द्वितीयपादस्य पूर्वोत्तरपादभेदस्य स्वस्मिन्नेकवाक्यतायाश्च सिद्धये प्रतिपाद्यमर्थं दर्शयति लिङ्गात्मकानामिति
लिङ्गात्मकानां शब्दानां वृत्तिर्नारायणे परे ।
चिन्त्यते … (अनुव्याख्यानम्)१,२.१अच्
न्यायसुधा-
लिङ्गं धर्मः स आत्मेवात्मा प्रवृत्तिनिमित्तं येषां ते लिङ्गात्मकाः ।
स्वरूपार्थो वाऽत्मशब्दः ।
निमित्तनिमित्तिनोरभेदोपचारात् ।
सकलवेदगतानामन्यत्रप्रसिद्धानामिति शेषः ।
३,५९२
नन्वतीतपादे समन्विता अपि लिङ्गात्मका एव ।
यौगिकत्वात् ।
अन्यथा गुणपूर्त्यलाभेन समन्वयसमर्थनवैयर्थ्यात् ।
नच प्रकरणगतगुणलाभेन सार्थक्यात् ।
वचनवृत्त्यङ्गीकारवैफल्यात् ।
उक्तं च यच्छब्दा योगवृत्तय इति ।
तत्कथमयं विभागः ।
सत्यम् ।
तथाप्यन्यत्रप्रसिद्धत्वादिवदापातप्रतीत्यनुरोधेनेयमुक्तिरित्यदोषः ।
वृत्तिर्लक्षणादिरपि भवतीत्यतः परे मुख्यार्थ इत्युक्तम् ।
तथाच मुख्यवृत्तिरिति लभ्यते ।
चिन्त्यते समर्थ्यते ऽस्मिन्पाद इति शेषः ।
३,५९४
ओं सर्वत्रप्रसिद्धोपदेशात् ओं
केचिन्मनोमयः प्राणशरीरो भारूप इत्युक्तं मनोमयत्वादिनोपास्यत्वं परमात्मनः प्रतिपादयितुमिदमधिकरणमिति व्याचक्षते ।
तदसदित्याशयवानाह सर्वगत्वमिति
सर्वत्र प्रसिद्धोपदेशात् । ब्ब्स्_१,२.१ ।
… सर्वगत्वं तु प्रथमं प्रविचार्यते (अनुव्याख्यानम्)१,२.१च्द्
न्यायसुधा-
तुशब्दो ऽवधारणे ।
एतमस्यामेतं दिवीत्यादिवाक्योक्तं सवर्गतत्वमेवात्र पादे प्रथमं परमेश्वरस्य समर्थ्यते ।
नतु मनोमयत्वादिनोपास्यत्वमित्यर्थः ।
सत्यकामत्वादिपरमेश्वरधर्माणां स्फुटप्रतिभासत्वेन सन्देहाद्यनुपपत्तेरिति भावः ।
ननु मनोमयत्वादयः शारीरधर्मा अपि प्रतीयन्त इति चेन्न ।
तेषामानन्दमयाधिकरणन्यायेन सावकाशत्वात् ।
चरमप्रतीतेनापि निरवकाशेन प्रथमप्रतीतस्य सावकाशस्यान्यथात्वोपपत्तेः ।
३,५९६
ननु कथं तर्ह्यस्माकमपि चक्षुर्मयत्वादीनि पूर्वपक्षप्रापकाणि ।
उच्यते ।
हेत्वन्तरेण पूर्वपक्षे सत्यभ्युच्चयमात्रत्वेन तेषामुपन्यासः ।
यथा परस्येक्षत्यधिकरणे प्रायपाठे निरस्ते ऽप्यभ्युच्चयमात्रत्वेन प्राणाधिकरणे तदुपन्यासः ।
३,५९८
सर्वगतत्वप्रतिपादनस्य प्रकृतोपयोगं दशर्यति तत्रेति
तत्र तत्र स्थितो विष्णुस्तत्तच्छक्तिप्रबोधकः (अनुव्याख्यानम्)१,२.२अब्
३,५९९
न्यायसुधा-
प्रबोधनं कार्याभिमुखीकरणम् ।
तत्किं दूरे स्थितः शक्तिप्रबोधने न शक्तो येन तत्रतत्र तिष्ठतीत्यत उक्तम् दूरतो ऽपीति
दूरतो ऽप्यतिरिक्तः स लीलया केवलं प्रभुः (अनुव्याख्यानम्)१,२.२च्द्
इति ज्ञापयितुं … (अनुव्याख्यानम्)१,२.३अ
न्यायसुधा-
यद्यपि स प्रभुर्विष्णुर्दूरतो ऽपि तत्तच्छक्तिप्रबोधने ऽतिशक्तस्तथापि केवलं लीलया तत्रतत्र स्थितस्तत्तत्तच्छक्तीनां प्रबोधको भवतीति ज्ञापयितुं
सर्वगतत्वमिह प्रविचार्यत इति सम्बन्धः ।
एतदुक्तं भवति ।
स्वनिर्गमप्रवेशाभ्यां देहपातनोत्थापनमित्याद्या मुख्यप्राणादिशक्तयस्तदन्तर्गतभगवदायत्ता इति प्रागुक्तम् ।
तदनुपपन्नम् ।
भगवतः सर्वगतत्वाभावात् ।
शास्त्रैकसमधिगम्यं खलु (हि) तत् ।
शास्त्रं चैतमस्यामित्यादिकमन्यपरमित्याशङ्कयोक्तार्थसमर्थनाय सर्वगतत्वमत्र हरेरुपपद्यत इति ।
अथवा न सर्वगतत्वं हरेरुपपादनीयम् ।
तस्यानन्दादिवत्स्रष्टृत्वादिवद्वा गुणत्वाभावादित्याशङ्कय न सवर्गतत्वं नाम सर्वसंयोगित्वमात्रमिह विवक्षितम् ।
किं नाम तत्तच्छक्तिप्रेरकत्वेन ।
अतस्तदुपपादनमुपपद्यत इत्यनेनोच्यते ।
अथवा न सर्वगतत्वमत्र प्रतिपादनीयम् ।
अदृश्यत्वाद्यधिकरणे तस्य प्रतिपादयिष्यमाणत्वादित्याशङ्कय तत्र सवर्गतत्वमात्रमत्र तु तत्तच्छक्तिप्रबोधकत्वमिति तात्पर्यभेदो ऽनेनोच्यते ।
अथवा अन्तर्याम्यधिकरणे पृथिव्यादिषु स्थितेवर्क्ष्यमाणत्वान्नेदमारम्भणीयमित्याशङ्कयात्र शक्तिप्रेरकत्वेन तत्र तु सत्तादिप्रदत्वेन
तत्तदन्तर्गतत्वमुच्यत इत्यनेनाचष्टे ।
अथवा अन्तःस्थत्वाधिकरणेनेदं गतार्थमित्याशङ्कय तत्र चन्द्रादिकतिपयपदार्थान्तरस्थितत्वम् अत्र तु सर्वपदार्थान्तर्गतत्वमभिधीयत इति
प्रतिपाद्यभेदमेतेनाह ।
अथवा ।
सर्वगतत्वं नाम सर्वमूर्त(द्रव्यसंयोगित्वं वा) परममहत्परिमाणयोगित्वं वा (सु)प्रसिद्धम् ।
तदत्र यदि साध्यं स्यात्तदा ऽर्भकौकस्त्वादित्याक्षेपानुपपत्तिरदृश्यत्वाद्यधिकरणेन गतार्थता ए(?)चेत्याशङ्कय सर्वगतत्वमन्यथानेन व्याचष्टे ।
३,६०१
तत्तच्छक्तिप्रबोधक इति कथम् ।
कर्तरि चेति समासप्रतिषेधात् ।
न ।
याजकादिभिश्चेति प्रतिप्रसवात् ।
यद्वा ।
प्रकृष्टो बोधो यस्मादिति वा पचाद्यजन्तत्वेन वा प्रबोधः ।
शक्तीनां प्रबोधः शक्तिप्रबोधः ।
ततश्च’अज्ञातः’ इति कप्रत्यय इति ।
३,६०४
अत्र सूत्रम् कर्मकर्तृव्यपदेशाच्चेति
अस्यार्थः ।
आत्मानं परस्मै शंसतीति शंसनक्रियायामात्मनः सर्वगतस्य कर्मत्वेन शरीरस्य कर्तृत्वेन व्यपदेशाच्च न शारीरो ऽयं सर्वगतः ।
एकस्यां क्रियायां कर्मकर्त्रोरेकत्वायोगात् ।
नहि देवदत्तः छिदायां कर्ता कर्मापि भवतीति ।
तत्र किं कर्मकर्तृभावो भेदव्याप्त उत नेति ।
नाद्यः ।
नियामकाभावेन व्याप्तेरनिश्चयात् ।
स्यादेतत् ।
क्रियाश्रयः कर्तेति तावत्प्रसिद्धम् ।
परसमवेतक्रियाजन्यफलशालिकमरेत्युच्यते ।
यथा देवदत्तसमवेतगतिक्रियाफलसंयोगशाली ग्रामः ।
क्रियाफलशालित्वेनैव कर्मत्वे संयोगशालिनो देवदत्तस्यापि तत्प्रसङ्गः ।
तथात्वे च देवदत्तं ग्रामं गच्छतीति द्वितीया स्यात् ।
अतो लक्षणविरोधात्कर्मकर्त्रोर्भेदो नियत इति ।
३,६०६फ़्.
मैवम् ।
यतो देवदत्तो ग्रामं गच्छति तस्यापि देवदत्तसमवेतगतिक्रियाफलविभागशालित्वेन कर्मत्वप्रसङ्गात् ।
तथाच देवदत्तः कौशाम्बीं पाटलीपुत्रं गच्छतीति प्रयोगः स्यात् ।
किं चानागतादिविषयेच्छादिक्रियाफलशालित्वमनागतादेर्नास्तीति तत्कर्मत्वं न स्यात् ।
नहि तदभावे तत्र फलोत्पादः सम्भवति ।
मा भूदिति चेन्न ।
इच्छादीनां सकर्मकत्वव्याघातात् ।
तद्वाचिनो द्वितीयानुपपत्तिप्रसङ्ग(गश्च)गाच्च ।
वर्तमाने ऽपि घटादौ न ज्ञानादिजन्यं फलमुपलभ्यते ।
तथाहि ।
न तावज्ज्ञातता ।
निराकरिष्यमाणत्वात् ।
इच्छादीनां तदजनकत्वाच्च ।
नापि संस्कारादिकम् ।
तस्यात्मन्येवोत्पादात् ।
नापि व्यवहारः ।
व्यवहारादिरूपस्य तस्य कर्तृनिष्ठत्वात् ।
उपादानादिरूपस्योपेक्षणीयाव्याप्तेः ।
तस्मात्क्रियास्वातन्तृयं कर्तृत्वम् ।
तद्विषयत्वं च कर्मत्वमिति वाच्यम् ।
नच तयोः कमपि विरोधं पश्यामः ।
अन्यथा कर्मकर्तापि दुर्लभः स्यात् ।
किं चास्ति तावत्कारकान्तरसमावेशः ।
कांस्यपातृयाभुङ्क्ते कांस्यपातृयां भुङ्क्त इत्यादिप्रयोगदर्शनात् ।
तथा कर्मकर्त्रोरपि समावेशे को विरोधः ।
३,६१०फ़्.
ननु च दृश्यते तावत्कर्मकर्त्रोर्भेदः ।
नच व्यभिचारो दृश्यते ।
तेन व्याप्तिनिश्चय इति ।
मैवम् ।
दर्शनादर्शनमात्रस्य व्याप्त्यनिश्चायकताया वक्ष्यमाणत्वात् ।
नच व्यभिचारादर्शनमपि ।
मामहं जानामीति तद्दर्शनात् ।
अन्यथा(ऽऽत्म)साक्षात्कारानुपपत्तिप्रसङ्गात् ।
नच नित्यानुमेय एवात्मा ।
साक्षात्कारस्यापन्होतुमशक्यत्वात् ।
कश्चिदाह मानसप्रत्यक्षावसेयो ऽयमात्मा ।
तथापि कर्तृतैवास्य, न कर्मता ।
आत्मकर्तृके ऽहम्प्रत्यये प्रतिभासमात्रेण तदापरोक्ष्यसिद्धेरिति ।
तत् कर्मतातिरिक्तानिरुक्तेः ।
रिक्तमेव वचनम् ।
किं चाहमितिप्रत्ययः सकर्मको न वा ।
नेति पक्षो ऽनुभवविरुद्धः ।
जानातेः सदा सकर्मकत्वावचभासाच्च ।
आद्ये किमस्य कर्मेति वक्तव्यम् ।
न तावदात्मातिरिक्तम् ।
घटादावहम्प्रत्ययादर्शनात् ।
आत्मसम्बन्धि सुखादिकमिति चेन्न ।
तन्मात्र(स्य) कर्मतायामात्मासिद्धिप्रसङ्गात् ।
अहं सुखमित्यादिव्यवहारप्रसङ्गाच्च ।
अथ ज्ञानाश्रयः कर्ता सुखादिविशिष्टः कर्मेति चेत्, (न) ।
आगतं तर्ह्यंशतः कर्मकत्रोरैक्यम् ।
किं च युञ्जानस्य निरुपाधिकमात्मानं पश्यतो ऽहम्प्रत्ययो नान्यकर्मक इत्यकर्मको वाऽत्मकर्मको वाभ्युपगन्तव्यः ।
गत्यन्तराभावात् ।
३,६१४
अपरस्तु घटादिसन्निकृष्टेन चक्षुरादिनोपजनितं विज्ञानं त्रितयप्रकाशरूपं कर्मतया विषयम् ।
स्वप्रकाशतया स्वरूपम् ।
आश्रयतयाऽत्मानं व्यवस्थापयतीति नात्मनः कर्मता, नापि तत्साक्षात्कारासिद्धिरित्याह ।
स प्रष्टव्यः ।
किमिदं ज्ञानस्य स्वप्रकाशत्वं नामेति ।
स्वकर्मकप्रकाशत्वमिति चेत् ।
तर्हि वृश्चिकभिया पलायमानस्याशीविषमुखे निपातः ।
यत्स्वलक्षरमात्राधीनविरोधं कर्मकर्तृभावं परिहर्तुं सर्वलोकावसितविरोधं क्रियाकमर्भावमभ्युपैति ।
क्रिया हि कर्मकारकजन्येष्यते ।
नच जन्यजनकयोरेकतोचिता ।
अन्तर्भावितपूर्वापरभावित्वात्तस्याः ।
नच तदेव स्वात्मानं प्रति पूर्वमपरं चेति युज्यते ।
प्रकाशान्तरानपेक्षसिद्ध(द्धि)त्वं स्वप्रकाशत्वमिति चेन्न ।
घटादेरपि स्वप्रकाशतापातात् ।
नहि घटादयः स्वसिद्धौ प्रकाशान्तरमपेक्षन्ते, किं नाम प्रकाशमेव ।
स्वातिरिक्तप्रकाशानपेक्षसिद्ध(द्धि)त्वमिति चेन्न ।
स्वापेक्षाभावेन स्वातिरिक्तविशेषणवैयर्थ्यात् ।
प्रकाशानपेक्षसिद्धत्वमिति चेन्न ।
व्व्याघातात् ।
शशविषाणादेरपि (एवं) सिद्धिप्रसङ्गाच्च ।
स्वव्यवहारहेतुप्रकाशत्वमिति चेन्न ।
स्वविषय एव व्यवहारहेतुत्वदर्शनेनास्वविषयस्य
स्वव्यवहारहेतुतानुपपत्तेः ।
तद्गुणसंविज्ञानबहुव्रीह्यादिकं तु नोदाहरण(णीय)म् ।
गुणस्यापि समासविषयताङ्गीकारात् ।
३,६१६फ़्.
किञ्चात्मा न चाक्षुषज्ञाने ऽवभासते ।
अरूपिद्रव्यत्वादाकाशवत् ।
अन्यथा रूपित्वप्रसङ्गः ।
कमर्तया प्रकाशे रूपोपयोग इति चेन्न ।
प्रकाशमानं कर्मतयैव प्रकाशत इति वदन्तं प्रति विशेषणवैयर्थ्यात् ।
एतेनानुमाने ऽपि प्रयोजकान्तराशङ्का निरस्ता ।
किं चात्मा यदि तदविषयो ऽपि तत्र प्रकाशते ।
हन्त तर्हि रूपज्ञाने रसो ऽपि कस्मान्न प्रकाशते ।
अनाश्रयत्वादिति चेत् ।
तत् किं यावज्ज्ञानसम्बन्धि ज्ञाने प्रकाशते, किंवाऽश्रय एव ।
आद्ये चक्षुरादावतिप्रसङ्गः ।
द्वितीये ऽपि नियामकं वाच्यम् ।
नहि घटो ऽयमित्यात्मावभासते ।
घटमहं जानामीतिप्रत्ययस्तु घटज्ञानविशिष्टात्मकर्मको ऽन्य एव ।
आत्मसिद्धिस्तु कर्मतयापि भविष्यतीति ।
एतेन स्वप्रकाशतयाऽत्मसिद्धिरपि परास्ता ।
स्वकमर्कप्रकाशवत्त्वतद्रूपत्वातिरिक्तयास्तस्या निरूपयितुमशक्यत्वात् ।
तदेवं कर्तृकर्मभावो न भेदव्याप्त इति सिद्धम् ।
३,६२०
कर्मकर्तृव्यपदेशाच् च । ब्ब्स्_१,२.४ ।
तथाच कथं हेतुत्वेनोपादानमित्यत आह कर्मेति
… कर्मकर्त्रोरुत्सर्गतो भिदा (अनुव्याख्यानम्)१,२.३अब्
न्यायसुधा-
यावेकस्यां क्रियायां कर्मकर्तारौ तयोर्भेद इत्यस्त्येव व्याप्तिः ।
किं त्वौत्सर्गिकी ।
नतु धूमस्येवाग्निना सङ्कोचानर्हेत्यर्थः ।
ततः किं लब्धमिति चेद्दोषद्वयं परिहृतमिति क्रमेणाह अभेदो ऽपीति
अभेदो ऽपि विशेषे स्याद् बली सो ऽप्यनपोदितः (अनुव्याख्यानम्)१,२.३च्द्
३,६२०फ़्.
न्यायसुधा-
यस्मात्कर्मकर्त्रोरुत्सर्गत एव भिदा, तस्माद्विशिनष्टि स्वविषयमुत्सर्गविषयाद्वयवच्छिनत्तीति विशेषो ऽपवादस्तस्मिन्सत्यभेदो ऽपि स्यात् ।
तथाच मामहं जानामी(त्याद्यु)त्युपपन्नं भवति ।
यतश्चोत्सर्गो ऽप्यपवादाभावे बली स्वसाध्यसाधने समर्थः ।
न चास्ति प्रकृते ऽपवादः ।
तस्मादत्र हेतुत्वेनोपदानमपि युज्यते ।
यथा हि न हिंस्यात्सर्वा भूतानीत्यौत्सर्गिको भूतहिंसानिषेधो ऽग्नीषोमीयपशुहिंसाविधिनापोद्यते ।
भवति चानपोदिते ब्रह्महिंसाद्यकरणीयत्वे प्रमाणम् ।
नन्वेवं तर्हि प्रमेयत्वानित्यत्वयोरप्येवं वक्तुं शक्यत एव ।
प्रमेयत्वस्यानित्यत्वेनौत्सर्गिकी व्याप्तिः ।
अपवादेन त्वाकाशादौ नित्यत्वम् ।
अपवादाभावाच्छब्दादावनित्यत्वसाधकतेति ।
ततश्चानैकान्तिकतोच्छेदः स्यात् ।
मैवम् ।
सामान्यविषयेण हि प्रमाणेनार्थे प्रतीते सति विशेषविषयेणापवादो भवति ।
ततश्च सर्वतः प्रसक्ता बुद्धिस्तद्विषयं परित्यज्यान्यत्र विश्राम्यति ।
नच सर्वभूतहिंसानिषेधस्येव प्रमेयत्वानित्यत्वव्याप्तेः केनापि प्रमाणेन प्राप्तिरस्ति ।
किं नाम प्रमेयत्वं, नित्यत्वानित्यत्वाभ्यां सहव्यवस्थितमेवोपलभ्यत सति न तत्र(अपि) उत्सर्गापवादन्यायस्यावकाशः ।
एवं तर्हि कर्मर्कतृभावो ऽपि भेदाभेदाभ्यां सह व्यवस्थित एवोपलब्ध इति कथमत्राप्युत्सर्गापवादन्यायस्यावकाशः ।
मैवम् ।
प्रत्यक्तवपराक्तवरूपो हि कर्तृकर्मभावः ।
स तावदापाततो विरोधाद्भेदेन घटनीयो वा विशेषेण वा ।
तत्र भेदो मुख्यः, विशेषस्तु प्रतिनिधिरित्युक्तम् ।
नच मुख्यप्रतिनिध्योः समकक्ष्यतया प्रतिभासो भवति ।
अतो भेदः सामान्यतः प्राप्नोति विशेषस्त्वपवादेनेति युक्तमुक्तम् ।
यथा चानुगतसामान्याभावे ऽप्युत्सर्गापवादन्यायसम्भवस्तथा वक्ष्यामः ।
सोपाधिकसम्बन्धस्य साधनाङ्गताभाववत् सोपाधिकव्यभिचारस्यापि न दूषणाङ्गत्वमिति किमत्रालौकिकम् ।
वक्ष्यते चैतदिति ।
३,६२४
सर्वगतत्वमत्राधिकरणे प्रतिपाद्यत इत्युक्तम् ।
तत्किं तन्मात्रमुतान्योपलक्षणम् ।
आद्ये सूत्राणां विश्वतोमुखत्वहानिः ।
शास्त्रापर्यवसानं चापद्येत ।
द्वितीये तूपाधिर्वक्तव्यः ।
अन्यथाधिकरणान्तराभावप्रसङ्गादित्यतः प्रथमाधिकरणोपाधिं वदन्प्रसङ्गात्सर्वाधिकरणोपाधीनाह एतदिति
एतद् भावाभिधं लिङ्गं क्रियालिङ्गे ततः परम् ।
अन्तर्याम्यन्तरश्चेति क्रियाभावाख्यमुच्यते (अनुव्याख्यानम्)१,२.४
अदृश्यत्वाद्यभावाख्यं श्रुतिर्लिङ्गाधिका परा (अनुव्याख्यानम्)१,२.५अब्
न्यायसुधा-
एतत्सर्वगतत्वं भावाभिधं सत्ताभिधम् ।
यावन्तः शब्दाः क्वचित्प्रतीके स्थितिवाचिनस्ते सर्वे ऽप्यनेनोपलक्ष्यन्त इत्यर्थः ।
एवमुत्तरत्रापि ज्ञातव्यम् ।
क्रिये च ते लिङ्गे च ।
ततः प्रथमाधिकरणात्परं द्वाभ्याम्’अत्ता चराचरग्रहणात्ऽ,’गुहां प्रविष्यावात्मानौ हि तद्दर्शनात्’ इत्येताभ्यामधिकरणाभ्यां चिन्त्येते ।
नन्वेकमधिकरणं व्यर्थम् ।
न व्यर्थम् ।
अ(भ्य)धिकाशङ्कया प्रत्यवस्थानात् ।
‘अन्तर उपपत्तेः’ इत्यन्तर्याम्यधिदैवादिषु तद्धर्मव्यपदेशात्’ इति चाधिकरणद्वयेन क्रियाप्रधानकभावाख्यं लिङ्गमुच्यते प्रतिपाद्यते ।
अत्रापि पूर्ववन्नान्यतराधिकरणवैयर्थ्यम् ।
अत एव क्रिया क्रियया भावो भावेन व्याख्यायत इति परास्तम् ।
‘अदृश्यत्वादिगुणको धर्मोक्तेः’ इत्यत्रोक्तमदृश्यत्वादिलिङ्गमभावाख्यम् ।
परा परस्मिन्’वैश्वानरः साधारणशब्दविशेषात्’ इत्यधिकरणे प्रतिपाद्या श्रुतिर्नाम न तु लिङ्गम् ।
तर्हि पादान्तर्भावो न सम्भवतीत्यत उक्तम् लिङ्गाधिकेति
लिङान्यधिकानि समानाधिकरणानि यया सा लिङ्गाधिकेति ।
यथा प्रथमपादे ऽन्तस्तद्धर्मोपदेशादिति लिङ्गनिर्णयो बहुनामसमन्वयलाभार्थः तथा बहुलिङ्गसमन्वयलाभार्थो नामविचारो ऽत्र न विरुद्धयत
इति ।
साक्षात्प्रकर(ण)णिनिष्ठत्वात् श्रुतेरुपादानं चोपपद्यते ।
सा च सूक्तादिव्यावर्तकाग्न्यादिशब्दोपलक्षणमिति ज्ञातव्यम् ।
इति सर्वगतत्वाधिकरणम्
__