०५ ईक्षत्यधिकरणम्

३,१५४
अथ ईक्षत्यधिकरणम्
$ब्रह्मणः सकलशास्त्रवाच्यत्वसमर्थनम्$
ओं ईक्षतेर्नाशब्दम् ओं
ईक्षतेर् नाशब्दम् । ब्ब्स्_१,१.५ ।
वचनवृत्त्यैव सकलशास्त्रप्रतिपाद्यं ब्रह्मेत्युक्तम् तदाक्षिप्य समाधातुमिदमधिकरणमारभ्यते ।
तथाहि ।
‘यतो वाचो निवर्तन्तेऽ‘अशब्दमस्पर्शम्’ इत्यादिश्रुतेः,’शब्दो न यत्र पुरुकारकवान्’ इत्यादिस्मृतेश्च ब्रह्म अवाच्यमवसीयते ।
वचनवृत्तिश्च द्रव्यगुणक्रियाजातिनिमित्ता ।
नच ब्रह्मणो द्रव्यादियोगो ऽस्ति ।
‘केवलो निर्गुणश्चऽ‘निष्कलं निष्क्रियं शान्तम्’ इत्याद्यागमात् ।
तत्कथं तस्य वाच्यता सम्भवति ।
औपनिषदत्वं (तु) च लक्षणया वृत्त्या सम्भवन्न वाच्यतामपेक्षते ।
अतो ऽवाच्यत्वाद्ब्रह्मणो न वचनवृत्त्या शास्त्रगम्यत्वमिति ।
अपर आह न सर्वशास्त्रप्रतिपाद्यत्वं ब्रह्मणः सम्भवति निश्चयोपायाभावात् ।
उपक्रमादयो हि तन्निश्चयोपायाः ।
तैश्चास्मदाद्यधिगतशास्त्रस्य कथञ्चिद्ब्रह्मविषयतावधारणे ऽप्यस्मदनधिगतशास्त्रस्य तत्परतावधारणायोगात् ।
‘अनन्ता वै वेदाः’ इति श्रुतेरनन्तं हि शास्त्रमवगम्यते ।
नचानन्तशास्त्राधिगमो ऽस्माकं कल्पकोटिशतैरपि सम्भवति ।
विफलश्च शास्त्रैकदेशस्य ब्रह्मपरत्वाध्यवसायः ।
एकदेशान्तरे तद्विपरीतप्रतिपादनस्यापि शङ्कनात् ।
नच वस्तुनि विकल्पः सम्भवति इति अत्रापि सन्देहः समास्कन्दति, इत्यतो न सर्वशास्त्रप्रामाण्याज्जगज्जन्मादिकारणं समस्तगुणपरिपूर्णं
ब्रह्म सिद्धयति ।
इत्येवं प्राप्ते अवाच्यत्वशङ्कां तावन्निराचष्टे सूत्रकारः ईक्षतेर्नाशब्दमिति
ईक्षतेर्नाशब्दम् ओं
तद्वयाचष्टे ईक्षणीयत्वत इति
३,१५७
अत्र ईक्षतेरिति धातुनिर्देशः ।
न चाविवक्षितार्थं शब्दमात्रं ब्रह्मणो वाच्यत्वे हेतुर्भवितुमर्हतीति तदर्थो ऽनेनोपलक्ष्यते ।
नच ब्रह्मासम्बन्धीक्षणमप्यत्र हेतुर्भवति अतिप्रसङ्गात् ।
सम्बन्धश्च न कर्तृत्वादिरूपः श्रुत्यननुगमात् विपक्षे बाधकाभा(वाच्च)वप्रसङ्गाच्च ।
अत ईक्षणं ब्रह्मकर्मकमेव हेतुत्वेन वाच्यम् ।
नचैतदपि युक्तम् व्यधिकरणत्वप्रसङ्गात् ।
तस्मादीक्षणकर्मत्वमेव हेतुतया विवक्षितम् इत्याशयेनोक्तम् ईक्षणीयत्वत इति
ईक्षणीयत्वतो विष्णुर्वाच्य एव … (अनुव्याख्यानम्)१,१.१२०अब्
न्यायसुधा-
तदित्यनुवर्तते ।
तेन विष्णुरित्याह ।
न विद्यते वाचकः शब्दो यस्य तदशब्दम् ।
अवाच्यमित्यर्थः ।
वाच्यमिति वक्तव्ये नावाच्यमिति वचनं’द्वौ नञौ प्रकृतमर्थं सातिशयं गमयतः’ इति वचनादवधारणार्थमित्यभिप्रेत्योक्तं वाच्य एवेति
नन्ववधारणमपि किमर्थम् ।
उच्यते ।
तत्त्वनिर्णयार्थं हि न्यायसूत्रम् ।
निर्णयश्च स्वपरपक्षसाधनोपलम्भाभ्यामेव भवति ।
नान्यतरमात्रेण ।
यथोक्तम् ।
विमृश्य पक्षप्रतिपक्षाभ्यामर्थावधारणं निर्णय इति ।
तदत्रावधारणे कृते वाच्यत्वविधिरवाच्यत्वनिषेधश्चेत्युभयमपि श्रुत्यर्थाभ्यां प्रतिज्ञातं स्यात् ।
उभयसाधनार्थश्चेक्षणीयत्वहेतुर्विज्ञायते ।
तथाच निर्णयो भवेत् ।
वाच्यमिति तु प्रतिज्ञाते परपक्षप्रतिषेधो न कृतः स्यात् ।
नच तदर्थमन्यत्सूत्रमस्ति ।
अतो युक्तो ऽयं निर्देशः ।
एवमन्यत्रापि वेदितव्यम् ।
इदमुक्तं भवति ।
ब्रह्म वाच्यं भवितुमर्हति, न पुनरवाच्यमीक्षणकर्मत्वाद्घटवत् ।
ईक्षणीयत्वं च ब्रह्मणः’स एतस्माज्जीवधनात्परात्परं पुरिशयं पुरुषमीक्षतेऽ‘आत्मन्येवात्मानं पश्येत्’ इत्यादिश्रुतिसिद्धमिति ।
३,१५७फ़्.
ननु ब्रह्मणो वाच्यत्वाभावे किं बाधकम् ।
ईक्षणीयत्वं न स्यात् ।
तथाच ब्रह्मज्ञानाभावेन शास्त्रवैयर्थ्यमनिर्मोक्षश्च स्यादिति चेन्न ।
वाच्यत्वस्याव्यापकत्वादीक्षणीयत्वस्याव्याप्यत्वाच्च ।
नह्यव्यापकनिवृत्तिरव्याप्यनिवृत्तिमापाद(यति)यितुं शक्नोति ।
ईक्षणीयत्वं हि प्रत्यक्षानुमानागमतदाभासनिमित्तं व्यापकं युक्तम् ।
वाच्यत्वं च शब्दवृत्तिविशेषोपाधिकं व्याप्यमेवेति ।
मैवम् ।
न तावदिदं मोक्षार्थमुपदिष्यं ब्रह्मेक्षणं प्रमाणाभासजन्यम् ।
भ्रान्तेरविद्यानिवर्तकत्वाभावात् ।
नापि प्रत्यक्षानुमानजम् ।
शास्त्रैकसमधिगम्यतायाः साधितत्वात् ।
तथाच प्रकारान्तराभावे सति यदि ब्रह्म वाच्यमपि न भवेत्तदेक्षणीयमपि न भवेदिति बाधकं सम्भवत्येव ।
नच व्याप्त्य(भा)सम्भवः ।
व्यतिरेकसम्भवात् ।
यत् यत्कारकाविषयः तत् तत्क्रियाविषयः यथा कुठाराद्यविषयो गगनं न छिदाविषय इति सामान्यव्याप्तिसम्भवाच्च ।
३,१६५
ननु माभूत्प्रमाणाभासैः प्रत्यक्षानुमानाभ्यां चैक्षणं ब्रह्मणः, मा च भूद्वाच्यम्, तथापि शब्दलक्ष्यतयेक्षणीयं च भविष्यति, तथाच विपक्षे
बाधकाभावादप्रयोजको हेतुः, इत्यत आह न चेति
… नचान्यथा ।
लक्ष्यत्वं क्वापि दृष्टं हि … (अनुव्याख्यानम्)१,१.१२०ब्च्
३,१६६
न्यायसुधा-
हि यस्मादन्यथा वाच्यत्वाभावे लक्ष्यत्वं क्वापि न दृष्टम् ।
तस्मादवाच्यत्वे ब्रह्मणो लक्ष्यत्वा(योगा)भावाल्लक्षणयापि नेक्षणीयत्वमिति शेषः ।
केनचिच्छब्देन वाच्यमेव हि तीरादिकं केनचिल्लक्ष्यं दृष्टमिति ।
३,१६७
$अवाच्यस्यापिलक्ष्यत्वे अनवस्थितिः$
नन्ववाच्यमपि लक्ष्यं किं न स्यात् ।
ततश्च विपक्षे बाधकाभावादप्रयोजको ऽयं प्रसङ्गहेतुः, इत्यत आह किं तदिति
… किं तदित्यनवस्थितिः (अनुव्याख्यानम्)१,१.१२०द्
न्यायसुधा-
अन्यथेत्यनुवर्तते ।
यद्यवाच्यमपि ब्रह्म लक्ष्यमित्यङ्गीक्रियते, तदा किं तदिति जिज्ञासाप्रवृत्तावनवस्थितिः (स्यात्) ।
इदमुक्तं भवति ।
लाक्षणिको हि शब्दो न श्रुतमात्रो ऽर्थान्तरे धियमुपजनयति तत्रागृहीतशक्तित्वात् ।
किन्तु वाच्यार्थर्(थे)बुद्धिमुत्पाद्य तदनुपपत्तिदर्शने सति ।
न तावतापि ।
वाच्यार्थानुपपत्तिदर्शनस्य तत्त्यागमात्रहेतुत्वात् ।
किं नामार्थान्तरस्य स्वरूपतो वाच्यार्थसम्बन्धितया चावगतौ सत्याम् ।
गङ्गादिशब्देन हि स्वरूपतो गङ्गादिसम्बन्धितया चावगतमेव तीरादिकं लक्ष्यं दृष्टम् ।
नानवगतस्वरूपं कूर्मरोमादि ।
नाप्यन्यसम्बन्धितयावगतं तीरादि ।
तथाच वैदिकशब्दलक्ष्यत्वे ब्रह्मणः प्रतीतिरङ्गीकार्या ।
नच तीरादिवत्प्रत्यक्षादिना तस्य प्रतीतिः (सम्भवति) ।
ततो लाक्षणिकशब्दे प्रयुक्ते वाच्यार्थे ऽनुपपत्तिं पश्यतो लक्षणीये ऽर्थे किं तद्यदनेन लक्ष्यमिति जिज्ञासायां शब्द एव प्रयोक्तव्यः ।
तेनापि चेन्न वाच्यं किन्तु लक्ष्यमेव तर्हि पुनः किं तदिति जिज्ञासाया अनिवृत्तत्वाच्छब्दान्तरमेव वाच्यम् ।
तेनापि चेल्लक्ष्यमेव पुनर्जिज्ञासैवेत्यपर्यवसानं स्यात् ।
पूर्वपूर्वलक्षणासिद्धावुत्तरोत्तरलक्षणासिद्धेर्मूलक्षतिः ।
यदि च केनचिच्छब्देन वाच्यं स्यात्तदा तदुक्तावुपरतजिज्ञासो लाक्षणिककार्यं प्रतीयात् ।
वाच्यत्वे ऽपि सम्बन्धग्रहणाय पूर्वसिद्धेरपेक्षितत्वेनानवस्थितेरिति चेन्न ।
अभिमान्यधिकरणे वक्तव्यत्वात् ।
तस्माद्विपक्षे ऽनवस्थालक्षणबाधकसद्भावादवाच्यत्वे लक्ष्यत्वं न स्यादिति युक्तो ऽतिप्रसङ्ग इति ।
लाक्षणिको हि शब्दो न श्रुतमात्रो ऽर्थान्तरे धियमुपजनयति तत्रागृहीतशक्तित्वात् ।
किन्तु वाच्यार्थर्(थे)बुद्धिमुत्पाद्य तदनुपपत्तिदर्शने सति ।
न तावतापि ।
वाच्यार्थानुपपत्तिदर्शनस्य तत्त्यागमात्रहेतुत्वात् ।
किं नामार्थान्तरस्य स्वरूपतो वाच्यार्थसम्बन्धितया चावगतौ सत्याम् ।
गङ्गादिशब्देन हि स्वरूपतो गङ्गादिसम्बन्धितया चावगतमेव तीरादिकं लक्ष्यं दृष्टम् ।
नानवगतस्वरूपं कूर्मरोमादि ।
नाप्यन्यसम्बन्धितयावगतं तीरादि ।
तथाच वैदिकशब्दलक्ष्यत्वे ब्रह्मणः प्रतीतिरङ्गीकार्या ।
नच तीरादिवत्प्रत्यक्षादिना तस्य प्रतीतिः (सम्भवति) ।
ततो लाक्षणिकशब्दे प्रयुक्ते वाच्यार्थे ऽनुपपत्तिं पश्यतो लक्षणीये ऽर्थे किं तद्यदनेन लक्ष्यमिति जिज्ञासायां शब्द एव प्रयोक्तव्यः ।
तेनापि चेन्न वाच्यं किन्तु लक्ष्यमेव तर्हि पुनः किं तदिति जिज्ञासाया अनिवृत्तत्वाच्छब्दान्तरमेव वाच्यम् ।
तेनापि चेल्लक्ष्यमेव पुनर्जिज्ञासैवेत्यपर्यवसानं स्यात् ।
पूर्वपूर्वलक्षणासिद्धावुत्तरोत्तरलक्षणासिद्धेर्मूलक्षतिः ।
यदि च केनचिच्छब्देन वाच्यं स्यात्तदा तदुक्तावुपरतजिज्ञासो लाक्षणिककार्यं प्रतीयात् ।
वाच्यत्वे ऽपि सम्बन्धग्रहणाय पूर्वसिद्धेरपेक्षितत्वेनानवस्थितेरिति चेन्न ।
अभिमान्यधिकरणे वक्तव्यत्वात् ।
तस्माद्विपक्षे ऽनवस्थालक्षणबाधकसद्भावादवाच्यत्वे लक्ष्यत्वं न स्यादिति युक्तो ऽतिप्रसङ्ग इति ।
३,१६९फ़्.
$सूदशास्त्रे माधुर्यादिविशेषवाचके शब्दः प्रसिद्धाः$
नन्विक्षुक्षीरगुडादीनां विशेषास्तावद्विद्यन्ते ।
अनुभवसिद्धत्वात् ।
नच ते केनापि शब्देन वाच्याः ।
तद्वाचकशब्दाभावात् ।
तथापि लक्ष्या दृश्यन्ते ।
अन्यथा तत्र वाग्व्यवहाराभावप्रसङ्गात् ।
अतो ऽवाच्यत्वे लक्ष्यत्वं न स्यादिति प्रसङ्गः प्रशिथिलमूलः ।
यथोक्तम्’इक्षुक्षीरगुडादीनां माधुर्यस्यान्तरं महत् ।
भेदस्तथापि नाख्यातुं सरस्वत्यापि शक्यते’ इति ।
यथा(च) माधुर्यादिविशेषाणामवाच्यानामपि प्रतीततामात्रेण लक्ष्यत्वात् ।
तथा ब्रह्मणो ऽवाच्यस्यापि स्वयम्प्रकाशत्वेन प्रसिद्धस्य लक्ष्यत्वं सम्भवतीत्यत आह माधुर्यादीति
३,१७०
माधुर्यादिविशेषाश्च तच्छब्दैरुदिताः सदा (अनुव्याख्यानम्)१,१.१२१अब्
न्यायसुधा-
तच्छब्दैर्माधुर्यादिविशेषशब्दैः ।
सदेत्यवधारणार्थे ।
उदिता वाच्या एवेति ।
ननु माधुर्य(आदि)विशेषशब्दः साधारणः ।
किमेतावता ।
नहि गोशब्दो ऽनेकार्थ इति न कस्यपि वाचकः ।
तथाच लक्षको ऽपि न स्यात् ।
वाच्यार्थद्वारत्वाल्लक्षणायाः ।
ननु (च) वाचकत्वं पदधर्मः ।
माधुर्यादिविशेष इति च न पदं किन्तु वाक्यमेव ।
अनेपदात्मकत्वात् ।
तथा च कथं तच्छब्दैरुदिता इति ।
मैवम् ।
ऐकपद्यमैकस्वर्वं च समासप्रयोजनमिति शब्दैरङ्गीकृतत्वात् ।
अथवा तच्छब्दैः सूदशास्त्रादिप्रसिद्धैर्वाचकशब्दैरुदिता इति व्याख्येयम् ।
तथाचोक्तम्
‘विशदं क्षीरमाधुर्यं स्थिरमाज्यस्य तीक्ष्णकम् ।
गुडस्य पनसादीनां निर्हरीत्यभिधीयते’
इति ।
यथा च ध्वनिविशेषाणां मन्दव्युत्पत्तिभिरविदिता अपि श्रुतिस्वरजातिरागादिशब्दा वाचकाः सङ्गीतशास्त्रप्रसिद्धाः तथा
माधुर्यादिविशेषाणामपि तत्तदधिकृतशास्त्रेषु प्रसिद्धा वाचकाः शब्दाः कथं न स्युः ।
ततश्च’इक्षुक्षीरगुडादीनाम्’ इति वचनमात्मनो व्युत्पत्त्यभावख्यापनार्थं शारदानिन्दया प्रत्यवायार्जनार्थं च ।
अतो न प्रशिथिलमूलो ऽतिप्रसङ्ग इति ।
यदपि स्वप्रकाशतया सिद्धत्वाद्ब्रह्मणोलक्ष्यत्वोपपत्तिरिति तदुपरिष्यान्निराकरिष्यते(ति) ।
३,१७३
$अन्वयबोधार्थं लक्षनाङ्गीकारो न युक्तः$
नन्ववाच्यो ऽपि नदीतीरफलसंसर्गलक्षणो वाक्यार्थो लक्ष्यो नद्यादिपदैरुपलक्ष्यते ।
यथोक्तम्’वाक्यार्थो लक्ष्यमाणो हि सर्वत्रैवेति नः स्थितिः’ ।
इति ।
तथा च व्याप्त्यभावादप्रयोजको ऽयं प्रसङ्गः ।
वाक्यार्थश्च ब्रह्माभ्युपेयते न पदार्थः ।
अतो लौकिकवाक्यार्थवदवाच्यमपि लक्ष्यं किं न स्यादित्यत आह वाक्यार्थो ऽपीति
वाक्यार्थो ऽपि हि वाक्यार्थशब्देनैवोदितो भवेत् (अनुव्याख्यानम्)१,१.१२१च्द्
३,१७३फ़्.
न्यायसुधा-
एवशब्दस्योदित इति (अनेन) सम्बन्धः ।
वाक्यार्थशब्दस्य वाक्यार्थावाचकत्वे ऽन्यत्तद्वाच्यं वाच्यम् ।
नह्यस्माभिर्लक्षकेनैव शब्देन वाच्यत्वमाशास्यते ।
किन्तु केनचिच्छब्देन वाच्यमेव केनचिच्छब्देन लक्ष्यमिति भावः ।
अयं चाङ्गीकारवादो ज्ञेयः ।
अन्विताभिधानस्य समर्थितत्वात् ।
ब्रह्मणो वाक्यार्थत्वं तु संसर्गत्वस्य संसृष्टत्वस्य वानङ्गीकारादयुक्तम् ।
वाक्यस्याखण्डार्थनिष्ठतया निरस्तत्वात् (इति) ।
३,१७५
एवं व्यभिचारं निरस्य सुस्था प्रसङ्गमूलभूता व्याप्तिरित्याह नावाच्यमिति
नावाच्यं तेन किञ्चित् स्याद् … (अनुव्याख्यानम्)१,१.१२२अ
न्यायसुधा-
लक्ष्यमिति शेषः ।
अथवा ब्रह्मणो ऽवाच्यत्वे तस्य वस्तुत्वमेव न स्यात् ।
यतो ऽवाच्यम् ।
किञ्चिदपि नास्ति इति प्रसङ्गान्तरसूचनमिदम् ।
$ब्रह्मावाच्यतं न श्रुत्यर्थः$
ननु’यतो वाचो निवर्तन्ते’ इत्याद्यागमविरोधात्कालात्ययापदिष्यमीक्षणीयत्वेन वाच्यत्वसाधनम् ।
प्रसङ्गानां च विपर्ययापर्यवसानमिति ।
स्यादेतदेवम् ।
यदि ब्रह्मावाच्यत्वं श्रुत्यर्थः स्यात् ।
न चैवम् ।
तथा व्याख्याने स्वक्रियाविरोधापत्तेरित्याह यत इति
… यत इत्यादिकैर्वदन् ।
अवाच्यत्वं कथं ब्रूयान्मूको ऽहमितिवत् सुधीः (अनुव्याख्यानम्)१,१.१२२
न्यायसुधा-
यत इत्यादिशब्दैर्ब्रह्मोक्तवा(हि) तस्यावाच्यत्वं वाच्यम् ।
अन्यथा यस्यकस्यचिदवाच्यताऽपत्तेः ।
तथाच यत इत्यादिकैः पदैर्ब्रह्मैव वदन्कथं पुनस्तस्यावाच्यत्वं श्रुत्यर्थतया ब्रूयात् ।
मूको ऽहमितिवत्स्वक्रियाविरोधात् ।
सुधीरिति विपरीतलक्षणया परस्याकोविदत्वमाह ।
३,१७६
$लक्ष्यत्वाङ्गीकारे अनवस्थानिरूपणम्$
स्यादेवं स्वक्रियाविरोधो यदि यत इत्यादिशब्दैर्ब्रह्म वचनवृत्त्योक्तवा तस्यावाच्यत्वमुच्यते ।
न त्वेवम् ।
किं नाम यत इत्यादिशब्दैर्लक्ष्यमेवेत्यतः क्वास्ति स्वक्रियाविरोध इत्यत आह येनेति
येन लक्ष्यमिति प्रोक्तं लक्ष्यशब्देन सो ऽवदत् (अनुव्याख्यानम्)१,१.१२३अब्
न्यायसुधा-
ब्रह्म लक्ष्यमिति वदतापि लक्ष्यशब्दवाच्यत्वं तस्याङ्गीकर्तव्यम् ।
तथाच किं शब्दान्तरेणापराद्धम् ।
अथ लक्ष्यशब्देनापि लक्ष्यते न तूच्यत इति ब्रूयात्तदा किं तदित्यपेक्षायां शब्दान्तरं ब्रूयादित्यनवस्था स्यात् ।
अथ यावत्पदजातं ब्रह्मणि प्रयुज्यते तत्सर्वमपि लक्षणयैवेति परिहारे कुतो ऽनवस्थेति चेन्न ।
अनवबोधात् ।
नहि प्रश्नपरिहारक्रमनिमित्तेयमनवस्था येन सकृदेवोत्तरेण निवर्तेत किन्तु लक्षणायाः प्रतीतिपूर्वकत्वाच्छब्देन विना
प्रत्यायकान्तराभावात्तत्रापि लक्षणाऽश्रयणे मूलक्षयात् ।
अतः स्वक्रियाविरोधान्नेदं श्रुतिव्याख्यानमिति नानुमानादेः कश्चिद्दोषः ।
अविरुद्धं तु व्याख्यानमुत्तरत्र करिष्यत इति ।
३,१७७
$अमुख्यार्थस्वीकारः लज्जाकरः$
इतश्च न ब्रह्मणि श्रुतानां वैदिकानां सर्वशब्दानां लक्षणाश्रयणं युक्तमित्याह एकस्यापीति
३,१७८
एकस्यापि हि शब्दस्य गौणार्थस्वीकृतौ सताम् (अनुव्याख्यानम्)१,१.१२३च्द्
महती जायते लज्जा यत्र तत्राखिला रवाः ।
अमुख्यार्था इति वदन् यस्तन्मार्गानुवर्तिनाम् ।
कथं न जायते लज्जा वक्तुं शाब्दत्वमात्मनः (अनुव्याख्यानम्)१,१.१२४
न्यायसुधा-
यत्र वेदे सतां विदुषामेकस्यापि शब्दस्य मुख्यार्थपरित्यागेनामुख्यार्थस्वीकृतौ कृतायां (सत्यां) महती लज्जा जायते ।
तत्राखिला अपि शब्दा अमुख्यार्था इति वदन्यस्तस्यात्मनः शाब्दत्वं शब्दशक्तितात्पर्यज्ञत्वं वक्तुं कथं लज्जा न जायते ।
केभ्यस्तन्मार्गानुवर्तिनां शब्दशक्तितात्पर्यज्ञत्वं वक्तुं कथं लज्जा न जायते ।
केभ्यस्तन्मार्गानुवर्तिनां शब्दशक्तितात्पर्यानुसारिणां विदुषां सकाशादिति योजना ।
तस्य व्याख्यातुर्मार्गानुवर्तिनां शब्दशक्तितात्पर्यानुसारिणां विदुषां सकाशादिति योजना ।
तस्य व्याख्यातुर्मार्गमनुवर्तमानानां (च) कथं न जायते लज्जेति वा ।
तथा सत्यात्मनामिति बहुवचनान्तं पदमध्याहार्यम् ।
ननु न तावन्मुख्यार्थपरित्यागेनामुख्यार्थस्वीकार एव लज्जाहेतुः ।
तथा सति’गङ्गायां घोषःऽ‘कुण्डपायिनामयने मासमग्निहोत्रं जुहोति’ इत्यादावमुख्यार्थग्रहणाभावप्रसङ्गात् ।
किं नाम मुख्यार्थे सम्भवत्येवामुख्यार्थस्वीकारो दोषः ।
मुख्यार्थो हि शक्तिग्रहणवशात्प्रथमं बुद्धयारूढो भवति ।
विना च प्रथमातिक्रमे कारणं जघन्यप्रतिपत्तिस्वीकारे कथमनौचित्यं न भवेत् ।
यत्र तु मुख्यार्थे बाधकमस्ति तत्र तदपरित्याग एव लज्जाहेतुः ।
‘गङ्गायां घोषःऽ‘सिंहो देवदत्तः’ इत्यत्र गङ्गादिशब्दस्य मुख्यार्थाङ्गीकार(स्य) एव दोषः (दुष्टत्वदर्शनात्) ।
तत्कथमेतत् ।
सत्यमेवैतत् ।
प्रकृते ऽपि न मुख्यार्थस्वीकारे बाधकमस्तीत्याचार्यो मन्यते ।
बाधिकायाः श्रुतेर्निर्गुणत्वोपपत्तेश्च निरस्तत्वादिति ।
३,१८१फ़्.
$निर्गुणस्य दृश्यत्वेक्षणीयत्वकथनम्$
अत्राह ।
द्वे ब्रह्मणी ।
निर्गुणं सगुणं च ।
तत्र निर्गुणं नित्यशुद्धबुद्धमुक्तस्वभावं परिपूर्णम् ।
तदेव मायाशबलितत्वेनैवार्यादिधर्मवत्तया सगुणमुच्यते ।
मायायाश्चानिर्वाच्यतया तदवच्छिन्नस्य न तथाभावस्तात्त्विक इति न कूटस्थत्वहानिः ।
तत्र सगुणमेव परात्परं पुरुषमीक्षत इत्यादावीक्षणीयत्वेनोच्यते ।
ततश्चेक्षणीयत्वं वाच्यत्वेन विना नोपपद्यते चेत्सगुणं वाच्यमस्तु न निर्गुणम् ।
तस्येक्षणीयत्वे प्रमाणाभावात् ।
न ह्यन्यगतेन व्याप्येनान्यत्र व्यापकसिद्धिः ।
अतिप्रसङ्गात् ।
नच परात्परमित्यादीन्येव निर्गुणविषयाणि ज्ञापकाभावात् ।
नच वाच्यं मा भूदनुमानेन निर्गुणस्य वाच्यत्वसिद्धिः ।
पक्षीकृते लिङ्गाभावात् ।
लिङ्गवति सिद्धसाधन(त्व)आत् ।
तथापि’सर्वे वेदा यत्पदमामनन्ति तपांसि सर्वाणि च यद्वदन्ति’ इत्यादिश्रुतिबलाद्वाच्यत्वं निर्गुणस्य सेत्स्यतीति ।
मायाशबले गृहीतसङ्गतयःसर्वे वेदा लक्षणया यत्पदमामनन्तीत्यर्थोपपत्तेः ।
नचावाच्यस्य लक्षणानुपपत्तिर्देषः प्रसिद्धतामात्रेण लक्षणोपपत्तेः ।
सगुणप्रतीत्यैव च निर्गुणस्य तत्स्वभावभूतस्य सर्वात्मनः स्वतः सिद्धत्वात् ।
नच तदेवेक्षणीयत्वं येन वाच्यत्वप्रसक्तिः ।
किन्तु प्रमेयत्वम् ।
नच स्वप्रकास्य प्रमेयत्वमिति ।
तदेतदाशङ्कय परिहरति सूत्रकारः गौणश्चेन्नात्मशब्दादिति
३,१८२
ओं गौणश्चेन्नात्मशब्दात् ओं
गौणश् चेन् नात्मशब्दात् । ब्ब्स्_१,१.६ ।
‘परात्परम्’ इत्यादिश्रुतिषु गौण एवात्मेक्षणीयत्वेनोच्यते ।
अतःस एव वाच्यो ऽस्तु न, निर्गुणः ।
तस्येक्षणीयत्वे प्रमाणाभावात् ।
परात्परमित्यादिश्रुतीनां च तत्परत्वे ज्ञापकाभावात् ।
किन्तु लक्ष्य एवासौ’ इति चेन्न ।
आत्मशब्दात् ।
उपलक्षणमेतत् ।
ईक्षणीये वस्तुन्यात्मब्रह्मपुरुषादिशब्दश्रवणात् ।
तेषां च पूर्णाभिधायित्वेन निर्गुणज्ञापकत्वादिति ।
भवेदातमादिशब्दः पूर्णार्थवाची ।
तथापि यत्र दृश्ये वाच्ये (च) वस्तुनि प्रयुज्यते तत्र सगुणविषय एवेति नियमाङ्गीकारे को दोष इत्याशङ्कापरिहारार्थं (अपरं) सूत्रम् तन्निष्ठस्य
मोक्षोपदेशादिति ।
ओं तन्निष्ठस्य मोक्षोपदेशात् ओं
तन्निष्ठस्य मोक्षोपदेशात् । ब्ब्स्_१,१.७ ।
नायं नियमो युज्यते ।
‘यस्यानुवित्तः प्रतिबद्ध आत्माऽ‘तरति शोकमात्मवित्’ इति (आदौ) दृश्यात्मनिष्ठस्य मोक्षोपदेशात् ।
नहि गौणात्मनिष्ठस्य मोक्ष उपपद्यत इति ।
३,१८५
$श्रुतहानिः अश्रुतकल्पना च$
अत्र प्रथमसूत्रे परात्परमित्यादिषु वाक्येषु निर्गुणज्ञापकोक्तया हेतुसिद्धिःसमर्थिता ।
ज्ञापकस्य चान्यथासिद्धिरुत्तरसूत्रे परिहृत्येतावत्सूत्रद्वयतात्पर्यं स्फुटमवगम्यते ।
अधिकं विवक्षुराह आत्मेति
आत्मब्रह्मादयः शब्दाः साक्षात् पूर्णाभिधायिनः ।
जन्मादिकारणं ब्रह्म लक्षितं च यदा तदा (अनुव्याख्यानम्)१,१.१२५
वन्ध्यापुत्रोपमं मायाशबलं वाच्यमित्यपि ।
कल्पयित्वा विना मानं लक्ष्यं शुद्धं वदन् पदैः (अनुव्याख्यानम्)१,१.१२६
आत्मशब्दोदितस्यैव ज्ञानं मुक्तावसाधनम् ।
आह श्रुतपरित्यागः स्याच्चास्याश्रुतकल्पनम् (अनुव्याख्यानम्)१,१.१२७
स्यात् सर्वत्र च … (अनुव्याख्यानम्)१,१.१२८अ
३,१८५फ़्.
न्यायसुधा-
यो वादी तदेतदनिर्वाच्यमायाख्यज्ञानशबलं किञ्चिद्ब्रह्म कल्पयित्वा तदेव वैदिकैरशेषपदवाच्यमित्यपि कल्पयित्वा मायतीतं शुद्धं सर्वज्ञं
सर्वशक्तिपरिपूर्णमस्मदभिमतं परं ब्रह्म पदैर्लक्ष्यमिति वदन्वदति ।
अस्य वादिनः श्रुतपरित्यागःसर्वत्र सर्ववाक्येषु स्यात् ।
कथम् ।
वचनवृत्त्यैव प्रथमप्रतीतस्य शुद्धस्य ब्रह्मणो विना कारणेन परित्यागात् ।
कथं शुद्धस्य प्रतीतत्वम् ।
आत्मब्रह्मादिशब्दानां वेदे श्रवणात् ।
आत्मब्रह्मादिशब्दाश्च साक्षाद्वचनवृत्त्या पूर्णाभिधायिनो यदा यस्मात्तदा तस्मात् श्रुतपरित्याग इति ।
३,१८६
न केवलं श्रुतपरित्यागः किन्तु सर्वत्रापि वाक्येष्वश्रुतकल्पनं च स्यात् ।
कथम् ।
मायाशबलस्य ब्रह्मणो वन्ध्यापुत्रोपमत्वात् ।
तत्कथम् ।
विना मानम् ।
मानाभावात् ।
तदपि कथम् ।
श्रुतिष्वात्मब्रह्मादिशब्दश्रवणात्तेषां च पूर्णाभिधायित्वेन मायाशबलविषयत्वात् ।
ननु युष्माभिरेव जन्मादिसूत्रे मायाशबलस्य लक्ष्यत्वेनाङ्गीकृतत्वात्कथं (तत्)वन्ध्यापुत्रोपममिति ।
मैवम् ।
प्रथमसूत्रे जिज्ञास्यतयोक्तस्य सर्वज्ञस्य सर्वशक्तेः परब्रह्मण एवास्माभिर्जगज्जन्मादिकारणत्वेन लक्षितत्वाङ्गीकारादित्याद्यसूत्रतात्पर्यम् ।
आत्मशब्दोदितस्येति द्वितीयस्य ।
आत्मादिशब्दः पर्णार्थो ऽपि दृश्ये श्रुतो गौणविषय इति नियमं यो ब्रवीति स तथाविधात्मशब्दोदितस्य ज्ञानं मुक्तावसाधनमेवाह ।
गौणात्मज्ञानस्य मोक्षसाधनत्वानुपपत्तेः ।
तथाचास्य श्रुतपरित्यागः स्यात् ।
दृश्यात्मज्ञानस्य मोक्षसाधनताया’यस्यानुवित्तः’ इत्यादौ श्रुतत्वादिति ।
न चैवमापादिते श्रुतपरित्यागाश्रुतकल्पने शक्याङ्गीकारे इत्याह यत्रेति
… यत्रैकमपि लोको जुगुप्सते (अनुव्याख्यानम्)१,१.१२८अब्
न्यायसुधा-
यत्र ययोर्मध्ये एकमपि प्रसक्तम् ।
किमुभयमिति शेषः ।
३,१९०
अथ लोकजुगुप्सितमपीदमुभयं न दूषणं ममेत्यभ्युपेयात्तत्राह नियमेनेति
३,१९१
नियमेनोभयं स्याद्धि यस्य स्वपरयोर्मते (अनुव्याख्यानम्)१,१.१२८च्द्
अलङ्कृतः सदैवायं दुर्घटैरेव भूषणैः (अनुव्याख्यानम्)१,१.१२९अब्
न्यायसुधा-
अस्माभिरापाद्यते परेणाङ्गीक्रियते ।
नहि लोकजुगुप्सितं नामैकं प्रतिज्ञाहान्यादिकमिव निग्रहस्थानमस्ति ।
लोकस्याव्यवस्थितत्वात् ।
‘गतानुगतिको लोकः’ इति वचनादिति मन्वानेनेति स्वपरयोर्मते मतेन ।
यस्य नियमेनोभयमिदं स्यादयं दुर्घटैरङ्गीकारानर्हैर्भूषणैर्विपरीतलक्षणया दूषणैरहङ्कृतः स्यात् ।
यदि श्रुतमपि विशुद्धं ब्रह्म परित्यज्यते तर्हि सकलो ऽपि वेदार्थस्त्यज्यतामविशेषात् ।
यदि चाश्नुतमपि मायाशबलं ब्रह्म कल्प्यते ।
तदा चैत्यवन्दनादेः स्वर्गसाधनत्वादेर(दिकम)पि कल्पनी(यं)यत्वं स्यात् ।
विशेषाभावादित्याशयः ।
३,१९२
$श्रुतहाने महाप्रत्यवायः$
न केवलं श्रौतस्य परमात्मनस्त्यागे ऽतिप्रसङ्गमात्रम् ।
महाप्रत्यवायो ऽप्यस्तीत्याह अन्धमिति
अन्धन्तमो नित्युदुःखं तस्य स्याद् वसनद्वयम् (अनुव्याख्यानम्)१,१.१२९च्द्
न्यायसुधा-
अन्धयतीत्यन्धम् ।
अलङ्कृतस्य वसनाभ्यां भाव्यम् ।
‘वस्त्रहीनमलङ्कारं घृतहीनं तु भोजनम् ।
भावहीनं तु सल्लापं न प्रशंसन्ति पण्डिताः’
इति वचनात् ।
अतो वसनद्वयमिदं स्यादिति परिहासः ।
अत्र प्रमाणमाह अनन्दा इति
अनन्दा नाम ते लोका अन्धेन तमसाऽवृताः ।
तांस्ते प्रेत्याभिगच्छन्त्यविद्वांसो बुधो जनाः (अनुव्याख्यानम्)१,१.१३०
असुर्या नाम ते लोका अन्धेन तमसाऽवृताः ।
तांस्ते प्रेत्याभिगच्छन्ति ये केचात्महनो जनाः (अनुव्याख्यानम्)१,१.१३१
इत्यादिश्रुतयो मानं शतशो ऽत्र समन्ततः (अनुव्याख्यानम्)१,१.१३२अब्
न्यायसुधा-
न विद्यन्ते नन्द आनन्दो येषु ते अनन्दाः ते इति प्रसिद्धाः ।
बोधनाद् भुद्वेदस्तस्मादपि ये ऽविद्वांसो वेदेन मुख्यया वृत्त्या प्रतिपादितमपि परमातमस्वरूपमपलपन्त इत्यर्थः ।
सुष्ठु रमणविरुद्धत्वादसुरप्राप्यत्वाच्चासुर्याः ।
आत्महनो वेदवाच्यपरमात्मत्यागिनः ।
अत्र उक्तार्थे ।
समन्ततः सर्वास्वपि शाखासु ।
३,१९५
दृश्ये वस्तुनि श्रुत आत्मशब्दो गौणपर इति नियमं हेत्वन्तरेणापाकुर्वत्सूत्रं पठित्वा सूत्रे साध्यनिर्देशाभावेन साकाङ्क्षं वाक्यं पूरयति हेयत्वेति
ओं हेयत्वावचनाच्च ओं
हेयत्वावचनाच् च । ब्ब्स्_१,१.८ ।
हेयत्वावचनाच्चैव नात्मा गौणः श्रुतौ श्रुतः (अनुव्याख्यानम्)१,१.१३२च्द्
न्यायसुधा-
$हेयत्वावचनात् उपादेयत्वाच्च नगौणः आत्मा$
एवशब्दो नैवेति सम्बद्धयते ।
दृश्यत्वेनेति शेषः ।
एवं सूत्रस्वरूपं निर्धार्य व्याचष्टे तमेवेति
तमेवैकं जानथान्या वाचो मुञ्चथ चेति ह ।
उक्त आत्मा कथं गौणो हेयपक्षे ह्यसौ श्रुतः (अनुव्याख्यानम्)१,१.१३३
३,१९५फ़्.
न्यायसुधा-
दृश्य आत्मा गौण एवेति नियममङ्गीकुर्वाणेन’तमेवैकं जानथ आत्मानमन्या वाचो विमुञ्चथ, अमृतस्यैष सेतुःऽ
इति श्रुतो ऽप्यात्मा गौणो ऽङ्गीकरणीयः ।
तस्य तं जानथेति दृश्यत्वश्रवणात् ।
कथं चायं गौणो ऽङ्गीकर्तं शक्यः ।
यतो ऽसौ गौणो मुमुक्षुणा हेयेषु’आत्मा वाचो विमुञ्चथ’ इति श्रुतः ।
अस्य च हेयत्वावचनात् ।
प्रत्युत तमेवैकं जानथेत्युपादेयत्ववचनाच्च (इति) ।
चशब्दो वाक्यार्थद्वयसमुच्चयार्थः ।
हेत्याश्चर्ये ।
३,१९७
ननु गौणानामपि ब्रिह्मादिदेवतानामुपादेयत्वं वक्ष्यति अङ्गावबद्धास्त्वित्यादौ ।
अतो ऽनैकान्तिको ऽयं हेतुरित्यत आह परिवारतयेति
परिवारतया ग्राह्या अपि हेयाः प्रधानतः (अनुव्याख्यानम्)१,१.१३४अब्
न्यायसुधा-
सत्यं विष्णुपरिवारतया ग्राह्या ब्रह्मादयः(द्याः) ।
तथापि प्रधानत्वेन हेया एव ।
प्राधान्येन चोपादेयत्वमत्र हेतुत्वेन विवक्षितम् ।
अमृतस्यैष सेतुरिति वाक्यशेषात् ।
अतो न व्यभिचार इति ।
३,१९८
$पूर्णत्वस्वाप्यत्वकथनात् निर्गुणस्यैव वाच्यत्वम्$
एवमात्मशब्दस्य निर्गुणविषयत्वमुपपाद्य निर्गुणस्यैव वाच्यत्वं समर्थितम् ।
हेत्वन्तरेणास्यैवार्थस्योपपादकम्’स्वाप्ययात्’ इति सूत्रं व्याचष्टे पूर्णस्येति
३,१९९
ओं स्वाप्ययात् ओं
स्वाप्ययात् । ब्ब्स्_१,१.९ ।
पूर्णस्य पूर्णमादाय पूर्णमेवावशिष्यते (अनुव्याख्यानम्)१,१.१३४च्द्
इति स्वस्यैव पूर्णस्य पूर्णे ऽप्यय उदाहृतः (अनुव्याख्यानम्)१,१.१३५अब्
न्यायसुधा-
पूर्णस्येत्यस्यां श्रुतौ तावत्कस्यचिन्महाप्रलये स्वस्य स्वस्मिन्नेवाप्ययो नान्यत्रलीनभाव उदाहृतः ।
स्वाप्ययशब्दश्च सौत्र उपलक्षणमात्रम् ।
पूर्णत्वमप्युदाहर्तव्यम् ।
ताभ्यामसौ निर्गुण इति ज्ञायते ।
श्रुत्युक्तत्वाच्च वाच्य इत्यतो निर्गुणस्य वाच्यत्वसिद्धिरिति ।
३,२०१
ननु स्वाप्ययः पूर्णत्वं च सगुणस्य किं न स्यात् ।
मैवम् ।
सगुणस्य स्वाप्ययानुपपत्तिस्तावद्भाष्य एवोक्ता ।
पूर्णत्वानुपपत्तिमाह कथमिति
कथं मायाव्यवच्छिन्नः पूर्णो मुख्यतया भवेत् (अनुव्याख्यानम्)१,१.१३५च्द्
न्यायसुधा-
व्याघातादिति भावः ।
३,२०२
$गतिसामान्यादिति सूत्रोल्लङ्घने निमित्तकथनम्$
गतिसामान्यात् । ब्ब्स्_१,१.१० ।
अत्र गतिसामान्यादिति सूत्रं न तावद्ब्रह्मणो वाच्यत्वसमर्थनार्थम् ।
किन्तु शास्त्रस्यानन्तत्वान्न सर्वशास्त्रप्रतिपाद्यत्वं ब्रह्मणो निश्चेतुं शक्यमित्याशङ्कितदोषपरिहारार्थमित्यतः प्रकरणशुद्धया
व्यभिचरव्यासुस्तदुल्लङ्घितवान् ।
व्याख्यास्यति चैतदुत्तरत्र ।
सूत्रकारस्यापि प्रकरणसाङ्कयर्स्यैतदेव प्रयोजनम् यदाक्षेपद्वयसमाधानस्य पूर्वसूत्रस्थसंशब्दार्थसमर्थनमेकमेव प्रयोजनमिति सूचनात् ।
तेन चावृत्त्या संशब्दस्यानेकार्थताज्ञापनम् ।
अन्यथैकेनार्थेन चरितार्तस्यार्थान्तरं न ज्ञायेत ।
तथाच न लक्षणद्वयस्य शास्त्रीयता स्यादिति ।
३,२०३फ़्.
$श्रुतत्वाच्च निर्गुणस्यवाच्यत्वम्$
उपपत्त्यन्तरेण निर्गुणस्य ब्रह्मणो वाच्यत्वमुपपादयितुं सूत्रम् श्रुतत्वाच्चेति ।
ओं श्रुतत्वाच्च ओं
श्रुतत्वाच् च । ब्ब्स्_१,१.११ ।
तस्यार्थः ।
‘एको देवः’ इत्यस्यां श्रुतौ निर्गुणस्य ब्रह्मणः श्रुतत्वाच्चास्य वाच्यत्वमुपपन्नमिति ।
अत्र श्रुतो ऽपि सगुणः किं न स्यादित्यत आह पदं चेति
३,२०४
पदं च निर्गुण इति कथं गौणं वदिष्यति (अनुव्याख्यानम्)१,१.१३६अब्
न्यायसुधा-
अत्र हि वाक्ये केवलो निर्गुणश्चेति श्रूयते ।
निर्गुण इति च पदं कथं गौणं वदिष्यति ।
व्याहतत्वात् ।
अतो न सगुणो ऽत्र श्रुत इति ।
३,२०६फ़्.
$लक्ष्यत्वेऽपि लक्ष्यपदादपि वाचकत्वसमर्थनम्$
सत्यमस्यां श्रुतौ निर्गुणादिपदप्रतिपाद्यं निर्गुणं ब्रह्मेति ।
किन्तु लक्षणयैव ।
तथाच कथमनेन निर्गुणस्य वाच्यत्वसिद्धिः ।
नच वाच्यं निर्गुणशब्देन निर्गुणं चेल्लक्ष्यं तर्हि तद्वाच्यं वाच्यम् ।
वाच्यार्थद्वारत्वाल्लक्षणायाः ।
नच सगुणं निर्गुणपदवाच्यम् ।
व्याघातात् ।
सगुणस्य निर्गुणत्वं तथा सति स्यादिति ।
गुणाभावविशिष्टस्य वाच्यत्वाङ्गीकारात् ।
निर्विकल्पकस्वरूपमात्रस्योपलक्ष्यत्वात् ।
एकमेव हि निर्विशेषं वस्तु परमसूक्ष्मं गुणाभावाद्युपाधिभिरीषत्स्थूलं जातम् ।
गुणाद्युपाधिभिस्तु स्थूलतरमित्यतो निर्गुणशब्देन गुणाभावविशिष्टवाच्यद्वारा स्वरूपमुपलक्ष्यमिति न कश्चिद्विरोधः ।
एवं पूर्णादिपदानामपि लक्षणाप्रकारो द्रष्टव्य इत्याशङ्कयोक्तमेव परिहारं न विस्मरेत्याह गुणाभावेति
३,२०७
गुणाभावोपलक्ष्यं चेत् पदं तदपि वाचकम् (अनुव्याख्यानम्)१,१.१३६च्द्
न्यायसुधा-
निर्गुणपदेन गुणाभावविशिष्टवाच्यद्वारोपलक्ष्यं चेच्छुद्धं ब्रह्म मन्यस इत्यर्थः ।
अपि तथापि, तत्पदं लक्ष्यपदम् ।
ब्रह्मणो वाचकमङ्गीकरणीयम् ।
तथाच वाच्यत्वमेवापतितमित्यर्थः ।
३,२०९
$सर्वदोषास्पदत्वात् अवाच्यत्वमतं नादरणीयम्$
ननु लक्ष्यपदेनापि ब्रह्म लक्ष्यमेव न वाच्यमिति चेन्न ।
अनवस्थाया उक्तत्वात् ।
किञ्च निर्गुणपदलक्ष्यमित्यनेनापि लक्ष्यत्वे किमस्य वाच्यम् ।
न तावदन्यत् ।
तत्र निर्गुणपदस्यैवाश्रवणेन तल्लक्ष्यपदस्य दूरोत्सारितत्वात् ।
शुद्धं चेत्किं लक्षणया ।
किञ्चैवं यद्यद्ब्रह्मतया प्रतिपाद्यते तत्तद्ब्रह्मेति वदता साधु समर्थितो ब्रह्मवाद इत्याशयवानधिकरणार्थमुपसंहरति अत इति
अतो ऽनवस्थितिमुखसर्वदोषमहास्पदम् ।
कथमेतन्मतं सद्भिराद्रियेत विचक्षणैः (अनुव्याख्यानम्)१,१.१३७
न्यायसुधा-
एतन्मतं ब्रह्मणो ऽवाच्यत्वमतम् ।
अनादरणे च सिद्धं सर्वशास्त्रमुख्यार्थत्वं ब्रह्मण इति शेषः ।
३,२१०
एवमीक्षतेर्नाशब्दमित्यारभ्य श्रुतत्वाच्चेत्यन्तानि सूत्राणि स्वमतेन व्याख्याय परेषां व्याख्यानं प्रत्याख्याति नचेति
नच साङ्खयनिराकृत्यै सूत्राण्येतान्यचीक्ळ्पत् ।
भगवान् … (अनुव्याख्यानम्)१,१.१३८अच्
न्यायसुधा-
‘सर्वज्ञं सर्वशक्तिजगदुत्पत्तिस्थितिनाशकारणं ब्रह्म वेदान्तवेद्यमित्युक्तम् ।
तत्र साङ्खया मन्यन्ते ।
यानि ब्रह्मणो जगत्कारणत्वप्रतिपादकतयाभ्युगतानि’सदेव सोम्येदमग्र आसीत्’ इत्येवमादीनि वाक्यानि तानि सर्वाणि त्रिगुणमचेतनं
प्रधानमेव जगत्कारणं प्रतिपादयन्ति ।
कुतः ।
ब्रह्मणो ज्ञानक्रियाशक्तिरहितत्वात् ।
ज्ञानक्रियाकार्यदर्शनोन्नेयसद्भावे हि ते ।
नच ज्ञानक्रिये चिदात्मनः स्तः ।
तस्यापरिणामित्वात् ।
एकत्वाच्च ।
त्रिगुणे तु प्रधाने परिणामिति न तयोरसम्भवकारणमस्तीत्यतस्तदेव’सदेव सोम्येदमग्रे’ इत्यादौ जगत्कारणतया प्रतिपाद्यत इत्येवं प्राप्ते
प्रतिविधीयते ईक्षतेर्नाशब्दम् इति
न साङ्खयपरिकल्पितामचेतनं प्रधानं जगतः कारणं शक्यं वेदान्तवाक्येष्वाश्रयितुम् ।
अशब्दं हि तत् ।
कथमशब्दत्वम् ।
ईक्षतेः ।
तदैक्षत बहुस्यां प्रजायेयेति, तत्तेजो ऽसृजतऽ‘इ ऐक्षत लोकानुसृजा इति, स इमांल्लोकानसृजतऽ,’स ईक्षां चक्रे, स प्राणमसृजत’
इतीक्षितृत्वश्रवणात्कारणस्य ।
नचाचेतनस्य प्रधानस्येक्षितृत्वं सम्भवति ।
नन्वयमीक्षतिर्गौणो व्याख्येयः ।
तत्तेज ऐक्षत ता आप ऐक्षन्तेति गौणप्रायपठितत्वात् ।
यथाह्यासन्नपतनं कूलमालक्ष्य कूलं पिपतिषतीत्युपचारो दृष्टः ।
तथाऽसन्नसर्गे प्रधाने ऽप्यैक्षतेत्युपचारो भविष्यतीत्यतः परिहारं पठति गौणश्चेन्नात्मशब्दात्
अप्तेजसोरिवाचेतने ऽपि प्रधाने गौणीऽयमीक्षतिरित्यसत् ।
कुतः ।
आत्मशब्दात् ।
अनेन जीवेनात्मनेति ।
नहि जीवश्चेतनो ऽचेतनस्य प्रधानस्यात्मा सम्भवति ।
स आत्मा तत्त्वमसीति च ।
नहि चेतनस्य श्वेतकेतोरचेतनैक्यबोधनमुपपन्नम् ।
अथोच्येत ।
अचेतने ऽपि प्रधाने भवत्यात्मशब्दः ।
आत्मनः सर्वार्थकारित्वात् ।
यथा राज्ञः सर्वार्थकारिणि भृत्ये ममात्मा भद्रसेन इत्यात्मशब्ददर्शनादिति ।
तत्रोत्तरम् तन्निष्ठस्य मोक्षोपदेशात्
नैवमात्मशब्दालम्बनं प्रधानं कल्प्यम् ।
स आत्मातत्त्वमसीति श्वेतकेतोस्तन्निष्ठामुपदिश्य तस्य तावदेव चिरमिति मोक्षोपदेशात् ।
न ह्यचेतननिष्ठस्य मोक्षो युक्तः ।
३,२१०फ़्.
स्यादेतत् ।
ब्रह्मैव ज्ञीप्सितम् ।
तच्च न प्रथमं सूक्ष्मतया शक्यं श्वेतकेतुं ग्राहयितुमिति तत्सम्बद्धं प्रधानमेव स्थूलतयाऽत्मत्वेन ग्राह्यते ।
अरुन्धतीमिवातिसूक्ष्मां दर्शयितुं तत्सन्निहितां स्थूलतारकां दर्शयन्तीयमरुन्धतीति ।
अस्यां शङ्कायामुत्तरम् हेयत्वावचनाच्च
एवं सति स्थूलतारावन्नायमात्मेति हेयत्वं ब्रूयात् ।
नचैवमब्रवीत् ।
अतो नैषा कल्पना युक्ता ।
चशब्द एकविज्ञानेन सर्वविज्ञानप्रतिज्ञाविरोधं समुच्चिनोति
३,२११
स्वाप्ययात्
सच्छब्दवाच्य प्रस्तुत्य स्वं ह्यपीतो भवतीत्युच्यते ।
नह्यचेतने चेतनस्याप्ययः सुप्तौ लये च सम्भवति ।
अतश्च न प्रधानं सच्छब्दवाच्यम् ।
गतिसामान्यात्
यदि च क्वचिदप्यचेतनं प्रधानं जगतः कारणमुच्येत वेदान्तेषु ।
तथा सति कथञ्चिदीक्षणादिकं कल्प्येत ।
न चैवम् ।
अतो वेदान्तोत्पाद्याया गतेरवगतेरैकरूप्याच्च न प्रधानं जगत्कारणमिति
श्रुतत्वाच्च
स कारणं कारणाधिपाधिप इति साक्षात्सर्वज्ञस्येश्वरस्य जगत्कारणत्वं श्रूयते ।
अतश्च न प्रधानं जगत्कारणं वेदान्तवेद्यम् ।
ज्ञानक्रियाशक्ती त्वपरिणामिनो ऽपीश्वरस्य सवितुरिव युज्येते ।
इत्येवं साङ्खयनिराकरणायैतानि सूत्राणि भगवान्सूत्रकारश्चकार’ ।
इति यन्मायावादिनो वदन्ति तन्नेत्यर्थः ।
कुतो नेति चेत् न ।
सूत्राक्षराणामनानुगुण्यात् ।
३,२१८
$पराभिमताधिकरणशरीरपरामर्शः$
तथा हि ।
अशब्दं हि तदिति हेतूकृतमशब्दत्वं नाम शब्दगोचरत्वं वा शब्दावाच्यत्वं वा अवैदिकत्वं वा कारणतयावैदिकत्वं वा ।
सर्वत्राप्यसिद्धिरित्याह नहीति
… नह्यशब्दत्वं प्रधाने ऽङ्गीकरोत्यसौ (अनुव्याख्यानम्)१,१.१३८च्द्
३,२१८फ़्.
न्यायसुधा-
असौ साङ्खयः ।
स्वसिद्धेन हेतुनेदं निराकरणमिति चेन्न ।
यतो ऽसौ सूत्राकारो ऽशब्दत्वं प्रधानेनाङ्गीकरोति ।
उपपादयिष्यते चैतत् ।
किञ्चाद्यपक्षे प्रधानस्यासत्त्वमभिप्रेतमुत प्रमाणान्तरवेद्यत्वम् ।
आद्ये तदुपपादनायेक्षतेरुपन्यासो ऽनुपपन्नः ।
अत एव नोत्तरः ।
द्वितीयो ब्रह्मण्यनैकान्तिकः ।
तृतीयचतुर्थयोः साध्याविशिष्टत्वम् ।
किञ्चेक्षणेनैव नेति प्रतिज्ञातार्थसिद्धावशब्दं हि तदिति मध्ये हेत्वन्तरकल्पनं व्यर्थम् ।
ईक्षितृत्वं चेक्षणगुणयोगित्वम् ।
तद्ब्रह्मण्यपि गौणमेव निर्गुणत्ववादिनाङ्गीकरणीयम् ।
तथाच गौणश्चेदिति व्यर्थम् ।
किञ्चेक्षतेर्गौणत्वकल्पनस्य बाधकाभावामनुक्तवाऽत्मशब्दादित्यसङ्गतम् ।
परेण प्रायपाठविरोधात् ।
तन्निष्ठस्य मोक्षोपदेशादित्यत्र किं प्रधानैक्योपदेशानुपपत्तिर्वा विवक्षिता ।
तज्ज्ञस्य मोक्षानुपपत्तिर्वा ।
आद्ये ब्रह्मपक्षे ऽपि समानो दोषः ।
नहि जीवस्यापि ब्रह्मैक्योपदेशो युक्त इत्युक्तमधस्तात् ।
द्वितीयस्त्वनुपपन्न एव ।
आत्मानात्मविवेकार्थमनात्मज्ञानस्यावश्यकत्वात् ।
आत्मशब्दस्य गौणत्वे चोदिते बाधकाभाव एव वक्तव्यः ।
हेयत्वावचनादित्यस्य परिचोदनैवानुपपन्ना ।
नहि साङ्खयो ऽद्वैतज्ञानार्थं प्रधानोपदेशं मन्यते ।
३,२१९
हेयत्वावचनं चानैकान्तिकम् ।
अन्नमयप्राणमयादीनामब्रह्मत्वे ऽपि हेयत्वावचनाच्च ।
उत्तरोत्तरब्रह्मत्ववचनं तत्र ज्ञापकमिति चेत् (न) ।
अत्रापि तथाविधज्ञापकसौलभ्यात् ।
प्रतिज्ञाविरोधस्तु ब्रह्मवाद एव न प्रधानवादे ।
प्रधानस्य सर्वात्मकत्वाभ्युपगमात् ।
भोक्तृवर्गस्य न प्रधानात्मकत्वमस्तीति चेत् ।
सत्यम् ।
ब्रह्मणस्तु न किञ्चित् ।
एतेन स्वाप्ययो ऽपि निरस्तः ।
एकीभावस्य ब्रह्मपक्षे ऽप्यभावात् ।
परिष्वङ्गमात्रस्य प्रधाने ऽपि सम्भवात् ।
ब्रह्मविषयं गतिसामान्यं परस्यासिद्धमेव ।
ईक्षणादिना तज्ज्ञापने प्रथमसूत्रेण गतार्थता ।
अत एव श्रुतत्वादित्यसिद्धम् ।
गतार्थं च गतिसामान्येनेत्येषा दिक् ।
३,२२६
$वाच्यत्वसमर्थनमेव प्रथमप्रतिमाद्यं न साङ्ख्यनिराकरणम्$
अस्तु वा यथाकथञ्चित्सूत्रगमनिका ।
तथापि प्रकृतसङ्गतिपर्यालोचनयात्र वाच्यत्वसमर्थनमेवोपपन्नं न साङ्खयनिराकरणमित्याह समन्वय इति
समन्वये प्रतिज्ञाते शब्दगोचरतैव हि ।
प्रथमप्रतिपाद्या स्यात् … (अनुव्याख्यानम्)१,१.१३९अच्
न्यायसुधा-
तत्तु समन्वयादिति समस्तस्यापि शास्त्रस्य ब्रह्मणि समन्वये प्रतिज्ञाते सति यद्यपि मुख्यया वृत्त्या शब्दगोचरता साङ्खयनिराकरणं
चेत्युभयमपि प्रतिपाद्यं भवति ।
उभयाभावे ऽपि समन्वयानुपपत्तेः तथापि शब्दगोचरतैव प्रथमप्रतिपाद्या स्यात् हि यस्मात्तस्मात्सैवात्र प्रतिपाद्यते न साङ्खयनिराकरणम् ।
तत्पुनरीक्षतिकर्मव्यपदेशात्स इत्यादौ करिष्यत इति ।
कुतःशब्दवाच्यतायाः प्रथमप्रतिपाद्यत्वमित्यत आह तदभाव इति
… तदभावे कुतो ऽन्वयः (अनुव्याख्यानम्)१,१.१३९द्
न्यायसुधा-
अवाच्यत्वे हि ब्रह्मणि शब्दसम्बन्ध एवानुपपन्नः ।
जगत्कारणत्वादिवाक्यविचारस्तु दूरे ।
साङ्खयनिराकरणाभावे तु सृष्टयादिवाक्यानामेव समन्वयानुपपत्तिः ।
अतः प्रथमं वाच्यत्वसमर्थनेन समन्वयसम्भावनायां सत्यां वाक्यविशेषनिष्ठस्य विचारस्य पश्चादवसर इति ।
३,२२७
$समन्वयकथनात् न लक्षणाभिप्रेतासूत्रकारस्य$
ननु वाच्यत्वाभावे ऽपि लक्षणया वृत्त्या समन्वयो भविष्यतीत्यवाच्यत्वाक्षेपं निर्दलतयोपेक्ष्य सूत्रकारेणादौ साङ्खयमतं निराकृतमित्यङ्गीकारे
कथमसङ्गतिरित्यत आह कथं चेति
कथं च लक्षणावादी ब्रूयाद् ब्रह्मसमन्वयम् (अनुव्याख्यानम्)१,१.१४०अब्
न्यायसुधा-
स्यादेवम् ।
यदि सूत्रकारः शब्दानां ब्रह्मणि लक्षणामभिप्रेयात् ।
न चैतदस्ति ।
यदि सूत्रकारो ब्रह्मणि शब्दानां लक्षणामभिप्रैति ।
तदा कथं समन्वयं ब्रूयात् ।
किन्त्वन्वयमात्रं ब्रूयात् ।
समन्वयं चाब्रवीत् ।
तेन ज्ञायते न लक्षणा सूत्रकारस्याभिप्रेता किं नाम मुख्यवृत्तिरेवेति ।
३,२२८
$समन्वयः वाच्यार्थे एव घटने न लक्ष्यार्थे$
समन्वयं ब्रुवता कथं मुख्यवृत्तिरभिप्रेतेति ज्ञायत इत्यत आह यो ऽसाविति
यो ऽसौ शब्दस्य मुख्यार्थस्तत्रैव स्यात् समन्वयः (अनुव्याख्यानम्)१,१.१४०च्द्
न्यायसुधा-
समीचीनो (हि) अन्वयः समन्वयः ।
सच शब्दस्य वाच्यार्थ एव घटते ।
तत्रैव साक्षाच्छक्तिमत्त्वात् ।
लक्ष्यार्थे तु वाच्याथर्द्वारेणान्वयो न समीचीनः ।
अतः समन्वयशब्दं प्रयुञ्जानेन सूत्रकृता वाच्यवाचकभाव एव प्रतिज्ञात इति ज्ञायते ।
स चावाच्यत्वशङ्कानिरासमन्तरेण सर्वथाप्यसम्भावितः स्यादिति वाच्यत्वसमर्थनमेव प्राथमिकमिति ।
इदं चाभ्युपगम्योक्तम् ।
लक्षणावादे ऽन्वय एव नोपपद्यते ।
कुतः समन्वयः ।
समीचीनता तु तात्पर्यवत्ता ।
सा च लाक्षणिके ऽप्यर्थे शब्दानां सम्भवतीति न समन्वयसिद्धयर्थं वाच्यत्वं समर्थनीयमिति चेन्न ।
संशब्दसार्थान्तरं व्याख्यायामपि जघन्यवृत्त्या लक्षणया समन्वयाश्रयणनिबन्धे कारणाभावात् ।
३,२२९
$जन्मादिकारणे समन्वयस्योक्तत्वात् न निर्गुणे समन्वयप्रसङ्गः$
नन्वस्ति कारणम् ।
तत्तु समन्वयादिति निर्गुणे हि ब्रह्मणि समन्वयः सूत्रकृता प्रतिज्ञातः ।
न च तत्र शब्दानां वचनवृत्तिः सम्भवति ।
तस्या द्रव्यादिसम्बन्धनिबन्धनत्वात् ।
निर्गुणे च तदभावात् ।
अतो ज्ञायते लक्षणाऽश्रिता सूत्रकृतेति ।
एवञ्च सति संशब्दस्याप्युक्त एवार्थो निश्चीयत इति ।
स्यादप्येवम् ।
यदि निर्गुणे समन्वयः प्रतिज्ञातः स्यात् ।
न चैवम् ।
तथा हि किमत्र निर्गुणस्य प्रकृतत्वात्तदिति तत्परामर्शो ऽङ्गीक्रियते ।
उत सगुणस्य प्रकृतत्वे ऽपि तत्परामर्शासम्भवेन जहदजहल्लक्षणया निर्गुणपरामर्शो ऽभ्युपेयते ।
आद्यं दूषयति जन्मादीति
जन्मादिकारणे साक्षादाह देवः समन्वयम् ।
उक्तं तदेव जिज्ञास्यं क्वावकाशो ऽत्र निर्गुणे (अनुव्याख्यानम्)१,१.१४१
न्यायसुधा-
अत्र तत्तु समन्वयादिति सूत्रे ।
निर्गुणे समन्वयस्यावकाशः प्रसङ्गः क्वास्ति ।
नास्तीत्यर्थः ।
कुतः ।
यतो ऽत्र त्रिसूतृयामतीतायाम् ।
निर्गुणे विषयसप्तमीयम् ।
निर्गुणस्यावकाशः (प्रसङ्गः) क्वास्ति ।
न क्वापीत्यर्थः ।
कथम् ।
लक्षणसूत्रे जन्मादिकारणत्वेन लक्षिते हि ब्रह्मणि शास्त्रं प्रमाणमभिधाय तस्य समन्वयमाह सूत्रकारः ।
नच तन्निर्गुणं जन्मादिकारणत्वगुणयोगात् ।
ननु जन्मादिकारणत्वं तटस्थमेव सत्ब्रह्म लक्षयतीति ब्रूमः ।
अतो लक्षणसूत्रे प्रकृतं निर्गुणमेवेत्यत उक्तं साक्षाज्जन्मादिकारण इति ।
उपपादितं चेत्तत्रैव ।
मा भूल्लक्षणसूत्रे निर्गुणस्य प्रकृतत्वम् ।
प्रथमसूत्रे जिज्ञास्यतयोक्तं निर्गुणमेव ।
नहि तस्य कश्चिद्धर्मः श्रूयत इति न वाच्यम् ।
यतस्तदेव, जन्मादिसूत्रे जन्मादिकारणत्वेन लिलक्षयिषितमेव, जिज्ञास्यमुक्तम् ।
नह्यन्यज्जिज्ञास्यतया प्रतिज्ञायान्यस्य लक्षणमुच्यते ।
अनुपयोगादिति ।
३,२३१
$संशब्दप्रयोगाद्मुख्यवृत्तिरेव युक्ता न लक्षणाश्रयणम्$
द्वितीयं दूषयति कथं चेति
कथञ्चासम्भवस्तस्य मुख्यार्थस्य निराकृतौ (अनुव्याख्यानम्)१,१.१४२अब्
न्यायसुधा-
तस्यानुक्रान्तायां त्रिसूतृयां प्रकृतस्य मुख्यार्थस्य वाच्यस्य समन्वयविषयतया त्यागे ऽसम्भवः कथम्, न कथञ्चिदित्यर्थः ।
अतो निर्गुणसमन्वयस्याप्रतिज्ञातत्वान्न लक्षणाऽश्रयणमत्र युक्तम् ।
किन्तु प्रथमप्राप्तया मुख्यवृत्त्यैवेति ।
तदर्थ एव संशब्दो ऽपीति ।
$अज्ञेयत्वात् निर्गुणं नप्रमेयम्$
किञ्च निर्गुणं चेदत्र तच्छब्देन परामृश्यते ।
तदा तत्र लक्षणापि न सम्भवतीति व्यर्थं समन्वयसूत्रमापन्नमिति वक्तुं निर्गुणस्याप्रमेयत्वं तावत्साधयति मानेनेति
३,२३२
मानेन केन विज्ञेयमवाच्याज्ञेयनिर्गुणम् (अनुव्याख्यानम्)१,१.१४२च्द्
न्यायसुधा-
निर्गुणं वस्तु केन मानेन विज्ञेयम् ।
न केनापि ।
कुतः ।
अज्ञेयत्वात् ।
ज्ञेयमेव हि प्रमेयं दृष्टं घटादि ।
शब्दप्रमाणाविषयत्वे ऽवाच्यत्वं हेतुः ।
वाच्यस्यैव तद्विषयत्वदर्शनात् ।
ज्ञेयत्वाङ्गीकारे च निर्गुणत्वव्याघातात् ।
३,२३४
$निर्गुणस्य अमेयत्वे लक्षणयापि वृत्तिर्नसम्भवति$
अस्त्वप्रमेयमेव निर्गुणं ब्रह्म, ततः किमित्यत आह अमेयं चेदिति
अमेयं चेन्न शास्त्रस्य तत्र वृत्तिः कथञ्चन (अनुव्याख्यानम्)१,१.१४३अब्
न्यायसुधा-
निर्गुणं ब्रह्मामेयं चेदङ्गीकृतम् ।
तर्ह्यमेयत्वात्तत्र शास्त्रस्य कथञ्चनलक्षणयापि वृत्तिर्न सम्भवतीति समन्वयसूत्रं व्यथर्मेव प्राप्तम् ।
लक्षणा हि लक्ष्यार्थप्रमितिपूर्विका दृष्टा ।
नहि तीरं स्वरूपतो गङ्गासम्बन्धित्वेन च प्रमाणतो ऽप्रतिपन्नं गङ्गाशब्देन ज्ञाप्यते ।
लाक्षणिको ऽपि हि शब्दो लक्ष्यप्रमोत्पादाय प्रयुज्यते ।
अन्यथा प्रयोजनान्तराभावेन वैयर्थ्यप्रसङ्गात् ।
तथा चाप्रमेये हेतुफलयोरसम्भवात्कथं लक्षणासम्भवः ।
ननु प्रसिद्धिरेव लक्षणाहेतुर्न प्रमाणप्रसिद्धिः विशेषणवैयर्थ्यात् ।
तथाच स्वतः सिद्धे कथं लक्षणा न सम्भवतीति ।
एवं तर्हि सुतरां लक्षणा नोपपद्यत इति वक्ष्यति ।
ननु लाक्षणिकाः शब्दा लक्ष्यप्रमामनुत्पादयन्तो ऽपि विपरीताकारव्यावर्तनेन (एव) प्रयोजनवन्तो भविष्यन्तीति ।
न ।
निराकृतत्वादिति ।
३,२३५
$ज्ञानानन्दाद्यनन्तगुणार्णवत्वेन सगुणं परब्रह्मैव जिज्ञास्यम्$
निर्गुणे समन्वयं निराकृत्य व्यतिरेकमुखेनोपसंहरति तस्मादिति
तस्माच्छास्त्रेण जिज्ञास्यमस्मदीयं गुणार्णवम् (अनुव्याख्यानम्)१,१.१४३च्द्
विज्ञेयवाच्यलक्ष्यत्वपूर्वाशेषविशेषतः (अनुव्याख्यानम्)१,१.१४४च्द्
न्यायसुधा-
यतो निर्गुणे समन्वयो नोपपन्नः ।
तस्मादस्मदीयं सगुणमेव परं ब्रह्म शास्त्रेण जिज्ञास्यमङ्गीकरणीयम् ।
ननु पूर्वं विष्णोर्जिज्ञास्यत्वमुक्तम् ।
इदानीं तु सगुणस्य ब्रह्मण इति विरोध इत्यत उक्तम् वासुदेवाख्यमिति
तथापि प्राक् सगुणस्य हेयत्वादिकमभिहितम्, इदानीं तु जिज्ञास्यत्वमिति कुतो न विरोध इत्यत उक्तम् गुणार्णवमिति
पूर्वमनिर्वचनीयाविद्यावच्छिन्नस्य सगुणस्याप्रामाणिकत्वम् प्राकृतसत्त्वादिगुणबद्धस्य हेयत्वादिकं चाभिहितम् ।
इदानीं तु ज्ञानानन्दाद्यनन्तगुणार्णवत्वेन सगुणं परब्रह्मोपादेयमुच्यत इति को विरोधः ।
अर्णव इवाचरतीति क्विपि कृते ऽणर्वतेः पचाद्यचि कृते ऽर्णवशब्दः त्रिलिङ्गः साधुः ।
नन्वेकमेवाद्वितीयमिति ब्रह्मणो निर्गुणत्वमभिधीयते, अतः कथं गुणार्णवत्वमित्यत उक्तम् अद्वन्द्वमखिलोत्तममिति
अद्वन्द्वमसमम् ।
समाधिकराहित्यं श्रुत्यर्थ इत्यर्थः ।
३,२३७
$सर्वप्रमाणाविष्यत्वात् निर्गुणं ब्रह्म शशविषाणयितम्$
न केवलं निर्गुणे शास्त्रसमन्वयो नोपपद्यते ।
किन्तु तस्य सत्त्वमेवानुपपन्नमित्याह विज्ञेयेतिर्
विज्ञेयवाच्यलक्ष्यत्वपूर्वाशेषविशेषतः (अनुव्याख्यानम्)१,१.१४४च्द्
निर्गतं मनसो वाचो … (अनुव्याख्यानम्)१,१.१४५अ
३,२३७फ़्.
न्यायसुधा-
द्वन्द्वात्परस्त्वप्रत्ययः प्रत्येकमभिसम्बद्धयते ।
पूर्वपदेन रूपादीनां ग्रहणम् ।
तन्निर्गुणं ब्रह्म नास्त्येवेति बहिरेव प्रतिज्ञा द्रष्टव्या ।
कुतः ।
मनसो वाचश्चागोचरं यतः ।
उपलक्षणमेतत् ।
सर्वप्रमाणागोचरत्वाच्छशविषाणवदिति द्रष्टव्यम् ।
गवां ज्ञानानां चरो वृत्तिरस्मिन्निति गोचरम् ।
विषय इति यावत् ।
तेन नपुंसकोपपत्तिः ।
सर्वप्रमाणाविषयत्वं कुत इत्यत उक्तं विज्ञेयत्वपूर्वविशेषेभ्यो निर्गतमिति ।
विज्ञेयत्वाभावान्न कस्यापि प्रमाणस्य विषयः ।
वाच्यत्वलक्ष्यत्वसदृशगुणयोगित्वाभावाच्च न शाब्दत्वम् ।
रूपाद्यभावाच्च न प्रत्यक्षत्वम् ।
लिङ्गसम्बन्धाभावाच्च नानुमेयत्वमिति ।
३,२३९
ननु प्रमाणगोचरस्यापि निर्गुणस्य स्वप्रकाशतया सिद्धिर्भविष्यतीत्यत आह यदीति
… यदि तत् स्यादगोचरम् ।
अस्तु तन्मा वदेद् वादी नचास्मच्छास्त्रगं तु तत् (अनुव्याख्यानम्)१,१.१४५ब्द्
न्यायसुधा-
एवमपि यदि स्वप्रकाशतया तद्ब्रह्म स्यात् तर्ह्यस्तु ।
किन्तु समन्वयविषयतया न वक्तव्यम् ।
यतो ऽस्मच्छास्त्रगं वेदादिविषयो न भवति ।
तद्विषयत्वे स्वप्रकाशत्वहानिप्रसङ्गात् ।
प्रकाशान्तरव्यावृत्तिर्हि स्वप्रकाशशब्देनाभिप्रेता मायावादिना ।
तदिदमेकं सन्धित्सतो ऽन्यच्च्यवत इत्यायातम् ।
यद्ब्रह्मास्तित्वमभिलषितः शास्त्राविषयत्वमापतितम् ।
वादीति परिहासः ।
माशब्दो ऽयं न माङ् ।
अतो लिङा सम्बन्धः ।
३,२४१
$वचनजन्यज्ञानाविषयतया स्वप्रकाशत्वं वचनजन्यज्ञानविषयतया इति वचनविषयत्वं व्याहतम्$
आह ।
स्वप्रकाशस्यापि ब्रह्मणो न शास्त्रविषयत्वं विरुद्धम् ।
वचनजन्यस्फुरणाश्रयतया तत्कर्मतया वा वचनविषयत्वाभावेन स्वप्रकाशत्वम् ।
वचनजन्यवृत्तिव्याप्यतया तद्विषयत्वं चेति व्यवस्थोपपत्तेरिति ।
तदसत् ।
स्फुरणं हि ज्ञातता वा ज्ञानं वा ।
नाद्यः ।
स्वरूपस्यैव निराकरिष्यमाणत्वात् ।
द्वितीये ऽपि ज्ञानाश्रयतया विषयत्वं न क्वचिदिति कर्मत्वमेवाश्रयणीयम् ।
ज्ञानकर्मत्वं च ज्ञानविषयतातिरिक्तं नास्ति ।
ततश्च वचनजन्यज्ञानाविषयत्वमुक्तं स्यात् ।
वृत्तिरिति च ज्ञानं तदतिरिक्तं बोध्यते ।
न तावत्तदतिरिक्तम् ।
प्रमाणाभावात् ।
आद्ये तु व्याप्यत्वं न विषयत्वातिरिक्तं निरूपयितुं शक्यमिति वचनजन्यज्ञानविषयत्वमेवोक्तं स्यात् ।
तथाच व्याघातप्रसङ्गेन नैकमपि सिद्धयतीत्याशवानाह अवाच्यमिति
अवाच्यं वाच्यमित्युक्तवा किमित्युन्मत्तवन्मृषा ।
अस्मच्छास्त्रस्य चौर्याय यतते स्वोक्तिदूषकः (अनुव्याख्यानम्)१,१.१४६
न्यायसुधा-
अवाच्यं वचनजन्यज्ञानविषयः इत्युक्तवा पुनश्च वाच्यं वचनजन्यज्ञानविषयो भवतीत्युन्मत्तवत्स्वोक्तिदूषको व्याहतभाषी ।
किमिति मृषा वृथैवास्मच्छास्त्रस्य वेदस्य चौर्याय निर्गुणविषयतया योजयितुं यतते ।
नहि व्याहतभाषिणः किञ्चित्सिद्धयति ।
उन्मत्तवच्चोरवच्चेति ।
३,२४३
$श्रुतिसूत्रयोः सगुणविषयत्वेन न निर्विषयत्वापत्तिः$
स्यादेतत् ।
श्रुतिसूत्रयोस्तावदेकार्थत्वं युक्तम् ।
अन्यथा करणेतिकर्तव्यताभावानुपपत्तेः ।
श्रुतयश्चोपक्रमादिवशात् नित्यशुद्धबुद्धमद्वितीयं निर्गुणमेव प्रतिपादयन्त्यो निरवकाशाः प्रतीयन्ते ।
ततस्तन्मीमांसापि तद्विषयैव ।
तथा चान्यथानुपपत्तेयर्थाकथञ्चित् श्रुतिसूत्रयोर्निर्गुणविषयत्वमुपपादनीयम् ।
अन्यथा विषयाभावेनाप्रामाण्यापत्तेरित्यत आह जन्मादीति
जन्मादिकारणं यत्तत् साक्षान्नारायणाभिधम् ।
वदन्तु श्रुतयो ब्रह्म शास्त्रं चैतत् तदर्थतः (अनुव्याख्यानम्)१,१.१४७
प्रवृत्तमस्त्ववाच्यं ते मैव ब्रूयाः कथञ्चन (अनुव्याख्यानम्)१,१.१४९अब्
३,२४३फ़्.
न्यायसुधा-
न श्रुतिसूत्रयोर्निर्विषयत्वापत्तिभयेनावाच्यस्यापि तद्विषयत्वं कल्प्यम् ।
सगुणविषयत्वेन सविषयत्वोपपत्तेः ।
नचोपक्रमादिवैगुण्यम् ।
‘यतो वा इमानि भूतानि जायन्ते’ इत्यादौ साक्षाज्जन्मादिकारणत्वेन,’नारायणं महाज्ञेयम्’ इति नारायणादिशब्दोदितगुणवत्तया च
सर्वत्र सगुणस्यैव प्रतीतेरिति भावः ।
३,२४५
सर्वप्रमाणाविषयस्य शास्त्रविषयत्वाङ्गीकारे यो व्याघात उक्तो नासौ सुक्ष्मेक्षिकामाश्रित्य ।
येन सुक्ष्मेक्षिकायामविद्यमानमपि दूषणं स्फुरतीति शङ्कयेत ।
यथाऽह
‘न चात्रातीव कर्तव्यं दोषदृष्टिपरं मनः ।
दोषो ह्यविद्यमानो ऽपि तत्पराणां प्रदृश्यते’
इति ।
किन्तु स्थूलदृष्टिभिरप्ययं व्याघातः सुज्ञान इत्याशयवानाह सर्वशब्दैरिति
सर्वशब्दैरवाच्यं तदुक्तवा तद्विषयं पुनः (अनुव्याख्यानम्)१,१.१४९च्द्
३,२४६
न्यायसुधा-
उन्मत्तं व्याहतभाषिणम् ।
$मुख्यवृत्या समन्वयप्रतिपादनमेवात्र न साङ्ख्यनिराकरणम्$
निर्गुणे ब्रह्मणि समन्वयनिराकरणमुपसंहरति मा वद इति
मा वदो मा विजानीहि त्यजास्मच्छास्त्रचोरताम् (अनुव्याख्यानम्)१,१.१४९*
न्यायसुधा-
यतो वक्तुं ज्ञातुं च न शक्यं तस्माच्छास्त्रस्य तद्विषयत्वाग्रहो ऽपि त्याज्य इति भावः
मा वद इति
स्मशब्दो ऽत्राध्याहार्यः ।
तेन च लङुपपत्तिः ।
मा विजानीहीति माशब्दो ऽयम् ।
अतो निर्गुणे समन्वयस्याप्रतिज्ञातत्वाद्वचनवृत्त्यैव समन्वयो ऽयमिति वाच्यत्वसमर्थनमेव प्रथमसङ्गतं न साङ्खयनिराकरणमिति सिद्धम् ।
३,२४८
$स्वव्याख्यानदार्ढ्याय परनिराकरणं न दोषमावहति$
ननु यथा सूत्राविवक्षितं साङ्खयनिराकरणं कुर्वतो मम दोषः तथा मन्निराकरणं कुवर्तो भवतो ऽपि कथं न दोषः स्यात् ।
न हीदं कस्यचित्सूत्रस्यार्थतयोच्यत इत्यत आह वयमिति
वयं त्वां श्रुतियुक्तिभ्यां बद्ध्वास्मच्छास्त्रमञ्जसा ।
विचारयामः श्रुतिभिर्युक्तिभिश्चैव सादरम् (अनुव्याख्यानम्)१,१.१५०
न्यायसुधा-
त्वामपव्याख्यातारं श्रुतियुक्तिभ्यां बद्ध्वा निराकृत्यास्मच्छास्त्रं वेदं सूत्रसूचिताभिः श्रुतिभिर्युक्तिभिश्चाञ्जसा नैरन्तर्येण सादरं च
शिष्यैर्विचारयाम इति ।
अनेनेदमुदितं भवति ।
यावदापातरमणीयं परेषां व्याख्यानं शिष्याः पश्येयुः, न तावदस्मदुक्ते सूत्राणां निजार्थे ऽप्यञ्जसाऽदरं कुर्युः ।
किमसौ सूत्रार्थः किं वायमिति सन्देहावस्कन्दनात् ।
निराकृते त्वपव्याख्याने नैरन्तर्यादराभ्यामस्मदुक्तमेव (सूत्रा)अर्थमुपादाय शास्त्रार्थमीमांसायां निर्विचिकित्साः प्रवर्तेरन् ।
अतो मा(नाम)भूदयं सूत्रार्थस्तथापि सूत्रार्थग्रहणोपायत्वाद्वयाकरणादावुदाहरणप्रत्युदाहरणप्रदर्शनादिवन्न कञ्चन दोषमावहति ।
किं नाम गुणहेतुरेव भवतीति ।
३,२४९
$अवाच्याज्ञेयादीनां श्रुत्यन्तरेण अर्थकथनम्$
ननु यदि वाच्यमेव ब्रह्म को ऽर्थस्तर्ह्यवाच्यत्वाद्यभिधात्रीणां श्रुतिस्मृतीनामित्यतः श्रुत्यन्तरेणैव तदर्थमाह अद्भुतत्वादिति
३,२५०
अद्भुतत्वादवाच्यं तदतर्क्याज्ञेयमेव च ।
अनन्तगुणपूर्णत्वादित्यूदे पैङ्गिनां श्रुतिः (अनुव्याख्यानम्)१,१.१५१अद्
न्यायसुधा-
आश्चर्यतमत्वात् ।
कथमाश्चर्यतमत्वम् ।
अनन्तगुणपूर्णत्वात् ।
दुर्लभं ह्याश्चर्यं भवति ।
न ह्यनन्तगुणपूर्णं सुलभम् ।
भासनोपसम्भाषेत्यात्मनेपदम् ।
वाच्यत्वस्योपपादितत्वात् ।
अर्थकथनमात्रेणैवालम् ।
श्रुत्युदाहरणं तु दार्ढ्यार्थमित्यवगन्तव्यम् ।
३,२५१
$वाच्यस्यावच्यत्वं लोकेऽपि रूढितः सिद्धम्$
आश्चर्यं हि वस्तु वाच्यमपि न तेन तेनाकारेण विशेषतो निर्दोष्युं शक्यते ।
व्युत्पत्त्यभावात् ।
वाङ्मनसयोर्व्याकुलत्वाद्वेत्यतो ऽवाच्यमित्युच्यते ।
मुख्यातिक्रमेणामुख्यप्रयोगे किं प्रयोजनमिति चेत् ।
स्यादयं प्रयोजनानुयोगो यद्ययं स्वतन्त्रप्रयोगः स्यात् ।
नैतदस्ति ।
रूढत्वात् यथोक्तम्,’रूढोपचारो रूढलक्षणोपचारो लक्षणा’ इति ।
अन्यो ऽप्याह’मुख्यार्थबाधे तद्योगे रूढितो ऽथ प्रयोजनात्’ इति ।
तदिदमाह अवाच्यमिति
अवाच्यमिति लोके ऽपि वक्तयाश्चार्यतमं भुवि (अनुव्याख्यानम्)१,१.१५१एफ़्
३,२५२फ़्.
न्यायसुधा-
$श्रुतिव्याख्यानस्य क्रमानुल्लङ्घने निमित्तकथनम्$
नन्वेतच्छ्रुतिव्याख्यानं सूत्रव्याख्यानानन्तरमेव कर्तव्यम् ।
तत्रैव पूर्वपक्षश्रुतेः शङ्कितत्वात् ।
अत्र व्याख्यानं तु न सङ्गतमिति ।
मैवम् ।
सूत्रपूर्वपक्षिणेवापव्याख्यात्रापि लक्षणया ब्रह्मणि समन्वयं समर्थयमानेनैतच्छ्रुतिस्मृत्युपादानस्य कर्तुमुचितत्वात् ।
तथा चोभौ प्रतिसूत्रव्याख्यापव्याख्याप्रत्याख्यानयोरवसाने श्रुत्यादिव्याख्यानं युक्तमेवेति ।
३,२५३
$अधिकरणोपसंहारः$
तदेवं ब्रह्मणो वाच्यत्वाद्गतिसामान्याच्च युक्तं समन्वयसूत्रमिति सिद्धम् ।
इति श्रीमन्न्यासुधायां ईक्षत्यधिकरणम्
३,२५५
अथ श्रीमन्न्यायसुधायां आनन्दमयाधिकरणम्
$अध्यायस्वरूपनिरूपणम्$
ओं आनन्दमयो ऽभ्यासात् ओं
अथातो ब्रह्मजिज्ञासेति यस्य ब्रह्मणो जिज्ञासा विहिता तत्स्वरूपं जन्माद्यस्य यतः शास्त्रयोनित्वादिति लक्षणप्रमाणाभ्यां
स्वेतरसमस्तवस्तुव्यावृत्ततयावधारितम् ।
प्रमाणस्यान्यपरत्वशङ्कया लक्षणस्यातिव्याप्तिः समन्वयसूत्रेण परिहृता ।
ब्रह्मणश्च सकलशास्त्रप्रमाणकत्वासम्भावनाशङ्केक्षत्यधिकरणे निराकृता ।
नहि लक्षणप्रमाणनिरूपणव्यतिरेकेण वस्तुविचारणं नामास्ति ।
सम्भावनया तु न वरत्ववधारणार्था ।
अप्रमाणत्वात् ।
किन्तु यत्रासम्भावनया समीचीनयोरपि लक्षणप्रमाणयेरतथाभावशङ्कया प्रवृत्तिसङ्कोचस्तत्रैव सम्भावनोपयोगः ।
वस्तुतस्तु लक्षणप्रमाणाभ्यामेव वस्तुव्यवस्थेत्यतो ब्रह्मस्वरूपनिरूपणे ऽवशेषाभावात्किमानन्दमयो
ऽभ्यासादित्यादिनाध्यायेनेत्याशङ्कयाध्यायशेषस्य कृत्यमाह एवमिति
आनन्दमयो ऽभ्यासात् । ब्ब्स्_१,१.१२ ।
ओं आनन्दमयो ऽभ्यासात् ओं
एवं शास्त्रावगम्यत्वे विभागेन समन्वयम् ।
आनन्दमय इत्यादिनाध्यायेन वदत्यजः (अनुव्याख्यानम्)१,१.१५२
न्यायसुधा-
सत्यम् ।
न ब्रह्मस्वरूपनिरूपणे किमप्यवशिष्यम् ।
तथापि तत्तु समन्वयदित्युपक्रमादितात्पर्यलिङ्गबलात्सकलस्यापि शास्त्रस्य यो ब्रह्मणि परममुख्यया वृत्त्या
प्रतिपाद्यप्रतिपादकत्वलक्षणसमन्वयो ऽभिहितस्तमेव समन्वयं विभागेन प्रपञ्चेनानन्दमय इत्यादिनाध्यायेन वदति सूत्रकार इति न वैयर्थ्यम् ।
तत्तु समन्वयादिति हि प्रतिज्ञामात्रेणोक्तम् ।
तद्यावदुदाहरणत्वेन वाक्यविशेषानुपादाय विमर्शपूर्वकं पूर्वोत्तरपक्षोपालम्भसाधनाभ्यां न प्रपञ्च्यते तावदनुक्तप्रायमर्काकारित्वात् ।
अन्यथा परो ऽपि ह्यन्यदेव समन्वयादित्युक्तवा कृती स्यात् ।
यदि हि प्रत्ययमनुत्पाद्यैको ऽयं भूमध्यप्रदेश इति ब्रूयात् ।
तदा परो ऽपि किं न ब्रूयात्परस्ताद्वितस्तेरिति ।
तस्मादावश्यकं समन्वयप्रपञ्चनम् ।
तदनेन समन्वयसूत्रेणाध्यायशेषस्य प्रपञ्च्यप्रपञ्चकभावेन सङ्गतिर्दर्शिता ।
एवं तर्हि तदानन्तर्यमेव स्यात्कुतोव्यवधानमित्यत उक्तमेवमिति ।
एवमीक्षत्यधिकरणव्युत्पादितन्यायेन ब्रह्मणः शास्त्रावगम्यत्वे मुख्यया वृत्त्या सकलशास्त्रप्रतिपाद्यत्वे सम्भाविते सतीति ।
एतदुक्तं भवति ।
सत्यं प्रपञ्चनमनन्तरप्राप्तम् तथाप्यवाच्यत्वाद्याशङ्कानिरासेन शास्त्रावगम्यत्वसम्भावनासमर्थनेन व्यवधीयते ।
सति हि तस्मिन्न(न्नेत)स्यावसरः ।
शब्दलेशसञ्चारासम्भवे वाक्यतात्पर्यविचारस्यानवकाशत्वात् ।
नहि तोयाभ्यवहारासमर्थस्य मुमूर्षोः शष्कुलीभक्षणं सचेतनः सम्भावयतीति ।
‘स्वादिष्वसर्वनामस्थाने’ इति पदसञ्ज्ञानुशासनादत्र न यतिभङ्गःशङ्कनीयः ।
३,२७६
$पराभिमताध्यायस्वरूपपरीक्षा$
मायावादी तूत्तरसूत्रसन्दर्भमाक्षिप्य समाधानमाह ।
द्विरूपं हि ब्रह्मावगम्यते वेदान्तवाक्येषु ।
नामरूपविकारोपाधिविशिष्टं तद्विपरीतं च सर्वोपाधिविवर्जितम् ।
‘यत्र हि’द्वैतमिव भवतिऽ‘सर्वाणि रूपाणि विचिन्त्य धीरः’ इत्येवं सहस्रशो ऽविद्याविद्याविषयभेदेन ब्रह्मणो द्विरूपतां दर्शयन्ति
वेदान्तवाक्यानि ।
तत्राविद्यावस्थायां ब्रह्मण उपास्योपासकादिलक्षणः सर्वो व्यवहारः ।
तत्र कानिचिद्ब्रह्मण उपासनान्यभ्युदयार्थानि ।
कानिजिक्रममुक्तयर्थानि कानिचित्कर्मसमृद्धयर्थानि ।
एवमपेक्षितोपाधिभेदं ब्रह्मोपास्यत्वेन निरस्तसमस्तोपाधि तु ज्ञेयत्वेनोपदिश्यत इत्यस्यार्थस्य प्रदर्शनायेत्तरग्रन्थ आरभ्यत इति ।
३,२७६फ़्.
तदिदमनुपपन्नम् ।
ब्रह्मणो द्वैरूप्यस्याप्रामाणिकत्वात् ।
सर्वाण्यपि हि वेदवाक्यान्यसङ्खयेयकल्याणगुणाकरं सकलदोषगन्धविधुरमेकरूपमेव ब्रह्म नारायणाख्यं प्रतिपादयन्ति ।
किन्तु कानिचित्सर्वज्ञत्वसर्वेश्वरत्वसर्वान्तर्यामित्वसौन्दर्यौदार्यवीर्यादिगुणविशिष्टतया ।
कानिचिदपहतपाप्मत्वनिर्दुःखत्वप्राकृतभौतिकविग्रहरहितत्वादिदोषाभावविशिष्टतया ।
कानिचितदिगहनताज्ञापनाय वाङ्मनसागोचरत्वाद्याकारेण ।
कानिचित्सर्वपरिहारेण तस्यैवोपादानायाद्वितीयत्वेन ।
कानिचित्सर्वसत्ताप्रतीतिप्रवृत्तिनिमित्तताप्रतिपत्त्यर्थं सर्वात्मकत्वेन इत्येवमाद्यनेकप्रकारैः परमपुरुषं बोधयन्ति ।
ततो व्याकुलबुद्धयो गुरुसम्प्रदायविकला अश्रुतवेदव्याख्यातारः सर्वत्राप्येकरूपतामननुसन्दधाना वेदं छिन्दन्ति ।
न (च)एतद्द्वैरूप्यप्रपञ्चनमुत्तरत्रोपलभ्यते ।
नाप्यस्याविद्याविषयस्य प्रपञ्चनं मोक्षशास्त्रे ऽत्रोपयुज्यते ।
प्रसङ्गादुच्यत इति चेन्न ।
सर्वस्व प्रासङ्गिकत्वे प्रतिपाद्याभावप्रसङ्गात् ।
तदिदमाभाणकं लौकिकानां नातिवर्तते’सार्थादपि तस्करा बहवः’ इति ।
एतच्च सगुणनिर्गुणभेदं निराकुर्वताऽचार्येण निरस्तमिति नेह पुनः प्रक्रान्तम् ।
तथाच भाष्यम् ।
नान्यथा तददृष्टेरिति ।
३,२८१
$प्रथमपादे प्रसिद्ध नामात्मकशब्दानां समन्वयकथनम्$
नन्वेवमध्यायस्य समन्वयप्रतिपादनलक्षणैकार्थत्वेनैकवाक्यत्वे सति पादभेदः किन्निबन्धनः ।
अवान्तरार्थोपाधिभेदादिति भावेनाह तत्रेति
तत्रान्यत्र प्रसिद्धानां विष्णावेव समन्वयम् ।
शब्दानां प्रथमे पादे … (अनुव्याख्यानम्)१,१.१५३अच्
न्यायसुधा-
चतुर्विधा (हि) वैदिकाः शब्दाः ।
केचिद्ब्रह्मण्येवप्रसिद्धाः ।
अन्ये ऽन्यत्रप्रसिद्धाः, केचिदुभयत्रप्रसिद्धाः, अपरे त्वन्यत्रैवप्रसिद्धा इति ।
सर्वे ऽपि प्रत्येकं नामलिङ्गात्मकतया ।
द्विविधाः ।
साक्षाद्धर्मिवाचिनो नामात्मकाः ।
धर्मद्वारा धर्मिणि वर्तमाना लिङ्गात्मकाः ।
तेषु ब्रह्मणि प्रसिद्धानां समन्वयो न वक्तव्यः ।
विवादाभावात् ।
तत्रैव च मीमांसावतारात् ।
तत्र वक्तव्यसमन्वयेषु त्रिविधेषु शब्देष्वन्यत्रप्रसिद्धानां नामात्मकानां शब्दानां विष्णावेव समन्वयम् ।
तत्र प्रथमे ऽध्याये प्रथमे पादे वदत्यजः ।
अन्येषामन्येष्विति तत्रतत्र वक्ष्यति ।
क्रमनियमे तु हेतुरुपरिष्याद्वक्ष्यते ।
प्रथमे स्पष्टब्रह्मलिङ्गानां द्वितीयतृतीययोरस्पष्टब्रह्मलिङ्गानां समन्वयः ।
चतुर्थे प्रधानस्य शाब्दत्वनिराकरणमित्युक्तम् ।
द्वितीयतृतीयपादोदाहरणवाक्यानामपि बहुलं स्पष्टब्रह्मलिङ्गत्वात् ।
द्वितीयतृतीययेर्भेदाभावप्रसङ्गाच्च ।
सगुणनिर्गुणप्राचुर्येण तद्भेद इति कश्चित् ।
तन्न ।
निराकृतत्वात् ।
प्रधानशाब्दत्वनिरासस्येक्षत्यधिकरणानन्तर्यं विहाय विक्षेपे कारणाभावाच्च ।
३,२९३
$आनन्दमयाधिकरणे गुणिसामान्यवाचिनां गुणवाचिनां च समन्वयः$
नन्वत्र पादे सप्ताधिकरणानि समन्वयविभागार्थानि ।
तत्र सप्तानां शब्दानां ब्रह्मणि समन्वयः सिद्धयेत् ।
तत्कथमन्यत्रसिद्धानां नामात्मकानां सर्वशब्दानां समन्वयसिद्धिरत्र स्यात् ।
अन्यथा समन्वयसूत्रेणैवालम् ।
किमनेनात्यल्पप्रपञ्चनेनेति ।
मैवम् ।
एकैकत्राधिकरणे समानन्यायानमनेकशब्दराशीनां निर्णीयमानत्वात् ।
वाक्यविशेषग्रहणस्य पूवर्पक्षविशेषोपादानस्य सिद्धान्तप्रमाणविशेषस्वीकारस्य चोदाहरणार्थत्वात् ।
प्रत्येकं निर्णये शास्त्रस्यापर्यवसानप्रसङ्गः ।
विश्वतोमुखता च सूत्राणां न स्यात् ।
तर्हि निर्णेतव्यशब्दावच्छेदकोपाधयो वक्तव्याः ।
अन्यथास्येदमुदाहरणमिति ज्ञातुमशक्यत्वात् ।
सर्वोदाहरणत्वे च सर्वथाधिकरणान्तरानारम्भप्रसङ्गादिति ।
सत्यम् ।
सन्ति प्रत्यधिकरणं निर्णेतव्यार्थावच्छेदकोपाधय इत्याशयवानानन्दमयाधिकरणनिर्णेयशब्दोपाधिमाह गुणीति
३,२९४
… गुणिसामान्यवाचिनाम् (अनुव्याख्यानम्)१,१.१५३द्
न्यायसुधा-
गुणवाचिनां च प्रथममाह देवः समन्वयम् (अनुव्याख्यानम्)१,१.१५४अब्
न्यायसुधा-
आनन्दमयादिशब्दा हि गुणिसामान्यं वदन्ति ।
न शतक्रत्वादिशब्देभ्य इवैतेभ्यो गुणिविशेषप्रतीतिरस्ति ।
ते च मयट्प्रत्ययादिना ब्रह्मणे ऽन्यत्प्रत्याययन्तीति भवन्त्यन्यत्रप्रसिद्धाः ।
गुणवाचिनस्त्वानन्दादयस्ते गुणिनि ब्रह्मणि वर्तितुं नार्हन्तीत्यन्यत्रप्रसिद्धाः ।
गुणगुणिनोरभेदस्त्वहिकुण्डलाधिकरण एव साक्षात्सूत्रकृता वक्ष्यते ।
अभेदे ऽपि शब्दादिसाङ्कर्याभावश्चेति ।
३,२९६
$आनन्दमयादिपञ्चकस्य विष्णुवाचकत्वम्$
तैत्तिरीयके स वा एष पुरुषो ऽन्नरसमय इत्यदिनान्नमयप्राणमयमनोमयविज्ञानमयानन्दमयाः पठ्यन्ते ।
तत्र संशयः ।
किमेते ऽन्नमयादयः परमात्मैव ।
उत तदन्यः कश्चिदिति ।
सर्वत्र ब्रह्मशब्दश्रवणात्तस्य च विष्णावन्यत्र च प्रयोगात् ।
किं तावत्प्राप्तम् ।
अन्य एवान्नमयादिशब्दार्थ इति ।
कुतः ।
अन्नमयादिशब्दा हि विकरवाचिनः ।
मयट् प्रत्ययस्य विकारार्थेऽनुशासनात् ।
विकारस्य च शरीरादिकोशेषु सम्भवात् ।
सर्वविकारात्मकत्वेन प्रकृतौ वोपपत्तेः ।
जीवानां वा विकाराभिमानिनामन्नमयत्वादिकं युक्तम् ।
गौरः श्याम इत्यादिवत् ।
अधिष्ठात्रीणां ब्रह्मादिदेवतानां वायं शब्दः सम्भवति ।
अशनिरिन्द्र इतिवत् ।
नच विकारत्वं परस्य ब्रह्मणः सम्भवति ।
निर्विकारो ऽक्षरः शुद्ध इत्यादेः ।
यद्यपि विकार इव प्राचुर्ये ऽपि मयट्प्रत्ययो ऽस्ति ।
तथाप्यन्नमयशब्दस्तावद्विकारार्थो ऽङ्गीकार्यः ।
‘ओषधीभ्यो ऽन्नमन्नात्पुरुषः’ इत्योषधिजनितान्नविकारं पुरुषशब्दाभिधेयं शरीरं प्रकृत्य’स वा एष पुरुषो ऽन्नमन्नरसमयः’ इत्युक्तत्वात् ।
‘तस्येदमेव शिरः’ इत्यपरोक्षतया निर्देशात् ।
तथाच द्वैविध्यकल्पनानुपपत्तेः सर्वत्र विकारार्थ एवाङ्गीकार्यः ।
किञ्चान्नमयादयः पञ्च, ब्रह्म त्वेकमेव, अतः कथं तदेतैः शब्दैरुच्येत ।
अपि चैते परस्परमन्यतया शरीरशरीरिभावेनान्तरत्वेन चोच्यन्ते ।
नचैवं ब्रह्म भवितुमर्हति ।
नच तर्ह्यानन्दमयो ऽस्तु ब्रह्म सर्वान्तरत्वादिति वाच्यम् ।
विकारप्रवाहपतितत्वात् ।
अन्नमयाद्यान्तरत्वमात्रेण सर्वान्तरत्वानिश्चयात् ।
किञ्च ब्रह्मविदाप्नोति परमिति प्रकृतं परं ब्रह्म आनन्दमयस्य’ब्रह्म पुच्छं प्रतिष्ठा’ इत्यवयवतया प्रतीयते ।
नचावयव एवावयवी, विरोधात् ।
अतो न अन्नमयादयः पञ्चापि ब्रह्म किं त्वन्य एवेति ।
एवं प्राप्ते सिद्धान्तयत्सूत्रं व्याख्याति समुद्रशायिनमिति
समुद्रशायिनं सर्वप्रसूतिप्रसवं श्रुतिः (अनुव्याख्यानम्)१,१.१५४च्द्
तदेव ब्रह्म परममिति सावधृतिर्जगौ ।
यतो ऽतो ब्रह्मशब्दस्य तत्रैव नियतत्वतः (अनुव्याख्यानम्)१,१.१५५
यो ऽन्नं ब्रह्मेत्यादिरूपादभ्यासात् तैत्तिरीयके ।
अन्यासु चैतद्रूपासु शाखास्वपि सहस्रशः (अनुव्याख्यानम्)१,१.१५६
आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम् (अनुव्याख्यानम्)१,१.१५७अब्
३,२९६फ़्.
न्यायसुधा-
अत्र तैत्तिरीयके’अन्यासु चतदूषासु शाखास्वपि सहस्रशः ।
आनन्दमय इत्याद्यैः शब्दैर्वाच्यो हरिः स्वयम्’ इत्येतावताऽनन्दमयो ब्रह्मेति प्रतिज्ञाभागो व्याख्यातः ।
तत्र तैत्तिरीयक इत्युदाहरणवाक्यग्रहणम् ।
अन्यास्विति निर्णेतव्यव्यपदेशः ।
एतद्रूपास्विति गुणिसामान्यगुणवाचिनामवतीष्वित्यर्थः ।
तत्र हेतुरभ्यासादिति ।
तद्वयाख्यानं ये ऽन्नमिति ।
‘ये ऽन्नं ब्रह्मोपासते, ये प्राणं ब्रह्मोपासते, आनन्दं ब्रह्मणो विद्वान्, विज्ञानं ब्रह्म चेद्वेद, असद्ब्रह्मेति वेद चेत्’ इत्यन्नमयादिविषयतयोदाहृतेषु
श्लोकेषु ब्रह्मशब्दस्याभ्यासादित्यर्थः ।
एकविषयासकृदुक्तिर्मुख्यो ऽभ्यासः ।
न चैवमत्रास्ति ।
किं त्वसकृदक्तिमात्र(मितिज्ञाप)मिति शङ्कायामेकविषयताप्यस्तीति ज्ञापयितुमित्यादेरित्यनुक्तवा इत्यादिरूपादित्युक्तम् ।
अन्नमयादिविषयत्वेन ब्रह्मशब्दस्य श्रुतत्वादित्युक्तं भवति ।
ब्रह्मशब्देन कथमयं निश्चय इत्यत आह ब्रह्मशब्दस्येति
तदपि कुत इत्यत आह श्रुतिरिति
‘तदेव ब्रह्म परमम्’ इति सावधृतिः श्रुतिः विष्णुमेव ब्रह्मशब्दवाच्यं जगौ यतो ऽत इति योजना ।
तत्रापि तदिति परामर्शविषयो विष्णुरिति कुत इत्यत उक्तम् समुद्रशायिनमिति
व्याख्यातमेतत्प्रथमसूत्रे ।
३,३०४
$आनन्दमयशब्दस्य अन्नमयाद्युपलक्षणत्वम्$
नन्वानन्दमय इत्येव सूत्रे प्रतिज्ञा, तत्कथमानन्दमय इत्याद्यैरिति व्याख्यानमित्यत आह उपलक्षणत्वमिति
उपलक्षणत्वं शब्दानामानन्दमयपूर्विणाम् (अनुव्याख्यानम्)१,१.१५७च्द्
न्यायसुधा-
आनन्दमयश्चासौ पूर्वश्च स एषामस्ति त आनन्दमयपूर्विणस्तेषाम् ।
स्यादयं व्याख्यानव्याख्येययोर्विसंवादो यद्यत्रानन्दमयशब्दः स्वमात्रस्य ग्राहकः स्यात् ।
न चैवम् ।
किं त्वत्रानन्दमयशब्दस्य समानन्यायानामन्नमयादिशब्दानामुपलक्षणकत्वम् ।
एवमुत्तरत्राप्याकाशादिशब्दानामपि ।
स्वसमानन्यायशब्दान्तरोपलक्षणत्वमवगन्तव्यमिति ।
अजहल्लक्षणा चैषा ।
तेनानन्दमयस्य त्यागो न मन्तव्यः ।
अत एव विकारशब्दादित्याद्याक्षेपाणां तत्परिहाराणां स्वतन्त्रयुक्तीनां चोपलक्षणत्वं द्रष्टव्यम् ।
३,३०७
$यथाश्रुतग्रहणे सूत्राणां सर्वतोमुखत्वानुपपत्तिः$
स्यादेतत् ।
मुख्यार्थबाधे तद्योगे प्रयोजने च सति लक्षणा दृष्टा ।
तदत्र वाचकशब्दप्रयोगे सम्भवति किं लाक्षणिकशब्दप्रयोगे प्रयोजनं सूत्रकारस्य ।
नचेयं रूढलक्षणा ।
येन प्रयोजनानपेक्षेत्यत आह सूत्रस्येति
सूत्रस्याल्पाक्षरत्वेन सर्वशाखाविनिर्णये ।
पुनश्च प्रापकाद्धेतोस्तत्राधिकरणान्तरम् (अनुव्याख्यानम्)१,१.१५८
न्यायसुधा-
यदि मुख्य एव प्रयोगः क्रियते ।
तदान्नमयप्राणमयमनोमयविज्ञानमयानन्दमया इत्येव प्रयोक्तव्यं स्यात् ।
तथाच सूत्रस्याल्पाक्षरत्वलक्षणं हीयेत ।
श्रुत्या ऽर्थाद्वा ज्ञायमानस्यार्थस्यावचनं ह्यल्पाक्षरत्वम् ।
अयं चार्थो ऽर्थोज्ज्ञायत इति वक्ष्यामः ।
अतः सूत्रस्याल्पाक्षरत्वेन प्रयोजनेन लाक्षणिकप्रयोगः सूत्रकारस्येति ।
३,३०८
ननु सूत्रे यथाश्रुतमेव चेद् गृह्यते तदा कीदृशो दोषो येन लक्षणा व्याख्यातव्येत्यत आह सर्वेति
प्रवृत्तत्वादिति शेषः ।
यदि हि सूत्रे श्रुतमात्रं गृह्येत तदा सूत्रशतेन वाक्यशतसमन्वय एव सिद्धयेत् ।
नतु सर्वशाखानिर्णयः ।
सर्वशाखानिर्णयार्थं प्रवृत्तशनि चैतानि ।
सूत्रान्तराभावात् ।
अतः सर्वशाखानिर्णायकत्वस्यान्यथानुपपत्त्या यथाश्रुतमात्रपरित्यागेन लक्षणा व्याख्येयेति गम्यते ।
लक्षणाऽश्रयणे हि सर्वशाखानिर्णयः सिद्धयतीति ।
ननु यथा यथाश्रुतग्रहणे बाधकमस्ति सूत्राणां विश्वतोमुखत्वासम्भवः तथोपलक्षणाऽश्रयणे ऽपि बाधकसद्भावः समानः ।
आनन्दमयशब्देनान्नमयादीनामिव सर्वशब्दानामुपलक्षयितुं शक्यत्वेनोत्तराधिकरणारम्भानुपपत्तेरिति चेत् ।
किं समानन्यायशब्दान्तरविषयाधिकरणानारम्भप्रसङ्गो बाधकः ।
किंवा न्यायान्तरविषयशब्दान्तरगोचराधिकरणानरम्भप्रसङ्गः ।
नाद्यः ।
इष्टत्वात् ।
न द्वितीयः ।
वैषम्यात् ।
अन्नमयादयो हि समानन्यायतया सम्बन्धेनोपलक्षणतया गृह्यन्ते ।
तदितरेषां तूपलक्षणायां कः सम्बन्धः ।
नहि सम्बन्धेन विना लक्षणा दृष्टा ।
शब्दत्वेन सन्दिग्धत्वेन चोपलक्षणमुपप्लवः ।
तथा सति तत्तु समन्वयादित्यनेनैव पूर्णत्वात् ।
अथ समानन्यायविषयत्वे ऽप्यधिकरणान्तरारम्भो दृश्यते ।
उपलक्षणपक्षे स न स्यादित्यापाद्यत इत्यत आह पुनश्चेति
तत्र पूर्वाधिकरणव्युत्पादिन्यायविषये ऽप्यर्थे यदधिकरणान्तरमारभ्यते
तत्पूर्वाधिकरणन्यायाच्छादकाधिकाशङ्कालक्षणात्पुनरधिकरणान्तरारम्भप्रापकाद्धेतोर्विद्यमानाद्युज्यते ।
इदमुक्तं भवति ।
समाने ऽपि न्याये पुनरधिकरणान्तरारम्भान्यथानुपपत्त्या यथाश्रुत एव सूत्रार्थ इति यदुक्तं तन्न ।
अन्यथोपपत्तेः ।
अधिकाशङ्कया तन्न्यायविषयत्वाभावे परेणाशङ्किते ऽधिकाशङ्कानिराकरणेन पुनस्तन्न्यायविषयत्वप्रदर्शनार्थत्वादधिकरणान्तरारम्भस्य ।
विश्वतोमुखत्वभङ्गस्तु निरवकाश इति लक्षणाऽश्रयणमेव न्याय्यमिति ।
३,३१०
ननु सर्वशाखानिर्णायकत्वमेवैषां सूत्राणां नास्ति ।
सर्वशाखानां कार्यनिष्ठत्वेनाब्रह्मविषयत्वात् ।
ब्रह्मनिष्ठस्तु वेदान्तभागो ऽल्पीयान् विनापि लक्षणाऽश्रयणेन यथाश्रुतार्थैः सूत्रैः शक्यो निर्णेतुमिति किं लक्षणाऽश्रयणेनेत्यत आह सर्वे वेदा इति
सर्वे वेदा आमनन्ति यत् पदं त्विति हि श्रुतिः (अनुव्याख्यानम्)१,१.१५९अब्
न्यायसुधा-
सर्वेषामपि वेदानां ब्रह्मनिष्ठतामाहेति शेषः ।
$सूत्रे आनन्दमयस्यैव निर्देशे कारणम्$
यद्यत्रोपलक्षणमभिप्रेतं स्यात्तदा प्रथमप्राप्तत्वादन्नमयशब्दमेवोपादद्यात् ।
आनन्दमयशब्दं तूपाददत्सूत्रकारस्तन्मात्रविवक्षां सूचयतीत्यत आह आनन्दमयेति
आनन्दमयरूपे तु ब्रह्मणः पुच्छतोक्तितः (अनुव्याख्यानम्)१,१.१५९च्द्
समस्ताब्रह्मताप्राप्तेरानन्दमयनाम हि (अनुव्याख्यानम्)१,१.१६०अब्
न्यायसुधा-
अन्नमयादीनामब्रह्मत्वे विकारशब्दः साधारणोपपत्तिः ।
आनन्दमयरूपे तु ब्रह्मविदाप्नोति परमित्युक्तस्य’ब्रह्म पुच्छं प्रतिष्ठा’ इति पुच्छत्वोक्तया समस्तस्यावयविन
आनन्दमयस्याब्रह्मत्वप्राप्तिरधिकाप्युपपत्तिरस्तीत्यतो ऽत्रावहितैर्भवितव्यमिति ज्ञापयितुमानन्दमयनाम गृहीतं सूत्रकृतेत्यन्यथोपपत्तिरुक्ता
भव(ती)ति ।
यद्यानन्दमयो ब्रह्म स्यात्तदा तदवयवस्य समस्ताया मुख्याया आब्रह्मतायाः सम्यग्ब्रह्मताया अप्राप्तेरिति वा ।
ततश्च तद्वेदनात्परप्राप्तिः श्रुता बाध्येतेति ।
नन्वन्नमये ऽप्यधिकानुपपत्तिरस्ति ।
‘ओषधीभ्यो ऽन्नम् ।
अन्नात्पुरुषः ।
स वा एष पुरुषो ऽन्नरसमयः’ इति ।
‘तस्येदमेव शिरः’ इति च ।
मैवम् ।
अस्यापि विकारोपपादकत्वेन तदन्तर्भावात् ।
यद्वा अथातो ब्रह्मजिज्ञासेति जिज्ञास्यतयोक्तस्य ब्रह्मणः पुच्छत्वोक्तया समस्ताब्रह्मताप्राप्तेरानन्दमयविचारस्य प्रकृतेन
सङ्गतत्वादानन्दमयनामग्रहणमिति योज्यम् ।
३,३११
$आनन्दमयशब्दस्य अन्नमयाद्युपलक्षणत्वेकारणान्तरम्$
ननु सूत्राणामुपलक्षणत्वाभावे सर्वशाखानिर्णयाभावप्रसङ्गेनास्तूपलक्षणत्वम् ।
आनन्दमयशब्दस्यान्नमयाद्युपलक्षणत्वमित्ययं विशेषः कुत इत्यत आह ब्रह्मशब्दस्येति
ब्रह्मशब्दस्य चाभ्यासात् पञ्चरूपादिषु स्फुटम् (अनुव्याख्यानम्)१,१.१६०च्द्
न्यायसुधा-
आनन्दमयस्य ब्रह्मत्वे हि हेतुत्वेन(यो) ब्रह्मशब्दाभ्यासो ऽभिहितः सो ऽन्नमयादिष्वपि समानः ।
तथाचान्नमयादीनामब्रह्मत्वे ऽनैकान्तिकः कथमानन्दमयस्यापि ब्रह्मत्वं साधयेत् ।
अतो ऽन्नमयादिसाधारणं ब्रह्मशब्दाभ्यासं हेतुत्वेन वदता सूत्रकारेण तेषामपि पक्षत्वमङ्गीकृतमिति ज्ञायते ।
चशब्देन’अस्मिन्नस्य च
तद्योगं शास्तीत्यादिहेतूनामपि साधारण्यं सूचयति ।
आदिग्रहणादानन्दादीनां ग्रहणम् ।
तस्मादुक्त एव सूत्रार्थ इति ।
३,३१३
$पुच्छत्वाभिधानेऽपि पूर्णत्वावयवित्वाविरोधः$
नन्वानन्दमयस्य कथं ब्रह्मत्वम् ।
ब्रह्म पुच्छमिति ब्रह्मणस्तत्पुच्छत्वाभिधानात् ।
नच ब्रह्मशब्दो ऽन्यपरः ।
तथा सत्यत्रैवानैकान्त्यापत्तेः ।
नच निरपवादो ब्रह्मशब्दो हेतुः न ब्रह्मशब्दमात्रमिति वाच्यम् ।
ब्रह्म पुच्छमित्यत्राप्यपवादाभावात् ।
ब्रह्मावयवत्वमिति चेन्न ।
अद्याप्यानन्दमयस्य ब्रह्मत्वासिद्धेरिति ।
अत्र प्रष्टव्यम् ।
किमवयवस्य पूर्णत्वे ऽवयविनः पूर्णत्वं नोपपद्यत इत्यभिप्रायः ।
किं वाऽनन्दमस्यावयविनः पूर्णत्वे तदवयवस्य पूर्णत्वाभावापादनम् ।
उतावयवावयविनोर्भेदादवयवस्य रमात्मत्वेप नावयविनस्तत्त्वमिति ।
अत्र दोषमाह ब्रह्मतेति
ब्रह्मतावयवे ऽपि स्यात् तथावयविनि स्वतः ।
यथैव कृष्णकेशस्य कृष्णस्य ब्रह्मताखिला (अनुव्याख्यानम्)१,१.१६१
दर्शिता चैव पार्थाय निःसीमाः शक्तयो ऽस्य हि (अनुव्याख्यानम्)१,१.१६२अब्
न्यायसुधा-
यदावयवे ऽपि ब्रह्मता तथा सत्यवयविनि सा स्वतो ऽनायसेन स्यात् ।
अवयविनो ऽवयवापेक्षया महत्त्वस्य दृष्टत्वात् ।
ततश्चावयवस्य पूर्णत्वे ऽवयविनः पूर्णत्वानुपपत्तिरिति विरुद्धमेतत् ।
द्वितीये व्याप्त्यभावं दर्शयति यथैवेति
एतच्च’उद्बबर्हात्मनः केशौ’ इत्यादिना पुराणे प्रसिद्धम् ।
अखिला निरुपचरिता ।
तथाऽनन्दमयावयवस्यापि भविष्यतीति शेषः ।
अत्र प्रमाणमाह दर्शिता चेति
पार्थदर्शनं च द्यावापृथिव्योरित्यादि तद्वाक्यादवगम्यते ।
चशब्दः पुराणाद्युक्तिसमुच्चयार्थः ।
एवशब्दस्त्वेवं प्रमितैव न वाङ्मात्रेणोच्यत इति सम्बद्धयते ।
ननु लोके यो ऽवयवः स परिच्छिन्नो दृष्टस्तत्कथमेतदित्यतः परमेश्वरस्याघटितघटकतया सर्वत्राप्रतिबद्धया शक्तयान्यत्रादृष्टमपि घटते कात्र
कथन्तेत्याह निःसीमा इति
सीमसीमे स्त्रियामुभे इति सीमन् शब्दपर्यायसीमाशब्दोत्तरपदो ऽयं समासः ।
सीमन्शब्दोत्तरपदत्वे ऽपि डाबुभाभ्यामन्यतरस्यामिति साधु ।
तृतीये ऽप्येतदेवोत्तरम् ।
निःसीमा इति ।
हिशब्दो हेतौ ।
शिरो नारायण इत्यादिप्रसिद्धिद्योतको वा ।
३,३१८
स्यादेतत् ।
ब्रह्मशब्दबलेनान्नमयादीनां विष्णुत्वं न निश्चेतुं शक्यते ।
‘ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् ।
ऊर्ध्वरेतं विरूपाक्षं शङ्करं नीललोहितम्’
इति तापनीयवाक्ये रुद्रे ऽपि परम्ब्रह्मशब्दश्रवणादित्यतः पूर्वोत्तरार्धे भिन्नविषयतया व्याख्याति ऋतमिति
ऋतं सत्यं परं ब्रह्म पुरुषं कृष्णपिङ्गलम् (अनुव्याख्यानम्)१,१.१६२च्द्
विष्ण्वाख्यमुक्तमन्यत्र ह्यूर्ध्वरेतं च तत् प्रति ।
विरूपाक्षाख्यमवरं ब्रह्मोक्तं तद्व्रते स्थितम् (अनुव्याख्यानम्)१,१.१६३
न्यायसुधा-
इति पूर्वार्धे विष्ण्वाख्यं परम्ब्रह्मोक्तमिति योजना ।
अन्यत्र उत्तरार्धे विरूपाक्षाख्यमुक्तमिति पूर्वोत्तरार्धयोर्भिन्नविषयत्वमुक्तम् ।
भिन्नविषयत्वे ऽन्वयः कथमित्यत उक्तं तत्प्रत्यूर्ध्वरेतमिति ।
अनेन ऋतमित्यादीनि द्वितीयान्तान्यूर्ध्वरेतसमित्यादीनि प्रथमान्तानीत्युक्तं भवति ।
तर्हि नपुंसकलिङ्गप्रयोगः कथमित्यत उक्तमपरं ब्रह्मेति ।
अमुख्यया वृत्त्या जीवे ऽपि ब्रह्मशब्दसद्भावात्तदपेक्षया नपुंसकलिङ्गमिति ।
तत्प्रत्यूर्ध्वरेतमिति विवृणोति तद्व्रते स्थितमिति
एकविषयतया प्रतीयमानयोः पूर्वोत्तरार्धयोः कुतो भिन्नविषयता कल्प्यत इत्यत आह समानेति
समानाधिकृतत्वं चेदुत्तरं नीललोहितम् ।
कृष्णपिङ्गलरूपेण पुनरुक्तं भविष्यति (अनुव्याख्यानम्)१,१.१६४
३,३१९
न्यायसुधा-
समानमेकमधिकृतमधिकरणं विषयो ययोः पूवोत्तराधर्योस्ते समानाधिकृते तयोर्भावः ।
यदि पूर्वोत्तरार्धयोरेकविषयत्वं स्यात्तदोत्तरम् उत्तरार्धोक्तं नीललोहितम् कृष्णपिङ्गलरूपेण पूर्वार्धोक्तेन निमित्तेन पुनरुक्तं भविष्यति ।
कृष्णपिङ्गलनीललोहितशब्दयोरेकार्थत्वात् ।
अतः प्रतीतमप्येकविषयत्वं परित्यज्य भिन्नविषयत्वग्रहणं न्याय्यमिति ।
किञ्च ब्रह्माधिपतिर्ब्रह्मणे ऽधिपतिरित्युत्तरवाक्ये ब्रह्म अधिपतिर्यस्य रुद्रस्य असौ ब्रह्माधिपतिरिति रुद्रस्य ब्रह्म अधिपतिः प्रतीयते ।
यस्य चाधिपतिरस्ति कथं तस्य परब्रह्मता स्यादित्यतश्च पूर्वार्धो न रुद्रविषय इत्याशयवानाह ब्रह्माधिपतिरिति
३,३२०
ब्रह्माधिपतिरित्यत्र तापनीयश्रुतौ पुरः (अनुव्याख्यानम्)१,१.१६५अब्
न्यायसुधा-
ऋतं सत्यमिति वाक्यं यद्गतम् अत्र तापनीयश्रुतौ ऋतमित्यस्मात्पुरः पुरतः उपरिष्यादिति यावत् ।
ब्रह्माधिपतिरिति रुद्रस्य पराधीनताप्रतिपादकं पदमस्तीति योजना ।
स्यादेवं यदि ब्रह्माधिपतिशब्दस्य बहुव्रीहित्वं स्यात् ।
न चैवम् ।
षष्ठीतत्पुरुषे कर्मधारये वा सम्भवति बहुव्रीहित्वनिश्चायकाभावादित्यत आह स्वरितेति
स्वरितब्रह्मशब्दान्तं बहुव्रीहित्वमेष्यति (अनुव्याख्यानम्)१,१.१६५च्द्
न्यायसुधा-
यस्माद्ब्रह्माधिपतिप्रातिपदिकं स्वतिरब्रह्मशब्दान्तं तस्माद्बहुव्रीहित्वमेव प्राप्नोति ।
न समासान्तरत्वम् ।
तथात्वे ऽन्तोदात्तत्वेनानुदात्तं पदमेकवर्जमित्यस्य प्रसङ्गेन पूर्वपदस्य (स्वरितान्तता) स्वरितपूर्वपदान्तता न स्यात् ।
अथवोद्ग्रन्थमेव पूर्वोक्तमर्थमुक्तवोक्तशङ्कोत्तरत्वेन समस्तो ऽपि श्लोको योज्यः ।
यद्यपि बहुव्रीहित्वं पूर्वसिद्धमेव ।
तथापि तन्निश्चयापेक्षयैष्यतीति प्रयोगः ।
ननु पूर्वपदान्तस्वरस्य स्वरितत्वे ऽपि कुतो बहुव्रीहित्वमिति चेत् ।
उदाहरणदर्शनादित्याह स्वाहेति
स्वाहेन्द्रशत्रुवर्धस्व यद् बहुव्रीहितामगात् ।
महाव्याकरणे सूत्रमिति स्वरविनिर्णये (अनुव्याख्यानम्)१,१.१६६
न्यायसुधा-
यद्यस्मात्स्वाहेन्द्रशत्रुर्वधस्वेत्यत्रेन्द्रशत्रुप्रातिपदिकं स्वरितेन्द्रशब्दान्तं बहुव्रीहितां प्राप्तं तस्मादिदमपि तथाविधं बहुव्रीहिरेवेति ।
३,३२७
इन्द्रशत्रुप्रातिपदिकस्यापि कृतो बहुव्रीहित्वम् ।
षष्ठीसमासत्वसम्भवादित्यत आह तस्मादिति
तस्मादस्येन्द्र एवाभूच्छत्रुरित्युत्तरश्रुतेः (अनुव्याख्यानम्)१,१.१६६*
३,३२८
न्यायसुधा-
यस्मादिन्द्रशब्दः स्वरितान्त उपात्तस्तस्मात् ।
मन्त्रस्याभिमतस्वरहीनतादोषात् ।
अस्य वृत्तस्येन्द्रः शत्रुः शातयिताभवत् ।
न पुनस्त्वष्टुरभिप्रायानुसारेणेन्द्रस्य शत्रुरभवत् ।
इत्युत्तरवाक्यबलादिदं ज्ञायते यदिन्द्रशत्रुप्रातिपदिकं बहुव्रीहिनर् तत्पुरुष इति ।
तथा चाहुः
‘मन्त्रो हीनः स्वरतो वर्णतो वा मिथ्याप्रयुक्तो न तमर्थमाह ।
स वाग्वज्रो यजमानं हिनस्ति यथेन्द्रशत्रुः स्वरतो ऽपराधात्’
इति ।
३,३३३
न केवलं पूर्वपदान्तस्वरितत्वे बहुव्रीहित्वमुदाहरणबलादुदाहरणे ऽप्युत्तरश्रुतिबलात्कल्प्यते ।
किं नामानुशासनमप्येवमस्तीत्याह पूर्वान्तस्वरित इति
पूर्वान्तस्वरिते पुंसोर्बहुव्रीहित्वमेष्यति ।
महाव्याकरणे सूत्रमिति स्वरविनिर्णये (अनुव्याख्यानम्)१,१.१६७
न्यायसुधा-
पुंसोः पुंलिङ्गयोः समस्यमानयोः पूर्वपदान्ते स्वरे स्वरिते सति तत्समासप्रातिपदिकं बहुव्रीहित्वमेष्यतीति सूत्रार्थः ।
अत्र केचिद्वयभिचारमुद्भावयन्ति तदसत् ।
सामान्यलक्षणप्राप्तं हि पुनर्विशेषणलक्षणैरपोद्यत इति व्याकरणप्रक्रिया ।
यथोक्तम् ।
सामान्यविशेषवता लक्षणेनेति ।
तत्र विशेषलक्षणान्यपर्यालोच्य सामन्यालक्षणे व्यभिचारोद्भावनं कथं युज्यते ।
किञ्चानेन सूत्रेण बहुव्रीहौ पूर्वपदे प्रकृतिस्वरत्वमुपलक्ष्यते ।
ब्रह्मेन्द्रशब्दयोः स्वरितान्तत्वात् ।
तथाच कुतो व्यभिचारः ।
यथाऽह पाणिनिः ।
बहुव्रीहौप्रकृत्या पूर्वपदमिति ।
अत एव स्वरविनिर्णय इत्याह ।
अन्यथा समासनिर्णय इत्यवक्ष्यत् ।
अपिच सन्देहे सति स्वरेण समासनिर्णयार्थमिदमुच्यते ।
यथोक्तम् ।
असन्देहं प्रयोजनं व्याचक्षाणेन भाष्यकृता स्थूलपृषतीमनड्वाहीमालभेतेत्यत्र स्थूलपृषतीशब्दे तत्पुरुषबहुव्रीहिसन्देहं व्युत्पाद्य यदि
पूर्वपदप्रकृतित्वं बहुव्रीहिः तदा यदि समासान्तोदात्तत्वं तदा तत्पुरुष इत्यादि ।
तथाचासन्दिग्धे व्यभिचारोद्भावनमसङ्गतमिति ।
ननु पूर्वान्तस्वरित इति कथम् ।
सामर्थ्याभावेन समासानुपपत्तेरिति ।
मैवम् ।
समासप्रातिपदिके पूर्वान्तस्वरिते सतीति व्याख्यानात् ।
तथापि स्वरितपूर्वान्त इति स्यात् ।
बहुव्रीहौ विशेषणस्य पूर्वनिपातात् ।
न ।
विशेषणविशेष्यभावस्य कामचारित्वात् ।
आहिताग्न्यादित्वाद्वेति ।
३,३५१
एवं पुनरुक्तिप्रसङ्गेनोत्तरवाक्यबलेन च’ऋतं सत्यमिति पूर्वोत्तरार्धयोर्भिन्नविषयत्वमुपपाद्य सङ्क्षेपेण व्याख्यातं वाक्यं विस्तरेण
व्याख्याति ऋतमिति
ऋतं सत्यं परं ब्रह्मेत्याद्युद्देश्यद्वितीयका ।
विभक्तिरूर्ध्वरेतादिः प्रथमा रुद्रगोचरा (अनुव्याख्यानम्)१,१.१६८
न्यायसुधा-
इत्यादीति सुपां सुलुगिति प्रथमाया लुक् ।
इत्यादिपूर्वाधर्स्थं यत्पदजातं तत्रस्थमिति वा ।
द्वितीयेत्येतावत्युच्यमाने कर्मणि द्वितीयैव प्रतीयेत ।
प्राबल्यात्कारकविभक्तेः ।
नच तत्सम्भवति ।
क्रियापेक्षत्वात्कर्मत्वस्य ।
अत्र च क्रियाभावात् ।
अत उद्देश्याद्वितीयेत्युक्तम् ।
तर्हि प्रतिशब्देन भाव्यम् ।
सत्यम् ।
अध्याहरिष्यते ।
श्रौतप्रयोगदर्शनादकारान्तो रेतशब्दो वा समासान्तोडप्रत्ययो वानुसर्तव्यः
ऊर्ध्वरेतादिरिति
ऊर्ध्वरेतमित्यादिपदावयवभूता ।
एवं रुद्रगोचरेतिवत्पूर्वं विष्णुगोचरेत्यपि द्रष्टव्यम् ।
एवं विषयविभक्ती तदर्थं चोक्तवा योजनामाह तस्मादिति
तस्माद् विष्णुं परं ब्रह्म प्रति रुद्रो व्रते स्थितः ।
ऊर्ध्वरेता इति ह्येव श्रुत्यर्थो ऽवसितो भवेत् (अनुव्याख्यानम्)१,१.१६९
न्यायसुधा-
उक्तयुक्तिसमुदायात् ।
ऊर्ध्वरेता इत्येतदुपलक्षणमित्याशयेनोक्तम् व्रते स्थित इति
३,३५५
न केवलमुपपत्तिबलादेवं श्रुत्यर्थो व्याख्यायते ।
अपि तु श्रुत्यन्तरसमाख्यानादपीत्याह ऋतमिति
ऋतं सत्यं परं ब्रह्म प्रति विष्णुं सदाशिवः ।
ऊर्ध्वरेता ध्यायति ह शङ्करो नीललोहितः (अनुव्याख्यानम्)१,१.१७०
इत्यर्थमेतमेवाह नीलग्रीवश्रुतिः परा ।
आर्थर्वणी परं ब्रह्म तस्मादेको हरिः श्रुतौ (अनुव्याख्यानम्)१,१.१७१
न्यायसुधा-
ध्यायति ।
तमेव ।
अनेन ध्यायतीत्यध्याहारेण कर्मणि वा द्वितीयेति ज्ञायते ।
आथर्वणीत्युक्ते प्रसङ्गात्तापनीयश्रुतिरित्येव प्रतिभाति ।
अत उक्तम् परान्येति
तर्हि किं नामधेया ।
नीलग्रीवश्रुतिः ।
एवं पूर्वोत्तरार्धयोर्भिन्नविषयतया व्याख्यानेन लब्धमाह परं ब्रह्मेति
ऋतं सत्यमित्यस्यां श्रुतौ प्रतीतमिति शेषः ।
तस्मात्पूर्वार्धस्य विष्णुविषयत्वात् ।
बाधकान्तरमाह तदेवेति
तदेवर्तमिति प्राह कथमेवान्यथा श्रुतिः ।
अवधारयन्ती तस्यैव ह्यृतत्वादिकमञ्जसा (अनुव्याख्यानम्)१,१.१७२
३,३५६
न्यायसुधा-
ऋतं सत्यं परं ब्रह्मेति पूर्वार्धो ऽपि यदि रुद्रविषयः सत्यात्तदा तदेवर्तं तदुसत्यमाहुस्तदेव ब्रह्म परमं कवीनामिति श्रुतिस्तस्य विष्णोरृतत्वादिकं
कथमञ्जसा कवीनां सम्मत्या आह ।
परस्परविरोधेनान्यतरश्रुतेरप्रामाण्यं प्रसज्येतेति भावः ।
ऋतमिति श्रुती रुद्रस्य ऋतसत्यब्रह्मत्वादीन्याह ।
तदेवेति (च) श्रुतिर्विष्णोः ।
तत्र श्रुतिद्वयबलाद्द्वयोरपि ऋतादिशब्दवाच्यत्वे क्वास्ति विरोध इत्यत उक्तम् तस्यैवेति
तत्कथमित्यत उक्तमवधारयन्तीति ।
विरोधे चाद्यश्रुतेरेव बाधो युक्तः ।
तदेवेति श्रुतेः प्रबलत्वात्तच्चैतच्छ्रुत्या आपातप्रतीतिजभ्रान्तिबाधात्मकत्वादवसीयते ।
न ह्यप्राप्तप्रतिषेधो युज्यते ।
नापि श्रुत्याभासाद्विना तत्प्रापकमस्तीति ।
ननु तर्हि रुद्रस्य विष्ण्वात्मकत्वेनाविरोधो ऽस्तु ।
पुनरुक्तिपरिहारायोत्तरार्धोक्तो विरूपाक्षस्त्वपरो भविष्यति ।
एवं तर्हि विष्णोरेव ब्रह्मशब्द इति क्वास्ति सौत्रस्य हेतोर्व्यभिचारः ।
न हि पक्षे व्यभिचारः शङ्कयत इति ।
किञ्च रुद्रादीनां सर्वेषां प्रलये ऽसतां सृष्टावीश्वराञ्जन्मवतां ब्रह्मत्वं कथमुपपद्यते ।
जन्मादिमत्त्वमेव तेषां कुतो ऽवगम्यत इत्यत आह एक इति
३,३५७
एको नारायण आसीन्न ब्रह्मा नच शङ्करः ।
वासुदेवो ऽग्र एवासीन्न ब्रह्मा नच शङ्करः (अनुव्याख्यानम्)१,१.१७३
नेन्द्रसूर्यौ नच गुहो न सोमो न विनायकः ।
इत्यादिवाक्यतो विष्णोरुत्पत्तिरवतारगा (अनुव्याख्यानम्)१,१.१७४
न्यायसुधा-
इत्यादिवाक्यतो रुद्रादीनां प्रलये ऽभावो विष्णोरुत्पत्तिश्चावगम्यते ।
उत्पत्तिमत्त्वेनाब्रह्मत्वे विष्णोरपि तथात्वं स्यात् ।
तस्यापि रामकृष्णादिरूपस्योत्पत्तिसद्भावादित्यत आह विष्णोरिति
उत्पत्तिरुत्पत्तिवाक् ।
अवतारगा प्रादुर्भावविषया ।
न तु शरीरादिलाभलक्षणा ।
कुत एतदित्याशङ्कायामेक इत्यादिपूर्ववाक्यं सम्बद्धयते ।
इत्यादिवाक्यतो विष्णोर्महाप्रलये ऽप्यवस्थानावगमादित्यर्थः ।
स्वरूपमात्रेणावस्थाने ऽपि शरीरादिलाभलक्षणोत्पत्तिः किं न स्यादिति चेन्न ।
स्वरूपसत्त्वस्य ब्रह्मशङ्करादावपि समानत्वेन’न ब्रह्म’ इत्याद्यनुपपत्तिप्रसङ्गादिति ।
३,३५८
ननु यदि ब्रह्मशब्दो विष्णोरेव तदा जीवादौ व्यवहारो न स्यात् ।
तथाच ब्रह्मत्वापेक्षया नपुंसकप्रयोग इति न स्यात् ।
ब्रह्मणो ऽधिपतिरित्यपि व्याहतं स्यादित्याशङ्कां परिहरन्नुपसंहरति मुख्यमिति
मुख्यं ब्रह्म हरिस्तस्मात् … (अनुव्याख्यानम्)१,१.१७५अ
३,३५९
न्यायसुधा-
ननु यद्यमुख्यतया ब्रह्मशब्दस्य विष्णोरन्यत्र वृत्तिरङ्गीकृता तर्ह्यन्नमयादयो ऽप्यमुख्यब्रह्मतया कुतो न व्याख्यास्यन्ते ।
न ह्यत्र मुख्यब्रह्मत्वज्ञापकं किञ्चिदस्तीत्यत आह प्रस्ताव इति
… प्रस्तावः परमित्यपि (अनुव्याख्यानम्)१,१.१७५ब्
न्यायसुधा-
अत्र हि ब्रह्मविदाप्नोति परमिति परस्यैव ब्रह्मणः प्रस्तावः प्रसङ्गो ऽस्ति ।
तेनोत्तरेषामपि ब्रह्मशब्दानां परब्रह्मविषयत्वनिश्चयान्नात्रामुख्यार्थाऽशङ्का कार्या ।
अपिशब्दो वक्ष्यमाणसमुच्चयार्थः ।
अङ्गीकृत्य चेदं ज्ञापकमुक्तम् ।
वस्तुतस्तु शक्तिग्रहणसामर्थ्येन प्रथमप्राप्तत्वात् बाधकाभावाच्च नामुख्यार्थकल्पना युक्तेत्याह मुख्येति
मुख्यब्रह्मग्रहे युक्ते नामुख्यं युज्यते क्वचित् (अनुव्याख्यानम्)१,१.१७५च्द्
असम्भवे हि मुख्यस्य गौणार्थाङ्गीकृतिर्भवेत् (अनुव्याख्यानम्)१,१.१७६अब्
न्यायसुधा-
मुख्ययोगे ऽप्यमुख्यग्रहणं किं न स्यादिति चेत्(न) ।
मुख्यासम्भव एवामुख्याङ्गीकार इति व्याप्तेरित्याह असम्भवे हीति
यद्वा कथं तर्हि ब्रह्म वेद ब्रह्मैव भवतीत्यादौ ब्रह्मशब्दस्यामुख्यार्थग्रहणमित्यत आह क्वचिदसम्भवे हीति
३,३६०
ननु नान्नमयादयः परमात्मा विकारवाचिनो मयट्शब्दस्य श्रवणात् ।
परमात्मनो ऽन्नादिविकारत्वानुपपत्तेः ।
नच ब्रह्मशब्दानुपपत्तिः ।
अमुख्यार्थसम्भवात् ।
नच प्रस्तावविरोधो मुख्ये ऽर्थे बाधकाभावश्चेत्युक्तमिति वाच्यम् ।
विकाराथर्स्य मयट्प्रत्ययस्य बाधकत्वात् ।
तत एव प्रस्तावस्याप्यववादादित्याशङ्कय तत्परिहाराय सूत्रम् ओं विकारशब्दान्नेति चेन्न प्राचुर्यादिति ओं
ओं विकारशब्दान्नेति चेन्न प्राचुर्यात् ओं
विकारशब्दान् नेति चेन् न प्राचुर्यात् । ब्ब्स्_१,१.१३ ।
तत्रानन्दमयविषयावेवाक्षेपरिहाराविति प्रतीतिनिरासाय सिद्धान्तांशं व्याचष्टे प्राचुर्यार्थाश्चेति
प्राचुर्यार्थाश्च मयटः सर्वे ऽत्र प्रतिपादिताः (अनुव्याख्यानम्)१,१.१७६च्द्
न्यायसुधा-
चशब्दो ऽवधारणे ।
अत्र श्रुतौ ।
कुत इत्यत आह प्रतिपादिता इति
अयमर्थः ।
मयट्शब्दो हि विकार इव प्राचुर्ये ऽपि मुख्यः ।
तत्प्रकृतवचने मयडित्यनुशासनात् ।
नच ब्रह्मशब्दो ऽन्यत्र मुख्यः ।
नच सावकाशेन निरवकाशस्य बाधो ऽस्ति ।
अतो निरवकाशब्रह्मशब्दबलात्सावकाशस्य मयटः प्राचुर्यार्थत्वोपपत्तेर्न तद्बलादन्नमयादीनामपरमात्मत्वं कल्प्यमिति ।
एतेन विकारप्रवाहमध्यपतितत्वान्नानन्दमयशब्दः प्राचुर्यार्थ इत्येतद्गर्भस्रावेणैव गतम् ।
अन्नमयादिष्वपि मयटः प्राचुर्यार्थतास्वीकारात् ।
परेणापि हि प्राणमये न विकारार्थत्वं वक्तुं युक्तम् ।
प्राणानां प्राणविकारत्वासम्भवात् ।
यथाकथञ्चिद्विकारकल्पने मुख्यार्थपरित्यागात् ।
स्यादेतत् ।
अन्नविकारत्ववदन्नप्राचुर्यमपि नेश्वरस्य सम्भवति ।
तद्धि पाथिर्वशरीराणामन्नोपजीविनां स्यादिति चेन्न ।
अत्रान्नशब्दस्य प्रसिद्धान्नार्थत्वाभावात् ।
स्वयमेव हि श्रुतिः’अद्यते ऽत्ति च भूतानि तस्मादन्नं तदुच्यते’ इत्यन्नशब्दं निर्वक्ति ।
अदिधातोः कर्मणि कर्तरि च क्तप्रत्यये सति रूपमेतत् ।
नच भूतात्तृत्वं प्रसिद्धान्नस्य सम्भवति ।
तस्मादन्नशब्दो ऽयं भावप्रधानो भूताद्यत्वं भूतात्तृत्वं च वक्ति ।
३,३६६
तथापि न तत्प्राचुर्यं परमेश्वरस्य युज्यते ।
भूतात्तृत्वस्य संहर्तृत्वेन सम्भवे ऽपि भूताद्यत्वस्य कथमप्यसम्भवादित्यत आह भोग्यत्वमिति
भोग्यत्वमत्र चाद्यत्वमुपजीव्यतया हरेः (अनुव्याख्यानम्)१,१.१७७अब्
न्यायसुधा-
अत्राद्यत्वं नाम गौण्या वृत्त्या भोग्यत्वमेव ।
भोग्यत्वं च हरेः सर्वभूतोपजीव्यतया युज्यते ।
एवं प्राणमनोविज्ञानशब्दानामपि वाय्वन्तःकरणबुद्धिलक्षणप्रसिद्धार्थतां परित्यज्य प्राण(व)बोध(न)विज्ञानार्थतामुपादाय तत्प्राचुर्यमशरीरे
ऽपि परमात्मन्युपपादनीयम् ।
तत्रोदाहृतश्लोकार्थानां प्रसिद्धार्थे ऽनुपपत्तेरिति ।
मयटः प्राचुर्यार्थत्वे ऽपि नान्नमयादित्वं परमात्मनो युज्यते ।
तत्प्रचुर इत्युक्ते तद्विरुद्धस्याप्यल्पस्य प्रसक्तेः ।
ब्राह्मणप्रचुरो ऽयं ग्राम इति यथा ।
नहि परमात्मन्यज्ञानदुःखादिलेशो ऽप्यस्ति ।
मैवम् ।
विरुद्धाथर्प्राप्तेरशाब्दत्वात् ।
तत्प्रचुरशब्दो हि तस्य तस्मिन्महत्त्वमात्रमाह ।
विरुद्धसद्भावस्तु प्रमाणान्तरगम्यः ।
अन्यथान्नप्रचुरो मखः प्रकाशप्रचुरः सवितेत्युक्ते मखे सवितरि च दुर्भिक्षान्धकारलेशप्रसङ्गात् ।
३,३६७
ननु प्राचुर्यं प्रतियोग्यपेक्षयैव भवति ।
सत्यम् ।
पदार्थान्तरगताल्पतद्धर्मापेक्षयोपपत्तेरित्याशवान्यथा विरुद्धप्रतीत्यवकाशो न भवेत्तथान्नमयादिशब्दतात्पर्यार्थानाह महाभोक्तेति
महाभोक्ता महाभोग्य इत्यर्थो ऽन्नमये भवेत् (अनुव्याख्यानम्)१,१.१७७च्द्
महाप्राणो महाबोधो महाविज्ञानवानपि (अनुव्याख्यानम्)१,१.१७८अब्
न्यायसुधा-
अन्नमये परमेश्वरे ऽन्नमयशब्देनोक्त इति शेषः ।
महाप्राणो महाव्यापार इति प्राणमयशब्देनोक्तार्थो भवेदिति योज्यम् ।
मनु अवबोधन इत्यस्माद्भावे ऽसुन्प्रत्यये मनो बोधः ।
अत्रापि इत्यर्थो मनोमयशब्दस्य विज्ञानमयशब्दस्य भवेदिति योज्यम् ।
अपिशब्दान्महानन्द इत्यानन्दमयशब्दार्थो भवेदिति ग्राह्यम् ।
३,३६९
नन्वन्नमयादित्वे परमात्मनो ऽनेकत्वप्रसङ्गादेकमेवेति श्रुतिविरोधः स्यात् ।
तथा विज्ञानं प्रचुरमस्मिन्नानन्दः प्रचुरो ऽस्मिन्निति विज्ञानादीनां परमेश्वरस्य च भेदप्रसङ्गेन विज्ञानमानन्दं ब्रह्मेत्यादिश्रुतिविरोधः स्यात् ।
तथा मनःशब्दस्यावबोधार्थत्वे मनोविज्ञानशब्दयोरेकार्थत्वेन विज्ञानमयो मनोमय इति पृथगुक्तिर्नोपपद्यत इत्यत आह विशेषेति
विशेषसामान्यतया विज्ञानं मन इत्यपि (अनुव्याख्यानम्)१,१.१७८च्द्
एकस्य ज्ञानरूपस्य हरेरुक्तिर्विभागतः (अनुव्याख्यानम्)१,१.१७९अब्
न्यायसुधा-
अत्रैवं विवक्षाभेदेन परिहारत्रयं द्रष्टव्यम् ।
एकस्य निर्भेदस्यापि हरेर्विशेषबलेनानेकत्वसङ्खयावत्त्वाद्विभागतो ऽन्नमयाद्यनेकत्वोक्तिर्युज्यते ।
एवं ज्ञानरूपस्य ज्ञानानन्दाद्यात्मकस्यापि हरेर्विशेषशक्तयैव विभागतस्तद्वत्त्वेनोक्तिर्युज्यते एवं मनःशब्दस्यावबोधार्थत्वे ऽपि (विज्ञानं)
विज्ञानमय इति मनोमय इत्यपि विभागतः पृथगुक्तिर्युज्यते ।
कथम् ।
विशेषसामान्यतया विशेषसामान्यविषयतया ।
विज्ञानशब्दो हि विशेषज्ञानमाह ।
‘सामान्यैर्ये त्वविज्ञेया विशेषा मम वाची विज्ञानशब्द(स्य) सहपाठबलात्सामान्यज्ञाने पर्यवस्यति ।
विद्येते हि परमार्थतः सामान्यविशेषाकाराविति समस्ततद्विषयज्ञानमुपपन्नमेवेश्वरस्येति ।
३,३७०
तथापि नान्नमयादयः परमात्मा ।
तस्माद्वा एतस्मादन्नरसमयात् ।
अन्यो ऽन्तर आत्मा प्राणमय इत्यादिनान्नमयादीनामन्योन्यमन्यत्वावगमात् ।
परमात्मनि तु भेदाभावादित्यत आह अभेदे ऽपीति
अभेदे ऽपि विशेषेणैवान्य इत्युदितो हरिः (अनुव्याख्यानम्)१,१.१७९च्द्
न्यायसुधा-
भेदप्रतिनिधितया भेदकार्यनिर्वाहकेण विशेषेणैव ।
नतु भेदेन ।
येन विरोधः स्यादित्यर्थः ।
न चात्र यतिभङ्गः शङ्कनीयः ।
‘पूर्वान्तरत्स्वरः सन्धौ क्वचिदेव परादिवत् ।
द्रष्टव्यो यतिचिन्तायां यणादेशः परादिवत्’
इति वचनात् ।
३,३७१
विशेषो भेदकार्यं व्यवहारादिकं निर्वहतीति पूर्वमेवोक्तम् ।
अत्र विशेषनिष्ठमागमं चाह भेदशब्दा इति
भेदशब्दा विशेषं तु हरावन्यत्र भिन्नत्वात् ।
ब्रूयुर् … (अनुव्याख्यानम्)१,१.१८०अच्
३,३७२
न्यायसुधा-
भेदनिमित्ता अन्यादिशब्दा भेदशब्दाः ।
हरौ विशेषं ब्रूयुरित्यस्यापवादमाह हरेरिति
… हरेर्जीवजडैरपि भेदं हि मुख्यतः (अनुव्याख्यानम्)१,१.१८०च्द्
ब्रह्मतर्कवचो ऽप्येवम् … (अनुव्याख्यानम्)१,१.१८१अ
न्यायसुधा-
एवमन्यत्र भिन्नतामित्यस्यापि क्वचिदपवादो द्रष्टव्यः ।
न केवलं पूर्वोक्तोपपत्तिर्ब्रह्मतर्कवचो ऽप्येवमावेदयतीत्यपेरर्थः ।
३,३७३
यदुक्तं प्रागेकस्यापि विभागत उक्तिरिति न तत्रोपपत्तिरभिहिता ।
एतामेवोपपत्तिं प्रतिज्ञामात्रेणोक्ते तत्राप्यतिदिशति अत इति
… अत एकः स पञ्चधा ।
उक्तो ऽन्नमय इत्यादि … (अनुव्याख्यानम्)१,१.१८१ब्च्
न्यायसुधा-
विशेषबलादेवेति एको ऽपीति वापिशब्दसम्बन्धः ।
इत्यादीति क्रियाविशेषणम् ।
३,३८०
किञ्चोत्तरस्मिन्ननुवाके वरुणो भृगोरेतस्मिन्ननुवाके प्रतिपादितमेव वस्तु ब्रह्मत्वेनोपदिशति ।
अतश्चान्नमयादिकं परं ब्रह्मेत्याह भृगोरिति
… भृगोश्चैतद् वदिष्यति (अनुव्याख्यानम्)१,१.१८१द्
न्यायसुधा-
अनुवाकस्योत्तरत्वेन वदिष्यतीत्युक्तम् ।
तस्य च ब्रह्मत्वमुपरिष्यादुपपादयिष्यते ।
तथा च ब्रह्मशब्दादुत्तरानुवाकसंवादाच्चान्नमयादीनां पञ्चानामपि ब्रह्मत्वे सिद्धे मयट्प्रत्ययादीनां प्राचुर्यार्थत्व(द्वयर्थतया)व्याख्यानं युक्तमिति ।
३,३८१
नन्वत्रान्नमयादिशब्दाः श्रूयन्ते ।
उत्तरत्र (तु) मयट्प्रत्ययहीना अन्नादिशब्दा एव ।
शब्दभेदे च निमित्तभेदेनाभिधेयभेदेन चावश्यं भवितव्यम् ।
न चान्नमयादिशब्दा अन्नादिशब्दपर्याया इति युक्तम् ।
प्रत्ययार्थस्याधिकस्य विद्यमानत्वात् ।
नच भीमसेनो भीमो बलभद्रो बलः सत्यभामा सत्या पुनर्नवा नवा, काचमाची माचीत्यादिवत्स्यादिति वाच्यम् ।
वैषम्यात् ।
भीमादिशब्दा हि प्रत्येकं तद्वाचकाः ।
न चान्नशब्दमात्रमन्नमयस्य वाचकम् ।
प्रत्ययस्य स्वार्थिकत्वप्रसङ्गात् ।
प्राचुर्यार्थश्च मयडित्युक्तम् ।
नह्यन्नमयो यज्ञ इति वक्तव्ये ऽन्नशब्दमात्रं प्रयुज्यते ।
तस्मात्तत्रात्र च पृथग्वस्तुप्रतिपादनात्कथं तत्संवादेनात्रापि ब्रह्मप्रतिपादनमित्युच्यते ।
किं त्वत्रान्नमयादयः कोशास्तत्र तु ब्रह्मेत्यत आह प्राप्यत्वेनेति
प्राप्यत्वेन मयट्प्रोक्तेनर् तत्राप्यन्यदुच्यते (अनुव्याख्यानम्)१,१.१८२अब्
न्यायसुधा-
एतमन्नमयमात्मानमुपसङ्क्रम्येत्यादिप्राच्यत्वेन निर्देशे मयटः स्पष्टोक्तेस्तत्रापि नान्यदुच्यते ।
३,३८५फ़्.
प्रचुरान्नादिरेवातो ह्यन्नमन्नमयेत्यपि (अनुव्याख्यानम्)१,१.१८२च्द्
उच्यते ह्यविशेषेण नान्यत् किञ्चिदिहोच्यते (अनुव्याख्यानम्)१,१.१८३अब्
न्यायसुधा-
यथा हि ज्योतिष्योमाधिकारे वसन्ते वसन्ते ज्योतिषा यजेतेति कालविशेषविधिपरे वाक्ये ज्योतिःशब्दो ज्योतिष्योमस्याभिधायकः ।
नहि तत्र शब्दयोः पर्यायत्वम् ।
राजशब्दस्यापि राजपुरुषशब्दपर्यायत्वप्रसङ्गात् ।
ज्योतिषां स्तोमो हि ज्योतिष्योमः ।
अत एव न प्रत्येकं वाचकत्वं किं त्वधिकारबलादेकदेशोत्कीतर्ने समग्रशब्दलक्षणामङ्गीकृत्य निमित्ताभिधेयैक्यमङ्गीकरणीयम्
एवमत्राप्यन्नप्राणाद्येकदेशोत्कीर्तनेनान्नमयशब्दादिलक्षणयान्नादिशब्दानामन्नमयादिशब्दानां चैक्यमङ्गीकृत्य
तन्निमित्ताभिधेयैक्यमभ्युपेयते ।
प्राप्यतयोक्तिस्थाने मयट्प्रयोगसामर्थ्यात् ।
न ह्यन्यविद्ययान्यप्राप्तिर्युक्तेति भावः ।
अन्नमयेति प्रातिपदिकमात्रग्रहणम् ।
इतिशब्द आद्यर्थे प्रत्येकं चाभिसम्बद्धयते ।
तथा चातः प्राप्यत्वेन मयट्प्रोक्तिसामर्थ्यादन्नमित्यादीनां च शब्दानामविशेषेण स्वरूपक्यैन कारणेन तैः शब्दैः प्रचुरान्नादिशब्दैः
प्रचुरान्नादिनिमित्तवान्परमात्मैवोच्यते ।
न पुनरनुवाकद्वये प्रतिपाद्यभेदमङ्गीकृत्येहानुवाके ब्रह्मणो ऽन्यत्किञ्चिच्छरीरादिकोशरूपमुच्यत इति योजना ।
आद्यो हिशब्दो न ह्यन्यविद्ययान्यप्राप्तिर्युक्तेति न्यायसूचनार्थः ।
द्वितीयस्तु शब्दैक्ये निमित्ताभिधेयैक्यप्रसिद्धेर्द्येतकः ।
३,३९१
एवं सूत्रद्वयेनान्नमयादिशब्दपञ्चकस्येश्वरवाचित्वं मयटश्च सर्वत्र प्राचुर्यार्थत्वमुपपादितम् ।
इदानीमानन्दमयशब्दस्य विष्णुवाचित्वं तद्गतस्य मयटस्य प्राचुर्यार्थत्वं हेत्वन्तरेणोपपादयत् तद्धेतुव्यपदेशाच्चेति सूत्रं व्याख्याति महानन्दत्व
एवेति
ओं तद्धेतुव्यपदेशाच्च ओं
तद्धेतुव्यपदेशाच् च । ब्ब्स्_१,१.१४ ।
महानन्दत्व एवास्य हेतुः को ऽन्यादिति स्फुटम् (अनुव्याख्यानम्)१,१.१८३च्द्
उक्तः … (अनुव्याख्यानम्)१,१.१८४अ
न्यायसुधा-
आनन्दामयप्रकरणे को ह्येवान्यात्कः प्राण्याद्यदेव आकाश आनन्दो न स्यादित्यस्य विष्णोरेव महानन्दत्व एव (च) हेतुरुक्तः ।
तेन ज्ञायते विष्णुरेवानन्दमयशब्दार्थ इति मयट् च प्राचुर्यार्थ इति ।
यदि ह्यानन्दमयो विष्णोरन्यः स्यात् ।
मयट् च विकाराथो भवेत् ।
तदा श्रुतिरन्यस्यानन्दविकारत्वे हेतुं कमपि ब्रूयात् ।
विष्णोर्महानन्दत्वे हेतुकथनं त्वसङ्गतमेव ।
अनेन (सूत्रे) तदिति षष्ठयन्तं सप्तम्यन्तं च तन्त्रेणोपात्तमित्युक्तं भवति ।
तस्य विष्णोस्तत्र महानन्दत्व इत्युक्तत्वात् ।
नन्वत्राकाशस्यानन्दत्वाभावे ऽननं प्राणनं च कस्यापि न स्यादित्येतावदुच्यते ।
न तु विष्णोर्महानन्दत्वे कश्चिदपि हेतुरुच्यत इत्यत उक्तम् स्फुटमिति
३,३९२
तत्कथमिति चेत् ।
आकाशशब्दस्तावद्विष्णुपर इति वक्ष्यते आकाशस्तल्लिङ्गादिति
तथाच विष्णोरनानन्दत्वे जगतो निश्चेष्टत्वप्रसङ्गमाणदयन्त्या श्रुत्या जगच्चेष्यकत्वं हेतुत्वेन विवक्षितमिति विवक्षुस्तस्यानन्दत्वेन व्याप्तिं
तावदुपपादयति श्रुत्यन्तर इति
… श्रुत्यन्तरे यस्मात् सुखं लब्ध्वा करोत्ययम् ।
करोति नासुखी … (अनुव्याख्यानम्)१,१.१८४अच्
न्यायसुधा-
यस्मादित्यस्योपरि सम्बन्धः ।
श्रुत्यन्तरे छन्दोगश्रुतावित्युक्तमित्युत्तरेणान्वयः ।
यदा वै सुखं लभते ऽथ करोति नासुखं लब्ध्वा करोति सुखमेव लब्ध्वा करोतीति श्रुत्यन्तरे परमेश्वरव्यापारस्यानन्दाविनाभूतत्वमुक्तमित्यर्थः ।
आनन्दशब्द(स्य)श्च पूर्णानन्द एव मुख्यवृत्तिरित्यत्रापि श्रुतिमाह भूमेति
… भूमा सुखं नाल्पे सुखं भवेत् (अनुव्याख्यानम्)१,१.१८४च्द्
इत्युक्तं … (अनुव्याख्यानम्)१,१.१८५अ
न्यायसुधा-
यो वै भूमा तत्सुखं नाल्पे सुखमस्तीति छन्दोगश्रुतौ सुखशब्दस्य पूर्णानन्द एव मुख्यवृत्तिरित्युक्तमित्यर्थः ।
यद्यपि भूमशब्दो भाववाची ।
बहोर्लोप भू च बहोरिति वचनात् ।
तथापि भावभवित्रोरैक्याद्भूमेति पूर्ण एवोच्यते नाल्प इत्युक्तत्वात् स च सन्निधानात्सुखेनेति गम्यते ।
३,३९३फ़्.
… यत् प्रवृत्तिश्च नृत्तगानादिका सुखात् ।
दुःखाद् रोदादिका चैव सर्वकर्तृत्वतो ऽस्य च (अनुव्याख्यानम्)१,१.१८५
सर्वशक्तेनर् दुःखं स्याद् … (अनुव्याख्यानम्)१,१.१८६अ
न्यायसुधा-
अत्रापि यद्यस्मादित्यस्योपति सम्बन्धः ।
प्रवृत्तिश्चतुर्विधा भवति ।
सुखोद्रेकाद्दुःखोद्रेकात्सुखरागाद्वेषाच्चेति शेषः ।
सुखोद्रेकात्प्रवृत्तेरुदाहरणमाह नृत्तेति
उन्मत्तस्येति शेषः ।
दुःखोद्रेकात्प्रवृत्तिमुदाहरति दुःखादिति
केचिदाहुः सुखदुःखतत्साधनरागद्वेषावेव प्रवर्तकाविति ।
यथोक्तं प्रवर्तनालक्षणा दोषा इति ।
तन्निरासार्थमेवशब्दः ।
सुखादेव दुःखादेवेति ।
न ह्युन्मत्तस्य क्वचिदनुसन्धानमस्ति ।
येन सुखरागात्तत्साधनमेतदित्यनुसन्धाय नृत्तादौ प्रवर्तेत ।
किं तूद्रिक्तं सुखमेव तत्प्रवृत्तौ हेतुः ।
नापि दुःखं द्विषतो ऽपि नारकिणो रोदनादिकं तत्परिहारहेतुरित्यनुसन्धानमस्ति ।
किन्तु दुःखोद्रेक एव तत्र कारणमित्यनुभवसिद्धम् ।
सुखरागात्तत्प्राप्त्यर्था भोजनादौ प्रवृत्तिर्दुःखद्वेषाच्च तन्निवृत्त्यर्था कण्टकोद्धरणादौ प्रवृत्तिः सुप्रसिद्धेति नोदाहृता ।
किमतो यद्येवं चेतनसम्बन्धिनी प्रवृत्तिश्चतुर्विधेत्यत आह सर्वकर्तृत्वत इति
सुखानवाप्तिश्चेति शेषः ।
ततश्च दुःखोद्रेकनिमित्ता तन्निवृत्त्यर्था सुखावाप्त्यर्था चेति प्रवृत्तित्रयं परमेश्वरे नोपपद्यत इति भावः ।
३,३९६
तथापि किमित्यत आह अत इति
… अतः केवललीलया ।
प्रवर्तको … (अनुव्याख्यानम्)१,१.१८६ब्च्
न्यायसुधा-
अतः परिशेषादीश्वरः प्रवर्तको भवन्केवललीलयाऽनन्दोद्रेकादेव भवेदिति सिद्धः परमेश्वरप्रवृत्तेः पूर्णानन्दाविनाभावः ।
एवमुपोद्घातमुक्तवा प्रयोगमाह अत इति
यत एवं परमेश्वरप्रवृत्तेः सिद्धः पूर्णानन्दाविनाभावः ।
अतः प्रवर्तको ऽयं केवललीलया पूर्णानन्देन युक्तो भवेदिति ।
अयमत्र प्रयोगः ।
ईश्वरः सुखी भवितुमर्हति ।
प्रवृत्तिकारणत्रयरहितत्वे सति प्रवृत्तिमत्त्वादुन्मत्तवदिति ।
कार्यानुगुणत्त्वाच्च कारणस्य महाप्रवृत्त्या महानन्द एव सिद्धयतीति ।
३,३९७
… न चेदेष प्राण्यादन्याच्च कः पुमान् (अनुव्याख्यानम्)१,१.१८६च्द्
न्यायसुधा-
एवं श्रुतेरभिप्रायसिद्धं हेतुं व्याख्याय वाचनिकं विपक्षे बाधकं विवृणोति न चेदिति
एष परमात्मा आसमन्तात्काशनादाकाशः पूर्णानन्दो न चेत्तदा कारणान्तराभावान्न किञ्चित्प्रवर्तयेत् ।
न चेदेष किञ्चित्प्रवर्तयेत्तदा कः पुमान्प्राण्यादन्याच्च ।
न को ऽपि लौकिकीं वैदिकीं वा प्रवृत्तिं कुर्यात् ।
स्वातन्त्र्याभावादिति योज्यम् ।
३,३९८
अन्नमयादीनां पञ्चानामपि युक्तयन्तरेण परब्रह्मत्वं प्रतिपादयितुं सूत्रम् ।
ओं मान्त्रवर्णिकमेव च गीयत इति ।
ओं मान्त्रवर्णिकमेव च गीयते ओं
मान्त्रवर्णिकमेव च गीयते । ब्ब्स्_१,१.१५ ।
ब्रह्मवित् परमाप्नोतीति यत् प्रथमसूचितम् ।
तदेव मन्त्रवर्णेन सत्यं ज्ञानमनन्तवत् (अनुव्याख्यानम्)१,१.१८७
लक्षितं … (अनुव्याख्यानम्)१,१.१८८अ
न्यायसुधा-
तस्यार्थः ।
सत्यं ज्ञानमनन्तं ब्रह्मेति मन्त्रवर्णप्रतिपादितमेव वस्तूत्तरेण ग्रन्थेन गीयते ।
अतश्चान्नमयादयः परं ब्रह्मेति ।
स्यादेतद्यदि मन्त्रवणो ऽपि परब्रह्मविषयः स्यात् ।
तदेव कुतः ।
मन्त्रवर्णे ब्रह्मेत्येव श्रवणात् ।
तस्य चामुख्यया वृत्त्यान्यत्रापि सम्भवात् ।
कथं च मान्त्रवर्णिकाथर्प्रपञ्चनार्थमुत्तरो ग्रन्थ इत्यतः सूत्रार्थं विवरितुमुपोद्घातमाह ब्रह्मविदिति
३,३९८फ़्.
ब्रह्मविदाप्नोति परमित्यनुवाकस्य प्रथमवाक्ये सूचितं तावत्परब्रह्मैव ।
परशब्दश्रवणात् ।
तज्ज्ञानस्य मोक्षहेतुत्वोक्तेश्च ।
तदेव च मन्त्रवर्णेन सत्यं ज्ञानमनन्तवदन्तवन्न भवतीति लक्षितमसाधारणधर्मोपेततया प्रतिपादितमतो मान्त्रवर्णिकं परं ब्रह्मैव ।
ब्रह्मविदाप्नोति परमित्युक्ते हि शङ्कात्रयमुदेति ।
किं लक्षणकं तद्ब्रह्म ।
न हि लक्षणेन विना वस्तु समस्तव्यावृत्ततया शक्यते ज्ञातुम् ।
कथं च तद्वेदनं किं प्रतीयमानाकारस्यारोपितत्वमुपेत्य तदेवास्मीत्युतान्यथा ।
ब्रह्मेति पूर्णं प्रतीतम् ।
न (हि) च तादृशस्य साक्षात्कारो ऽस्माकं सम्भवतीति ।
का नाम तत्प्राप्तिर्य ज्ञानसाध्या ।
सर्वगतत्वेन नित्यप्राप्तत्वादिति ।
तत्परिहाराय मन्त्रवर्णमुदाहरति श्रुतिः ।
तदेषाभ्युक्तेति ।
तदभ्येतदाशङ्कात्रयं प्रति तत्समाधानतयेति यावत् ।
एषा ऋगुक्तोच्यत इत्यर्थः ।
तत्र सत्यं ज्ञानमनन्तं ब्रह्मेति लक्षणशङ्काया उत्तरम् ।
एतच्च प्रत्येकं लक्षणम् ।
वक्ष्यमाणप्रकारेण सत्यत्वादीनामव्यभिचारित्वात् ।
अत एव समुदितं लक्षणमभ्युपेत्य विशेषणकृत्यान्वेषणे परेषां क्लेशः परास्तः ।
यो वेदेति द्वितीयशङ्कोत्तरम् ।
परिपूर्णपरिमाणमपि शक्तिवशाद्भक्तानुकम्पयाल्पपरिमाणं प्रकटयत्सर्वजीवतदुपकारिकार्यकारणप्रेरकत्वेन हृदयगुहावस्थितं ज्ञेयमिति ।
सो ऽश्नुत इति तृतीयशङ्कोत्तरम् ।
न संयोगमात्रं तत्प्राप्तिः ।
नाप्यैक्यापत्त्यादिः ।
किन्तु तद्वयक्तिस्थाने ततो ऽत्यन्तभिन्नतया सत्यकामत्वादितत्सारूप्याभिव्यक्तिरेवेति ।
३,४०३
अस्त्वेवं प्रथमवाक्यसूचितार्थस्य परब्रह्मत्वात्तदुत्थशङ्कापरिहारार्थस्य मन्त्रवर्णस्यापि तत्परत्वम् ।
तथापि किं प्रकृत इत्यतः सूत्रार्थं विवृणोति तत्रेति
… तत्र सत्यत्वं सृष्टयान्नप्राणयोरपि ।
उक्तं ज्ञानं तु मनसा विज्ञानेनाप्युदीरितम् (अनुव्याख्यानम्)१,१.१८८
अनन्तत्वं तथाऽनन्दमयवाचाप्युदाहृतम् (अनुव्याख्यानम्)१,१.१८९अब्
न्यायसुधा-
तत्र लक्षणेषु सत्यत्वं सृष्टया’तस्माद्वा एतस्मादात्मन आकाशः सम्भूतः’ इति सृष्टिप्रकरणेन,’स वा एष पुरुषो ऽन्नरसमयः’
इति’तस्माद्वा एतस्मादन्नरसमयाद्’ इति चान्नप्राणयोरन्नमयप्राणमययोः प्रकरणाभ्यामु(मप्यु)क्तम् ।
ज्ञानं तु ब्रह्मलक्षणं मनसा ।
‘तस्माद्वा एतस्मात्प्राणमयाद्’ इत्यादिना मनोमयप्रकरणेन ।
विज्ञानेनापि ।
‘तस्माद्वा एतस्मान्मनोमयाद्’ इत्यादिना विज्ञानमयप्रकरणेनाप्युदीरितम् ।
तथाशब्दः समुच्चये ।
अनन्तत्वमपि ब्रह्मलक्षणम् ।
आनन्दमयवाचा ।
‘तस्माद्वा एतस्माद्विज्ञानमयाद्’ इत्यादिनाऽनन्दमयप्रकरणेन ।
अपिपदेनोत्तरवाक्यैरप्युदाहृतम् ।
अत उत्तरेषां षण्णामपि प्रकरणानां मान्त्रवर्णिकपरब्रह्मलक्षणविवृतित्वात् (परं) ब्रह्मैवान्नमयादय इति सूत्रार्थः ।
सत्यत्वं सृष्टिप्रकरणेनोक्तमित्युक्तम् ।
तत्कथमित्यत आह सद्भावमिति
सद्भावं यापयेद् यस्मात् सत्यं तत् तेन कथ्यते (अनुव्याख्यानम्)१,१.१८९च्द्
इति सृष्टिरिह प्रोक्ता … (अनुव्याख्यानम्)१,१.१९०अ
३,४०४
न्यायसुधा-
सच्छब्दः सद्भाववाची ।
सद्भावे साधुभावे च सदित्येतत्प्रयुज्यत इति वचनात् ।
सद्भावो जन्म ।
सद्भावशब्देन प्रजननं सूचितमिति ।
तथाच सच्छब्दे जन्मवाचीति कर्मण्युपपदे यातेरन्तर्णीतण्यर्थादतो ऽनुपसर्गे क इति कप्रत्यये कृते ऽयस्मयादीनि छन्दसीत्युपपदस्य भसञ्ज्ञायां
सत्यमिति भवति ।
ततः सत्सद्भावं जन्म यापयेत्प्रापयेत्स्वव्यतिरिक्तं सर्वं यस्मात्तस्मात्तद्ब्रह्म सत्यं कथ्यत इति सकलजगज्जन्मकारणत्वं सत्यशब्दार्थं हृदि
कृत्वा आत्मन आकाश इत्यादिश्रुत्येहानुवाके सृष्टिः प्रोक्तेत्यर्थः ।
अस्तु जगत्स्रष्टृत्वं सत्यशब्दार्थः ।
तथाप्यात्मन आकाश इत्यादिसृष्टिप्रकरणं तद्वयाख्यानमिति न युक्तम् ।
अवयवार्थकथनादेरभावादित्यत आह जगदिति
… जगत्सद्भावयापकम् ।
ब्रह्मेति स्थापनायैव … (अनुव्याख्यानम्)१,१.१९०ब्च्
न्यायसुधा-
सत्यशब्देन यज्जगत्सद्भावयापकं ब्रह्मेत्युक्तं तस्यार्थस्य स्थापनायैव सृष्टिः प्रोक्ता नावयवार्थकथनाद्यर्था ।
एतदुक्तं भवति ।
नावयवार्थकथनादिकमेव व्याख्यानम् ।
किं तूक्तस्थापनमपि ।
प्रकृते च सत्यं ब्रह्मेति लक्षणे ऽभिहिते ऽसम्भवीदं पञ्चानां महाभूतानामेव जगज्जन्मादिकारणत्वादित्याशङ्कय महाभूतानामपि ब्रह्मैव कारणं
तदन्तर्गतं तत्सत्तादिप्रदं चातो ब्रह्मैव जगज्जनकमिति तत्स्थापनमात्मन आकाश इत्यादिना क्रियत इति भवतीदं तद्वयाख्यानमिति ।
३,४०७
अन्नमयप्रकरणं सत्यशब्दार्थ इत्युक्तं तत्कथमित्यत आह सत्त्वमिति
… सत्त्वं जीवनमेव च (अनुव्याख्यानम्)१,१.१९०द्
विशीर्णता च सत्त्वं स्यात् सन्नमित्याहुरेव यत् (अनुव्याख्यानम्)१,१.१९१अब्
न्यायसुधा-
न केवलं जन्मैव सच्छब्दार्थः किन्तु जीवनं च प्राणधारणलक्षणं सत्त्वमेव सच्छब्दप्रवृत्तिनिमित्तमेव ।
अस्ति देवदत्त इत्युक्ते जीवतीति प्रत्ययात् ।
विशीर्णता च शैथिल्यलक्षणा ।
सत्त्वं सच्छब्दप्रवृत्तिनिमित्तं स्यात् ।
कुतः ।
यद्यस्माद्विशीर्णं वस्तु सन्नमित्याहुः ।
एवशब्दः षद्ळ्विशरणगत्यवसादनेष्विति पाठान्मुख्य एवायं प्रयोग इति सूचयति ।
तथाचास्तेः शत्रन्तस्य सदेः क्विबन्तस्य वा सदिति रूपम् ।
भावप्रधानं चैतत् ।
सत् सत्त्वं जीवनं विशरणं वा भूतानां यापयतीति सत्यमित्युक्तं भवति ।
किमतो यद्येवमित्यत आह अत इति
अतो ऽद्यतात्तृतान्नत्वं सत्यशब्दार्थ एव हि (अनुव्याख्यानम्)१,१.१९१च्द्
न्यायसुधा-
यत एवं सकलभूतानां जीवविनाशहेतुत्वं सत्यशब्दोक्तम् ।
अतः सत्यशब्दार्थ एवान्नत्वमन्नशब्दप्रवृत्तिनिमित्तम् ।
तत् कथम् ।
हि यस्मादुपजीव्यत्वलक्षणाद्यता विनाशकत्वलक्षणात्तृता च तदिति ।
३,४०८
प्राणमयप्रकरणं च सत्यशब्दार्थ इत्युक्तम् ।
तत्कथमित्यत आह प्राणमिति
प्राणं देवा अनुप्राणन्ति मनुष्याः पशवश्च ये ।
आयुः प्राणो हि भूतानामिति यद् गतिजीवने (अनुव्याख्यानम्)१,१.१९२
उक्ते सदितिधात्वर्थो गतिश्चातो हि सत्यता ।
प्राणत्वम् … (अनुव्याख्यानम्)१,१.१९३अच्
न्यायसुधा-
देवादयः प्राणं परमात्मानमनु तत्प्रेरणया प्राणन्ति चेष्यन्ते ।
स प्राणः परमात्मा सर्वेषामायुर्जीवनहेतुश्चातो ऽसौ प्राण उच्यत इति मन्त्रेण प्राणन्ति जीवन्ति वा सर्वभूतान्यनेनेति प्राणशब्दार्थतया गतिजीवने
भूतानां गतिजीवनप्रदत्तमिति यावत् उक्ते ।
यद्यस्मात् यतश्च सदिति धात्वर्थो, गतिर्जीवनं चास्ति धात्वर्थः ।
ताभ्यां च शतरि क्विपि च कृते सदिति भवति ।
तच्च भावप्रधानं विवक्षित्वा सत्सत्त्वं गतिं जीवनं वा भूतानां यापयतीति सत्यशब्दो ऽपि गतिजीवनप्रदत्वमाह ।
अतः सत्यता प्राणत्वं सत्यप्राणशब्दयोरेकार्थत्वमिति व्याख्येयम् ।
अनेनान्नमयप्राणमयप्रकरणे सत्यशब्दार्थप्रपञ्चनेन तद्वयाख्याने इत्युक्तं भवति ।
ज्ञानशब्दार्थो मनोमयप्रकरणमित्युक्तम् ।
तत्कथमित्यत आह अवबोधार्थ इति
… अवबोधार्थो मनुधातुः प्रकीर्तितः (अनुव्याख्यानम्)१,१.१९३च्द्
न्यायसुधा-
प्रकीर्तितो मनु अवबोधन इति व्याघातः ।
ततश्च तस्माद्भावे ऽसुन्प्रत्यये विहिते मन इति ज्ञानमिति चैकार्थता भवति ।
विज्ञानमयप्रकरणस्य ज्ञानशब्दार्थत्वं स्पष्टमेवेति न प्रपञ्चितम् ।
अत्र ज्ञानं ब्रह्मेति लक्षणे ऽभिहिते सकलचेतनसाधारण्यादलक्षणमेतदित्याशङ्कायां नावबोधमात्रं ज्ञानमिहविवक्षितम् ।
किन्तु सकलपदार्थसामान्यविशेषाकारविषयमित्यतो नातिव्याप्तिरित्याभ्यां प्रकरणाभ्यां लक्षणस्यातिव्याप्तिपरिहाराय प्रपञ्चनं कृतमिति ।
आनन्दमयप्रकरणेनानन्तत्वं व्याख्यातमित्यभिहितम् ।
तत्कथमित्यत आह नाल्प इति
नाल्पे सुखमिति प्रोक्तयैवानन्दमयतोक्तितः ।
अनन्तत्वं सुनिर्णीतं पूर्णानन्दो हि नाल्पके (अनुव्याख्यानम्)१,१.१९४
३,४०८
न्यायसुधा-
नानन्दमयप्रकरणमनन्तपदनिर्वचनपरत्वादिना रूपेण तद्वयाख्यानम् ।
किं नामानन्तत्वलक्षणस्यासम्भावनाशङ्कायामानन्दमयतोक्तयानन्तत्वं सुनिर्णीतमुपपादितम् ।
परमेश्वरो ऽनन्तः पूर्णानन्दत्वादिति ।
ननु साध्यसाधनयोः क्वाप्यदर्शनेन व्याप्त्यभावात्कथमेतत् ।
मैवम् ।
नाल्पे सुखमस्तीति श्रुत्युक्तया हि यस्मादल्पके ऽन्तवति पूर्णानन्दो नास्तीति निश्चीयते ।
व्यतिरेकव्याप्तिरस्तीत्यर्थः ।
नन्वनन्तत्ववत्पूर्णानन्दो ऽप्यसिद्ध एव ।
सत्यम् ।
अत एव को ह्येवान्यादित्यादिनोपपादयति श्रुतिः ।
उक्तं चैतदानन्तमयवाचाषीति ।
सूत्रार्थमुपसंहरति अत इति
अतो हि मन्त्रवर्णोक्तविस्तृतिस्तु समस्तया ।
क्रियते परया यस्माद् … (अनुव्याख्यानम्)१,१.१९५अच्
३,४०९
न्यायसुधा-
अत इत्युक्तप्रकारेण ।
हिशब्दः प्रसिद्धौ तुशब्दो ऽवधारणे ।
परया मन्त्रवर्णादुत्तरया श्रुत्या ।
तस्माद्विष्णुरेवान्नमयादिशब्दवाच्य इति पूर्वेण सम्बन्धः ।
३,४१२
एवमानन्दमयो ऽभ्यासादित्यादिसूत्रैः स्वपक्षसाधनं विधाय परपक्षप्रतिक्षेपार्थं सूत्रम् नेतरो ऽनुपपत्तिरिति ।
ओं नेतरो ऽनुपपत्तेः ओं
नेतरो ऽनुपपत्तेः । ब्ब्स्_१,१.१६ ।
तत्र प्रतिज्ञांशं व्याख्याति इतर इति
… इतरो ऽत्र न कथ्यते (अनुव्याख्यानम्)१,१.१९५द्
न्यायसुधा-
इतरो जीवो वा शरीरादिकोशो वा प्रकृतिर्वात्रान्नमयादिप्रकरणे न कथ्यते ।
कुतः ।
अनुपपत्तेः ।
सर्वं वै ते ऽन्नमापनुवन्ति ।
ये ऽन्नं ब्रह्मोपासते ।
सर्वमेव त आयुर्यन्ति ।
ये प्राणं ब्रह्मोपासत इत्यादिनान्नमयादिज्ञानान्मोक्षः प्रतीयते ।
अन्नमयादिशब्दानां च जीवादिवाचित्वे तदनुपपत्तेरित्यर्थः ।
कुतो ऽनुपपत्तिरित्यत आह पुरुषमिति
पुरुषं वेत्ति यो मुच्येन्नान्यः पन्था हि विद्यते ।
इति श्रुतेरन्यवेदी कथं मुक्तिं प्रयास्यति (अनुव्याख्यानम्)१,१.१९६
न्यायसुधा-
अनेन ‘तमेवं विद्वानमृत इह भवति ।
नान्यः पन्था अयनाय विद्यते’ इति श्रुतिं सूचयति ।
नन्वत्र तमित्युच्यते न विष्णुमिति ।
मैवम् ।
सहस्रशीर्षा पुरुष इत्यादौ प्रकृतपुरुषस्य तमिति परामर्शादित्यभिप्रेत्योक्तम् पुरुषमिति
यच्छब्दश्रवणात्स इति द्रष्टव्यम् ।
मुच्येन्मुच्येत ।
व्यत्ययो बहुलमिति वचनात् ।
अन्यः परमपुरुषज्ञानात् ।
पन्था मोक्षस्य ।
हिशब्दः श्रुतेः प्रसिद्धत्वद्योतकः ।
नन्वस्तु पुरुषज्ञानादेव मोक्षः पुरुषो ऽप्यन्यश्चेत्कथं नान्यज्ञानान्मोक्ष इत्यत आह पुरुष इति
पुरुषः पर आत्माजो ब्रह्म नारायणः प्रभुः ।
महानानन्द उद् विष्णुर्भर्ग ओम इतीर्यते (अनुव्याख्यानम्)१,१.१९७
स्वयं नारायणो देवो नान्यस्यैतानि कस्यचित् (अनुव्याख्यानम्)१,१.१९८अब्
३,४१३
न्यायसुधा-
स्वयं मुख्यया वृत्त्या ।
एतानि नामानि ।
कुत एतेषां विष्णुनामत्वादेव हि ये विष्णुमुद्दिश्य यज्ञदानादि कुर्वते ते ओम्मित्युदाहृत्यैव ।
अन्यथा तन्न स्यात् ।
न ह्यन्योद्देशेन कमर् कुर्वाणैरन्यविषयो मन्त्रो जप्यत इति ।
पुरुषशब्दस्य विष्णुवाचित्वे युक्तिमाह सूक्तेनेति
सूक्तेन पौरुषेणैनं यजन्त्यध्यात्मकोविदाः ।
इति पैङ्गिश्रुतिस्तेन नान्यज्ञानाद् विमुच्यते (अनुव्याख्यानम्)१,१.१९९
न्यायसुधा-
य एनं नारायणं यजन्ति ते पौरुषेण सूक्तेन यजन्ति ।
तेन ज्ञायते पुरुषशब्दो विष्णुवाचीति ।
इति पैङ्गिश्रुतिः पुरुषशब्दस्य भगवदेकवाचितामाह यतस्तेन तमेवं विद्वानित्यस्य विष्णुपत्वादिति ।
३,४१४
नन्वितरपरिग्रह इवेश्वरपरिग्रहे ऽप्यनुपपत्तिः समाना ।
तथा हि ।
ओषधीभ्यो ऽन्नात्पुरुष इत्योषधिकार्यान्नविकारं शरीरं पुरुषपदेनोक्तवा स वा एष पुरुष इति तं परामृश्यान्नरसमय इत्युच्यते ।
तस्येश्वरत्वे ऽनुपपत्तिरेव ।
तत्प्रवाहपतिताश्च प्राणमयादय इत्याशङ्कां परिहर्तुं पीठ(ठिका)मारचयति ब्रह्मशब्दोदित इति
ब्रह्मशब्दोदिते तस्मिन्नात्मशब्दं प्रयुज्य च ।
तस्मादाकाशसृष्टिं च प्रोवाचात्र चतुविर्धाम् (अनुव्याख्यानम्)१,१.२००
न्यायसुधा-
ब्रह्मविदाप्नोति परं सत्यं ज्ञानमनन्तं ब्रह्मेति ब्रह्मशब्दोदिते तस्मिन्विष्णौ तस्माद्वा एतस्मादात्मन इत्यात्मशब्दं (च) प्रयुज्येति योज्यम् ।
तस्मादेतस्मादित्यनुसन्धानात् ।
आकाशसृष्टिं च प्रोवाचाकाशः सम्भूत इत्यनेन ।
अत्रानुवाके ।
आत्मशब्दं प्रयुज्य सृष्टिं च प्रोवाचेत्येनेनात्मत्वमपि विधेयमिति सूचयति ।
चतुर्विधाकाशसम्बन्धित्वात्सृष्टेश्चतुर्विधत्वम् ।
न स्वतः ।
त्रैविध्यस्य वक्ष्यमाणत्वात् ।
तथाच चतुर्विधाकाशसृष्टिं च प्रोवाचेत्यर्थः ।
आकाशचातुर्विध्यं कथमित्यत आह भूतमिति
३,४१५
भूतं भूताभिमानी च तद्देहो ऽन्तर्नियामकः ।
हरिश्चाकाशशब्दोक्तो मुख्यतो हरिरेव च (अनुव्याख्यानम्)१,१.२०१
आ समन्तात् काशते यदाकाशो मुख्यतो हरिः (अनुव्याख्यानम्)१,१.२०२अब्
न्यायसुधा-
भूतमाशकाशशब्दोक्तमित्यादिसम्बन्धः ।
अन्तर्नियामक एषां त्रयाणाम् ।
तत्रापि न समानकक्ष्यतया चतुर्णामाकाशशब्दातर्त्वमित्याह मुख्यत इति
चशब्दस्तुशब्दार्(थः)थे ।
तत्कथमित्यत आह आसमन्तादिति
आ इत्यनुवादेन समन्तात्काशनं ह्याकाशशब्दार्थः ।
ततश्च यद्यस्माद्धरिरेव मुख्यतः समन्तात्काशते तस्मात्स एव मुख्यत आकाश इति योज्यम् ।
३,४१६
एवं मुख्यामुख्यभेदेन चतुर्विधादाकाशादाकाशाद्वायुरित्युक्तविधया चतुर्विधस्य वायोः सृष्टिं प्रोवाच ।
तत्रापि वायुशब्देन मुख्यतो हरिरेवोच्यत इति योज्यम् (वक्तव्यम्) ।
तत्कथमित्यत आह बलेति
बलज्ञानस्वरूपत्वाद् वायुर् … (अनुव्याख्यानम्)१,१.२०२च्द्
न्यायसुधा-
वशब्दो बलवाची ।
आयुरिति ज्ञानमुच्यते ।
अयतेर्गत्यर्थत्वात् ।
गत्यर्थानां ज्ञानार्थत्वात् ।
तथा वायोरग्निरिति चतुर्विधाद्वयोश्चतुर्विधस्याग्नेः सृष्टिं प्रोवाच ।
तत्रापि मुख्यतो हरिरेवाग्निशब्देनोच्यत इति स्थिते तत्कथमित्यत आह अग्निरिति
३,४१७
… अग्निरगं नयन् (अनुव्याख्यानम्)१,१.२०२द्
न्यायसुधा-
न गच्छति स्वतो न प्रवर्तत इत्यगं विश्वम् ।
अगशब्दे कमर्ण्युपपदे नयतेः क्विप् ।
तत्सन्नियोगेनोपपदलोपो धातोश्च ह्रस्वता निर्वचनत्वात् ।
ततो ऽग्नेराप इति चतुर्विधादग्नेश्चतुर्विधानामेवापां सृष्टिं प्रोवाच ।
तत्राप्याप इति मुख्यतो हरिरेवोक्त इति वाच्यम् ।
कथं तदित्यत आह आप इति
आप आपालनाच्चैव … (अनुव्याख्यानम्)१,१.२०३अ
न्यायसुधा-
आङ्पूर्वस्य पाते रूपमेतत् ।
उपसर्गह्रस्वता धातुलोपश्च निर्वचनत्वात् ।
चशब्दो ऽनुक्तसमुच्चयार्थः ।
तेन स्त्रीरूपत्वात्स्त्रीलिङ्गं बहुरूपत्वाद्बहुवचनं चेत्युक्तं भवति ।
एवशब्दो हरिरेवेति सम्बद्धयते ।
एवमद्भयः पृथिवीति चतुर्विधाभ्यो ऽद्भयश्चतुविर्धायाः पृथिव्याः सृष्टिं प्रोवाच ।
तत्रापि हरिरेव मुख्यतः पृथिवीशब्दवाच्य इति सिद्धे तदुपपादयति पृथिवीति
… पृथिवी प्रथितो यतः (अनुव्याख्यानम्)१,१.२०३ब्
न्यायसुधा-
प्रथितो यतस्ततः पृथिवीति योजना ।
पृथु विस्तारे ।
३,४२०
तथाच चतुर्विधायाः पृथिव्याः पृथिव्याः पृथिव्या ओषधय इति चतुर्विधौषधिसृष्टिं प्रोवाच ।
भूतानां समाप्तत्वात्तस्थाने भौतिकग्रहणम(मि)तःपरं कार्यम् ।
तत्राप्योषधिशब्देन मुख्यतो हरिरेवोच्यत इति स्थिते कुत इत्यत आह उष्यानामिति
उष्यानामाश्रयत्वेन स एवोषधिनामकः (अनुव्याख्यानम्)१,१.२०३च्द्
न्यायसुधा-
दग्धानाम् ।
उष्या ओषाः कर्मणि घञ् ।
ओषा धीयन्ते ऽस्मिन्नित्योषधिरित्यर्थः ।
कर्मण्यधिकरणे चेति किप्रत्ययः ।
कथमोषध्यन्तर्गतस्योष्याश्रयत्वमित्यत आह ओषधीषु स्थित इति
ओषधीषु स्थितो विष्णुः क्षुधितैराश्रितो भवेत् (अनुव्याख्यानम्)१,१.२०४अब्
३,४२१
न्यायसुधा-
क्षुधितैर्जाठराग्निनोष्ठैः ।
ओषधीभ्यो ऽन्नमिति चतुर्विधोषधीभ्यश्चतुर्विधस्यान्नस्य सृष्टिं प्रोवाच ।
तत्राप्यन्नशब्दो विष्णावेव मुख्यः ।
अद्यते ऽत्ति च व्याख्यानस्य तस्मिन्नेव सम्भवादिति प्रागेव सिद्धत्वान्नोक्तम् ।
ततो ऽन्नात्पुरुष इति चतुर्विधान्नाच्छरीरतदभिमानितदन्तर्यामिरूपस्य त्रिविधस्य पुरुषस्य सृष्टिं प्रोवाच ।
तत्रापि पुरुषशब्देन मुख्यतो हरिरेवोक्त इति स्थिते तत्कथमित्यत आह पुरीति
पुरि शेते यतः सो ऽथ पुरुषश्चेति गीयते (अनुव्याख्यानम्)१,१.२०४च्द्
न्यायसुधा-
अथ तस्मात् ।
पुरि शरीरे ।
अत्रोपपदस्य सप्तम्या अलुक् ।
तस्य चेकारस्योकारः ।
धातुशकारस्य षकारो निर्वचनत्वात् ।
अधिकरणे शेतेर्डः ।
एवमात्मादिशब्दान्व्याख्याय तेषां सृष्टिं विवृणोति क्रियेति
क्रियाप्रवर्तकत्वेन प्रादुर्भावो हरेर्जनिः ।
आकाशादिषु नान्यास्ति ह्यभिमानो ऽभिमानिनः (अनुव्याख्यानम्)१,१.२०५
अभिमानिशरीरस्य साक्षाद् भूतस्य चोद्भवः (अनुव्याख्यानम्)१,१.२०६अब्
न्यायसुधा-
साक्षाज्जन्मैव किं न स्यादित्यत आह नान्येति
हिशब्दो नित्यो नित्यानामित्यादिश्रुतिप्रसिद्धिसूचकः ।
अभिमानो ममेदमिति बुद्धिः ।
जनिरिति सम्बन्धः ।
भूतस्येत्युपलक्षणम् ओषध्यादिभौतिकस्य चेत्यपि ग्राह्यम् ।
साक्षादुद्भव एव जनिरित्यन्वयः ।
३,४२३
यद्येवमात्माकाशवाय्वग्न्यप्पृथिव्योषध्यन्नपुरुषपदैर्मुख्यतो हरिरेवोक्तः अन्यदमुख्यतस्ततः किं प्रकृत इत्यत आह
एवमिति
३,४२४
एवं देहादिपर्यन्तमागतं हरिमेव तु (अनुव्याख्यानम्)१,१.२०६च्द्
परामृशति तस्यैव पञ्चरूपत्ववित्तये ।
त्यक्तवा भूतादिकं सर्वं स वा एष इति श्रुतिः (अनुव्याख्यानम्)१,१.२०७
न्यायसुधा-
अत्र देहशब्दात्प्रागात्मशब्दो ऽध्याहार्यः ।
स वा एष पुरुष इति श्रुतिः प्रकृतमपि भूतादिकं सर्वं त्यक्तवाऽत्मादिदेहपर्यन्तमागतं तैः शब्दैः प्रकृतं हरिमेव परामृशति ।
तस्यैव सृष्टिकर्तुः शरीरे ऽन्नमयादिपञ्चरूपत्वज्ञापनायेति ।
इदमुक्तं भवति ।
नान्नमयादीनां परब्रह्मत्वपरिग्रहे स वा एष पुरुष इति परामर्शविरोधः ।
आत्मपदोदितस्य परामर्शो ऽयमिति स्वीकारात् ।
नच नासौ परब्रह्म ।
तस्मात्परप्राप्तिकामेन ज्ञातव्यतयोक्तादेतस्मात्पुनः सत्यज्ञानानन्तत्वेन लक्षितादात्मन इति प्रकृतानुसन्धानात् ।
नच सन्निहितपरामर्शपरित्यागेन दूरप्रकृतपरामर्शाङ्गीकारो ऽनुचित इति वाच्यम् ।
आत्मादिपुरुषान्तसर्वशब्दैरपि तस्यैव प्रकृतत्वाङ्गीकारात् ।
न चेश्वरस्योत्पत्तिरनुत्पन्ना ।
प्रादुर्भावापेक्षया व्याख्यानात् ।
न चैतदप्रामाणिकं व्याख्यानम् ।
कारणत्वेनेत्युपपादयिष्यमाणत्वात् ।
नचैवं भूतादिसृष्टेरप्रामाणिकत्वापत्तिः ।
आकाशादिशब्दानां भूतादिपरत्वस्यापि स्वीकारात् ।
अनेकाथर्तायाश्चोपपादयिष्यमाणत्वात् ।
नचैवं तेषामपि प्रादुर्भावमात्रापत्तिः ।
सामान्यतः श्रुतस्य सम्भवशब्दस्य यथायोग्यं व्याख्यानोपपत्तेः ।
नचैवमप्यन्नरसमयस्य प्रकृतसर्वात्मकत्वापत्तिः ।
प्रकृतानामपि भूतादीनां परित्यागेन हरेरेव परामर्शाङ्गीकारात् ।
नचैतदन्याय्यम् ।
आकाशादिशब्दानां हरावेव मुख्यत्वेन तस्यैवोत्कटतया बुद्धिसन्निधानात् ।
नचेश्वरपरामर्शो व्यर्थः ।
तस्यैवान्नमयादिपञ्चरूपताज्ञापनाय प्रकरणान्तरारम्भार्थत्वात् ।
तस्य च लक्षणविवरणार्थत्वेनोपयोगस्योक्तत्वात् ।
तथाचान्नमयस्य ब्रह्मत्वे ऽनुपपत्त्यभावान्न तत्प्रवाहपतितानां प्राणमयादीनामब्रह्मत्वं कल्पनीयमिति ।
३,४२६
ननु किमनेन बहुधा संविधानेन ।
शरीरमात्रपरामर्शो ऽयं किं न स्यात् ।
मैवम् ।
तथा सत्येष पुरुष इत्येतावता पूर्णत्वेन स इत्यस्य वैयर्थ्यापत्तेः ।
भवत्पक्षे ऽपि तत् समानमिति चेन्नेत्यभिप्रेत्याह स इति
स इत्यात्मपदोद्दिष्य एष जीवशरीरगः (अनुव्याख्यानम्)१,१.२०८अब्
न्यायसुधा-
एष इति जीवशरीरगः परामृश्यते ।
शरीरग इत्येवोक्ते परमेश्वरस्य शरीरित्वं प्रतीयेत ।
अतो जीवेत्युक्तम् ।
किञ्च शरीरपरामर्शे स वा एष पुरुषो ऽन्नमय इत्येव वक्तव्यम् ।
रसशब्दस्तु व्यर्थः ।
प्रयोजनानुपलब्धेः ।
अन्नात्पुरुष इत्येव प्रकृतत्वाच्च ।
नचास्मत्पक्षे ऽपि रसशब्दस्य वैयर्थ्यम् ।
अन्नमय इत्येवोक्ते प्राकृतान्नमयत्वं (इत्येव) प्रतीयेत ।
तन्निवृत्त्यर्थत्वेन सार्थक्यादित्याशयवानाह सारेति
सारान्नमय एवायं न लोकान्नमयः प्रभुः (अनुव्याख्यानम्)१,१.२०८च्द्
इति तं रसशब्देन विशिनष्टि शरीरगम् (अनुव्याख्यानम्)१,१.२०९अब्
न्यायसुधा-
रसशब्दो हि सारवाची ।
रससारो वरश्चेति शब्दाः पर्यायवाचका इति वचनात् ।
ततश्चान्नरसो ऽन्नसारः ।
अन्नशब्दार्थेषु मुख्यार्थो ऽत्तृत्वादि(लक्षण)स्तत्प्रचुर इत्युक्तं भवति ।
तस्य तात्पर्यार्थः सारान्नमय इति ।
इति ज्ञापयितुमिति शेषः ।
विशिनष्टि श्रुतिः ।
अपि च ।
शरीरपरामर्शो ऽयं चेत्तस्येदमेव शिरः अयं दक्षिणः पक्षः अयमुत्तरः पक्षः अयमात्मा इदं पुच्छं प्रतिष्ठेति सर्वं व्यर्थमेव स्यात् ।
शरीरशिरःप्रभृतेः प्रत्यक्षसिद्धत्वेनोपदेशानपेक्षणात् ।
३,४२७
नन्वीश्वरे ऽप्यनुपपत्तिरेव ।
तस्य शिरःप्रभृत्यवयवाभावात् ।
न ।
प्रकाशवच्चेति वक्ष्यमाणत्वात् ।
तथाप्यनुपपत्तिः ।
ईश्वरशिरःप्रभृतीनामप्रत्यक्षत्वेनेदमिति निर्देशायोगादिति चेन्न ।
लक्षणयोपपत्तेरित्याशयवानाह इदमिति
इदमित्येव निर्देशो वस्त्रप्रावृतवद् विभोः (अनुव्याख्यानम्)१,१.२०९च्द्
शिर आदेर्भवेज्जीवशिर आदौ व्यवस्थितेः (अनुव्याख्यानम्)१,१.२१०अब्
३,४२७फ़्.
न्यायसुधा-
इदमिति निर्देशो ऽप्रत्यक्षे ऽपि परमेश्वरशिरःप्रभृतौ लक्षणया भवेदेव ।
विभोः शिरआदेर्जीवशिरआदौ प्रत्यक्षे व्यवस्थितेरिति लक्षणाबीजसम्बन्धं दर्शयति ।
ननु मुख्यप्रयोगं परित्यज्य लाक्षणिकं प्रयुञ्जानस्य प्रयोजनं वाच्यम् ।
दृष्टं हि गङ्गायां घोष इत्यादौ पावितृयादिज्ञानमिति चेन्न ।
प्रकृते रूढलक्षणत्वादिति भावेनोक्तम् वस्त्रप्रावृत्तवदिति
सप्तम्यर्थे वतिः ।
यथाप्रत्यक्षे ऽपि जानुनि प्रत्यक्षवस्त्रप्रावृते प्रत्यक्षवस्त्रसन्निधानादिदमिति निर्देशस्तथा प्रकृते ऽपीत्यर्थः ।
ननु मुख्ये बाधकाभावात्कुतो लक्षणाश्रयणमिति चेन्न ।
शरीरपरिग्रहे वैयर्थ्यस्य स्फुटत्वात् ।
३,४२८
किञ्च सर्वमेव त आयुर्यन्तीति प्राण(अन्न)मयज्ञानान्मोक्षः श्रूयते ।
कदापि मरणाभावो हि सर्वमायुः ।
नचासौ विना मोक्षाद्युज्यते ।
नच शरीरपरिग्रहे तद्युज्यते ।
तमेवंविद्वानि(त्यादि)श्रुतिविरोधादित्याह तमिति
तं विदित्वास्य मुक्तिः स्यान्नान्यज्ञानात् कथञ्चन (अनुव्याख्यानम्)१,१.२१०च्द्
३,४२८फ़्.
न्यायसुधा-
तं परमात्मानं विदित्वा साक्षात्पश्यत इति शेषः ।
तेन समानकर्तृता ।
ब्रह्मशब्दादयो ऽप्यत्र बाधकतया वक्तव्याः ।
ननु च विकारशब्दादिति सूत्रकारेणान्नमयादीनां ब्रह्मत्वाङ्गीकृतावेकामनुपपत्तिं परिहरता लक्षणया सर्वानुपपत्तिपरिहारो ऽपि सूचितः ।
अत एव भोग्यत्वमत्र चाद्यत्वमित्यादिना भाष्यकृता तत्रैवानुपपत्तिपरिहारः कृतः ।
ब्रह्मशब्दोदित इत्यादिकमपि तत्रैव कर्तुमुचितम् ।
व्यवधाने कारणाभावात् ।
अन्यथोत्सूत्रितत्वप्रसङ्गादिति ।
मैवम् ।
तत्सूत्रसूचितस्याप्यर्थस्य व्यवधाने प्रयोजनसद्भावात् ।
अन्नमयादीनां पञ्चानामप्यब्रह्मत्वोपपादकोपपत्त्याऽभासास्तत्र निराकृताः ।
अन्नमयमात्रविषयानुपपत्तिपरिहारस्त्वत्रेत्यनेन ज्ञाप्यते ।
किञ्च नेतरो ऽनुपपत्तेरिति सूत्रं केचिन्न तावदन्नमयः परमात्मा परामर्शाद्यनुपपत्तेरिति व्याकुर्वते ।
तदपि निराकर्तुमत्रेदमुदितमिति ।
३,४३१
अत्राह ।
जीव एवान्नमयादिशब्दार्थः ।
स ह्यन्नविकारशरीरावच्छिन्नत्वाद्भवत्यन्नमयः ।
प्राणमनोबुद्धयानन्दोपाध्यवच्छिन्नश्च भवति प्राणादिविकारो घटाकाशमिव घटविकारः ।
तेन प्राणमयत्वाद्युपपत्तिः ।
तथाच स वा एष पुरुष इति परामर्शस्तदुपाधिविषयतया हि श्लिष्यतरो भवति ।
रसशब्दश्चान्नस्थस्थविष्ठभागव्यावृत्त्यर्थो भविष्यति ।
इदमिति निर्देशश्च मुख्यार्थःसम्पद्यते प्राणमयादिषु सर्वत्र शिरःप्रभृत्यवयवानां वक्तव्यत्वेन तत्प्राये सिद्धस्यापि कथनोपपत्तेः ।
शरीरित्वमवयवित्वं प्रियादियोगो ब्रह्मपुच्छत्वं चेत्येतत्सर्वं समञ्जसं भवति ।
नच वक्तव्यं शरीरादिकोशा एव कुतस्तर्हि नाङ्गीक्रियन्ते ।
तथा चान्नमयप्राणमयमनोमयविज्ञानमयानन्दमया मे शुद्धयन्तामिति श्रुत्यन्तरानुगुण्यं च स्यादिति ।
कोशेषु ब्रह्मशब्दाद्यनुपपत्तेः ।
अन्यत्वमन्तरत्वं शरीरत्वं चोपाध्यपेक्षया जीवे ऽप्युपपद्यन्ते ।
३,४३४
ननु जीवपक्षे ऽप्यनुपपत्तिरस्ति ।
ब्रह्मशब्दो हि निराधारो न परमात्मना विनोपपद्यते ।
‘अद्यते ऽत्ति चेति’ सर्वाद्यत्वं सर्वात्तृत्वं’प्राणं देवाः’ इति सर्वदेवादिचेष्यकत्व यतो वाचः’ इति वाङ्मनसागोचरत्वं’विज्ञानं देवाः’
इति सर्वदेवोपास्यत्वं ज्येष्ठत्वं’सो ऽकामयत’ इति सङ्कल्पपूर्वकं सर्वस्रष्टृत्वं सर्वान्तरत्वमित्यादीनि नाल्पतरज्ञानशक्तयादिसम्पन्ने जीवे
सम्भवन्ति ।
तद्धेतुव्यपदेशश्चासङ्गतः स्यात् ।
मान्त्रवर्णिकव्याख्यानता च बाध्येत ।
नच जीवज्ञानान्मोक्षो युज्यत इति ।
मैवम् ।
उपनिषदर्थानबोधात् ।
अत्र हि जीवब्रह्मणोरेकत्वं विवक्षितम् ।
तत्र यानि वाक्यानि शुद्धविरोधीनि तान्युपहितसंसारिस्वरूपापेक्षाणि ।
ब्रह्मशब्दादीनि तु तत्स्वभावसिद्धपरमात्मस्वरूपापेक्षाणि ।
ऐक्यविवक्षा चात्र वाक्यशाबल्यान्यथानुपपत्त्यैव गम्यते ।
नचैवं विनिगमनायां कारणाभावात्परमात्मैवान्नमयादि(शब्द)वाच्योमहाकाशधर्म एवावच्छिन्नकाशे व्यवह्रियते ।
‘यावान्वायमाकाशस्तावानेषो ऽन्तर्हृदय आकाशः’ इति ।
नतु परिच्छिन्नधर्मो वितस्तिमात्रत्वं महाकाशे ।
नच ब्रह्म पुच्छं प्रतिष्ठेत्यनुपपन्नम् ।
अस्य जीवस्य ब्रह्म पुच्छमायतनमधिष्ठानं निजं स्वरूपमित्यर्थोपपत्तेः ।
तस्मात्’नेतरः’ इत्यनुपपन्नमित्याशङ्कां परिहर्तुं भेदव्यपदेशाच्चेति सूत्रम् ।
३,४३६
ओं भेदव्यपदेशाच्च ओं
भेदव्यपदेशाच् च । ब्ब्स्_१,१.१७ ।
आदित्ये पुरुषे चायमिति भेदोपदेशतः ।
नास्याभेदो ऽस्ति जीवेन … (अनुव्याख्यानम्)१,१.२११अच्
न्यायसुधा-
तत्र चशब्दः प्रतिज्ञासमुच्चयार्थ इति भावेन सूत्रं व्याचष्टे आदित्य इति
स्यादेतदेवं कथञ्चित् ।
यद्यस्यामुपनिषदि जीवपरमात्मनोरभेदो विवक्षितः स्यात् ।
न चैवम् ।
‘स यश्चायं पुरुषे यश्चासावादित्ये स एकः’ इति पुरुषादित्यशब्दोपलक्षितापकृष्टोत्कृष्टसकलजीवानां नियम्यतयाधिकरणत्वेन परमात्मनश्च
नियामकतयाधिष्ठातृत्वेन भेदस्यैवात्रोपदेशात् ।
तथा’रसं ह्येवायं लब्ध्वाऽनन्दी भवति’ इति लब्धृलब्धव्यतया’यदा ह्येवैषः’ इत्युपासकोपास्यतया’उपसङ्क्रामति’ इति
प्राप्तृप्राप्यतया’भीषास्मात्’ इति नियम्यनियामकतया च भेदोपदेशा द्रष्टव्याः ।
यदुक्तं वाक्यशाबल्या(न्यथा)नुपपत्तिरत्र प्रमाणमिति ।
तदयुक्तम् ।
केवलं ब्रह्मपरतयैव वाक्यानां समञ्जसीकृतत्वात् ।
ततो न जीवो ऽन्नमयादिशब्दवाच्य इति ।
३,४३८
ननु कथमुच्यते नास्य परमात्मनो ऽभेदो ऽस्ति जीवेनेति ।
अनुमानतस्तदभेदस्य प्रमितत्वात् ।
तथा चोक्तविधयान्नमयत्वादिकं जीवस्य किं न स्यात् ।
न चोक्तभेदोपदेशविरोधः ।
अनुमानविरोधेन तस्यैवान्यपरत्वोपपत्तेरित्याशङ्कापरिहाराय सूत्रं कामाच्च नानुमानापेक्षेति ।
तद्वयाचष्टे नानुमेति
… नानुमा कामचारिणी (अनुव्याख्यानम्)१,१.२११द्
विमतानि शरीराणि मद्भोगायतनानि यत् ।
शरीराणीत्यादिका तु तत्त्वज्ञाने ह्यपेक्ष्यते (अनुव्याख्यानम्)१,१.२१२
प्रत्यक्षादिविरुद्धत्वाद् … (अनुव्याख्यानम्)१,१.२१३अ
न्यायसुधा-
ओं कामाच्च नानुमानापेक्षा ओं
कामाच् च नानुमानापेक्षा । ब्ब्स्_१,१.१८ ।
सम्प्रतिपन्नस्वशरीरेषु सिद्धसाधनतापरिहाराय विमतानीत्युक्तम् ।
यद्यस्माच्छरीराणि ।
शरीरत्वादित्यर्थः ।
मच्छरीर(आदि)वदिति दृष्टान्तः ।
आदिग्रहणाद्विप्रतिपन्नानीन्द्रियाणि ममैव करणानि इन्द्रियत्वात्सम्प्रतिपन्नवदित्यादीनामुपादानम् ।
नन्वेतान्यनुमानानि प्रतिक्षेत्रं क्षेत्रज्ञानामभेदं साधयन्ति ।
नतु जीवानां परमात्माभेदम् ।
तेन विमता आत्मानः परमात्मनः (तत्त्वतो) न भिद्यन्ते आत्मत्वात्परमात्मवदित्याद्यनुमानमत्र शङ्कनीयम् ।
न त्विदमिति ।
मैवम् ।
नहि जीवानामुपहितस्वरूपाणामेव साक्षादभेदः सम्भवति ।
प्रत्यक्षादिविरोधात् ।
ततश्च निरुपाधिकेन रूपेणाभेदे ऽनुमानं पर्यवस्यति ।
तथाच कथं न प्रकृतसङ्गतिरिति ।
तत्त्वज्ञाने तत्त्वज्ञानाथर्म् ।
नापेक्ष्यते ।
तत्त्वज्ञानकारणं न भवतीत्यर्थः ।
कुतः ।
प्रत्यक्षादिविरुद्धत्वात् ।
हिशब्दो दृष्टान्तसूचकः ।
तदयं प्रयोगः ।
विमतानि शरीराणीत्यादिकानुमानुमानत्वेन पराभिमता ।
यथार्थज्ञानकारणं न भवति ।
प्रमाणविरुद्धत्वाद्दहनानुष्णतासाधनानुमानवदिति ।
प्रत्यक्षादिविरुद्धापि सदनुमा किं न स्यादित्यत उक्तम् कामचारिणीति
तद्विवृणोति अक्षेति
… अक्षागमभयोज्खिता ।
अनुमा कामवृत्ता हि … (अनुव्याख्यानम्)१,१.२१३ब्च्
न्यायसुधा-
अक्षं प्रत्यक्षम् ।
अनुमानमप्यत्रोपसङ्खयेयम् ।
अक्षागमभयोज्खितेति
तद्विरोधभयोज्खितेत्यर्थः ।
कामवृत्ता पुरुषेच्छानुसारिप्रवृत्तिमती ।
नन्वनेन किं विपक्षे बाधकमुक्तमित्यत आह कुत्रेति
३,४३९
… कुत्र नावसरं व्रजेत् (अनुव्याख्यानम्)१,१.२१३द्
न्यायसुधा-
किमाक्षेपे ।
सर्वत्राप्यवसरं व्रजेदित्यर्थः ।
३,४४०
तत्कथमित्यत आह जड इति
जड आत्मैव वस्तुत्वात् प्रमेयत्वाज्जडं चितिः ।
घन आकाश इत्याद्या वार्यन्ते केन हेतुना (अनुव्याख्यानम्)१,१.२१४
३,४४०फ़्.
न्यायसुधा-
आत्मा जडो ज्ञानानाश्रयो वस्तुत्वाद्घटवत् ।
आकाशो घनो निबिडावयवः ।
प्रमेयत्वात्पाषाणवदिति साक्षिप्रत्यक्षविरुद्धम् ।
जडं घटादिकम् ।
चितिश्चेतनम् ।
प्रमेयत्वादात्मवदित्यनुमानविरुद्धम् ।
चैतन्यकार्यस्य सर्वथाप्यनुपलम्भात् ।
आद्यपदेन ब्राह्मणेन सुरा पेया द्रवद्रव्यत्वात् ।
क्षीरवदित्यागमविरुद्धस्य ग्रहणम् ।
केनेत्याक्षेपे ।
यदि प्रत्यक्षादिविरोधिनो ऽप्यनुमात्वं स्यादिति शेषः ।
प्रत्यक्षादिविरुद्धमपि यद्यैक्यानुमानं प्रमाणं स्यात्तदोदाहृतमपि किं न स्यादविशेषादित्युक्तं भवति ।
नन्वत्र कथं प्रयोक्तव्यम् ।
यथान्यासमवेत्येवकारेणाह ।
तर्हि प्रतिज्ञापदव्याघातः स्यादिति चेत् ।
अस्तु ।
नहि प्रत्यक्षादिविरोधादयं गरीयान् ।
समश्च परानुमाने ।
तत्परिहारो ऽप्यत्र तुल्यः ।
नन्वाकाशो घन इति साधने कालादौ व्यभिचारः ।
न ।
पक्षतुल्यत्वात् ।
यदत्र वक्तव्यं तदुपरिष्याद्वक्ष्यत इति ।
३,४४३
नन्वथातो ब्रह्मजिज्ञासेत्यत्रैव जीवेशभेदः समर्थितः ।
तथा जन्मादिसूत्रेणापि ।
अतो जीवैक्यमित्युक्तत्वात् ।
अत्रापि पुनस्तत्साधने पुनरुक्तता स्यादित्य आह न जीवेति
न जीवभेदसूत्राणां शङ्कयात्र पुनरुक्तता ।
वाक्यान्तरद्योतकत्वात् पृथगित्यत्र पूर्णता (अनुव्याख्यानम्)१,१.२१५अद्
न्यायसुधा-
अत्र शास्त्रे तत्र तत्र प्रकरणे ह्यैक्यविवक्षायां चोदितायां तत्तद्गतभेदवाक्यद्योतनेन सूत्रेषु भेदसमर्थनं क्रियते ।
अतस्तात्पर्यभेदान्न पुनरुक्तता शङ्कया ।
तथा हि ।
जिज्ञासावाक्येष्वभेदशङ्कायां तद्गतब्रह्मशब्देनैव भेदसमर्थनम् ।
जिज्ञास्यस्य ब्रह्मणो जीवत्वे शङ्किते तत्पूर्ववाक्योक्तलक्षणेन भेदसाधनमित्यादि स्वयमूह्यम् ।
एवमेव’भेदव्यपदेशाच्चान्यः’ इत्यादावपि पुनरुक्तदोषः परिहरणीयः ।
नन्वेवं सत्यभेदः स्वरूपेण कुत्रापि न निराकृतः स्यादित्यत आह पृथगिति
पूर्णता प्रधानता ।
भेदसाधनस्य स्वातन्त्र्येण विचारितत्वात् ।
यद्यपि प्रकरणविशेषविषयतयाभेदे निराकृते ऽपि स्वरूपनिराकरणमर्थात्सिद्धयति ।
तथापि वस्तुस्थितिकथनमेतदित्यदोषः ।
अथवा पुनरुक्तिपरिहारस्यैवञ्जातत्वात्’अत यव चोपमा’ इत्यादिसूत्राण्यापातप्रतीतभाष्यदिशा भेदपराणीव प्रतिभान्ति ।
तन्निरासार्थमिदमुक्तम् ।
‘पृथगुपदेशात्’ इत्यत्रैव भेदसमर्थनस्य पूर्णता पर्यवसानमिति ।
यद्यप्येतत्करिष्यमाणव्याख्यानादेव ज्ञास्यते ।
तथापि स्पष्टार्थमुक्तमित्यदोषः ।
३,४४५
शरीरादिकोशा एवान्नमयादिशब्दवाच्या इति पक्षो ऽपि नेतरो ऽनुपपत्तेरिति साधारणदोषेण दूषित एव ।
विशेषदोषेण दूषयितुं सूत्रम् अस्मिन्नस्य च तद्योगं शास्तीति ।
ओं अस्मिन्नस्य च तद्योगं शास्ति ओं
अस्मिन्न् अस्य च तद्योगं शास्ति । ब्ब्स्_१,१.१९ ।
योगमन्नमयाद्यैर्यत् फलत्वेनास्य शंसति ।
स्थानद्वये ऽप्यतः कोशा एत इत्यतिसाहसम् (अनुव्याख्यानम्)१,१.२१५एह्
न्यायसुधा-
यद्यस्मादस्य स य एवंविदित्युक्तस्य ब्रह्मविदः फलत्वेनान्नमयादिभिर्योगं तत्प्राप्तिं स्थानद्वये ऽप्यनुवाकद्वये ऽपि ।
शंसति कथयति श्रुतिः ।
एतमन्नमयमात्मानमुपसङ्क्रामतीत्यादि ।
एतमन्नमयमात्मानमुपसङ्क्रम्येत्यादि च ।
अत एते ऽन्नमयादयः कोशा इत्येतद्वयाख्यानमतिसाहसं पूर्वोत्तरापरामर्शमूलम् ।
नहि शरीरादिकोशप्राप्तिर्ब्रह्मविद्याफलमिति सम्भवति ।
तरति शोकमात्मविदित्यादिविरोधात् ।
शरीरादेश्च शोकरूपत्वात् ।
स्यादेतद्यद्यत्रान्नमयादिप्राप्तिरुच्येत ।
न चैतदस्ति ।
उपसङ्क्रमशब्दस्यातिक्रमार्थत्वादित्यत आह उपसङ्क्रमणं चेति
३,४४६
उपसङ्क्रमणं चैव द्वितीयोद्देशितं प्रति ।
अतिक्रमं वदन्तं तमुपशब्दो निवारयेत् (अनुव्याख्यानम्)१,१.२१६
न्यायसुधा-
द्वितीयोद्देशितं प्रति ।
द्वितीयया कर्मत्वेनोक्तमन्नमयादिकं प्रति यदुपसङ्क्रमणमुच्यते तदतिक्रमं वदन्तम् ।
उपसङ्क्रमणपदवाचिपदमतिक्रमार्थं व्याकुर्वन्तमिति यावत् ।
उपशब्दो निवारयेत् ।
तस्योपशब्दविरोधः स्यात् ।
उपपूर्वस्य क्रमेः प्राप्त्यर्थत्वात् ।
दोषान्तरमाह अश्रुतस्येति
अश्रुतस्यातिशब्दस्य स्थानं दद्यात् कथं पुनः (अनुव्याख्यानम्)१,१.२१७अब्
न्यायसुधा-
पुनरिति दोषान्तरसमुच्चयार्थः ।
श्रुताश्रुतपरित्यागकल्पने विगतह्रियाम् (अनुव्याख्यानम्)१,१.२१७च्द्
न्यायसुधा-
वाक्यद्वयतात्पर्यमाह श्रुतेति
एवं व्याकुर्वाणेन हि श्रुतमुपशब्दं त्यक्तवा तत्स्थाने ऽश्रुतो ऽतिशब्दो ऽध्याहार्यः ।
तथाच श्रुतपरित्यागो ऽश्रुतकल्पनं च स्यात् ।
तदुभयं च लज्जाहेतुरिति ।
न वयं श्रुतपरित्यागेनाश्रुताध्याहारं कुर्मो येनायं दोषः स्यात् ।
किं नामाव्ययानामनेकार्थत्वादुपशब्दो ऽतिशब्दार्थो व्याख्यायत इति चेन्न ।
नियामकेन विना प्रसिद्धार्थत्यागाप्रसिद्धार्थस्वीकारानुपपत्तेः ।
३,४४७
न ह्यव्ययान्यनेकार्थानीत्येतावतान्तःशब्दस्य बहिरित्यर्थो गृह्यते ।
किन्तु प्रयोगादिकमनुसृत्यैवेति स्थिते ऽभ्युपगम्यापि दोषमाह मृतावेवेति
मृतावेव परित्यागः कृतो ह्यन्नमयस्य च (अनुव्याख्यानम्)१,१.२१८अब्
न्यायसुधा-
हि यस्मादन्नमयस्य कोशस्य चशब्दात्प्राणमयस्य च परित्यागो मृतावेव कृतो भवति ।
मृतेः शरीरत्यागरूपत्वात् ।
तस्मादस्माल्लोकात्प्रेत्येति मरणोक्तयैवान्नमयाद्यतिक्रमस्योक्तत्वातपुनरेतमन्नमयमात्मानमुपसङ्क्रामतीति तदतिक्रमोक्तौ पुनरुक्तिः
प्रसज्येतेति ।
किञ्च ब्रह्मविदाप्नोति परमित्युपक्रमानुगुण्यं च प्राप्तिपरत्वे स्यात् ।
अतो नान्नमयादयः कोशाः किन्तु विष्णुरेव ।
शुद्धिप्रार्थनलिङ्गाद्वाक्यान्तरोक्तानां कोशत्वे ऽपि न कश्चिद्विरोधः ।
अपि च ते ऽन्नमयादयः ।
एते त्वन्नरसमय इत्युपक्रमाद्रसो वै स इति वाक्यशेषाच्चान्नरसमयादय इति शब्दान्तरन्यायेनाप्यन्ये भविष्यन्तीति सर्वमनवद्यम् ।
३,४४९
एवमन्नमयादीनां पञ्चानामपि परब्रह्मत्वप्रतिपादनपरतया सूत्राणि व्याख्याय परेषागमव्याख्यां प्रत्याख्यातुमुत्तरो ऽयं ग्रन्थसन्दर्भ आरभ्यते ।
तत्र मायावादिनो ऽन्नमयादयः पञ्चापि कोशा इति मन्यमाना ब्रह्मपुच्छं प्रतिष्ठेत्युक्तस्य ब्रह्मणः स्वप्राधान्येन ज्ञेयत्वप्रतिपादकान्येतानि सूत्राणीति
व्याचक्षते ।
तथा हि ।
अन्नमयादयश्चत्वारस्तावदन्नादिविकाराः कोशा एव ।
तथाच विकारार्थे मयट्प्रवाहे सत्यानन्दमय एवाकस्मादर्धचरतीयन्यायेन कथमेव मयटः प्राचुर्यार्थत्वं ब्रह्मविषयत्वं चाश्रीयते ।
मान्त्रवर्णिकब्रह्माधिकारादिति चेत् ।
अन्नमयादीनामपि तर्हि ब्रह्मत्वप्रसङ्गः ।
अन्नमयादीनामन्तरस्यान्यस्य श्रवणादब्रह्मत्वमानन्दमयस्य तु तदभावाद्ब्रह्मत्वमिति चेन्न ।
तत्रापि सत्यं ज्ञानमनन्तं ब्रह्मेति प्रकृतस्य ब्रह्मणो ब्रह्म पुच्छं प्रतिष्ठेत्यानन्दमयाश्रयतयोक्तत्वात् ।
तद्विजिज्ञापयिषयैवान्नमयादयः पञ्चापि कोशाः कल्प्यन्ते ।
नन्वन्नमयादीनाभिवानन्दमयस्य पुच्छत्वेनोक्तं ब्रह्म कथं स्वप्रधानं स्यात् ।
न ।
स्वप्रधानतया प्रकृतत्वात् ।
नचानन्दमयावयत्वेनापि ब्रह्मणि ज्ञायमाने प्रकृतत्वं न हीयते आनन्दमयस्य ब्रह्मत्वादिति वाच्यम् ।
तथा सति तदेवावयव्यवयवश्चेत्यसामञ्जस्याप्रसङ्गात् ।
अन्यतरपरिग्रहे च पुच्छस्यैव ब्रह्मत्वं युक्तम् ।
ब्रह्मशब्दश्रवणात् ।
न त्वानन्दमयस्य तत्र ब्रह्मशब्दाश्रवणात् ।
असन्नेवेति श्लोकस्य ब्रह्मपुच्छमित्युक्तब्रह्मविषयत्वात् ।
न ह्यत्रानन्दमयो ऽन्वाकृष्टते ।
किन्तु पुच्छतयोक्तं ब्रह्म स्वप्रधानतया ।
न चानन्द(मय)स्यानुभवसिद्धस्य भावाभावशङ्का युज्यते ।
कथं तर्हि पुच्छत्वोक्तिः ।
पुच्छवत्पुच्छमित्याश्रयार्थत्वात् ।
३,४४९फ़्.
किञ्चानन्दमयस्य प्रियाद्यवयवयोगाशारीरत्वाभ्यां सविशेषत्त्वाद्ब्रह्मणो ऽपि सविशेषत्वप्रसङ्गः ।
निर्विशेषं च ब्रह्म ।
वाङ्मनसागोचरत्वश्रुतेः ।
मयटः प्राचुर्यार्थत्वे ऽप्यानन्दप्रचुर इत्युक्ते दुःखाल्पत्वमपि गम्यते ।
प्राचुर्यस्य लोके प्रतियोग्यल्पतासापेक्षत्वात् ।
नच ब्रह्मणि दुःखं सम्भवति ।
किञ्च प्रियादीनां प्रतिशरीरं भेदेनानन्दमयस्यापि भेदे ब्रह्मणो ऽपि प्रतिशरीरं भेदः प्रसज्येत ।
नच तद्युक्तम् ।
अनन्तत्वश्रुतेः ।
नचैवं भागर्वी वारुणी विद्या विरुद्धयेत ।
तत्र मयटो ऽश्रवणेन भिन्नविषयत्वात् ।
एतमानन्दमयमात्मानमिति चान्नमयादीनामिवानन्दमयस्यातिक्रमणीयतयोक्तस्याब्रह्मत्वात् ।
अन्ते मयटः श्रवणेन पूर्वमपि तदध्याहारे पूर्वमपि नानन्दमयो ब्रह्मास्तु ।
ब्रह्मज्ञानार्थिनस्तु तदुपदेशो द्वारतयोपपन्नो भविष्यतीति ।
३,४५६
नन्वेवं तर्हि कथं सूत्राणि ।
आनन्दमयस्य ब्रह्मताप्रतिपादनपरतयोपलम्भात् ।
मैवम् ।
वेदसूत्रयोर्विरोधे गुणे त्वन्याय्यकल्पनेति न्यायेन सूत्राणां कथञ्चिद्योज्यत्वात् ।
तस्मादानन्दमयादयः पञ्चापि कोशा न ब्रह्मेति ।
३,४६०
तदेतत्सूत्रव्याख्यानेन निराकृतमपि शिष्यहिततया स्फुटं निराकरोति ये ऽन्नमिति ।
ये ऽन्नं ब्रह्मेत्याद्युपासां सामानाधिकरण्यतः (अनुव्याख्यानम्)१,१.२१८च्द्
उक्तवा पञ्चस्वरूपाणां पुनस्तत्प्राप्तिवादिनी ।
स्थानद्वयगता वेदवाणी तदपलापिनाम् (अनुव्याख्यानम्)१,१.२१९
तमसो ऽन्यत्र संस्थानं कथमेव सहेत सा (अनुव्याख्यानम्)१,१.२२०अब्
न्यायसुधा-
इत्यादीति क्रियाविशेषणम् ।
पञ्चस्वरूपणामिति विशेषणसमास एवायं न द्विगुः ।
तद्धितार्थाद्यभावात् ।
तत्प्राप्तिवादिनी ।
ज्ञानफलत्वेनेति शेषः ।
स्थानद्वयमनुवाकद्वयम् ।
तदपलापिनामन्नमयादीनाम् ।
इदमुक्तं भवति ।
अन्नमयादिपञ्चकं यदि न ब्रह्म तदान्नमयादीन्प्रत्युदाहृतश्लोकेषु ये ऽन्नं ब्रह्मोपासत इति प्रथमानुवाके ऽन्नं ब्रह्मेति व्यजानादित्युत्तरानुवाके च
ब्रह्मतयोक्तिविरोधः स्यात् ।
नहि पुच्छस्यापि ब्रह्मत्वे प्रमाणमस्त्यन्यदतो ब्रह्मशब्दात् ।
नन्वेतद्ब्रह्मज्ञानद्वारतयोपदिष्यम् ।
नतु ब्रह्मतयोपदिष्यमिति चेन्न ।
सामानाधिकरण्येनोक्तत्वात् ।
नच सामानाधिकरण्यमपि गौणम् ।
तथा सति विदुषस्तत्प्राप्तिरुक्ता विरुद्धयेत ।
नच तत्रातिक्रमो ऽथर् इत्युक्तम् ।
नचानन्दमये ब्रह्मशब्दो नास्ति श्लोकस्य पुच्छविषयत्वादिति वाच्यम् ।
तथा सत्यन्नमयादिश्लोकानामपि तथात्वप्राप्तेः ।
किञ्च बाधकवशादित्थमाश्रीयते ।
एवमेव वा ।
नाद्यः ।
बाधकानां परिहृतत्वात् ।
द्वितीये तु निर्निमित्तं वेदार्थभूतब्रह्मापलापिनो बौद्धस्येव वेदाभिमानिकोपेन नरकप्राप्तिः स्यादिति ।
३,४६५
स्थानद्वयगतेत्युक्तम् ।
प्राक् च भृगोश्चैतद्वदिष्यतीति ।
तत्रोत्तरानुवाकोक्तस्य ब्रह्मत्वं प्रपञ्चयति अधीहीति
अधीहि भगवो ब्रह्मेत्युक्तो ऽन्नप्राणपूर्वकम् (अनुव्याख्यानम्)१,१.२२०च्द्
आह ब्रह्म कथं तन्न … (अनुव्याख्यानम्)१,१.२२१अ
३,४६५फ़्.
न्यायसुधा-
अधीह्यध्यापय ।
ण्यर्थस्यान्तर्णीतत्वात् ।
भगवो भगवन् ।
मतुवसो रुः सम्बुद्धौ छन्दसीति वचनात् ।
उक्तो भृगुणा पृष्टो वरुणः’भृगुर्वै वारुणिः ।
वरुणं पितरमुपससार ।
अधीहि भगवो ब्रह्मेति ।
तस्मा एतत्प्रोवाच ।
अन्नं प्राणं चक्षुःश्रोत्रम्मनोवाचम्’ इत्येवं ब्रह्मप्रश्नोत्तरत्वेनोक्तत्वादन्नादिकं ब्रह्मैव भवितुमर्हतीत्यर्थः ।
ननु तत्र मयटो ऽश्रवणाद्भिन्नविषयत्वमिति चेन्न ।
उक्तोत्तरत्वात् ।
किञ्च यथा सत्यन्नमयादीन्प्रत्युदाहृतश्लोकेषु मयटो ऽश्रवणाद्भिन्नविषयत्वं स्यात् ।
अस्त्विति चेन्न ।
तथा सति तदुदाहरणस्यासङ्गतिप्रसङ्गात् ।
यस्यान्नादेर्विकारास्तेतत्प्रशंसापरतया सङ्गतिस्त्विति चेन्न ।
मनोमयश्लोके तदयोगात् ।
तर्हि तत एवानुपपत्तेरन्नादिशब्दैरन्नमयादय एवोच्यत इति कल्प्यत इति चेत् ।
तर्ह्यत्रापि प्रकरणवशादन्नमयादय एवोच्यन्त इत्यङ्गीकार्यम् ।
उक्ते ऽर्थे हि संवादित्वेनेयमाख्यायिकोक्ता ।
तस्मादन्नमयादय एवात्रोच्यन्ते ।
ते च ब्रह्मप्रश्नोत्तरत्वेनोक्तत्वान्यथानुपपत्त्या ब्रह्मैवेति ।
यद्यपि’सैषा भार्गवी वारुणक्ष विद्या परमे व्योमन्प्रतिष्ठिता’ इति साक्षाद्ब्रह्मविद्यात्वमुच्यते ।
तथापि मीमांसार्थं युक्तयुपन्यासः ।
अथवा ।
अस्यापि समानयोगक्षेमत्वादिति ।
३,४६८
स्यादेतत् ।
ब्रह्मप्रश्नोत्तरतयोक्तिमात्रेण न वरुणोक्तानामन्नादीनां ब्रह्मत्वं सिद्धयति ।
ब्रह्मज्ञानोपायतयापि तदुपदेशोपपत्तेः ।
तथा हि ।
द्वितीयाचन्द्रप्रश्ने ऽचन्द्ररूपापि शाखा चन्द्रतयोच्यते चन्द्रज्ञानोपायत्वात् ।
यथा वारुन्धतीप्रश्ने तत्समीपवर्तिनी पृथुला तारकारुन्धतीत्वेनोपदिश्यते ।
अरुन्धतीज्ञानद्वारत्वात् ।
द्वारत्वं चान्नादिशब्दोदितानां शरीरादीनां बहिर्वृत्तिनिवारणद्वारा ब्रह्मज्ञानं प्रत्युपपद्यत एवेति ।
मैवम् ।
किमनेन व्यभिचारश्चोद्यते ।
किंवान्यथासिद्धिः सम्भाव्यते ।
उत सा निश्चीयते ।
पक्षत्रयमसम्बद्धमित्याह द्वारमिति
३,४६९
… द्वारं तदिति वादिनः ।
उपसत्तिं कथं विद्युर् … (अनुव्याख्यानम्)१,१.२२१ब्च्
न्यायसुधा-
तदन्नादिकम् ।
उपपत्तिं ब्रह्मज्ञानार्थोपसत्त्युत्तरकालीनं गुरूपदेशप्रकारमित्यर्थः ।
कथमित्याक्षेपे ।
न विद्युरित्यर्थः ।
गुरूपदेशप्रकाराज्ञानविजृम्भितेयं शङ्केति भावः ।
तत्कथं न विद्युरित्यत आहउपसन्नायेति
… उपसन्नाय हि त्रिशः (अनुव्याख्यानम्)१,१.२२१द्
न्यायसुधा-
ब्रह्मैव वक्तव्यम् ।
न पुनर्यत्किञ्चित् ।
अबोधे ऽपि पुनः पुनः तदेव शब्दान्तरेण वक्तव्यम् ।
द्वारं च द्वारतयैव वक्तव्यम् ।
नतु तदात्मकत्वेन ।
नहि धूमो ऽग्न्यात्मकत्वेन प्रदश्यर्ते ।
चन्द्रद्युदाहरणमप्यसिद्धमेवेति ।
आगमा वेदाः ।
सम्प्रदायविदः स्मृतीतिहासपुराणकर्तारः ।
अपि चावितरेतरसमुच्चयार्थौ ।
तर्हि उपदेशप्रकाराज्ञतया वरुणो ऽन्यदुपदिशतीत्यस्तु ।
मैवम् ।
लोकपालस्यैतावज्ज्ञानाभावसम्भवादित्याशयेन द्वारोपदेशशङ्कानिराकरणमुपसंहरति तदिति
तद् यत्किञ्चित् कथं ब्रूयादुपसन्नाय दिक्पतिः (अनुव्याख्यानम्)१,१.२२३अब्
३,४७०
न्यायसुधा-
नन्वब्रह्मैव ब्रह्म पृष्टवते वरुणेनोक्तं व्यामोहनायेति किं न स्यादित्यत आह न वदेदिति
न वदेद् ब्रह्म च कथं मायावी नहि वारिराट् (अनुव्याख्यानम्)१,१.२२३च्द्
न्यायसुधा-
किमाक्षेपे ।
ब्रह्मैव वदेदित्यर्थः ।
तत्र हेतुर्मायावी न हीति ।
आप्तत्वादित्यर्थः ।
विवक्षितार्थतत्त्वज्ञानं हि वरुणस्य दिक्पतेः प्रसिद्धम् ।
अविप्रलम्भकत्वं च पितृत्वात् ।
भृगोर्ब्रह्मज्ञानयोग्यत्वात् ।
उपसन्नायेति प्रसङ्गदोषस्य निरस्तत्वात् ।
वारिराडिति भूताभिमानित्वेनोक्तस्यापटुकरणत्वासम्भवात् ।
विवक्षायाश्चोपदेशादेव सिद्धेः ।
अत एव श्रुतिर्वारुणिर्ः(वरुणं)पितरमुपससादेत्याह ।
तदनेनाप्तेन ब्रह्मप्रश्नोत्तरत्वेनोक्तत्वमन्नादीनां ब्रह्मत्वे हेतुरित्युक्तं भवति ।
३,४७१
ननु वरुणेनोक्तेष्वन्नादिष्वन्नप्राणमनांसि सन्तु ब्रह्मस्वरूपाणि ।
अन्नादिशब्दानामत्तृत्वाद्यर्थतयानुपपत्त्यभावात् ।
चक्षुःश्रोत्रवाक्शब्दं तु कथं ब्रह्म स्यात् ।
चक्षुरादिशब्दानां चष्टे ऽनेनेति चक्षुः ।
शृणोत्यनेनेति श्रोत्रम् ।
वदत्यनयेति वागिति करणार्थत्वात् ।
ब्रह्मणश्च करणत्वानुपपत्तेरिति चेन्न ।
कर्तर्यपि तद्व्युत्पत्तिसम्भवादित्याह चष्ट इति
चष्ट इत्येव तच्चक्षुः श्रवणाच्छ्रोत्रमुच्यते ।
वचनादेव वाग् ब्रह्म सृष्टिस्थित्यादिकारणम् (अनुव्याख्यानम्)१,१.२२४
न्यायसुधा-
एवशब्देन करणसाधनतां निराकरोति ।
किञ्च’यतो वा इमानि भूतानि जायन्ते’ इति सकलभूतानां सृष्टिस्थितिसंहारकारणत्वं च ब्रह्मलक्षणमन्नादिषूपदिष्यम् ।
ततश्चैतद्ब्रह्मेत्याह सृष्टीति
यतः सृष्टयादिकारणमुक्तमतो ऽपि ब्रह्मेति सम्बन्धः ।
३,४७२
ननु तथापि नानुवाकद्वयोक्तमेकं वस्तु भवितुमर्हति ।
सङ्खयाभेदात्सञ्ज्ञाभेदाच्च ।
पूर्वं खल्वन्नमयादयः पञ्चोक्ता न चक्षुःश्रोत्रवाचः ।
उत्तरत्र चान्नादयः षट् न विज्ञानानन्दाविति तत्राह तच्चेति
तच्च वाघूलशाखायामष्टरूपमुदाहृतम् ।
विज्ञानानन्दसहितं पृथक् सृष्टयादिलक्षणैः (अनुव्याख्यानम्)१,१.२२५
३,४७२फ़्.
न्यायसुधा-
चशब्दो हेत्वर्थः ।
यस्माद्वाधूलशाखायां विज्ञानानन्दसहितं तदन्नादिषट्कमित्यष्टरूपं ब्रह्मतयोदाहृतम् ।
तस्मात्तदनुसारेण प्रथमानुवाके चक्षुरादित्रयस्योत्तरत्र विज्ञानानन्दयोरध्याहारेण सङ्खयासञ्ज्ञैक्यं भविष्यतीति भावः ।
हेत्वन्तसमुच्चये वा चशब्दः ।
अत्रापि हि’विज्ञानं ब्रह्मेति व्यजानात्’ ।
‘आनन्दो ब्रह्मेति व्यजानात्’ इत्युत्तरवाक्यपर्यालोचनयापि ह्यत्र विज्ञानानन्दयोरध्याहारो गम्यते ।
न ह्यन्यद्वरुणेनोपदिष्यं भृगुस्त्वन्यद्वयजानादिति युज्यते ।
ननु वाधूलशाखोक्तमपि कुतो ब्रह्मेत्यत आह पृथगिति
अनेकशाखाविदामेवात्र सम्यगधिकारज्ञापनायैतदुक्तम् ।
ननु वाधूलशाखायामिवात्रोभयत्राष्यकमेव कस्मान्नोक्तमित्यत आह आवापेति
३,४७३
आवापोद्वापतष शाखा यत आहुः परं पदम् (अनुव्याख्यानम्)१,१.२२६अब्
न्यायसुधा-
क्वचिदन्यत्रानुक्तावापेन क्वचिदन्यत्रोक्तोद्वापेन क्वचिदुभयतया क्वचित्सामग्षेण परमेश्वरस्वरूपं प्रतिपादयन्तीति शाखानां स्वभावो यतो ऽतो न
कश्चिद्विरोध इति ।
३,४७८
ननु तथापि वरुणोपदिष्यानामन्नादीनां ब्रह्मत्वं नोपपद्यते ।
तद्विज्ञाय पुनरेव वरुणं पितरमुपससार’ इति लब्धोपदेशस्यापि भृगोः पुनरुपसरणवचनात् ।
पूर्वोक्तस्यैव ब्रह्मत्वे अधीहि भगवो ब्रह्मेति पुनरुपसरणं व्यर्थं स्यात् ।
अनेन तु ज्ञायते न पूर्वोपदिष्यं ब्रह्मेति ।
यथा हि कश्चित्सुवर्णं याचितवते रजतं ददाति सो ऽपि गृहीत्वाऽलोच्य पुनः(पुनः) सुवर्णं देहीति याचते ।
तेन पार्श्वस्थो जानाति प्राग्दत्तमन्यदेव किञ्चिन्न सुवर्णमिति ।
तथेहापीत्याशङ्कां परिहरति यत इति
३,४७९
यतो भूतानि जायन्त इत्याद्यैर्लक्षणैः स्वयम् (अनुव्याख्यानम्)१,१.२२६च्द्
लक्षितं गुरुणा पश्चात् तपसैवापरोक्षतः ।
दृष्ट्वैकैकं स्वरूपं तु समस्तोक्तानुदर्शनम् (अनुव्याख्यानम्)१,१.२२७
इच्छताऽज्ञां गुरोः प्राप्य तपसैवारोक्षितम् ।
अब्रह्मेत्येव वदतां श्रुतहान्यश्रुतग्रहौ (अनुव्याख्यानम्)१,१.२२८
साक्षाल्लक्षणतां प्राप्ताविति लज्जा तदुक्तिषु (अनुव्याख्यानम्)१,१.२२९अब्
न्यायसुधा-
अयमर्थः न पुनरुपसरणान्यथानुपपत्त्या पूर्वोपदिष्यस्याब्रह्मत्वं कल्प्यम् ।
पुनरुपसरणस्यान्यथोपपत्तेः ।
तथा हि ।
वरुणो ह्युद्देशलक्षणाभ्यां भृगवे ब्रह्मोपदिश्योवाच ।
न श्रवणमात्रेण कृती भवान् ।
श्रवणमात्रस्य ब्रह्मसाक्षात्कारासाधनत्वात् ।
साक्षात्कारस्यैव मोक्षसाधनत्वात् ।
अतस्त्वया मनननिदिध्यासनरूपं तपः करणीयमिति ।
स चैवमुपदिष्याष्यरूपो युगपत्सर्वस्य साक्षात्कर्तुमशक्यत्वान्मनननिदिध्यासाभ्यामन्नाख्यं भगवद्रूपं साक्षात्कृत्य गुरुप्रसादलब्धमपूर्वतमं धनं
तस्मै निवेदयितुं प्राणाख्यरूपान्तरसाक्षात्काराय मनननिदिध्यासने चिकीर्षुर्गुरोरनुज्ञामादातुं च पुनर्गुरुमुपससार ।
एवं रूपान्तरे ऽपि ।
तत्रानुजानीहीति वक्तव्ये यदधीहि भगवो ब्रह्मेति वदति तदहङ्कारनिरासार्थमिति ।
नन्वेवमस्त्वर्थापत्तिरन्यथोपपत्त्युपक्षीणा ।
तथापि किं पूवर्स्याब्रह्मत्वात्पुनरुपसरणम् उतोक्तरीत्यानुज्ञानार्थमिति सन्दिह्यते ।
सन्देहे चान्नमयादीनां न ब्रह्मत्वावधारणं सम्भवतीति ।
मैवम् ।
यतो वा इमानि भूतानि जायन्त इत्यादिलक्षरयोगात्तपसैवापरोक्षितत्वलिङ्गाच्चोत्तरपक्षावधारणोपपत्तेः ।
नहि देहादाविदं लक्षणं सम्भवतीति ।
नच तस्य स्वभावसिद्धज्ञानस्य साक्षात्काराय तपो ऽपेक्षितम् ।
किञ्च पूर्वस्याब्रह्मत्वेन पुनरुपसरणे स तपस्तप्त्वान्नं ब्रह्मेति व्यजानात् ।
नान्नाद्धयेव खल्वित्यादि ब्रूयात् ।
एवं ब्रह्मत्वज्ञापकेषु श्रुतेष्वप्यश्रुतमब्रह्मत्वं कल्पयतां श्रुतहानिरश्रुतग्रहापत्तिश्च स्यादित्यलं निर्दलपक्षप्रतिक्षेपे ऽस्माकमेव लज्जा जायत इति ।
अक्षरार्थस्तु स्फुट एव ।
सूत्राक्षराणामनानुगुण्यं तु भगवता न व्युत्पादितम् ।
तस्य परेण स्वयमेवाङ्गीकृतत्वात् ।
यो हि स्वयमेव स्वव्याख्यानस्यास्वारसिकत्वं मन्यते ।
तं प्रति तद्व्युत्पादनं मृतमारणमिव निराकर्तुरेव लज्जाकरम् ।
अत एवाह ।
इति प्रकारेण तदुक्तिषु विषयभूतासु दूषणाभिधाने ऽस्माकमेव लज्जेति ।
३,४८०
यच्च भेदव्यपदेशाच्चेति सूत्रं व्याख्यायोक्तं परेण मिथ्याभूतं जीवात्मपरमात्मभेदमाश्रित्य भेदव्यपदेशाच्चेत्युक्तमिति तदनुपपन्नमिति
भावेनाह समीप इति
३,४८१
समीपे सहभोगस्य मुक्तित्वेनोक्तितो ऽसकृत् (अनुव्याख्यानम्)१,१.२२९च्द्
भेदो जीवेशयोर्मिथ्येत्येव मिथ्या स्वयं भवेत् (अनुव्याख्यानम्)१,१.२३०अब्
न्यायसुधा-
‘एतमानन्दमयमात्मानमुपसङ्क्रम्य’ इत्यादौ परमेश्वरस्य समीपे ।
‘सो ऽश्नुते’ इत्यादौ तेन सह ।
नहि सामीप्यं साहित्यं च भेदेन विनोपपद्यते ।
नच मोक्षे ऽपि शिष्यमाणं मिथ्या भवितुं युक्तम् ।
अत्मस्वरूपस्यापि मिथ्यात्वप्रसङ्गात् ।
अथवा भेदव्यपदेशादित्युक्ते मिथ्याभेदो ऽयं किं न स्यादित्याकाङ्क्षानिरासार्थत्वेनास्मिन्नस्य च तद्योगं शास्तीति सूत्रं प्रकारान्तरेण व्याख्याति ।
एतेन मयटश्चैव द्वैविध्येनार्थकल्पनात् ।
तदन्येषां मतमपि सत्संसत्सु न भासते (अनुव्याख्यानम्)१,१.२३०च्फ़्
न्यायसुधा-
एवं पञ्चकोशवादिनां मायावादिनां व्याख्यां निराकृत्य ये तु भास्करादयो यथाश्रुतसूत्रानुसारिणो ऽन्नमयादयश्चत्वारः कोशा आनन्दमयस्त्वेक
एव परमात्मेति व्याचक्षते ।
तन्मतमतिदेशेन निराकरोति एतेनेति
३,४८२
एतेनैवान्नमयादीनां पञ्चानामपि ब्रह्मत्वोपपादनेन तदन्येषां पञ्चकोशत्ववादिभ्यो ऽन्येषां चतुष्कोशवादिनाम् ।
सत्संसत्सु विद्वत्सभासु ।
अधिकं चात्र दोषमाह मयटो द्वैविध्येनार्थकल्पनाच्चेति
अन्नमयादिषु विकारार्थत्वमानन्दमये प्राचुर्यार्थत्वमिति यदत्र नियामकमुक्तं तत्प्रागेव निराकृतमिति ।
ननु प्राणमय एव विकारप्रक्रमो भग्नः ।
(तत्र तर्हि) प्रत्ययस्य स्वाथिर्कत्वकल्पनादधिको दोषः स्यादिति ।
३,४८५
ननु सूत्रव्याख्यानमुपक्रम्य परापव्याख्यानिराकरणमसङ्गतमिति चेन्न ।
स्वव्याख्यानदर्ढ्यार्थत्वादिति भावेनाधिकरणार्थमुपसंहरति अत इति
अतो नारायणो देवो निःशेषगुणवाचकैः ।
गुणिसामान्यवचनैरपि मुख्यतयोदितः (अनुव्याख्यानम्)१,१.२३१
अध्यात्मगैश्च प्राणाद्यैस्तथैव ह्यधिभूतगैः ।
अन्नादिशब्दैर्भगवानेको मुख्यतयोदितः (अनुव्याख्यानम्)१,१.२३२
न्यायसुधा-
गुणिसामान्यवाचिनां गुणवाचिनां च शब्दानां समन्वयाय प्रवृत्ते ऽप्यधिकरणे ऽधिकरणसिद्धान्तन्यायेन सिद्धमप्यर्थान्तरमुपसंहरति
अध्यात्मगैश्चेति
अत एव नाधिकरणोपक्रमविरोध इति ।
३,४८६फ़्.
समस्तैर्गुणिसामान्यवाचकैर्गुणवाचकैरध्यात्मविषयैः(च) प्राणवागादिभिरधिभूतविषयैश्चान्नौषध्यादिभिःशब्दैर्भगवानेव मुख्यतयोदित
इत्युपसंहारो नोपपद्यते ।
अस्यार्थस्य प्रागनुक्तत्वात् ।
ननूक्तमुपलक्षणपरो ऽयमानन्दमयशब्द इति ।
सत्यम् ।
उपलक्षणं हि प्रकृतोपयुक्तस्योपपन्यस्य चार्थस्य भवति ।
अन्यथातिप्रसङ्गात् ।
नचैतेषां सर्वशब्दानां मुख्यया वृत्त्या भगवदेकवाचित्वसमर्थनं प्रकृतोपयुक्तं नाप्युपपन्नम् ।
तथाहि ।
जन्माद्यस्य यत इति सूत्रे जगज्जन्मादिकारणत्वादीन्यष्टौ लक्षणानि ब्रह्मणो ऽभिहितानि ।
तत्रैव शास्त्रं प्रमाणमुक्तं तृतीयसूत्रे ।
समन्वयसूत्रे च तेषामेव वाक्यानां ब्रह्मणि समन्वयः प्रतिज्ञातः ।
अतो जगज्जन्मादिकारणत्वं यत्रयत्र प्रतीयते तेषामेव वाक्यानां परमेश्वरे समन्वयसमथर्नं प्रकृतसङ्गतम् ।
न सर्वेषाम् ।
सर्वत्र जगज्जन्मादिकारणत्वप्रतिपादनाभावात् ।
किञ्च यन्निष्ठतया जगज्जन्मादिकारणत्वं प्रतीयते तद्वाचिनः शब्दस्य यया कयाचन वृत्त्या भगवत्परत्वे समर्थिते ऽपि लक्षणस्यातिव्याप्तिः
पतिह्रियत एव ।
नहि गङ्गापदलक्ष्यस्य तीरस्य घोषावासत्वं न सिद्धयति ।
अतो मुख्यवृत्तिसमर्थनस्य क्वोपयोगः ।
नोपपद्यते च सर्वशब्दानां भगवत्येव मुख्यवृत्तिसमर्थनम् ।
रूढियोगौ हि मुख्यवृत्ती ।
तत्रापि योगाद्रूढिर्बलवती ।
नच शब्दानां भगवति रूढिरस्ति ।
किन्तु तदितरत्रैव ।
योगस्तु सम्भवति ।
तथापि स तदितरसमानः ।
तथा चार्थान्तर एव मुख्यवृत्तयः शब्दाः ।
रूढेर्योगस्य च सत्त्वात् ।
नेश्वरे ।
योगमात्रस्य कथञ्चित्सम्भवात् ।
अतः सूत्रकारस्य सकलशब्दानां मुख्यया वृत्त्या भगवत्येव समन्वयसमर्थने सङ्गत्युपपत्त्योरभावादपव्याख्यानमेतदित्याशङ्कय सङ्गतिं
तावद्दर्शयति जन्मादीति
३,४८७
जन्माद्यस्येति सूत्रेण गुणसर्वस्वसिद्धये ।
ब्रह्मणो लक्षणं प्रोक्तं … (अनुव्याख्यानम्)१,१.२३३अच्
न्यायसुधा-
अथातो ब्रह्मजिज्ञासेति प्रथमसूत्रे ब्रह्मशब्देन जिज्ञास्यस्य सकलगुणपूर्णत्वं जीवादिव्यावृत्त्यर्थमुपात्तम् ।
जन्माद्यस्य यत इति द्वितीयसूत्रेण तत्सिद्धये जगज्जन्मादिकारणत्वं ब्रह्मणो लक्षणं प्रोक्तम् ।
अतः सूत्रद्वयेन साध्यतया साधकतया चानन्दादिसकलगुणपूर्णत्वं जगज्जन्मादिकारणत्वं च प्रकृतमिति ।
विवृतं चैतत्पूर्वमस्माभिः ।
किमतो यद्येवमित्यत आह शास्त्रमूलमिति
… शास्त्रमूलं यतस्ततः (अनुव्याख्यानम्)१,१.२३३द्
न्यायसुधा-
तदुभयं प्रधानमप्रधानं च लक्षणमनुमानादिनातिव्याप्तौ शङ्कितायां तन्निवृत्त्यर्थं तृतीयसूत्रे शास्त्रमूलं शास्त्रैकप्रमाणमुक्तं यतस्ततश्चतुर्थे सूत्रे
शास्त्रस्यान्यपरत्वशङ्कायां सर्वशब्दानां भगवत्यन्वयः प्रतिज्ञातुमुचितो न कतिपयशब्दानामिति शेषः ।
सर्वगुणपूर्णत्वे शास्त्रस्य प्रमाणतयाभिधाने ऽपि कुतः सर्वशब्दसमन्वयः प्रतिज्ञातव्य इत्यत आह अन्वय इति
अन्वयः सर्वशब्दानां गुणसर्वस्ववेदकः (अनुव्याख्यानम्)१,१.२३४अब्
न्यायसुधा-
यतः सर्वशब्दानामन्वय एव गुणसर्वस्ववेदको न कतिपयशब्दानाम् ।
अतः सर्वशास्त्राद् गुणसर्वस्वसिद्धये स एव प्रतिज्ञातव्य इति सम्बन्धः ।
अन्यथा यस्यैव शब्दस्य समन्वयो न प्रतिज्ञायते तदर्थो गुणो भगवति न सिद्धयेदतिव्याप्तिश्च स्यात् ।
प्रतिज्ञाते च समन्वयसूत्रेण सकलशब्दसमन्वये तत्प्रपञ्चनं सूत्रकारस्य कथमसङ्गतं भवतीति ।
एतेन मुख्यवृत्तिरपि सङ्गता द्रष्टव्या ।
तस्या अपि समन्वयसूत्रे प्रतिज्ञातव्यत्वात् ।
अमुख्यवृत्तौतदभिधेयगुणालाभप्रसङ्गात् ।
अभिधेये ऽतिव्याप्तिप्रसङ्गाच्चेति ।
३,४९०
एवमसङ्गतिं परिहृत्य यदुक्तं परेण न परमेश्वरस्यैव सर्वशब्दमुख्यार्थत्वं युक्तम् ।
योगस्य परमेश्वर इवान्यत्रापि सम्भवात् ।
ईश्वरे रूढेरभावेनान्यत्र तदाधिक्यादिति ।
तत्र योगस्योभयत्र साम्यं तावन्निराकरोति शब्देति
शब्दप्रवृत्तिहेतूनां तस्मिन् मुख्यसमन्वयात् (अनुव्याख्यानम्)१,१.२३४च्द्
न्यायसुधा-
इन्द्रादिशब्दप्रवृत्तिहेतूनां परमैश्वर्यादीनां तस्मिन्परमेश्वरे मुख्यसम्बन्धादिन्द्रादिशब्दानां तद्वाचकत्वमेव ।
तस्यैव हि परमैश्वर्यमनवधिकं स्वतन्त्रं च ।
अन्यत्रापि तथा चेत्को विशेष इति तत्रोक्तम् अन्यार्थेष्विति
अन्यार्थेष्वल्पताहेतोस्तन्निमित्तत्वतस्तथा ।
तद्वाचकत्वं शब्दानां … (अनुव्याख्यानम्)१,१.२३५अच्
३,४९०फ़्.
न्यायसुधा-
यतो ऽन्यार्थेषु पुरन्दरादिषु हेतोः शब्दप्रवृत्तिहेतोरैश्वर्यादेरल्पता ।
देशतः कालतःस्वरूपतश्च सावधिकत्वात् ।
अल्पस्यापि भगवन्निमित्तत्वाच्चेति ।
एतदुक्तं भवति ।
अवयवार्थमनुसृत्य वृत्तिर्हि योगः ।
अवयवार्थश्च यथा यथोत्कृष्टते तथातथा योगवृत्तेरप्युत्कर्षेण भाव्यम् ।
निमित्तवैचितृये नैमित्तिकावैचितृयस्यानुपपत्तेः ।
अवयवार्थश्च परमेश्वरे ऽनवधिकः स्वतन्त्रश्च ।
अर्थान्तरे ऽल्पः पराधीनश्च ।
अतः कथं योगस्योभयत्र साम्यम् ।
किन्त्वीश्वरे महायोगो ऽन्यत्र योगमात्रमिति स एव शब्दमुख्यार्थ इति ।
यदुक्तमीश्वरे शब्दानां रूढिर्नास्तीति तन्निराकरोति बहुलेति
… बहुलातिप्रयोगतः (अनुव्याख्यानम्)१,१.२३५द्
रूढमित्येव साध्यं स्याद् … (अनुव्याख्यानम्)१,१.२३६अ
३,४९१
न्यायसुधा-
बहुलातिप्रयोगतो हेतोः शब्दजातं हरौ रूढमेवेति साध्यं स्यात् ।
अयं प्रयोगः ।
विमताः शब्दा हरौ रूढाः ।
बहुलातिप्रयोगवत्त्वात् ।
नारायणादिशब्दवदिति ।
प्रयोगवत्त्वं च यौगिकेष्वमुख्येषु चास्तीत्यतो बहुलेत्युक्तम् ।
अज्ञातमुख्येष्वमुख्येष्वपि बहुलप्रयोगो ऽस्तीत्यतो ऽतिप्रयोगत इत्युक्तम् ।
पूज्यप्रयोगो ह्यतिप्रयोगः ।
पूज्यता चाविवेकपूर्वकत्वाभावः ।
नच रूढयोगे रूढोपचारे रूढलक्षणायां व्यभिचारः ।
तत्रापि रूढिसद्भावेन सपक्षत्वात् ।
समाहारवृत्तयो हि ताः ।
३,४९६
नन्वसिद्धो ऽयं हेतुः ।
इन्द्रादिशब्दानां परमेश्वरे प्रयोगस्यैवाभावादित्यत आह रूढिरिति
… रूढिर्हि द्विविधा मता ।
अविद्वद्विद्वदाप्त्यैव … (अनुव्याख्यानम्)१,१.२३६ब्च्
३,४९६फ़्.
न्यायसुधा-
अत्र रूढिरिति रूढिज्ञापको बहुलातिप्रयोगो लक्ष्यते ।
आप्तिः सम्बन्धः ।
तत्राविद्वत्सम्बन्धिनो बहुलातिप्रयोगस्याभावे ऽपि विद्वत्सम्बन्धिने भावान्नासिद्धिरिति भावः ।
अस्त्वेवमीश्वरे(ऽपि)रूढिः शब्दानाम् ।
तथापि लोके ऽपि तद्भावात्साम्यमेव ।
ततश्च हरिरेव मुख्यवाच्य इति नोपपद्यत इत्यत आह मुख्येति
३,४९७
… मुख्या हि विदुषां तु सा (अनुव्याख्यानम्)१,१.२३६द्
न्यायसुधा-
विदुषां बहुलातिप्रयोगानुमिता सा रूढिर्मुख्या हि यस्मात्तस्मान्न साम्यमिति शेषः ।
कथं मुख्यत्वमित्यत आह विद्वदिति
विद्वद्रूढिर्वैदिका स्यात् सा योगादेव लभ्यते (अनुव्याख्यानम्)१,१.२३७अब्
३,४९७फ़्.
न्यायसुधा-
वैदिकबहुलप्रयोगानुमिता हि विद्वद्रूढिरित्युच्यते ।
सा च लौकिकमात्रप्रयोगानुमिताया मुख्येति स्फुटमेवेति ।
ननु वैदिकेति कथम् ।
टिढ्ढाणञ् इत्यादिना ङीपा भवितव्यम् ।
मैवम् ।
परमवैदिकत्वख्यापनार्थत्वात् ।
अथवा वैदिकाः प्रयोगा अस्यां सन्ति ज्ञापका इति’अर्शादिभ्यो ऽच्’ इत्यचि कृते वैदिकेति भवति ।
यद्वा वैदिकानां पुरुषाणामास्यादिति तत्प्रयोगात्सिद्धेति ।
हेत्वन्तरमाह सेति
ल्यब्लोपनिमित्ता पञ्चमी ।
यतः सा विद्वद्रूढिर्योगमविहायैवोपलभ्यते ।
न त्वविद्वद्रूढिवत्सङ्केततुल्यातो ऽपि सा मुख्येति ।
३,५००
ततः किमित्यत आह तस्मादिति
तस्मान्मुख्यार्थता विष्णोर् … (अनुव्याख्यानम्)१,१.२३७च्
न्यायसुधा-
यस्मादेवं विष्णौ महायोगो मुख्या च रूढिः ।
अन्यत्र योगमात्रममुख्यरूढिश्च तस्मात्सर्वशब्दमुख्यार्थता विष्णोरुपपन्नेति ।
उपसंहरति इति कृत्वेति
… कृत्वा हृदि प्रभुः (अनुव्याख्यानम्)१,१.२३७द्
समन्वयं साधयति … (अनुव्याख्यानम्)१,१.२३८अ
न्यायसुधा-
एतां सङ्गतिमेतां चोपपत्तिं हृदि कृत्वा सूत्रकृदानन्दमयो ऽभ्यासादित्यशेषगुणिसामान्यवाचकादिशब्दानां मुख्यया वृत्त्या हरौ समन्वयं
साधयति ।
अतो युक्तमेवैतद्वयाख्यानमिति ।
इति श्रीमन्न्यायसुधायामानन्दमयाधिकणम्


__