३,१४२
अथ श्रीमन्न्यायसुधायां समन्वयाधिकरणम्
$पूर्वपक्षरचना$
ओं तत्तु समन्वयात् ओं
तत् तु समन्वयात् । ब्ब्स्_१,१.४ ।
अस्तु शास्त्रैकसमधिगम्यं जगत्कारणम् ।
तथापि शास्त्रत एवान्येषां हरहिरण्यगर्भादीनां प्रधानादीनां च जगत्कारणत्वप्रतीतेरतिव्यापकमिदं लक्षणम् ।
नच तच्छास्त्रं विष्णुपरमिति वाच्यम् ।
अभियुक्तैः शिवादिपरत्वेन व्याख्यातत्वात् ।
यद्यपि नामानि सर्वाणीत्यादिश्रुत्या शिवादिनाम्नां विष्णौ शक्तिमात्रमवसीयते ।
तथापि न तात्पर्ये प्रमाणमस्ति ।
यत्परः शब्दः स शब्दार्थ इति हि न्यायः ।
नच शक्तिमात्रेण तात्पर्यं कल्पयितुं युक्तम् ।
अतिप्रसङ्गात् ।
अन्यत्र तात्पर्य(स्य च) ज्ञापकमभियुक्तव्याख्यानमस्तीत्युक्तम् ।
तस्मादलक्षणमेतदित्याशङ्कय परिहृतं सूत्रकृता तत्तु समन्वयादिति ।
ओं तत्तुसमन्वयात् ओं
३,१४५
$सूत्रवाक्ययोजना$
तत्रान्वयपदार्थमाह त एवेति
त एवान्वयनामानस् … (अनुव्याख्यानम्)१,१.११९अ
३,१४५फ़्.
न्यायसुधा-
उपक्रमादय एवान्वीयन्ते शक्तितात्पर्यगोचरेण सम्बद्धयन्ते तथा ज्ञायन्त इति यावत् वाक्यान्येतैः इत्यन्वयनामानः ।
अत्रोपक्रमादिप्रसिद्धपदं परित्यज्य यौगिकान्वयपदपरिग्रहणेने(हेणे)दं सूचयति ।
न शास्त्रतात्पर्यावगतावापातप्रतीतिर्व्याख्यातृवचनं वा लिङ्गम् ।
किन्तूपक्रमादय एव ।
तेषामव्यभिचारित्वात् ।
प्रतीतिव्याख्यानयोस्तु व्यभिचारित्वात् ।
यत्रापि प्रतीव्याख्याने न व्यभिचरतस्तत्राप्युपक्रमाद्यनुसन्धानपूर्वकत्वेनैव न तु स्वतः ।
अत उपजीव्यत्वादुपक्रमादीनामेव तात्पर्यलिङ्गत्वमिति ।
तदिदमाह त एवेति
३,१४७
सूत्रवाक्यं योजयति तैरिति
… तैः सम्यक् प्रविचारिते ।
मुख्यार्थो भगवान् विष्णुः सर्वशास्त्रस्य नापरः (अनुव्याख्यानम्)१,१.११९ब्द्
न्यायसुधा-
अनेनान्वयादित्येकवचनं समुदायार्थमित्युक्तं भवति ।
तेन च तेषामविरोधं सूचयति ।
संशब्दार्थः सम्यगिति ।
तस्य च प्रविचारित इत्यध्याहृतक्रियया सम्बन्धो दर्शितः ।
ननु च प्रतीतिव्याख्यानवदुपक्रमादीनामपि क्वचित्तात्पर्यव्यभिचारदर्शनात्कथं लिङ्गत्वमित्याशङ्कानिरासाय सम्यक् प्रविचारित इत्युक्तम् ।
उपक्रमादीनां श्रुत्यादीनां च सन्निकर्षविप्रकर्षाभ्यां सावकाशत्वादिना च बलाबलविनिश्चयपुरःसरं विरोधे बलवता दुर्बलबाधया
वाक्यार्थविमर्शः सम्यक् प्रविचारणम् ।
तेन नोपक्रमादिमात्रं लिङ्गमुच्यते ।
येन व्यभिचारोद्भावनं सङ्गच्छेत ।
किन्तु सम्यक् प्रविचारलक्षणावान्तरव्यपारोपेता एवोपक्रमादयः ।
नच ते क्वचिद्वयभिचरन्तीत्युक्तं भवति ।
प्रविचारित इति भावे क्तः ।
प्रविचारे कृते सतीति ।
शास्त्रे प्रविचारिते सतीति वा ।
एतदवगम्यत इति वाक्यशेषः ।
मुख्यार्थ इत्यावृत्त्या संशब्दस्यार्थान्तरम् ।
सर्वेत्यपि संशब्दार्थ एव ।
शास्त्रस्यार्थ इति शास्त्रयोनीति पूवर्सूत्रादनुवृत्तस्य व्याख्यानम् ।
भगवान्विष्णुरिति तच्छब्दार्थः ।
तुशब्दो ऽवधारणे ।
तद्वयाख्यानं नापर इति ।
३,१५०
तथाचैवं सूत्रयोजना ।
अन्वयादुपक्रमादिलिङ्गसमुदायात् शास्त्रे सम्यक् प्रविचारिते सति सर्वशास्त्रस्य भगवत्येव
सम्यग्वचनवृत्त्यान्वयाच्छक्तितात्पर्यलक्षणसम्बन्धावगमात्तद्विष्ण्वाख्यं ब्रह्मैव जगज्जन्मादिकारणत्वेन शास्त्रयोनि न तु हरहिरण्यगर्भादय
इति ।
अनन्तगुणपरिपूर्णत्वं हि प्रधानलक्षणम् ।
तत्र च शास्त्रं प्रमाणीक्रियमाणं वचनवृत्त्या सर्वमेव च युक्तम् ।
लक्षणादिना वृत्तौ वाच्यार्थगुणालाभात् ।
वाच्ये तद्गुणप्रसङ्गाच्च ।
एवं कतिपयवाक्यैरनन्तगुणाप्रतिपादनात् ।
वाक्यान्तरविषयस्य च तद्गुण(व)त्त्वप्रसङ्गाच्च ।
अतः संशब्दस्यावृत्तिरुपपन्ना ।
३,१५१फ़्.
ननु जन्माद्यस्य यत इति यच्छब्दश्रवणात्तद्ब्रह्मेति प्रकृतम् ।
तदेवात्र मण्डूकप्लुत्यानुवर्तिष्यते ।
किं पुनरत्र तद्ग्रहणेन ।
मैवम् ।
तुशब्दस्तावदत्रेतरव्यावृत्त्यर्थमुपादेयः ।
नच तस्य तदित्यनुक्तौ अन्वयः प्रत्येतुं शक्यते ।
यतो ऽवधारणं ततो ऽन्यत्र निषेध इति वचनात् ।
नचानुवृत्तेनान्वयप्रतीतिर्भविष्यतीति वाच्यम् ।
श्रुतेनान्वयादित्यनेनैव सम्बन्धप्रतीतिप्रसङ्गात् ।
तत्रोपयोगाभावान्नेति चेन्न ।
प्रतीतिव्याख्याननिरासार्थत्वोपपत्तेः ।
अन्वयपदादेव तत्सिद्धिरिति चेन्न ।
तस्योपक्रमादीनां लिङ्गत्वप्रतिपादन एव चरितार्थत्वसम्भवात् ।
अतः सार्थकं सूत्रे तद्ग्रहणम् ।
संशब्देन सकलपदानां लक्षणया ब्रह्मप्रातिपदिकार्थमात्रपरत्वमुच्यत इति व्याख्यानमखण्डार्थनिरासेन निरस्तम् ।
निराकरिष्यते चोत्तरत्रेति नेह निराकृतम् ।
३,१५३
तदेवं जगज्जन्मादिकारणत्वेन मुख्यया वृत्त्या वर्णपदवाक्यात्मकाशेषशास्त्रप्रतिपाद्यं नारायणाख्यं ब्रह्मैवेति सुस्थं लक्षणमिति सिद्धम् ।
इति श्रीमन्न्यायसुधायां समन्वयाधिकरणम्
__