१० गायत्र्यधिकरणम्

३,५५९
अथ श्रीमन्न्यायसुधायां गायतृयधिकरणम्
तेन वक्तव्याभावादुत्तरं गायतृयधिकरणमेव विव्रियते ।
अधिवेदगताशेषनाम्नामुपलक्षणस्य वेदमातुस्त्रैवर्णिकद्वितीयजन्मनि जनन्या गायतृयाः प्राधान्येन तन्नाम्नः समन्वयं प्रतिपादयितुं सूत्रम्
छन्दोभिधानश्चेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दशर्नमिति
ओं छन्दोभिधानान्नेति चेन्न तथा चेतोर्पणनिगदात्तथा हि दर्शनात् ओं
छन्दो ऽभिधानान् नेति चेन् न तथा चेतोऽर्पणनिगदात् तथा हि दर्शनम् । ब्ब्स्_१,१.२५ ।
छन्दोगाः पठन्ति ।
गायत्री वा इदं भूतमित्यादि ।
तत्र संशयः ।
किं गायत्री ब्रह्म किं(वा) इदं भूतमित्यादि ।
तत्र संशयः ।
किं गायत्री ब्रह्म किं (वा) वर्णसमावेशलक्षणो मन्त्र इति ।
मन्त्र एवेति तावत्प्राप्तम् ।
कुतः ।
गायत्रीशब्दस्य छन्दोविशेषे प्रसिद्धत्वात् ।
नन्वेतदपि पूर्वन्यायेनैव परिहृतमित्यतो ऽभ्यधिकाशङ्कया पूर्वपक्षयति नित्यत्वादिति
नित्यत्वादेव शब्दस्य तत्स्वभावः कथं हरेः (अनुव्याख्यानम्)१,१.२४४अब्
न्यायसुधा-
भवेदाकाशादिशब्दानां परमात्मपरत्वम् ।
अन्यगतस्य शब्दप्रवृत्तिनिमित्तस्येश्वरपरतन्त्रत्वेन तत्र मुख्यवृत्त्ययोगात् ।
यद्यपि विवरत्वादिकं कारणतः स्वरूपतो ऽप्यनागन्तुकम् ।
तथापि धर्मिण एवाकाशादेरुत्पत्तिविनाशवतो जन्मस्थितिलयेष्वीश्वराधीनत्वे धर्मस्यापि तथाभावो ऽवर्जनीयः ।
न चाकाशो ऽनादिनित्य इति युक्तम् ।
आत्मन आकाशः सम्भूत इत्यादिश्रुतिविरोधात् ।
यस्त्वनादिर्वायमाकाशः’ इत्युक्तो ऽव्याकृताकाशः सो ऽनादिनित्यो ऽपि न तत्र पूर्वपक्षिणो विवक्षितः ।
भूतप्रकरणत्वात् ।
नचैवं प्रकृते सम्भवति ।
गायत्रीशब्दप्रवृत्तिनिमित्तं हि गानत्राणकर्तृत्वम् ।
यथाऽह श्रुतिः ।
गायति च त्रायते च तस्माद्गायत्रीति तत्र गानकर्तृत्वं नाम अर्थप्रतिपादकत्वम् ।
त्राणकर्तृत्वं चाध्येतृणां पापाद्रक्षणशक्तिः ।
तदुभयमपि कथं केन प्रकारेण हरेः अधीनं स्यात् ।
न केनापि ।
तथा हि ।
विवरत्वादिवद्धर्मिणा सहैव तदधीनं वा स्यात् ।
ध्वनिवत्स्वयमेव वा ।
नाद्यः ।
धर्मिणः शब्दस्य वेदस्य नित्यत्वादनादित्वाच्च ।
धर्मिण एव नित्यत्वे तेन सह पराधीनत्वं कुत इति एवार्थः ।
न द्वितीयः ।
अर्थप्रतिपादानादिशक्तेस्तत्स्वभावत्वात् ।
३,५६७फ़्.
कथं प्रसिद्धबहुलशब्दानामयथार्थता (अनुव्याख्यानम्)१,१.२४४च्द्
न्यायसुधा-
किञ्चाकाशादिवाक्ये सन्ति पारमेश्वराणि लिङ्गानीति युक्तं तत्र तदाश्रयणम् ।
नचात्र तथाविधं किमपि पश्यामः ।
प्रत्युत’गायत्री वा इदं सर्वंऽ‘वाग्वै गायत्रि’ इत्यादयः शब्द एव प्रसिद्धा बहवः शब्दाः श्रूयन्ते ।
कथं च तेषां, विना बलवद्बाधकोपनिपातेन (अन्यथार्थता) अन्यार्थता कल्पयितुं युक्ता ।
अव्यवस्थाप्रसङ्गात् ।
नच छन्दसः सर्वात्मकत्वानुपपत्तिः ।
ब्रह्मणो ऽपि साम्यात् ।
३,५६९
नन्वियमेव गायत्री वाक्यशेषे ज्योतिष्ट्वेन पठ्यते ।
‘अथ यदतः परोदिवो ज्योदिर्दीप्यते’ इत्यादिना ।
ज्योतिश्च पूर्वाधिकरणे ब्रह्मेति निर्णीतम् ।
मैवम् ।
पूर्वाधिकरणोदाहृतवाक्योक्तस्य ज्योतिषो ब्रह्मत्वे ऽप्यत्र तदनुपपत्तेः ।
तत्र हि कर्णादिविदूरत्वमुक्तम् ।
अत्र पुनस्तदेतद्दृष्टं च श्रुतं चेति तद्विपरीतम् ।
युज्यते च ज्योतिरिति पदं छन्दसि ।
तत्पर्यायस्य’तेजो वै ब्रह्मवर्चसं गायत्रि’ इति तेजःशब्दस्य तत्र दर्शनात् ।
अस्तु वा’अथ यदतःपरोदिवो ज्योतिः’ इत्युक्तं ज्योतिर्ब्रह्म ।
तथापि गायत्री छन्द एव ।
उपदेशभेदेन भिन्नप्रकरणत्वादिति ।
अथवात्राप्यथ यदतःपरो दिव इति वाक्योक्ते ज्योतिषि सन्देहः ।
किं ब्रह्मोतान्यदिति ।
उपक्रमे गायत्रीशब्दश्रवणादन्यदिति प्राप्तम् ।
ननु गायत्रीशब्दस्याकाशादिशब्दवदीश्वरपरत्वोपपत्तेः किमनेनेत्यतो नित्यत्वादित्यादिनाभ्यधिकाशङ्केयमुक्तेति ।
एतदाच्छादकत्वेनाधिकरणतात्पर्यमाह इति चेदिति
इति चेत् तद्धरेरेव बाहुल्याच्छ्रुतिलिङ्गयोः (अनुव्याख्यानम्)१,१.२४५अब्
न्यायसुधा-
तत्र ब्रूम इत्यध्याहार्यम् ।
तत् ज्योतिःप्रकरणं गायत्रीप्रकरणं च हरेरेव प्रतिपादकम् ।
नच गायत्रीपदविरोधः ।
यतः तत् हरेरेव वाचकम् ।
कथम् ।
यस्मात् तत् गायत्रीपदप्रवृत्तिनिमित्तं मुख्यतो हरेरेव ।
अन्यगतं च हरेरेवाधीनम् ।
नच ज्योतिषो ब्रह्मत्वे दृष्टत्वाद्यनुपपत्तिः ।
यतः तत् अधिष्ठानादिद्वारा कर्णादिविदूरस्यैव हरेरुपपद्यते ।
नचोपदेशभेदानुपपत्तिः ।
यतस्तद्दिवः परत्वं दिवि स्थितत्वं च विवक्षाभेदाद्धेरेरेव युज्यते ।
कुत एतत्
श्रुतिलिङ्गयोर्बाहुल्यात्
तथा हि’ततो ज्यायांश्च पूरुषः’ ।
‘यद्वैतद्ब्रह्मऽ‘य एतामेव ब्रह्मोपनिषदं वेद’ इति श्रुतयः ।
लिङ्गानि च गानत्राणकर्तृत्वं, भूतादिपादत्वम्,’एतामेव नातिशीयन्ते’ इति सर्वोत्तमत्वमित्यादीनि ।
अत एव श्रुतिलिङ्गबाहुल्यात् तत् प्रसिद्धबहुलशब्दजातमपि
हरेरेवेति
३,५७२
ननूक्तमत्र नित्या गायत्री प्रवृत्तिनिमित्तं च तत्स्वभावः ।
तत्कथं हरेरधीनमित्यत आह तादृशत्वाच्चेति
तादृशत्वाच्च तच्छक्तेर् … (अनुव्याख्यानम्)१,१.२४५च्
न्यायसुधा-
पूर्वेण सम्बन्धः ।
हेतुसमुच्चये चशब्दः ।
तादृशी खल्वीश्वरशक्तिः ।
यन्नित्यानित्यस्वभावास्वभावसर्वविषया ।
अन्यथा सर्वेश्वरत्वहानेः ।
अथ तस्याः शक्तेः किं शक्यमिति चेत् ।
तत्स्वरूपसत्तैव ।
अनादिसिद्धा सेति चेत् ।
सत्यम् ।
अनादीश्वरशक्तयैवेति वदामः ।
उक्तं चात्र प्रमाणमिति ।
३,५७३
अपरे तु ज्योतिश्चरणाभिधानादित्याद्येकमेवाधिकरणं व्याचक्षते ।
तदयुक्तम् ।
अथ यदतः परो दिवो ज्योतिरिति वाक्ये चरणाभिधानाभावात् ।
चरणाभिधानादित्यस्य पादाभिधानादित्यर्थ इति चेत् ।
भूतादिपादव्यपदेशोपपत्तेश् चैवम् । ब्ब्स्_१,१.२६ ।
उपदेशभेदान् नेति चेन् नोभयस्मिन्न् अप्य् अविरोधात् । ब्ब्स्_१,१.२७ ।
एवं तर्हि भूतादिपादव्यपदेशोपपत्तेश्चैवमिति पुनरुक्तं स्यात् ।
न स्यात् ।
तात्पर्यभेदात् ।
तथा हि ।
पूर्वस्मिन्वाक्ये तावानस्य महिमेति चतुष्पाद्ब्रह्म निर्दिष्यम् ।
तत्र यच्चतुष्पदो ब्रह्मणस्त्रिपादस्यामृतं दिवीति द्युसम्बन्धिरूपं निर्दिष्यम् तदेवेह द्युसम्बन्धात्प्रत्यभिज्ञायते ।
तत्परित्यज्य प्राकृतं ज्योतिः कल्पयतः प्रकृतहानाप्रकृतप्रक्रिये प्रसज्येतामित्यत्राभिप्रेयते ।
तत्र तु भूतादिपादव्यपदेशबलेन प्रकृतस्य ब्रह्मत्वोपपादनमिति ।
उच्यते ।
एवं हि व्याकुवर्ता प्रकृतप्रत्यभिज्ञानं ज्योतिषो ब्रह्मत्वे हेतुः उत्तरा तु त्रिसूत्री प्रकृतस्य ब्रह्मत्वोपपादिकेत्युक्तं स्यात् ।
तथाच श्रुतहानाश्रुतकल्पने स्याताम् ।
अन्यथा ज्योतिः प्रत्यभिज्ञानादित्येव ब्रूयात् ।
लघु चैवं स्पष्टं च सूत्रं स्यात् ।
पादाभिधानादित्येव वा वदेत् ।
श्रुत्यनुगमो ह्येवं सति स्यादित्युक्तमेवोपपन्नमिति ।
इति श्रीमन्न्यायसुधायां गायतृयधिकरणम्
३,५७६
अथ श्रीमन्न्यायसुधायां पादान्त्यप्राणाधिकरणम्
ओं प्राणस्तथानुगमात् ओं नन्वत एव प्राण इत्यनेनैवैतद्गतार्थम् ।
ता एताः शीर्षञ्च्छ्रियः श्रिता इत्यादिवाक्यान्तरविषयत्वान्नेति चेन्न ।
उक्तोत्तरत्वात् ।
अभ्यधिकाशङ्कासद्भावान्नेति चेन्न ।
अदर्शनात् ।
सद्भावे वा तदनन्तरमेवारम्भणीयत्वादित्यतो निरन्तराधिकरणसिद्धान्तन्यायोपजीव्यधिकाशङ्कया पूर्वपक्षमाह बाहुल्य इति
… बाहुल्ये श्रुतिलिङ्गयोः (अनुव्याख्यानम्)१,१.२४५द्
अन्यस्य मुख्यवाच्यत्वमिति … (अनुव्याख्यानम्)१,१.२४६अब्
न्यायसुधा-
पूर्वाधिकरणे हि गायतृयाद्यन्यवाचिशब्दबाहुल्यसद्भावे ऽपि श्रुतिलिङ्गबाहुल्याश्रयणेन गायत्री परमात्मैवेति निर्णीतम् ।
अस्ति चात्रापि परकीयश्रुतिलिङ्गबाहुल्यम् ।
तथाहि ।
चक्षुरादिभिः सहपाठस्तावत्प्रधानस्य ब्रह्मणो नोपपद्यते ।
नच किञ्चिदत्र ब्रह्मणो ज्ञापकमस्ति ।
येनाप्रधानप्रायपाठस्यापवादः स्यात् ।
युज्यते ।
चेन्द्रजीवमुख्यप्राणानाम् ।
इन्द्रस्य हस्ताधिष्ठातुरिन्द्रियत्वात् ।
जीवस्येन्द्रियजन्यफलाश्रयत्वात् ।
मुख्यस्य च सर्वेन्द्रियस्वामित्वात् ।
प्राणो वा अहमस्म्यष इतीन्द्रश्रुतिः ।
ता अहिंसन्तेत्यादिनोक्तानि प्राणविवादो, देहादुत्क्रमणप्रवेशौ, ततो देहपातोत्थाने, प्राणसंवादश्चेति मुख्यप्राणलिङ्गानि ।
तथा तं शतं वर्षाण्यभ्यार्चदिति शतायुष्ट्वं प्राणो वंश इति चक्षुरादीन्प्रति वंशत्वमिति जीवलिङ्गानि ।
सति चैवमन्यदीययोः
श्रुतिलिङ्गयोर्बाहुल्ये ऽन्यस्येन्द्रादेः प्राणशब्दवाच्यत्वं युक्तम् ।
अन्यथोक्तन्यायस्यानैकान्त्यापातात् ।
नच वाक्यभेदो दोषः अनन्यगतिकतया प्राप्तत्वादिति ।
अमुख्यया वृत्त्यात्र मुख्यप्राणस्य वाच्यत्वं सिद्धान्तिनाप्यभ्युपगम्यत इत्यतो मुख्येत्युक्तम् ।
इतिशब्दः शङ्कासमाप्तिद्योतकः ।


__