसत्ताया इदं प्रथमताभावेन संयोगादिविशेषस्य विवक्षितक्षणादपि पूर्वमुत्पत्तिप्रसङ्गात् ।
न द्वितीयः ।
पूर्वोत्तरावस्थयोरविशिष्टस्य विरम्यव्यापारायोगात् ।
उत्तरसंयोगस्य कर्मविनाशकत्वेन कृतसंयोगस्य कर्मणो ऽवस्थानानुपपत्तेश्चेत्यत उक्तं शक्तयात्मनेति ।
अयमर्थः ।
तत्तत्कार्यजननशक्तिरेव क्रियेत्युच्यते ।
अतः तेन रूपेण स्थिरा सा यदा व्यज्यते तदा व्यवहारालम्बनं तत्तत्कार्यजननी च भवतीति न कश्चिद्दोष इति ।
क्रिया शक्तयात्मना व्यक्तिशक्तिरूपेण कारणेनेति वा ।
३,६४१
ननु केयं शक्तेर्व्यक्तिर्नाम ।
न तावत्प्रतीतिः ।
ईश्वरापेक्षया नित्यसिद्धत्वेनोक्तदोषानुशक्तेः ।
परापेक्षया कदाप्यभावात् ।
भावे ऽपि कार्योत्पादस्य तदनपेक्षत्वात् ।
अत एव नावरणनिवृत्तिर्व्यक्तिरिति ।
मैवम् ।
व्यक्तिशब्देन शक्तेरेवावस्थाविशेषस्य विवक्षितत्वात् ।
तत्र यत्तावदुक्तम् ।
यदि सृष्टिसमये ऽपि संहारक्रिया स्यात्तदा तथा व्यवह्रियेतेति ।
तदसत् ।
व्यक्तिरूपेणैव व्यवहारालम्बनत्वात् ।
यदपि जननविनाशौ युगपत्स्यातामिति तदपि व्यक्तयवस्थायामेव शक्तेर्जनकत्वादनुपपन्नम् ।
यच्च क्रियाया नित्यत्वे संयोगविभागोत्पत्तिसातत्यप्रसञ्जनं तदप्येवमेव परिहृतम् ।
किञ्चैवं पटसामग्षाः पटोत्पत्तावनपेक्ष(कारण)त्वात्पटोत्पत्तिसातत्यं स्यात् ।
ननु किं सामग्री तमेव पटं पुनर्जनयतु(येत्), उत पटान्तरम् ।
नाद्यः ।
पटप्रागभावस्यापि सामग्रीनिविष्टत्वात्तस्य च पटोत्पत्त्या विनष्टत्वेन सामग्षा विकलत्वात् ।
न द्वितीयः ।
पूर्वपटेन प्रतिबद्धत्वात् ।
तत्कथं पटोत्पत्तिसातत्यम् ।
सत्यम् ।
सममेतत्प्रकृते ऽपीति ।
यदपीश्वरक्रिया संयोगविभागौ करोति न वेति पृष्ठम् ।
तत्र करोतीति ब्रूमः ।
कुवर्न्ती च विरम्यैव ।
नच तदनुपपत्तिः ।
व्यक्तया विशिष्टत्वात् ।
अन्यथावयवक्रियाप्युत्तरदेशसंयोगं स्वोत्पत्त्युत्तरक्षण एव कुर्यात् ।
नच कृतसंयोगस्य कर्मणो ऽवस्थानानुपपत्तिः ।
अनित्यक्रियासु तद्वयवस्थोपपत्तेः ।
३,६४३
ननु संहारकाले क्रिया व्यक्ता (अथ) न वा ।
न चेत्कथं तत्र व्यवहारो ऽर्थक्रिया वा ।
आद्ये कथं सृष्टिव्यवहाराद्यभावः ।
मैवम् ।
व्यक्तेरप्यवान्तरानन्तविशेषवत्ताङ्गीकारात् ।
तदिदमुक्तम् सविशेषो ऽपीति
एवमनङ्गीकारे परेषामपि समानः प्रसङ्गः ।
पारमेश्वरस्य ज्ञानेच्छाप्रयत्नलक्षणस्य संहारव्यापारस्य नित्यत्वात् ।
नित्यमपि परमेश्वरेच्छादिकं सहकारिसद्भाव एव कार्यकारीति चेन्न ।
सहकारिणमपि नित्यत्वात्, परमेश्वरेच्छाद्यायत्तत्वाच्च ।
नेच्छादिमात्रं संहारादिकारणं किन्तु सञ्जिहीर्षादिकम् उत संहारादिविशेषविशिष्टं तदेव ।
नाद्यः ।
अनभ्युपगमात् ।
तत एव संहारादिसिद्धाविच्छादिकल्पनावैयर्थ्याच्च ।
सञ्जिहीर्षादेश्च नित्यानित्यविकल्पानुपपत्तेः ।
न द्वितीयः ।
सति संहारादौ सञ्जिहीर्षादिकं ततः संहारादिरिति परस्पराश्रयप्रसङ्गात् ।
नच स्वरूपसता संहारादिनेच्छादिकमुपधीयते ।
किन्तु विषयभूतेनेति चेत् ।
संहारादिविषयता किमागन्तुकी, अथवा नित्येति वक्तव्यम् ।
नाद्यः ।
गुणेष्वागन्तुकधर्मोत्पत्तेरनभ्युपगमात् ।
द्वितीये तु सर्वदा संहारादिप्रसङ्गः ।
तस्माच्छक्तिव्यक्तिरूपता सर्वथानुसरणीया ।
सा च समा क्रियायामपीति ।
३,६४६
ननु पारमेश्वरी ज्ञानादिलक्षणा संहारादिक्रिया परेणापि नित्येत्यङ्गीकृतम् ।
परिस्पन्दलक्षणा तु नास्त्येव ।
तस्माद्वयर्थो ऽयं प्रयत्नः ।
मैवम् ।
परिस्पन्दाभावे प्रमाणाभावात् ।
परममहत्परिमाणमस्तीति चेत्, न, अणु मध्यमपरिमाणाभ्यां सत्प्रतिपक्षत्वात् ।
नच, ते न स्तः ।
परममहत्त्वे ऽपि तथा वक्तुं शक्यत्वात् ।
‘अणोरणीयान्महतो महीयान् इति द्वयोरपि श्रौतत्वात् ।
अणोरणीयस्त्वमप्रत्यक्षत्वोपलक्षणमिति चेत् ।
महतो महत्त्वमपि परमपूज्यत्वमिति किं न स्यात् ।
विरोधादुभयाङ्गीकारो नोचित इति चेत् तर्हि प्रथमप्राप्तत्वादणुत्वमेव ग्राह्यम् ।
परिहरिष्यते चायं विरोध इति ।
३,६४८
शक्तिता व्यक्तिता चेति विशेषो ऽपि … (अनुव्याख्यानम्)१,२.६च्द्
न्यायसुधा-
ननु (च)क्रियायाः शक्तिव्यक्तिरूपे परस्परं भिन्ने ऽभिन्ने वा ।
आद्ये शक्तिरेव नित्या क्रियात्वनित्येत्यापन्नम् ।
द्वितीये त्वनिवृत्तः सदा व्यवहारादिप्रसङ्ग इत्यत आह शक्तितेति ।
अभिन्ने एव शक्तिव्यक्ती ।
न चोक्तदोषः ।
यतस्तत्र शक्तितेति व्यक्तितेति च विशेषो ऽप्यस्ति ।
सच भेदकार्यनिर्वाहक इति च प्रागेवोक्तमिति ।
स च विशेषः परस्परं विशेषिणा च यदि भिन्नः, तदा शक्तिव्यक्तयोरपि किं भेदो न स्यात् ।
अथाभिन्नः पुनर्व्यवहारादिसाङ्कर्यमित्यत आह विशेषवानिति
… विशेषवान् (अनुव्याख्यानम्)१,२.६द्
अभिन्नो ऽपि … (अनुव्याख्यानम्)१,२.७अ
न्यायसुधा-
विशेष इत्यनुवर्तते ।
अभिन्न एवायं विशेष इति ब्रूमः ।
न चोक्तानुपपत्तिः ।
यतो ऽभिन्नो ऽपि विशेषवानङ्गीक्रियते ।
स्वनिवर्हक(?) इत्यर्थः ।
नन्वेवमन्यत्रापि क्रियाया नित्यत्वमङ्गीकतर्व्यम् ।
शक्तिव्यक्तिस्वीकारेण सकलदोषपरिहारादिति चेत् ।
अङ्गीक्रियतां यदि तन्नित्यतायां प्रमाणमस्ति ।
सति निर्बाधे प्रमाणे, तद्विपरीतव्यवहारेषु च तदन्यथानुपपत्त्या कल्पनैषा भवति ।
नच घटादिक्रियाया नित्यत्वे निर्बाधं प्रमाणमस्ति ।
अस्ति तु परमेश्वरादिक्रियाया नित्यत्वे तदित्याह क्रियादिश्चेति
… क्रियादिश्च स्वभाव इति हि श्रुतिः (अनुव्याख्यानम्)१,२.७अब्
न्यायसुधा-
एतेन तृतीयो ऽपि निर(परा)स्तः ।
‘परास्य शक्तिर्विविधैव श्रूयते स्वाभाविकी ज्ञानबलक्रिया च’ इति श्रुतिमनेनोपलक्षयति ।
स्वाभाविकीउयावद्द्रव्यभाविनी ।
अत्र स्पष्टां च श्रुतिमाह ज्ञानमिति
ज्ञानं नित्यं क्रिया नित्या बलं शक्तिः परात्मनः (अनुव्याख्यानम्)१,२.७च्द्
३,६४९
इति पैङ्गिश्रुतिश्चाह … (अनुव्याख्यानम्)१,२.८अ
न्यायसुधा-
अथवा पूर्वा श्रुतिः शक्तिरेव क्रियेत्यत्र पठिता उत्तरा तु क्रियाया नित्यत्वे ।
यद्वा, पूर्वा स्वरूपत्वे ।
तस्य विवादास्पदत्वात्(त्वे) ।
द्वितीया तु तद्धेतौ नित्यत्व इति ।
अस्त्वेवमीश्वरक्रिया नित्या ।
अन्यक्रिया किमनित्यैवेत्यतो विवेकं प्रमाणान्तरेण दर्शयति शक्तीति
… शक्तिसद्भाव एव तु ।
क्रियादिनित्यता ज्ञेया तदन्यत्र त्वनित्यता (अनुव्याख्यानम्)१,२.८ब्द्
इति सत्तत्त्ववचनं … (अनुव्याख्यानम्)१,२.९अ
न्यायसुधा-
सद्भावे=नित्यत्वे ।
आदिपदेन ज्ञानादिग्रहणम् ।
अथवा नित्यतेति स्थायित्वमुच्यते ।
ततश्च ज्ञानक्रियादिशक्तिः यावत्कालभाविनी तावत्कालभावि ज्ञानादिकमपीत्युक्तं भवति ।
३,३५१फ़्.
स्वरूपसहकारिसमवधानातिरिक्ता शक्तिरेव नास्तीति केचित् ।
तेषामुदाहृतश्रुत्यादिविरोधः ।
नच तत्स्वरूपमात्रम् ।
सम्बन्धितया प्रतीतेः ।
नापि सहकारिपरम् ।
स्वाभाविकत्वादिश्रवणात् ।
किं चास्ति तावदित्थं व्यवहारः ।
स्फोटादिकार्यं प्रति शक्तिमानपि दहनो देहसंयोगादिसहकारिविरहात् न तदजीजनदिति ।
तत्र न तावच्छक्तिशब्देन वह्निस्वरूपमात्रमुच्यते ।
मतुपो वैयर्थ्यप्रसङ्गात् ।
नापि सहकारिसमवधानं तदभावस्योक्तत्वात् ।
दहनत्वसामान्यमेव शक्तिरिति चेत् ।
कथं तर्हि स्वरूपसहकारिसमवधानातिरिक्ता नास्ति ।
सामान्यमपि सहकारिवर्गान्तर्गतमिति चेत् ।
तत्किं प्रत्यक्षमप्रत्यक्षं वा ।
आद्ये दहनदर्शने स्फोटजननशक्तिजिज्ञासा न स्यात् ।
न द्वितीयः ।
अपसिद्धान्तापातात् ।
तथाभ्युपगमे वा सैव शक्तिरस्माकम् ।
किञ्च मृत्तन्त्वादिस्वरूपं प्रत्यक्षादिसिद्धम् ।
तस्य घटादिकारणत्वं तु अन्ववव्यतिरेकसमधिगम्यम् ।
अन्वयव्यतिरेकग्रहणोपायश्च सामान्यम् ।
तच्च प्रत्यक्षादिसिद्धमिति परेणापि स्वीकृतम् ।
नच कारणत्वं स्वरूपं, सहकारिसमवधानं वा ।
स्वरूपस्यान्वयव्यतिरेकानपेक्षाधिगतत्वात् ।
कारणस्यैव सहकारिसमवधानान्वेषणात् ।
ततो ऽतीन्द्रियमेव किञ्चिन्मृदादीनां घटादिकारणत्वमभ्युपगमनीयम् ।
तदेव शक्तिरिति शक्तिवादिभिरभ्युपेयत इत्यास्तां प्रपञ्चः ।
३,६५६
ननु च क्रियायां किं प्रमाणम् ।
प्रत्यक्षद्रव्यवर्तिन्यां प्रत्यक्षमेवेति ब्रूमः ।
चलतीत्यपरोक्षावभासदर्शनात् ।
इन्द्रियव्यापारान्वयव्यतिरेकानुसारित्वात् चलतिप्रत्ययस्य ।
अन्यथा रूपादेरप्यप्रत्यक्षत्वापातात् ।
अथ मतम् ।
न कर्म प्रत्यक्षम्, प्रत्यक्षेण गच्छति द्रव्ये विभागसंयोगातिरिक्तविशेषानुपलब्धेः ।
यस्त्वयं गच्छतीति प्रत्ययः, स संयोगविभागानुमितक्रियालम्बनः ।
अनुमापकसंयोगविभागावगर्माथर्श्चेन्द्रियव्यापार इति ।
तदयुक्तम् ।
क्रियाप्रतीतेरनुमितित्वं इन्द्रियव्यापारस्य चान्यत्रोपक्षीणत्वं अप्रत्यक्षतायां प्रमाणतः सिद्धायां कल्प्यते अन्यथा वा ।
नाद्यः ।
प्रमाणाभावात् ।
यदुक्तमनुपलब्धेरिति ।
तदसिद्धम् ।
वाद्यसिद्धेः ।
न ह्यपरोक्षावभासमङ्गीकुर्वाणो ऽनुपलब्धेरित्येतावता शक्यो बोधयितुम् ।
घटादावपि तथा प्रसङ्गात् ।
विवादपदं कर्म, अप्रत्यक्षं कर्मत्वात्परमाणुकर्मवदिति चेन्न ।
परमाणुकर्मणो ऽप्यस्माभिर्योगिप्रत्यक्षताङ्गीकारात् ।
तदर्थमस्मदादीति विशेषणोपादाने परस्य वैयर्थ्यम् ।
किञ्च विवादपदं रूपम् अप्रत्यक्षं, रूपत्वात्, परमाणुरूपवदिति किं न स्यात् ।
प्रतीतिविरोधान्नेति चेत् ।
समं प्रकृते ऽपि ।
अनुमानविरुद्धा कमर्प्रत्यक्षताप्रतीतिः अप्रमेति चेत् ।
रूपप्रत्यक्षताप्रतीतिरपि तथास्तु ।
प्रतीतिविरुद्धे ऽर्थे ऽनुमानमेव नोदेतेतीति चेत् ।
एतदपि तुल्यम् ।
३,६५८
अथ ब्रूषे ।
परमाणुरूपस्याप्रत्यक्षतायामाश्रयामहत्त्वं प्रयोजकमिति ।
तन्न ।
परमाणोरपि महत्त्वस्य वक्ष्यमाणत्वात् ।
किं च परमाणुकर्माप्रत्यक्षतायामपि तदेव प्रयोजकं किं न कल्प्यम् ।
यदि तर्हि कर्म प्रत्यक्षम्, एकस्यामपि कर्मव्यक्तावुत्पन्नायां चलतीतिप्रत्ययः स्यात्, इति चेत् ।
न, संयोगविभागयोरपि तुल्यत्वात् ।
तथाच न कर्मानुमानमपि स्यात् ।
अथ मन्यसे सेनावनादिवत् संयोगविभागयोः प्रत्यक्षतोपपत्तिरिति ।
तर्हि कर्मणो ऽपि तथा किं न स्यात् ।
न द्वितीयः ।
तन्तवो न प्रत्यक्षाः किन्तु पटकार्यानुमेयाः ।
पटग्रहण एव च इन्द्रियव्यापारोपयोग इत्यपि कल्पनाप्रसङ्गात् ।
३,६६०फ़्.
अपि(?) च संयोगविभागौ द्वयाश्रयाविति परस्य मतम् ।
अस्माकमपि संयोगविभागद्वयं द्वयाश्रयमिति ।
ताभ्यां चानुमीयमानं कर्मोभयत्रानुमातव्यम् ।
तथाच श्येन इव स्थाणावपि चलतीतिप्रत्ययप्रसङ्गः ।
अथोच्येत, न क्रिया स्थाणावनुमीयते, किं नाम श्येन एव ।
निपततः श्येनस्य पूर्वदेशविभागोत्पत्तौ उत्पततश्चोत्तरदेशसंयोगजनने स्थाणुकर्मणः कारणतायोगात् ।
श्येने तु कर्मण्यनुमिते, तस्योपपद्येते देशान्तरसंयोगविभागाविति ।
तदनुपपन्नम् ।
स्थाणुकर्मणा हि श्येनस्य देशान्तरसंयोगविभागोत्पत्त्यनुपपत्तौ कर्मान्तरमेव तदनुगुणं श्येने कल्पनीयं स्यात् ।
स्थाणुकर्मानुमानस्य तु कुतो निवृत्तिः ।
यद्गतं हि कार्यमुपलभ्यते तद्गतं कारणमपीत्यौत्सर्गिको न्यायः ।
श्येनकर्मणैव कल्पितेन सर्वस्योपपत्तौ न स्थाणुकर्मोपयोग इति चेन्न ।
विकल्पानुपपत्तेः ।
तथाहि, किं व्याप्तिपक्षधर्मतावदप्युपयोगे सत्येव लिङ्गमनुमापकं इत्येतावत्यनुमानसामग्री, उत व्याप्तिपक्षधर्मतावत्त्वमात्रम् ।
नाद्यः, अकार्यकारणानुमानोच्छेदप्रसङ्गात् ।
किञ्च यो येननाविनाभूतः स क्वचिदुपलभ्यमानो ऽनुपयोगात्तं न गमयतीत्यलौकिकम् ।
द्वितीये तु कथं न स्थाणौ कर्मानुमानम् ।
अनुमितमपि कल्पनागौरवभयादपनीयत इति चेत्(न) प्रमाणसिद्धे ऽर्थे तद्भयाभावात् ।
३,६६३फ़्.
नन्वीश्वरानुमाने ऽपि अनेकेश्वरकल्पना एवं सति स्यात् ।
न स्यात् ।
वैषम्यात् ।
कार्यत्वं हि क्षित्यादीनां कर्तृत्वमात्रमवगमयत्तदेकत्वानेकत्वयोरुदासीनमेव ।
ततस्तदनेकत्वशङ्कायां कल्पनागौरवपराहतायामेकत्वे पर्यवस्यति ।
इह तु संयोगविभागलक्षणेन कार्येण स्थाणावेव कर्मण्यनुमिते कथं कल्पनागौरवेण तदपनयनम् ।
अथोच्येत ।
अन्यथाप्युपपत्तेर्न स्थाणौ कर्मानुमानं, न चायमर्थापत्तिदोषो नानुमानस्येति वाच्यम् ।
अन्यथाप्युपपत्तिशङ्कायामनुमाने ऽपि व्याप्तिसन्देहापत्तेरिति, तदनुपपन्नम् ।
अत्र हि स्थाणौ प्रतीतौ संयोगविभागावकारणकावेव स्यातामिति वा शङ्कनीयम् ।
श्येनगतेनैव कर्मणा भवेतामिति वा ।
नाद्यः, व्याहतायाः शङ्काया अनुत्थानात् ।
न द्वितीयः, तत्तदवयवगतपरित्यागेनान्यगतस्य कारणतायाः क्वाप्यनुपलब्धत्वेन निर्मूलायाः शङ्काया अनुदयात् ।
कर्मैव तथा विधमुपलब्धमिति चेन्न ।
तस्येदानीं कल्पयमानत्वात् ।
प्रत्यक्षकर्मवादे तु नायं दोषः ।
प्रतिपन्नतत्स्वभावानुसरणसम्भवात् ।
किञ्च संयोगादिना क्रियानुमाने यावत्सत्त्वं चलति प्रत्ययप्रसङ्गः ।
संयोगेन क्रियाविनाशान्नेति चेन्न ।
क्रियानाशस्याप्यप्रत्यक्षतावादे दुरवबोधत्वात् ।
नहि कार्यजन्म कारणविनाशेन व्याप्तम् ।
येन संयोगोत्पत्त्या कर्मविनाशो ऽनुमीयेत ।
पटोत्पत्तावपि तन्तुसंयोगादेरविनाशात् ।
नापि संयोगजननं क्वापि कर्मविनाशाविनाभूतमनुभूतम् ।
कर्मावस्थाने सदा संयोगाद्युदयसमासत्तिरिति चेत् ।
तत्किं यावत् कारणं तावत् कार्यान्तरजननम् ।
मा हि भूत् यावत्तन्तुसंयोगसद्भावं पटपरम्परोत्पादः ।
यावत्कर्मसद्भावं संयोगोत्पादस्तु न निश्चितः ।
अपि चाप्रत्यक्षे व्योम्नि संयोगविभागावपि अप्रत्यक्षाविति पतति पतत्री गगन इति प्रत्ययो न स्यात् ।
वियति विततालोकावयविनि बहुविहगविभागसंयोगनिबन्धनो ऽसौ प्रत्यय इति चेत् ।
तथापि दीपिकाऽलोकगतिप्रतीतेरशक्यत्वापरिहारात् ।
३,६६७फ़्.
किं चान्धकारे नयनादि(परि)स्पन्दप्रतिभासो दुर्घटः स्यात् ।
यदि च मार्तण्डमण्डलस्येव देवदत्तस्यापि गतिरनुमेया स्यात् तदोभयत्रापि चलतिप्रत्ययः स्यात् ।
न वा कुत्रचित् ।
विशेषकारणाभावात् ।
अपि च कार्मकारणादेव संयोगविभागोत्पत्त्युपपत्तौ किं मध्ये कर्मकल्पनयेत्यनवक्ळ्प्तिरेव कर्मणः ।
न संयोगाद्युत्पत्तिः कर्मकारणात्सम्भवति ।
तस्य संयोगविशेषादेः स्वाश्रये तत्समवेते वा कार्यारम्भकत्वस्यान्यत्र निश्चितत्वात् ।
शरीरात्मसंयोगो हि शरीरकर्मकारणम् ।
कथं तस्माच्छरीराकाशदेशसंयोगविभागौ भवतः ।
एवमन्यत्रापि द्रष्टव्यमिति ।
मैवम् ।
तथा सति संयोगविशेषादेः कर्मकारणत्वस्याप्यभावप्रसङ्गात् ।
नहि परस्परं तन्तुसंयोगस्य क्रियाहेतुत्वमस्ति ।
संयोगमात्रस्य तदभावे ऽपि तद्विशेषस्य स्यादिति चेत्, तर्हि तथैव परत्रारम्भकत्वमपि कुतो न स्यात् ।
किं चैवं सति कर्मणो ऽपि कथमाश्रयाश्रयिसमवेतपरित्यागेनान्यत्र संयोगादिजनकत्वम् ।
तस्य तथाविधकार्यगम्यस्य तथैव प्रमितत्वादिति चेत् ।
कर्मकारणस्यैवायमवान्तरभेदमाश्रित्य स्वभावः कल्प्यताम् ।
धर्मकल्पनात्खलु धर्मिकल्पना गरीयसी ।
तस्मात्प्रत्यक्षाश्रितं कर्म प्रत्यक्षमेवेति स्थितम् ।
इति श्रीमन्न्यायसुधायां अत्तृत्वाधिकरणम्


__