३,५२१
अथ श्रीमन्न्यासुधायां आकाशाधिकरणम्
एवमधिदैवविषयशब्दसमन्वयमभिधायाधुना अधिभूतविषयशब्दसमन्वयं प्रतिपिपादयिषुराकाशस्य भूतेषु प्राधान्यात्तच्छब्दसमन्वयं हरावाह
सूत्रकारः आकाशस्तल्लिङ्गादिति
आकाशस् तल्लिङ्गात् । ब्ब्स्_१,१.२२ ।
छन्दोगाः पठन्ति ।
अस्य लोकस्य का गतिरित्याकाश इति होवाच ।
सर्वाणि ह वा इमानि भूतान्याकाशादेव समुत्पद्यन्ते ।
आकाशं प्रत्यस्तं यन्त्याकाशो ह्येवैभ्यो ज्यायानाकाशः परायणं स एष परोवरीयानुद्गीथः स एषो ऽनन्त इति ।
तत्र संशयः ।
किमयमाकाशः परमात्मोत भूतमिति ।
भूतमिति तावत्प्राप्तम् ।
कुतः ।
आकाशशब्दस्य योगरूढिभ्यां भूते प्रसिद्धत्वात् ।
आकाशनमवकाशत्वं खल्वाकाशशब्दनिर्वचनलब्धम् ।
तच्च भूते सुप्रसिद्धम् ।
प्रयोगश्च लोकवेदयोराकाशशब्दस्य भूतविषयो बहुलः ।
ननु च सर्वाणि ह वेत्याद्युक्तलिङ्गबलात्परमात्मा किं न स्यात् ।
लिङ्गाच्छ्रुतेर्बलवत्त्वादिति ब्रूमः ।
नच बहुत्वेन लिङ्गानां प्राबल्यम् ।
तथापि साम्येनानिर्णयात् ।
नच साम्यमपि ।
यथाऽहुः ।
‘द्विविधं बलवत्त्वं च बहुत्वाच्च स्वभावतः ।
तयोः स्वभावो बलवानुपजीव्यादिकश्च सः’ इति ।
कुत्रिमाकृत्रिमयोरकृत्रिमं हि ज्यायः ।
अतः प्रथमावगतस्वभावबलवच्छ्रुत्यनुरोधेन लिङ्गानि कथञ्चिद्योज्यानीति ।
नन्वन्तस्तद्धर्मोपदेशादित्यनेनैव परिहृतमेतत् ।
इन्द्रादिशब्दवदाकाशशब्दस्यापि भूते ऽमुख्यया वृत्त्या प्रवृत्तस्य महायोगविद्वद्रूढिभ्यामीश्वरवाचिनस्तद्बुद्धयाधायकत्वमेव हि न्याय्यम् ।
सुतरां च निरवकाशलिङ्गबलादिति ।
नच काचिदभ्यधिका शङ्कास्तीत्यतो ऽनारम्भणीयमिदं सूत्रमिति ।
३,५२३
तत्राभ्यधिकां शङ्कां दर्शयति चेष्या हीति
चेष्टा हि चेतनानां या सा भवेत् तत्प्रसादतः ।
अचेतनस्वभावस्तु विवरादिः कथं ततः (अनुव्याख्यानम्)१,१.२४०
इति शङ्कानिवृत्त्यर्थम् … (अनुव्याख्यानम्)१,१.२४१अ
३,५२३फ़्.
न्यायसुधा-
युक्तमिन्द्रादिशब्दानां पुरन्दरादिष्वमुख्यत्वम् ।
निरवधिकस्य प्रवृत्तिनिमित्तस्यैश्वर्यादेरसम्भवात् ।
अल्पस्यापि परमेश्वरायत्तत्वात् ।
युक्तं च स्वतन्त्रानवधिकैश्वर्यादिमति परमेश्वरे मुख्यत्वम् ।
न चैवमाकाशशब्दप्रवृत्तिनिमित्तमवकाशत्वं भूते निरवधिकं न सम्भवति ।
क्वचित्कदाचिदप्यभावाभावात् ।
नापीश्वरायत्तम् ।
ऐश्वर्यं हि वर्षणशासनपालनादिरूपा चेतनसम्बन्धिनी चेष्या ।
सा चागन्तुकज्ञानेच्छादिकारणव्यपेक्षत्वात्स्वयमागन्तुकत्वाच्च कारणद्वारा स्वरूपतश्च परमेश्वरप्रसादाऽयत्तेति युज्यते ।
आकाशादिशब्दप्रवृत्तिनिमित्तं तु विवरत्वादिकं न तावदागन्तुकज्ञानादिकारणद्वारा परमेश्वरायत्तम् ।
अचेतनाश्रितत्वात् ।
नापि स्वरूपतः ।
स्वभावत्वादनागन्तुकत्वात् ।
नचाकाशशब्दस्येश्वरे योगः सम्भवति ।
तस्य मनागप्यवकाशत्वाभावात् ।
तस्मादाकाशशब्दं भूतमेवेत्यभ्यधिकाशङ्कानिवृत्त्यर्थं सूत्रितमिति शेषः ।
विवरादिरिति भावप्रधानो निर्देशः ।
आदिग्रहणेनाकाशग्रहणमुपलक्षणमिति सूचयति ।
ततः परमेश्वरात् ।
तदायत्त इति यावत् ।
कथमित्याक्षेपे ।
३,५२७
नन्वत्राकाशः परमात्मा तल्लिङ्गादित्येतावदुच्यते ।
न पुनरुक्तपूर्वपक्षाच्छादकं किञ्चिदित्यतः सूत्रस्यार्थान्तरमाह आकाश इति
… आकाश इति नाम च ।
परतो ऽपिवरीयस्त्वपूर्वाल्लिङ्गाद्धरेर्भवेत् (अनुव्याख्यानम्)१,१.२४१ब्द्
३,५२७फ़्.
न्यायसुधा-
आकाशनामबलात्खलु परेण भूतमाशङ्कितम् ।
नच तद्युक्तम् ।
यतो निरवकाशात्परोवरीयस्त्वादेरनेकस्माल्लिङ्गादाकाश इति नाम च हरेर्भवेत् ।
वाचकमिति शेषः ।
अत्रोपसर्जनतया समासे निर्दिष्येनापि वरीयस्त्वेन बुद्धया विविक्तेन परतो ऽपीत्यस्य सम्बन्धो नानुपपन्नः ।
सर्वभूतोत्पत्तिकारणत्वपूर्वादिति वक्तव्ये परोवरीयस्त्वपूर्वादित्युक्तम् ।
प्रथमप्रतीतस्यापि सर्वभूतकारणत्वादेर्भूते ऽपि कथञ्चिद्वयाख्यातुं शक्यत्वात् ।
परोवरीयस्त्वादेः सर्वथापि तत्र नेतुमशक्यत्वात् ।
३,५२९
तथाहि ।
अस्य लोकस्य का गतिरिति पृथिवीगतिप्रश्नस्याकाश इत्युत्तरमभिधाय कथमेतत्, अपां कार्यं हि पृथिवी, तत्रैव (च)लीयत इति तासामेव
पृथिवीगतित्वोपपत्तेरित्याशङ्कय मैवम् ।
मूलकारणत्वादित्याह सर्वाणीति
नच तर्ह्यात्मन आकाशः सम्भूत इति श्रुतेरात्मा वक्तव्य इति वाच्यम् ।
भूतविषयविचारे वियत एव वक्तव्यत्वात् ।
नच आकाशस्यापि भूतत्वात्सर्वाणीति विरुद्धम् ।
इदं सर्वमसृजतेतिवत्तद्वयतिरिक्तग्रहणेपपत्तेः ।
नचावधारणानुपपत्तिः ।
परम्परया भूतोपादनास्यापरस्याभावात् ।
कथमस्य भूतोत्पत्त्यादिहेतुत्वम् ।
भूतेषु ज्येष्ठत्वादित्याह आकाशो ह्येभ्यश्चतुर्भ्यो भूतेभ्यो ज्यायानिति
न केवलमुत्पत्तिलयकारणत्वाद्गतिः ।
किं नाम कारणेषु स्थितं कार्यमिति श्रुतेराश्रयत्वादपीत्याहआकाशः परायणमिति
न चास्य लोकस्येति प्राणिनिकायाभिधानम् ।
येन सर्वभूतशब्दो ऽपि तत्परः स्यात् ।
न प्रतिष्ठां लोकमतिनयेदिति पृथिव्याः प्रकृतत्वात् ।
३,५३१फ़्.
नच परोवरीयस्त्वादिकं शक्यमेवं कथञ्चिद्वयख्यातुम् ।
निरुपचरितं सर्वोत्तमत्वं हि परोवरीयस्त्वम् ।
अन्यथा ज्यायानित्यनेनैव गताथर्त्वप्रसङ्गात् ।
उद्गीथत्वं चोमित्येतदक्षरमुद्गीथमित्युक्तत्वान्न कथञ्चिदन्यत्र नेतुं शक्यते ।
आरोपो ऽयमिति चेन्न ।
बाललीलाथर्त्वप्रसङ्गादुपनिषदाम् ।
अनन्तत्वं चाकाशस्य देशकालधर्मैरन्तवतो न सम्भवत्येव ।
आपेक्षिकं तु प्रकृतविरुद्धम् ।
पृथिव्याः सामगतित्वम्’अन्तवद्वै खलु सौम्य ते साम’ इति निराकृत्य स्वयमप्यन्तवन्तमाकाशमभिदधता किमधिकमाचरितं स्यात् ।
अतो ऽनन्तत्वमपि निरुपचरितमेवेति ।
३,५३२
नन्वाकाशश्रुतिरपि निरवकाशेत्युक्तम् ।
सत्यम् ।
दुरुक्तं तत् ।
नहि देशकालाभ्यां परिच्छिन्नस्याकाशस्यावकाशदातृत्वं निरवधिकं सम्भवति ।
नापि स्वतन्त्रं परमेश्वरायत्तत्वात् ।
तत्कुत इत्यत आह नभ इति
नभो ददाति श्वसतां मार्गं यन्नियमाददः ।
इत्यादिवाक्यैः … (अनुव्याख्यानम्)१,१.२४१*अच्
न्यायसुधा-
आदिग्रहणेन सर्वभूतगुणैर्युक्तमित्यादेः सङ्ग्रहः ।
तेन यदुक्तं परमेश्वरे योगानुपपत्तिरिति तदपि समाहितं भवति ।
आकाशे ऽवकाशदातृत्वमीश्वरस्यापि पृथक्तद्वत्त्वं चावगम्यत इति शेषः ।
उपपत्तिं तु वक्ष्यामः ।
तस्मादाकाशोपलक्षितसकलाधिभूतशब्दपरममुख्यवाच्यो भगवान्हरिरिति सिद्धम् ।
इति श्रीमन्न्यायसुधायां आकाशाधिकरणम्
__