०६ अन्तस्थत्वाधिकरणम्

अथ अन्तःस्थत्वाधिकरणम्
ओं अन्तस्तद्धर्मोपदेशात् ओं
३,५०२
अन्तस् तद्धर्मोपदेशात् । ब्ब्स्_१,१.२० ।
स्यादेतत् ।
यद्यानन्दमयो ऽभ्यासादिति वदतः सूत्रकारस्यैतावानर्थो ऽभिमतो भवेत्तर्हि तत एव गतार्थत्वादन्तस्तद्धर्मोपदेशादित्याद्यधिकरणानामनुत्थानमेव
स्यात् ।
पदार्थान्तरविषयौ हि रूढियोगावाश्रित्यैव तत्र पूर्वपक्षप्रवृत्तिः ।
यथोक्तं भाष्ये ।
तत्रान्यविषयाया रूढेरविद्वद्रूढित्वेन भगवद्विषयाया विद्वद्रूढितो, योगस्य चाल्पभगवदधीनप्रवृत्तिनिमित्तसापेक्षस्य
निरवधिकापरतन्त्रप्रवृत्तिनिमित्तापेक्षान्महायोगादुपपादितमेव दुर्बलत्वमिति कुतो ऽधिकरणान्तरस्यावकाशः ।
सत्यम् ।
तथाप्यभ्यधिकाशङ्कासद्भावेनाधिकरणान्तरारम्भोपपत्तिरित्याशयवान्स्तावदधिकाशङ्काप्रवर्तनपूर्वकमन्तस्तद्धर्मोपदेशादित्याद्यधिकरणतात्पर्यं
दर्शयतिदेवानामिति
ओं अन्तस्तद्धर्मोपदेशात् ओं
… देवानां तत्र शक्तताम् ।
आशङ्कय … (अनुव्याख्यानम्)१,१.२३८ब्च्
न्यायसुधा-
तैत्तिरीयाः पठन्ति ।
अन्तःप्रविष्यं कर्तारमेतमन्तश्चन्द्रमसि मनसा चरन्तम् ।
सहैव सन्तं न विजानन्ति देवा इति ।
तत्र संशयः ।
किमयमन्तःप्रविष्यः परमात्मोतान्य इति ।
अन्य इति तावत्प्राप्तम् ।
कुतः ।
इन्द्रो राजा जगतो य ईशे ।
त्वष्टारं रूपाणि विकुर्वन्तं विपश्चितं ब्रह्मेन्द्रमग्निं जगतः प्रतिष्ठाम् ।
दिव आत्मानं सवितारं बृहस्पतिमितीन्द्रादिश्रुतेः ।
सप्त युञ्जन्ति रथमेकचक्रमित्यदित्यलिङ्गाच्च ।
अन्नं ब्रह्मेत्यादिश्रुत्या तद्धेतुव्यपदेशादिलिङ्गेन चातीताधिकरणेन निर्णयः कृतः ।
न चेन्द्रादिश्रुतिरन्यत्र नेतुं शक्यते ।
पुरन्दरादिषु रूढत्वाद्यौगिकत्वाच्च ।
ननूक्तमत्रान्यत्र रूढेरविद्वत्सम्बन्धित्वाद्योगस्य च परमेश्वरायत्ताल्पनिमित्तत्वादमुख्यतेति ।
सत्यम् ।
तदन्नौषध्यादिपदार्थेषु स्यात् ।
नतु पुरन्दरादिषु ।
तत्रेन्द्रादिशब्दप्रवृत्तिनिमित्तस्य परमैश्वर्यादेरनवधिकस्यापरायत्तस्य विद्यमानत्वेन मुख्ययोगोपपत्तेः ।
अशक्तेषु खलु सामन्तादिष्वैश्वर्यादिकमल्पं परायत्तं च भवति ।
देवास्त्वप्रतिहतशक्तयः कथमेवं भवेयुः ।
तथाच श्रुतिः ।
इन्द्रो वै देवानामोजिष्ठ इत्येवञ्जातीयका ।
३,५०७
… तत्र रूढिं च तच्छब्दानामपि स्वयम् (अनुव्याख्यानम्)१,१.२३८च्द्
न्यायसुधा-
रूढिरपि पुरन्दरादिष्विन्द्रादिशब्दानां’इन्द्रस्य नु वीर्याणि प्रवोचम्’ इत्यादि मन्त्रेषु बहुलप्रयोगदर्शनेन विद्वत्सम्बन्धिनी मुख्यैव ।
तेषामतत्परत्वे तद्यजनादौ विनियोगानुपपत्तेः ।
न च स्वतन्त्रानवधिकैश्वर्यादिकमनेकेषां विरुद्धमिति वाच्यम् ।
इन्द्रादीनां परमेश्वरात्मकत्वात् ।
स एव हि कायर्वशात्तत्तदुपाधिभेदभिन्नस्तास्ताः सञ्ज्ञा लभते ।
कुत एतदिति चेत् ।
एतत्प्रकरणगतवाक्यशाबल्यान्यथानुपपत्त्येति तावद्ब्रूमः ।
तथाहि ।
अदृश्ये ऽनात्म्य इत्यानन्दमयलक्षणत्वेनोक्तमदृश्यत्वमिह न विजानन्ति देवा इत्युच्यते ।
समानाधिकरणानि चेन्द्रादिश्रुतिलिङ्गानि ।
नचैकं वाक्यमनेकविषयं (सं)भवति व्याघातात् ।
यथोक्तम् ।
अर्थैकत्वादेकं वाक्यं साकाङ्क्षं चेद्विभागे स्यादिति ।
न चात्रैकोपादानेनापरपरित्यागे कारणमस्ति ।
तथाच पुराणवाक्यम् ।
‘अहं भवो भवन्तश्च सर्वं नारायणात्मकम्’ इत्यादि ।
अत एव भेदव्यपदेशस्तदितरविषयो व्याख्येयः ।
नचैवं सति विनिगमने कारणाभावः ।
अनुपहितधर्माणामुपहिते सम्भवाद्वैपरीत्यस्यासम्भवात् ।
तस्मादिन्द्रादय एवान्तःप्रविष्टत्वेन प्रतिपाद्यन्त इति ।
एवं देवानामिन्द्रादीनां तत्र स्वतन्त्रानवधिकेन्द्रादिशब्दप्रवृत्तिनिमित्तवत्तायां शक्तताम् ।
ततश्चेन्द्रादिशब्दानां तत्र महायोगवृत्तिमिति शेषः ।
तथा तच्छब्दानामिन्द्रदिशब्दानां तत्र पुरन्दरादि(षु)देवेषु स्वयमपि साक्षादपि विद्वत्सम्बन्धिनीमपीति यावत् ।
रूढिं चाभ्यधिकामाशङ्कय ।
३,५१३
समुद्रान्तस्थितत्वाद्यैस्तद्धर्मैर्विष्णुरूढताम् ।
साधयित्वा … (अनुव्याख्यानम्)१,१.२३९अच्
न्यायसुधा-
स्वयं सूत्रकारो ऽन्तस्तद्धर्मोपदेशादिति सूत्रेणान्तःप्रविष्यो विष्णुरेव ।
समुद्रे ऽन्तः कवयः ।
यस्याण्डकोशं शुष्ममाहुः ।
ब्रह्मा तपसान्वविन्ददिति समुद्रान्तःस्थितत्वब्रह्माण्डवीर्यत्वब्रह्मतापोलभ्यत्वादिधर्मोपदेशात् ।
तेषां च विष्णुधर्मत्वेन श्रुतिस्मृतिसिद्धत्वात् ।
न चेन्द्रादिश्रुतिलिङ्गविरोधः ।
निरवकाशलिङ्गबलेन तद्बाधोपपत्तेः ।
नच तेषामपि निरवकाशत्वम् ।
इन्द्रं मित्रं वरुणमग्निमाहुरित्यादिना तेषां भगवति विद्वद्रूढिसद्भावस्य सिद्धत्वात् ।
महायोगस्य च सुप्रसिद्धत्वात् ।
इन्द्रादिगतस्य परमैश्वर्यादेरल्पता परमेश्वराधीनता च श्रुतिपुराणादिप्रसिद्धा ।
शक्तेरप्यस्मदाद्यपेक्षयाऽधिक्यमात्रमेव नतु निरर्गलत्वमपि ।
अन्यथानेकेश्वरविरोधश्च ।
विद्वद्रूढिरपीश्वरसन्निधाननिमित्तैव ।
इत्येवं समुद्रान्तःस्थितत्वाद्यैर्विष्णुधर्मैरन्तःप्रविष्टत्वस्य विष्णुनिष्ठतां तथा तच्छब्दानामिन्द्रादिशब्दानामपि विष्णुरूढताम् ।
उपलक्षणमेतत् ।
तत्र यौगिकत्वं च साधयित्वा ।
भेदव्यपदेशाच् चान्यः । ब्ब्स्_१,१.२१ ।
३,५१५
… अभिदां तैश्च पुनरेव न्यवारयत् (अनुव्याख्यानम्)१,१.२३९च्द्
न्यायसुधा-
ननूक्तरीत्या देवानां परमेश्वरात्मकत्वेन समुद्रान्तःस्थितत्वादिकं (सर्वं) सम्भवतीत्येवं तैर्देवैरेवे(री)श्वरस्याभिदां च पुनराशङ्कय
भेदव्यपदेशाच्चान्य इति सूत्रेण, अन्यश्चासाविन्द्रादिदेवेभ्यो ऽन्तःप्रविष्यः ।
इन्द्रस्यात्मेत्यादिविशेषविषयभेदव्यपदेशादभेदे प्रमाणाभावाच्च ।
नच वाक्यशाबल्यम् ।
सर्वस्येश्वरपरताया उक्तत्वात् ।
पुराणस्थेश्वरसन्निधानातिशयविषयत्वादित्येवं न्यवारयदित्यर्थः ।
अत्र पुनरित्याशङ्काऽवृत्तिमात्रमाचष्टे ।
तैरेवेत्यवधारयता प्रकारान्तरेण भेदसूत्रस्य पुनरुक्तता निरस्ता भवति ।
यद्यप्ययं लिङ्गातमकः शब्दस्तथापीन्द्राद्यनेकनामसमन्वयलाभादत्र निर्णीत इत्यदोषः ।
३,५१७
केचिदेतत्सूत्रद्वयं’अथ य एषो ऽन्तरादित्ये हिरण्मयः पुरुषो दृश्यते, य एषो ऽन्तरक्षिणि पुरुषो दृश्यते’ इति
छान्दोग्योक्ताक्ष्यादित्यान्तस्थपुरुषस्येश्वरत्वसमर्थनपरत्वेन व्याचक्षते ।
तद्वा निरकर्तुमेवेत्युक्तम् ।
तथात्वे ह्यन्तर उपपत्तेरित्यस्यानारम्भप्रसङ्गः ।
य एषो ऽन्तरक्षिणि पुरुषो दृश्यत एष आत्मेति होवाचेत्येतद्वाक्यमधिकृत्य तत्प्रवृत्तमिति चेन्न ।
वाक्यभेदेनाधिकरणभेदे शास्त्रापर्यवसानप्रसङ्गात् ।
सन्ति च तत्राप्यमृतत्वादयो ब्रह्मधर्माः ।
नन्वधिकाशङ्कया तदारम्भो भविष्यति ।
तथाहि ।
एष दृश्यत इति तावत्प्रत्यक्षे ऽर्थे प्रयुज्यते ।
ब्रह्म तु परोक्षं न तथा निर्देशविषयो भवितुमर्हति ।
युज्यते चैतत्प्रतिबिम्बे ।
प्रथमावगतात्प्रत्यक्षाभिधानाच्छायापुरुषे ऽधिगते तदुपरक्तायां बुद्धौ प्रतीयमानां अमृतत्वादयः स्तुत्या कथञ्चिद् व्याख्येया इति ।
तदिदं पुनरुक्तिभयसम्भ्रान्तेन भाषितम् ।
यतो अत्रापि य एषो ऽन्तरक्षिणि पुरुषो दृश्यत इति प्रत्यक्षाभिधानमस्ति ।
तदत्र यथा परमात्मनि सावकाशितं तथा तदपि भविष्यतीति का तत्राप्यधिकाशङ्का ।
तर्ह्यत्र परोदाहृतमेवास्तु विषयवाक्यम् ।
तत्रान्तःप्रविष्यमित्याद्यन्तद्भविष्यतीति चेन्न ।
स्थानादिभेदव्यपदेशादिना तत्र तस्यैवोदाहरणत्वप्रतिभासनात् ।
तस्माद्वाक्यज्ञानदरिद्राणां व्याख्यानमुपेक्षणीयमिति ।
इति श्रीमन्न्यायसुधायां अन्तःस्थत्वाधिकरणम्


__