३,५७८
सिद्धान्तयत्सूत्रं व्याख्याति तन्नेति
ओं प्राणस्तथानुगमात् ओं
प्राणस् तथानुगमात् । ब्ब्स्_१,१.२८ ।
… तन्नात्रगस्य हि ।
विष्णोरेव तु लिङ्गानि प्राणस्थानि तु सर्वशः (अनुव्याख्यानम्)१,१.२४६ब्द्
प्राणसंवादपूर्वाणि मुख्यतो जीवगानि च ।
अभ्यार्चच्छतवर्षाणि प्राणवंशत्वमित्यपि (अनुव्याख्यानम्)१,१.२४७
३,५७९
न्यायसुधा-
किन्तु ब्रह्मण एव प्राणशब्दमुख्यवाच्यत्वमिति शेषः ।
कुतः ।
ब्रह्मशब्दानुगमात् ।
पारमेश्वरलिङ्गानुगमाच्चेति भावः ।
अथवा बाहुल्य इत्यादिकमेव सिद्धान्तवाक्यम् ।
ब्रह्मविषययोः श्रुतिलिङ्गयोर्बाहुल्ये विद्यमाने यदन्यस्येन्द्रादेः प्राणशब्दमुख्यवाच्यत्वं पूर्ववादिनोक्तम् तन्नेति
ननु च श्रुतिलिङ्गबाहुल्यादेवान्यस्य मुख्यवाच्यत्वमित्युक्तम् ।
सत्यम् ।
तथाप्यस्त्यत्र वैषम्यम् ।
निरवकाशश्रुतिलिङ्गबाहुल्येन हि प्रागत्र च निर्णयः कृतः ।
एतानि तु सावकाशानीत्याह अत्रगस्येति
इन्द्रादिगतस्य ।
हिशब्दो हेत्वर्थः ।
तस्मान्नेति पूर्वेण सम्बन्धः ।
प्रमाणप्रसिद्धिद्योतको वा ।
आद्यस्तुशब्दो न्यायविशेषसूचकः ।
प्राणस्थानि प्राणसम्बन्धितया प्रतीतानि ।
पुनस्तुशब्दो ऽप्यर्थे ।
इन्द्रियविषयाण्यपीति श्रुतिरपीति वा ।
नच मञ्चेषु पुरुषसम्बन्धनिबन्धनं क्रोशनमिवामुख्यानीश्वरे लिङ्गानीति शङ्कनीयम् ।
अन्तर्गतस्य तस्यैव तत्तत्कर्तृत्वादित्याशयेन मुख्यत इत्युक्तम् ।
शतं वर्षाणीत्यतो ऽपि परस्तादितिशब्दो योज्यः ।
प्राणवंशत्वं प्राणांश्चक्षुरादीन्प्रति वंशत्वम् ।
एतेन न वक्तुरित्यादिसूत्रतात्पर्यमुक्तं भवति ।
न वक्तुर् आत्मोपदेशाद् इति चेद् अध्यात्मसम्बन्धभूमा ह्य् अस्मिन् । ब्ब्स्_१,१.२९ ।
३,५८०
केचिदत्र कौषीतकिब्राह्मणोपनिषदीन्द्रप्रतर्दनाख्यायिकायां श्रुतं’प्राणो ऽस्मि प्रज्ञात्मा’ इत्यादिवाक्यमुदाहरन्ति ।
तेषां वक्तुरिति न श्रुत्यनुगतम् ।
वक्तृत्वं हीन्द्रस्यात्मोपदेशादित्यनेनैव लब्धम् ।
नच वक्तुरितीन्द्रप्रतिपत्त्यर्थम् ।
तस्य तदप्रत्यायकत्वात् ।
अस्माकं तु विशिष्टं शस्त्रं शंसितुर्विश्वामित्रस्य नेन्द्रो ऽन्यथोपदेष्युमर्हतीति युक्तिद्योतनाय सार्थकमिति ।
३,५८२
पादार्थमुपसंहरति तस्मादिति
तस्मादन्यत्रगैः शब्दैरुक्तन्यायैः समन्ततः ।
एको नारायणो देवो भण्यते नात्र संशयः (अनुव्याख्यानम्)१,१.२४८
न्यायसुधा-
अन्यत्रगैर्नामात्मकैरिति शेषः ।
तस्मादित्यस्यैव विवरणमुक्तन्यायैरिति ।
उक्तो न्यायो येषु ते तथोक्ताः ।
समन्ततः सर्ववेदगतैः ।
एको मुख्यार्थः
नात्र संशय इति
लक्षणयायं समन्वयो ऽभिधीयत इति केषाञ्चिन्मतं मुख्यवृत्त्येति सिद्धान्तः ।
अतो विप्रतिपत्तेरत्र संशयो न कार्यो निर्णायकस्योक्तत्वादित्यर्थः ।
अथवोक्ते ऽपि न्याये ऽनादिवासनानिमित्तो ऽन्यस्य मुख्यवाच्यत्वविषयः संशयो न कार्य इत्यनेनाचष्टे ।
३,५८३
सर्वज्ञकल्पेन तत्त्वोपदेशाय प्रवृवेन भगवताऽचार्येणैवं सूत्रेषु व्याख्यातेषु शिष्याणामेतावन्मात्रार्थान्येतानीति प्रतीतिः स्यात् ।
तां निराकर्तुमाह वासुदेवादीति
वासुदेवादिरूपेण चतुर्मूर्तिश्च सर्वशः ।
अथवा पञ्चमूर्तिः स प्रोक्तो ऽधिकरणं प्रति (अनुव्याख्यानम्)१,१.२४९
प्रतिसूत्रं प्रतिपदं प्रत्यक्षरमथापि वा (अनुव्याख्यानम्)१,१.२५०अब्
३,५८३फ़्.
न्यायसुधा-
वासुदेवादित्वेनेत्यर्थः ।
चशब्दो वक्ष्यमाणपक्षान्तरसमुच्चयार्थः ।
प्रथमपादान्ते कथनादस्मिन्नेव पाद इति भाति ।
तन्निरासायोक्तम् सर्वशः
सर्वेष्वपि पादेषु अथवेति निपातसमुदायः पक्षान्तरे ।
पञ्चमूर्तिर्नारायणादित्वेन ।
प्रतिशब्दो वीप्सायां कर्मप्रवचनीयः ।
अथापि वेति त्रयो निपाता यथाक्रमं प्रतिसूत्रमित्यादिभिस्त्रिभिः सम्बद्धयते ।
अत्रेयं मूर्तिः प्रतिपाद्यत इति कथं ज्ञायत इत्यत आह तैरिति
३,५८४
तैस्तैर्युक्तिश्रुतिन्यायविशेषैर् … (अनुव्याख्यानम्)१,१.२५०च्द्
न्यायसुधा-
न्यायशब्दः प्रकारवचनः ।
श्रुतिलिङ्गव्यतिरिक्तन्यायार्थो वा ।
तस्यां तस्यां मूर्तौ प्रसिद्धैर्लिङ्गैः श्रुतिसमाख्यादिव्यावर्तकैविर्वेको ज्ञातव्य इति शेषः ।
ननु चतुर्मूर्तिः पञ्चमूर्तिर्वेति प्रत्यधिकरणं प्रतिसूत्रं वा प्रत्यक्षरं वेति च वस्तुविकल्पः कथमित्यत आह योग्यतेति
… योग्यता यथा (अनुव्याख्यानम्)१,१.२५०द्
न्यायसुधा-
सर्वे ऽपि पक्षाः सूत्रकृतो विवक्षिताः ।
पुरुषाणां योग्यतानतिक्रमेण प्रतीयन्ते ।
तदपेक्षया विकल्पो युज्यत इति योज्यम् ।
एवमलौकिकार्थत्वं कुतः सूत्राणामित्यत आह बृहत्तन्त्रेति
बृहत्तन्त्रप्रमाणेन … (अनुव्याख्यानम्)१,१.२५१अ
न्यायसुधा-
एवमर्थत्वं सूत्राणां ज्ञेयमिति शेषः ।
बह्वर्थ इति वक्ष्यमाणं चा(वा)ऽत्र सम्बद्धयते ।
तर्हि कस्मात्तथा न व्याख्यायत इत्यत आह बह्वर्थमपीति
… बह्वर्थमपि सङ्ग्रहात् ।
उच्यते नरबुद्धीनामपि किञ्चिद्ग्रहार्थतः (अनुव्याख्यानम्)१,१.२५१ब्द्
न्यायसुधा-
सूत्रजातमिति शेषः ।
उच्यते व्याख्यायते ।
बुद्धिशब्दस्य ज्ञानार्थत्वे ग्रहो ग्राह्यं भावप्रधानो निर्देशः ।
ग्राह्यत्वमेवार्थः प्रयोजनं तस्मै ।
मनो ऽर्थत्वे ग्रहणं ग्रहः ।
३,५८६
न चैवं सूत्रार्थलेशव्याख्यानपरो ऽयं ग्रन्थ इत्यनादरणीय इत्याशयेनाह ग्रन्थ इति
ग्रन्थो ऽयमपि बह्वर्थो … (अनुव्याख्यानम्)१,१.२५२अ
न्यायसुधा-
समग्रार्थव्याख्यानमकुर्वन्नपि ।
अयमित्युक्तत्वात्सत्यपि तस्मिन्पुनरस्य विरचनाद्भाष्यमल्पार्थमिति नाशङ्कनीयमित्याह भाष्यं चेति
… भाष्यं चात्यर्थविस्तरम् (अनुव्याख्यानम्)१,१.२५२ब्
न्यायसुधा-
अतिशयितेनार्थेन विस्तरो यस्येति व्यधिकरणबहुव्रीहिगर्मकत्वात् ।
बह्वर्थत्वमनयोरनुपलम्भबाधितमिति चेन्न ।
व्याख्यानसामग्रीवैकल्यनिमित्तत्वात्तदनुपलम्भस्येत्याशयेनाह बहुज्ञा एवेति
बहुज्ञा एव जानन्ति विशेषणार्थमेतयोः (अनुव्याख्यानम्)१,१.२५२च्द्
न्यायसुधा-
एवं प्रासङ्गिकमुक्तवोपपादितस्यान्यत्रप्रसिद्धनामसमन्वयस्य फलं लक्षणसिद्धिमुपसंहरति तस्मादिति
तस्मान्महागुणो विष्णुर्नाम्नायपुनरुक्तितः (अनुव्याख्यानम्)१,१.२५२एफ़्
न्यायसुधा-
सकलवेदगतसमस्तनामवाच्यत्वादित्यर्थः ।
कथं तन्मात्रेण महागुणत्वम् ।
नाम्नां यौगिकत्वादपुनरुक्तितश्चेति ।
इति श्रीमत्पूर्णप्रमतिभगवत्पादसुकृतेरनुव्याख्यानस्य प्रगुणजयतीर्थाख्ययतिना ।
कृतायां टीकायां विषमपदवाक्यार्थविवृतावयं पूर्वे ऽर्(वा)ध्याये प्रथमचरणः पर्यवसितः
अध्यय १, पद २
३,५९०
अथ प्रथमाध्यायस्य द्वितीयः पादः