३,५३५
अथ प्राणाधिकरणम्
इदानीमाध्यात्मिकशब्दसमन्वयं सिषाधयिषुः प्रधानत्वात्प्राणशब्दसमन्वयार्थं सूत्रयामास अत एव प्राण इति
ओं अत एव प्राणः ओं
अत एव प्राणः । ब्ब्स्_१,१.२३ ।
तैत्तिरीयके श्रूयते ।
तद्वै त्वं प्राणो ऽभवः ।
महान्भोगः प्रजापतेः ।
भुजः करिष्यमाणः यद्देवान्प्राणयो न वेति ।
तत्र संशयः ।
किमयं प्राणः परमात्मोत मुख्य इति ।
वायुवृत्त्यादेः प्राणशब्दप्रवृत्तावपि वाक्यार्थस्य सर्वथाप्यनुपपत्तेर्न संशयविषयत्वम् ।
न ह्यचेतनं प्रति त्वमेवमभव इति बुद्धिमतोच्यते ।
किं तावत्प्राप्तम् ।
मुख्य इति ।
कस्मात् ।
प्राणशब्दस्य लोकवेदयोर्मुख्यप्राणे प्रयोगप्राचुर्यात्प्राणन्त्यनेनेति निरुक्तिसम्भवाच्च ।
नन्वेतदपि पूर्वन्यायेन परिहृतं न सूत्रारम्भं प्रयोजयतीति ।
अतो ऽभ्यधिकाशङ्का दर्शयति अध्यात्ममिति
… अध्यात्ममन्वयव्यतिरेकतः ।
प्राणादिहेतुतादृष्टेर् … (अनुव्याख्यानम्)१,१.२४१ब्च्*
न्यायसुधा-
आत्मानमधिकृत्य तस्य भोगायतनत्वेन वर्तत इत्यध्यात्मं शरीरं तस्मिन्प्राणः प्राणनं जीवनम् ।
आदिग्रहणाच्चेष्योपादीयते ।
मुख्यस्येति शेषः ।
मुख्य एवात्र प्राणो भवितुमर्हतीति वाक्यशेषो ऽत्राध्याहार्यः ।
३,५३८
ततश्चायमर्थः ।
उपपद्यते तत्रेन्द्रादिश्रुतेराकाशादिश्रुतेर्वापहारः ।
प्रवृत्तिनिमित्तस्यान्यत्र मुख्यस्यासम्भवात् ।
परमात्मनि च सम्भवात् ।
न चैवं प्रकृते ।
जीवनचेष्याहेतु(त्वं)ता हि प्राणशब्दप्रवृत्तिनिमित्तम् ।
तच्च मुख्ये सम्भवति ।
शरीरे, सति मुख्ये, जीवनादिकं भवति ।
नासतीत्यन्वयव्यतिरेकाभ्यां मुख्यस्य जीवनादिहेतुतादृष्टेः ।
ननु वायुविकारान्वयव्यतिरेकानुविधायित्वं जीवनादेः प्रतीयते ।
मुख्यस्य तु तद्धेतुता साध्यत इति किं केन सङ्गतम् ।
मैवम् ।
वायुविकारशरीरत्वान्मुख्यस्येति ।
अथवा प्राणादिहेतुताया अदृष्टेरिति व्याख्येयम् ।
परमात्मन इति शेषः ।
अन्वयव्यतिरेकाभ्यां हि हेतुता कल्प्या ।
नच परमात्मनः प्राणशब्दप्रवृत्तिनिमित्तजीवनादिहेतुतावगमकान्वयव्यतिरेकौ पश्याम इति भावः ।
यद्वा यदत्र वाक्ये देवान्प्राणय इतीन्द्रियप्राणनमुक्तम् ।
यच्च प्रजापत्युपलक्षितानां सकलजीवानां भोगकारणत्वम् ।
तदुभयमप्यध्यात्ममन्वयव्यतिरेकाभ्यां मुख्यस्य दृश्यते न परमात्मनः ।
अतो युक्तिसंवादान्मुख्यविषयमेवेदं वाक्यमिति ।
नचात्र पूर्ववदनन्यथासिद्धं किमपीश्वरलिङ्गमस्ति ।
येन श्रुतिबाधं प्रत्येष्याम इति पूर्वपक्षशेषः ।
३,५४१
नन्वेवं चेन्न सूत्रमेतदाच्छादकमित्यतस्तस्य तात्पर्यमाह अतिदेशो हीति
… अतिदेशो हि तादृशः (अनुव्याख्यानम्)१,१.२४१*द्
न्यायसुधा-
हिशब्दो हेतौ ।
एवमधिकाशङ्कया पूर्वपक्षे प्राप्ते सूत्रकृता तादृशः पूर्वोक्तसमानस्य परिहारन्यायस्यातिदेशः कृतो यस्मात्तस्मादुक्ताशङ्काच्छादकं भवत्येवेदं
सूत्रमिति योज्यम् ।
यद्वा किमनेनाधिकाशङ्काव्युत्पादनेन ।
यथाभाष्यमेव पूर्वपक्षः किं न स्यादित्यत्रेदमुक्तम् ।
तादृशो ह्यतिदेशो यत् आशङ्काया आधिक्ये सति परिहारस्य समानत्वम् ।
यद्याशङ्कायां न विशेषस्तर्हि पूर्वेणैव परिहृतत्वात्प्राचीनन्यायातिदेशनमनर्थकं स्यात् ।
प्रत्युदाहरणं शङ्कापरिहारे शास्त्रापर्यवसानप्रसङ्गात् ।
यदि च परिहारो ऽविशेषितो न स्यात्कथं तर्ह्यत एवेत्यतिदेश इति मन्दव्युत्पादनार्थमिदमुक्तम् ।
भाष्ये ऽप्यस्य सर्वस्यापि स्वीकारार्थं प्रसिद्धेरित्याह ।
३,५४२
अतिदेशाथर्माह लिङ्गमिति
लिङ्गं बलवदेव स्यात् … (अनुव्याख्यानम्)१,१.२४३(च्)
३,५४२फ़्.
न्यायसुधा-
हरिरिति वक्ष्यमाणं सिंहावलोकनन्यायेनात्रापि सम्बद्ध्यते ।
तेनैवशब्दस्य सम्बन्धः ।
अथवा सौत्रस्यैवशब्दस्यानुवादेन बलवदिति व्याख्यानम् ।
‘शब्दादेव प्रमितः’ इति यथा ।
यतस्तस्मादित्यध्याहार्यम् ।
ततश्चायमर्थः ।
हरिरेवात्र प्राणः स्यात् ।
कुतः? यतो ऽत्र वैष्णवं लिङ्गं श्रूयते तस्मात् ।
‘श्रीश्च ते लक्ष्मीश्च पत्न्नयौ’ इति सन्निहितवाक्ये श्रूयमाणस्य श्रीलक्ष्मीपतित्वस्य मनसाप्यन्यत्राशक्यचिन्तनस्य बलवत्त्वादिति ।
ननूक्तं प्राणश्रुतिरपि निरवकाशा ।
शब्दप्रवृत्तिनिमित्तस्य प्राणनादिहेतुत्वस्यान्वयव्यतिरेकाभ्यां मुख्ये दृष्टत्वात्परमेश्वरे तदभावादित्यत्राप्येतदेवोत्तरम् ।
प्राणनादिहेतुत्वलिङ्गं प्राणशब्दप्रवृत्तिनिमित्तो धर्म इति यावत् ।
हरावेव मुख्यं स्यान्न मुख्य इति ।
३,५४४
कुतो जीवनादिहेतुत्वं हरौ मुख्यम् ।
अन्वयव्यतिरेकयोरभावादित्यत आह प्रेरक इति
… प्रेरको ऽस्यापि यद्धरिः (अनुव्याख्यानम्)१,१.२४३(द्)
न्यायसुधा-
अस्य जीवनादेर्मुख्याधीनतया प्रतीतस्यापीत्यपेरर्थः ।
यत् यस्मात्’श्रुतः’ इति शेषः ।
अयमर्थः ।
मा भूतामन्वयव्यतिरेकावीश्वरस्य जीवनादिहेतुतासाधकौ ।
तथापि श्रुतिबलात्सेत्स्यति ।
न ह्यन्वयव्यतिरेकावेव कारणतायां प्रमाणम् ।
तथा सति स्वर्गादावग्निहोत्रादेः कारणता न स्यादिति ।
तर्हि प्रमाणद्वयबलाद् द्वयोरपि जीवनादिहेतुत्वेन कुतो हरावेव तन्मुख्यमिति च न वाच्यम् ।
यतो ऽस्य मुख्यस्यापि हरिः प्रेरकः श्रूयत इति ।
मुख्ये कथं न मुख्यं जीवनादिहेतुत्वमित्यस्याप्येतदेवोत्तरम् ।
नहि परप्रेरणया भवत्तस्मिन्मुख्यमिति सम्भवतीति ।
३,५४४फ़्.
अथवा जीवनादिहेतुतासाधनाय यदन्वयव्यतिरेकानुविधायित्वं लिङ्गमुक्तं तद्विष्णुपक्ष एव मुख्यं स्यात् ।
न मुख्यपक्ष इति योज्यम् ।
उभयत्र हेतुमाह प्रेरक इति
यथा वायुविकारनिष्ठान्वयव्यतिरेकौ तस्य मुख्यशरीरत्वान्मुख्यविषयावङ्गीक्रियेते ।
तथास्य मुख्यस्यापि हरिः प्रेरक इति तद्विषयाविति ।
मुख्ये न मुख्यं लिङ्गमित्यस्याप्येतदुपपादकम् ।
अनन्यथासिद्धान्वयव्यतिरेकौ हि कारणक्ळ्प्तिं कुर्वते ।
न चेह तथास्ति ।
यतः परमेश्वरावस्थानमेव जीवनकारणम् ।
मुख्यस्तु तदायत्तस्तच्छरीररूपस्तस्मिन्नवस्थिते ऽवतिष्ठते निर्गते निर्गच्छतीति ।
संवदतीमं सर्वमप्यर्थं श्रुतिः ।
‘न प्राणेन नापानेन मर्त्यो जीवति कश्चन ।
इतरेण तु जीवन्ति यस्मिन्नेतावुपाश्रितौ’ इत्येवञ्जातीयका ।
एवमेव युक्तयानुकूल्यपरिहारायापि’लिङ्गम्’ इत्यादिकमेव योजनीयमिति ।
३,५४९
अत्र केचित् ।
‘प्राणस्य प्राणं प्राणबन्धनं हि सोम्य मनः’ इति चोदाहरन्ति ।
तदयुक्तमित्यपरे ।
शब्दभेदात्प्रकरणवशाच्च संशयानुपपत्तेः ।
यथा पितुः पितेति प्रयोगे ऽन्यः पिता षष्ठीनिर्दिष्यो ऽन्यः प्रथमानिर्दिष्यः पितामह इति गम्यते ।
तद्वत्प्राणस्य प्राणमिति शब्दभेदात्प्राणादन्यः प्राणस्य प्राण इति निश्चीयते ।
नहि स एव तस्येति भेदनिर्देशो भवति ।
यस्य च प्रकरणे यो निर्दिश्यते नामान्तरेणापि स एव तत्प्रकरणनिर्दिष्य इति गम्यते ।
यथा ज्योतिष्योमाधिकारे’वसन्ते वसन्ते ज्योतिषा यजेत’ इत्यत्र ज्योतिःशब्दो ज्योतिष्योमविषयो भवति ।
तथा परस्य ब्रह्मणः प्रकरणे’प्राणबन्धनं हि सोम्य मनः’ इति श्रुतः प्राणशब्दो वायुविकारमात्रं कथमवगमयेत् ।
अतः संशयाविषयत्वान्नैतदुदाहरणं युक्तम् ।
किन्तु’प्रस्तोतर्या देवता प्रस्तावमन्वायत्तेत्युपक्रम्य श्रूयते’कतमा सा देवता’ इति ।
‘प्राण इति होवाच ।
सर्वाणि ह वा इमानि भूतानि प्राणमेवाभिसंविशन्ति ।
प्राणमभ्युज्जिहते सैषा देवता प्रस्तावमन्वायत्ता’ इत्येतदुदाहरणवाक्यमिति ।
३,५५१
एतदप्ययुक्तम् ।
संशयपूर्वपक्षयोरनुत्थानात् ।
‘ननु प्राणबन्धनं हि सोम्य मनःऽ‘प्राणस्य प्राणम्’ इति चैवमादौ ब्रह्मविषयः प्राणशब्दो दृश्यते ।
वायुविकारे तु प्रसिद्धो लोकवेदयोः ।
अतः प्राणशब्देन कतरस्योपादानमिति भवति संशयः ।
मैवम् ।
वायुविकारे देवताशब्दस्य प्रस्तावमन्त्रायत्तत्वस्य चासम्भवात् ।
चेतनस्य हि देवताशब्दो मन्त्राधिष्ठानं (नत्वं)चोपपन्नम् ।
किञ्चात्र भूतानां संवेशनमुद्गमनं च पारमेश्वरं कर्म प्रतीयते ।
तेन पूर्ववत्तद्ग्रहणमेव युक्तम् ।
कुतः पूर्वपक्षस्यावकाशः ।
यतो वा इमानि भूतानीति हि सर्वप्राणिनिकायस्य ब्रह्मण्येव संवेशनं तत एवोद्गमनं च श्रावयति ।
‘सुप्तिजागरयोरपि सता सोम्य तदा सम्पन्नो भवति’ इत्यादि ।
३,५५२
ननु मुख्ये ऽपि प्राणे संवेशनोद्गमने दृश्येते ।
‘यदा वै पुरुषः स्वपिति प्राणं तर्हि वागप्येति प्राणं चक्षुः प्राणं मनः प्राणं श्रोत्रम् ।
यदा प्रतिबुद्धयते प्राणादेवाधि पुनर्जायन्ते’ इति ।
एवं तर्हि संशयः स्यान्न पूर्वपक्षः ।
समबलत्वात् ।
किञ्च’यदा वै पुरुषः’ इति श्रुतिरपि मुख्यप्राणविषयेति कुतो ऽवगतम् ।
स्वापकाले प्राणवृत्तावपरिलुप्यमानायामिन्द्रियवृत्तयः परिलुप्यन्ते ।
प्रबोधकाले च प्रादुर्भवन्तीति प्रत्यक्षानुगुण्यान्मुख्यप्राणविषयत्वं प्राबल्यं च निश्चीयत इति चेन्न ।
इन्द्रियाणामतीन्द्रियाणां मुख्यप्राणे संवेशाद्गमनयोरप्रत्यक्षत्वात् ।
अनुमानमस्त्विति चेन्न ।
परमात्मनो ऽप्यपरिलुप्यमानस्य विद्यमानत्वेनावदारणानुपपत्तेः ।
३,५५५
किञ्चेन्द्रियाणां मुख्यप्राणे संवेशोद्गमनयोः श्रुत्यनुमानसिद्धत्वे ऽपि किमायातं सवर्भूतसम्बन्धिनोस्तयोः इन्द्रियसारत्वात् भूतानां नासङ्गतिरिति
चेत् ।
किमेतदनुमानं सम्भावाना वा ।
नाद्यः ।
व्याप्त्यभावात् ।
द्वितीये तु श्रुत्यनुमाभासमूलसम्भावनामात्रेण श्रुतिबाधया पूर्वपक्ष इति सुभाषितम् ।
नन्वादित्यो ऽन्नं चोद्गीथप्रतिहारदेवते तावद्ब्रह्मणो ऽन्ये ।
तत्सा(म्या)मान्यात् प्राणस्यापि न ब्रह्मत्वमिति पूर्वपक्षो ऽस्त्विति चेन्न ।
निर्णायकाभाव एव प्रायपाठस्यानुसरणीयत्वात् ।
स्पष्टं चात्र पारमेश्वरं कर्मेत्युक्तम् ।
अन्यथा छत्रचामराद्यसाधारणलिङ्गसद्भावे ऽपि समान्तसन्निधिमात्रेण राजा न राजा स्यात् ।
कथं चावधारितमादित्यो ऽन्नं च न ब्रह्मेति ।
श्रूयते हि तत्रापि’सर्वाणि ह वा इमानि भूतान्यादित्यमुच्चैः सन्तं गायन्ति’ इत्यादि ब्रह्मलिङ्गम् ।
‘अन्नमेव प्रतिहरमाणानि’ इति तु प्रायपाठादुपजीवनार्थं ग्राह्यम् ।
तस्मात्संशयपूर्वपक्षयोरसम्भवान्नेदमुदाहरणम् ।
किन्तु न्यायविदामग्रेसरेणानन्तवेदविदा भाष्यकृतोपात्तमेवेति सिद्धम् ।
__