०३ शास्त्रयोनित्वाधिकरणम्

३,९७
अथ श्रीमन्न्यायसुधायां शास्त्रयोनित्वाधिकरणम्
$अथ जगत्कारणत्वस्य पाशुपताद्यगमानुमानावष्टम्भेन अतिव्याप्तिशङ्का$
शास्त्रयोनित्वात् । ब्ब्स्_१,१.३ ।
जगज्जन्मादिकारणत्वं परब्रह्मणो विष्णोर्लक्षणमभिहितम् ।
तस्य हरहिरण्यगर्भादिचेतनेषु प्रधानाद्यचेतनेषु च पाशुपताद्यागमानुमानावष्टम्भेनातिव्याप्तिमाशङ्क्यात्र परिहरति भगवान्त्सूत्रकारः ।
तत्र पूर्वपक्षमारचयति शैवाद्येति
शैवाद्यागमसम्प्राप्तदृष्टगेन फलेन तु ।
तद्वाक्योपमयान्यच्च प्रमाणत्वे ऽनुमीयते (अनुव्याख्यानम्)१,१.११२
ईशवाक्यत्वत… (अनुव्याख्यानम्)१,१.११३अ
न्यायसुधा-
शिवेन रचितः शैवः ।
आदिग्रहणाद्धिरण्यगर्भादिरचिता गृह्यन्ते ।
तैः सम्प्राप्तं तदुक्तसादनानुष्ठानसम्प्राप्तम् ।
दृष्टं दृष्टिः प्रत्यक्षमिति यावत् ।
तत्सिद्धं दृष्टगम् ।
फलेन तु तद्वाक्यस्य प्रामाण्यमनुमायेति शेषः ।
प्रमाणत्व इति विषयसप्तमी ।
दृष्टफलार्थं साधनानि विदधद्वाक्यं तावत् प्रमाणतयानुमीयते ।
केन लिङ्गेन ।
फलेन ।
तस्य पक्षासम्बन्धिनो ऽनुमापकत्वं कथम्मित्यत उक्तं शैवाद्यागमसम्प्राप्तेति ।
अज्ञानासिद्धिं परिहतुमुक्तं दृष्टगेनेति ।
तुशब्दो ऽनुमानद्वये हेतुविशेषद्योतकः ।
ईशवाक्यत्वत इत्यत्रादिशब्दो योज्यः ।
अयमर्थः ।
द्विविधो हि शिवप्रणीत आगमः ।
कश्चित् प्रत्यक्षयोग्यसम्पदादिफलमुद्दिश्य साधनानि विदधत् ।
अपरस्तु सङ्कल्पवर्गाद्यप्रत्यक्षफलानि विदधानः शिवस्य जगज्जन्मादिकारणत्वसर्वज्ञत्वसवर्शक्तित्वसत्यसङ्कल्पत्वाद्यशेषगुणपूर्णत्वं
निरवद्यत्वं च प्रतिपादयति ।
तत्राद्यस्तावत्प्रमाणम् ।
तदुक्तसाधनानुष्ठाने सति प्रत्यक्षत एव फलदर्शनात् ।
३,९८
तदयं प्रयोगः ।
विमत आगमः प्रमाणं सफलप्रवृत्तिजनकत्वात् चरकसुश्रुतादिवत् ।
यद्यप्रमाणमभविष्यत् न समर्थां प्रवृत्तिमकरिष्यद्विप्रलम्भकवाक्यवत् ।
तदुक्तम्’प्रमाणतो ऽर्थप्रतिपत्तौ प्रवृत्तिसामर्थ्यादर्थवत्प्रमाणम्’ इति ।
ततश्च तत्प्रणेतुः शिवस्य परमाप्तत्वमवधार्य तद्दृष्टान्तेन तत्प्रणीतस्य द्वितीयस्याप्यागमस्य प्रामाण्यमवसीयते ।
अत्र च प्रयोगः ।
विप्रतिपन्न आगमः प्रमाणं शिववाक्यत्वात्सम्प्रतिपन्नवदिति ।
विपक्षे शिवस्यानाप्तत्वप्रसङ्गो बाधकः ।
तदेवमनुमितप्रामाण्येन शैवागमेन शिवस्य जगज्जन्मादिकारणत्वा(स्य)भिधानान्नेदं लक्षणं विष्णोरुपपद्यत इति शैवाः ।
अनयैव दिशा तत्तदागमप्रामाण्यं तत्तद्देवतावादिनां प्रत्यवस्थानानि द्रष्टव्यानि ।
उपलक्षणं चैतत् ।
अनुमानेनापि शिवादीनां जगज्जन्मादिकारणत्वं सर्वज्ञत्वादिकं शक्यसाधनम् ।
तथा हि ।
क्षित्यादिकं सकर्तृकं कार्यत्वाद्घटवत् ।
विवादाध्यासितं कर्म प्रयत्नाधारजम् कर्मत्वात्सम्प्रतिपन्नवत् ।
विप्रतिपन्ने पृथिव्युदके, प्रयत्नवता धृते, गुरुत्वे सत्यपातित्वात्, सम्प्रतिपन्नवत् ।
क्षित्यादिकं प्रयत्नवद्विनाश्यम् (वि)नाश्यत्वात्सम्प्रतिपन्नवत् ।
इत्यादिभिरनुमानैर्विश्वोदयस्थितिलयकर्तरि सामान्यतः सिद्धे अस्मदादीनां तदसम्भवात् भगवांश्छिव एव परिशेषाज्जगज्जन्मादिकर्ता
सिद्धयति ।
यथा च (वि)चित्रादिकार्यदशर्नात्तदनुगुण एव कर्ता कल्प्यते एवं विचित्रानेककार्यदशर्नात्(नेन) कल्प्यमानो ऽपि कर्ता तदनुगुणः
सार्वज्ञादिमानेव सिद्धयति ।
अथवा क्षित्यादिकं कर्तेत्यदन्तर्गतमेव सवर्ज्ञत्वादिकं न यत्नान्तरमपेक्षते ।
निमित्तोपादानफलाद्यभिज्ञस्य तदनुगुणेच्छाप्रयत्नवत एव कर्तृत्वम् ।
एवं हिरण्यगर्भादिष्वपि परिशेषेण जगत्कारणत्वं योज्यमिति ।
३,१०२फ़्.
$अथ शैवाद्यगमप्रमाण्यसाधकानुमाननिरासः$
एवमागमादनुमानाच्चान्येषां जगज्जन्मादिकारणत्वे प्राप्ते प्रतिविहितं सूत्रकृता ।
आगमादनुमानतो वान्ये जगत्कारणत्वेन न कल्पनीयाः ।
कुतः ।
शास्त्रयोनित्वात् ।
ऋग्यजुःसामाथर्वाश्चेत्यादिनोक्तं शास्त्रं योनिः कारणमभिव्यञ्जकं प्रमाणमस्येति शास्त्रयोनि तस्य भावः शास्त्रयोनित्वं तस्मात् ।
एतदुक्तं भवति ।
जगज्जन्मादिकारणस्य वस्तुनो वेदादिशास्त्रैकसमधिगम्यत्वेन शैवाद्यागमानुमानागोचरत्वान्न तैरन्येषां जगत्कारणत्वं कल्पनीयम् ।
किन्तु शास्त्रं यस्य जगत्कारणत्वमाचष्टे स एव तथाभ्युपगन्तव्य इति ।
३,१०३
स्यादेतत् ।
यदि शास्त्रैकसमधिगम्यत्वं सौत्रो हेतुः सिद्धः स्यान्न चैवम् ।
प्रत्यक्षागम्यत्वे ऽपि शैवाद्यागमैरनुमानैश्चोक्तविधया जगत्कारणत्वस्य निश्चेतुं शक्यत्वात्, इत्याशङ्कय सौत्रहेतुसिद्धये शैवाद्यागमगम्यत्वं
तावन्निराचिकीर्षुस्तत्प्रामाण्यसाधकं परोपन्यस्तमनुमानमपाकरोति इति चेदिति
… इति चेत् तद्गव्यभिचारिणा ।
अप्रामाण्यानुमा च स्यान् … (अनुव्याख्यानम्)१,१.११३ब्च्
३,१०४
न्यायसुधा-
तद्गः प्रत्यक्षावगतश्चासौ व्यभिचारः फलव्यभिचारश्च सो ऽस्यस्तीति तद्गव्यभिचारिवाक्यं तेन दृष्टान्तभूतेन शिवादीनां
जगत्कारणत्वा(वगमहेतुभूता)गमस्येशवाक्यत्वादिना हेतुनाप्रामाण्यानुमितिश्च स्यात् ।
एतदुक्तं भवति ।
यदि प्रत्यक्षसंवादेन दृष्टार्थानां शिवादिवाक्यानां प्रामाण्यमनुमाय तद्दृष्टान्तेनादृष्टार्थानामपि शिवादिवाक्यत्वेन हेतुना प्रामाण्यमनुमीयते, तर्हि
दृष्टार्थेष्वेव वाक्येषु यत्प्रत्यक्षत एव फलव्यभिचारवद्दृश्यते तस्य,
विमतमप्रमाणमसमर्थप्रवृत्तिजनकत्वाद्विप्रलम्भकवाक्यवदित्यप्रामाण्यमनुमाय, तद्दृष्टान्तेन शिवादिवाक्यत्वादिहेतुनैवादृष्टार्थानामपि,
विमतान्यप्रमाणानि शिवादिवाक्यत्वात् सम्प्रतिपन्नवदित्यप्रामाण्यमनुमातुं शक्यत एव ।
न हि दृष्टार्थं सर्वमेव शिववाक्यं समर्थप्रवृत्तिजनकम् ।
विफलप्रवृत्तिजनकस्यापि बहुलमुपलम्भात् ।
ननु तदपि वाक्यं प्रमाणमेव ।
फलव्यभिचारस्तु कर्तृकर्मादिवैगुण्यनिमित्त इति चेत्तर्हि तदपि वाक्यमप्रमाणमेव फलसंवासदस्तु काकतालीयो वा जगद्वयामोहकानां
शिवादीनां गुडजिह्विका वेत्यस्तु ।
प्रामाण्ये हि सुदृढनिरूढे व्यभिचारस्य कर्त्रादिवैगुण्यं कारणं कल्पनीयम् ।
फलाव्यभिचारेणैव प्रामाण्यं परिकल्पयतः स्फुटमितरेतराश्रयत्वम् ।
शिववाक्यत्वं फलसंवादिन्यनैकान्तिकमिति चेन्न ।
तत्रापि फलविसंवादिन्यनैकान्त्यात् ।
किञ्च यः शिवागमस्यादृष्टार्थस्याप्येवं प्रामाण्यं मन्यते स हिरण्यगर्भाद्यागमानामपि प्रामाण्यमङ्गीकरोति न वा ।
नाद्यः ।
परस्परविरुद्धयोरुभयोः प्रामाण्यायोगात् ।
न द्वितीयः ।
अनुमानप्रकारस्य समानत्वे वैषम्यानुपपत्तेः ।
अथ तदनुमानमप्रयोजकं हिरण्यगर्भवाक्यत्वे ऽप्यागन्तुकेन विप्रलम्भादीनां दोषेणैकस्याप्रामाण्यसम्भवादिति चेत् ।
समं समाधानम् ।
अनेनैव न्यायेन चैत्यवन्दनादिवाक्यानामपि प्रामाण्यं शक्यसाधनम् ।
नहि तद्वक्ता कदापि सत्यं नावदीत् ।
तदेवं शैवाद्यागमप्रामाण्यस्याशक्यसाधनत्वान्न तेन जगत्कर्ता सिद्धयति (इति) ।
३,१०७
$अथ जगत्कारणत्वे अनुमानानवकाश इति व्युत्पादनम्$
मा भूच्छैवाद्यागमाज्जगज्जन्मादिकर्तृसिद्धिः ।
उक्तानुमानैस्तु भविष्यति ।
तत्कथं शास्त्रैकसमधिगम्यत्वं जगत्कारणस्येति चेत् ।
किं शास्त्रानुसार्यनुमानं जगत्कारणे प्रमाणमुच्यते ।
उत स्वतन्त्रम् ।
आद्यस्त्वङ्गीक्रियत एव ।
तेनास्मत्पक्षस्यैव सिद्धेः ।
शास्त्रस्य भगवदेकनिष्ठतायाः समन्वयसूत्रे वक्ष्यमाणत्वात् ।
द्वितीयं दूषयति न पृथगिति
… न पृथक् चानुमेश्वरे (अनुव्याख्यानम्)१,१.११३द्
न्यायसुधा-
ईश्वरे जगत्कारणे पृथक् स्वतन्त्रानुमा च न मानमित्यर्थः ।
तथाहि ।
यत्तावत्सामान्यतो जगत्कर्तृत्वसिद्धावनुमानम् तत्र किं कारणादिसाक्षात्कारवत्कर्तृपूर्वकत्वं साध्यम् ।
सकर्तृकत्वमात्रं वा ।
आद्ये दृष्टान्तस्य साध्यवैकल्यम् ।
नहि कुलालादिर्घटादिकारणानि धर्माधर्मादीनि साक्षात्कुरुते ।
अत एव कदाचित्प्रतिहतेच्छो भवतीति चेत् ।
किमेतावता ।
साध्यवैकल्यापरिहारात् ।
कथञ्चिदस्य हेतुविशेषणत्वे साधनवैकल्यं च दृष्टान्तस्य स्यात् ।
केवलव्यतिरेकी तर्ह्ययमस्त्विति चेन्न ।
विशेषणासिद्धेः ।
द्वितीये सिद्धसाधनम् ।
अदृष्टानां जीवात्मानमेव कर्तृत्वोपपत्तेः ।
तेषां कारणानभिज्ञत्वान्नेति चेन्न ।
कुलालादीनामकर्तृत्वप्रसङ्गात् ।
अदृष्टाधिष्यात्रापि केनचिद्भाव्यमिति चेन्न ।
अधिष्ठातृकृत्याभावात् ।
न तावन्नोदनादिकम् ।
अद्रव्यत्वात् ।
न चातिशयजन्म ।
गुणे गुणान्तरानुपपत्तेः ।
न चातीन्द्रियाधेयशक्तिः ।
अनभ्युपगमात् ।
३,१०७फ़्.
न च सहकारिसमवधानम् ।
अदृष्टादेव तदुपपत्तेः ।
नापि कार्यकारित्वम् ।
तस्यादृष्टस्वभावत्वात् ।
तर्ह्युत्पत्त्यनन्तरमेव किं न कुर्यादिति चेत् न ।
प्रबलादृष्टान्तरप्रतिबन्धादिनेति वदामः ।
किञ्च कार्यत्वं पक्षे कुतः सिद्धम् ।
अभूत्वाभावित्वादिति चेन्न ।
तस्यैव कार्यत्वात् ।
कथञ्चिद्भेदे ऽपि भागासिद्धत्वात् ।
न खलु गिरिसागरादीनामभूत्वाभावित्वमस्माभिरुपलभ्यते ।
तर्हि द्रव्येषु तावत्सावयवत्वात्कार्यन्वयसिद्धिरस्त्विति चेन्न ।
सावयवत्वं (हि) समवायिकारणवत्त्वमुत परिणामिकारणवत्त्वम् वा ।
आद्ये प्रतिवाद्यसिद्धिः ।
द्वितीये वाद्यसिद्धिः ।
किञ्च यस्य कार्यत्वमात्रे(ऽपि) विप्रतिपत्तिः स कथं कारणवत्तामेवाभ्युपेयात् ।
३,१०८
ननु क्षित्यादीनां प्रत्यक्षत एव प्रदेशवत्त्वमनुभूयते ।
अन्यथा कथं भूतले घटभावाभावौ युगपत्सम्भवत इत्रत चेन्न ।
तर्ह्येवमाकाशादीनामपि कार्यत्वप्रसङ्गात् ।
कथमन्यथा (गगने) पक्षिणो भावाभावौ युगपदिति तत्रापि वक्तुं शक्यत्वात् ।
संयोगस्य सत्वात्यन्ताभावसमानाश्रयत्वादेवमिति चेत् ।
समं प्रकृते ऽपि ।
खननादिना येषां विभागो नोदनादिना च येषां संयोगस्ते क्षित्यादीनामवयवाः प्रत्यक्षसिद्धा इति चेत् ।
तत्किं संयोगविभागिसजतीयद्रव्यान्तरवत्त्वं सावयवत्वमित्युक्तं भवति उत तदारब्धत्वम् ।
आद्ये परमाणुभिर्व्यभिचारः ।
द्वितीये व्यर्थविशेषणत्वं पूर्ववदसिद्धिश्चेति ।
एतेन विवादाध्यासितं कर्म प्रयत्नाधारजमित्येतदपि निरस्तम् ।
यदपि पृथिव्युदके प्रयत्नवता धृते इत्यनुमितम् ।
तदपि पूर्ववत्सिद्धसाधनम् ।
किञ्च संयोगवेगप्रयत्नवददृष्टमपि कस्माद्गुरुत्वप्रतिबन्धकं न कल्प्यते ।
अपातित्वं च सन्दिग्धासिद्धम् ।
महत्त्वेन पततानुपलम्भसम्भवात् ।
एतेन चरमानुमानमपि निरस्तम् ।
क्षित्यादिकं विकर्तृकम् अनुपलभ्यमानकर्तृकत्वाद्गगनवदित्यादिना सत्प्रतिपक्षता च सर्वानुमानानाम् ।
अनुपलभ्य(मान)त्वं चास्मदुपलब्ध्ययोग्यत्वमिति न कश्चित्क्षुद्रोपद्रवः ।
परसुखादौ व्यभिचार इति चेन्न ।
तस्यानुमानादुपलब्धेः ।
तर्हि क्षित्यादिकर्ताप्यनुमानादुपलभ्यत इति चेन्न ।
अनुमानादीश्वरोपलब्धावस्मदनुमानस्य दुष्टत्वम् ।
तथा चानुमानादीश्वरोपलब्धिरितीतरेतराश्रयप्रसङ्ग(त्व)आत् ।
अनयैव दिशा सर्वाणि जगत्कारणमात्रसाधनानि स्वतन्त्रतानुमानानि निरसनीयानि(इति) ।
३,११४
यच्च शिवादीनां जगत्कारणत्वे परिशेषानुमानं तदपि किं शास्त्रानुसारि किंवा केवलम् ।
नाद्यः ।
शास्त्रस्य भगवदेकपरताया वक्ष्यमाणत्वात् ।
द्वितीयं दूषयति न पृथक् चेति
ईश्वरे शिवे जगत्कर्तरि च पृथगनुमानं न मानमित्यर्थः ।
तत्कथमित्यत आह पुंस्त्वेति
पुंस्त्वहेतुबलादेव पूर्वोक्तेनैव वर्त्मना (अनुव्याख्यानम्)१,१.११४अब्
न्यायसुधा-
पूर्वोक्तेन (एव) वर्त्मना शैवागमप्रामाण्यानुमाननिराकरणमार्गेणैव ।
सत्प्रतिपक्षत्वेनैवेत्यर्थः ।
एवकारो न दूषणान्तरान्वेषणेन वृथा मनः खेदनीयं स्फुटदोषे सतीति द्योतयति ।
३,११६
ईश्वरवाक्यत्वं कथमत्र हेतुः स्यादित्यत आह पुंस्त्वेति
पूर्वोक्तेन (एव) वर्त्मनेति सत्प्रतिपक्षतामात्रमतिदिष्यम् ।
नतु स हेतुरिति भावः ।
अयमत्र प्रयोगः ।
शिवो न जगत्कारणं पुंस्त्वाद्देवदत्तवदिति ।
ननु शिवः केन प्रमाणेन सिद्धः ।
अथ परिशेषतो जगत्कर्तृत्वं तस्मिन्ननुमिमानस्य तवापि कुतः सिद्धः ।
लोकप्रवादादिनेति चेत् ।
ममापि तथेत्यस्तु ।
भवदभिमते ब्रह्मणि हेतुरनैकान्तिक इति चेन्न ।
केवलानुमानवादिनं प्रत्यनीश्वरवादाङ्गीकारेण प्रत्यवस्थानात् ।
ननु जकत्कारणत्वं शिवनिष्ठमन्यत्रानुपपत्तौ सत्यां किञ्चिन्निष्ठतया प्रमितत्वादिति हि परिशेषानुमानम् ।
तत्कथमस्यायं प्रतिपक्ष इति चेन्न ।
विरुद्धार्थसाधनमात्रेण प्रतिपक्षसम्भवात् ।
प्रयोगतो ऽप्येकधर्मनिष्ठतायाः प्रमाणप्रयोजनशून्यत्वात् अन्यथैवंविधार्थिकप्रतिपक्षाणामन्यत्रानन्तर्भावेनादूषणत्वप्रसङ्गात् ।
न चैवमस्त्विति वाच्यम् ।
प्रतिरोधकत्व(स्याप्रतिबन्धकत्व)स्यानुभवसिद्धत्वात् ।
नन्वेवं सति सामान्यसिद्धिरनुपपन्नाऽपद्यत इति चेत् ।
आपद्यताम् ।
तदनुमानानां दूषितत्वात् ।
३,१२०
किमतो यद्येवमिति चेत्, सिद्धः सौत्रहेतुरित्याह शास्त्रयोनित्वमिति
शास्त्रयोनित्वमेतेन कारणस्य बलाद् भवेत् (अनुव्याख्यानम्)१,१.११४च्द्
न्यायसुधा-
एतेनोक्तप्रकारेण ।
कारणस्य जगत इति शेषः ।
बलात्प्रकारान्तरेणासिद्धिबलात् ।
३,१२१
जगत्कारणस्यानुमानावेद्यत्वं श्रुतिभिरपि सिद्धमित्याह नावेदविदिति
नावेदविन्न तर्केण मतिरित्यादिवाक्यतः ।
तर्को ज्ञापयितुं शक्तो नेशितारं कथञ्चन (अनुव्याख्यानम्)१,१.११५
न्यायसुधा-
‘नावेदविन्मनुते(दं)तं बृहन्तम्’ ।
‘नैषा तर्केण मतिरापनेया’ ।
‘नेन्द्रियाणि नानुमानं वेदा ह्येवैनं वेदयन्ति’ इत्यादिवाक्यतः, इति ज्ञायत इति शेषः ।
तर्क इत्यनुमानमात्रोपलक्षणम् ।
ईशितारं जगत्कारणं(त्कर्तारम्) ।
कथञ्चन सामान्यतो विशेषतश्च ।
यदपि कार्यत्वादिहेतोः पक्षधर्मताबलादन्यस्माद्वानुमानदीश्वरस्य सार्वज्ञादिसिद्धिरिति तदपि प्रतिपक्षदुष्टत्वादयुक्तमित्याह वनकृत्त्वादीति
वनकृत्त्वादिरूपेण पक्षभूतस्य चेशितुः ।
किञ्चिज्ज्ञानं हि पुंस्त्वेन शक्यं साधयितुं सुखम् (अनुव्याख्यानम्)१,१.११६
३,१२२
न्यायसुधा-
नन्वत्रैवं प्रयोक्तव्यम्, ईश्वरः किञ्चिज्ज्ञः पंरत्वाद्देवदत्तवदिति ।
तत्रेश्वरः प्रमितो वा न वा ।
आद्ये येन प्र(यत्प्र)माणेन सिद्धस्तेनैव तस्य सार्वज्ञसिद्धेर्धर्मिग्राहक(प्रमाण)विरोधः ।
द्वितीये त्वाश्रयासिद्धिः ।
तत्कथमुच्यते ईशितुः किञ्चिज्ज्ञत्वं च पुंस्त्वेन साधयितुं शक्यं हीति तत्राह सुखमिति
तत्कथमित्यत उक्तं वनकृत्त्वादिरूपेण पक्षभूतस्येति
प्रसिद्धकर्तृरहितं वनं सकर्तृकं कार्यत्वादित्यादिना यो वनादिकर्ता सिद्धः तेनैवाकारेण तं पक्षीकृत्य प्रयोगे न को ऽपि दोष इत्याशयः ।
वनकृत्त्वं पर्वताधारकत्वमित्यादिरूपो धर्मस्तेनोपेतस्य ।
नहि वनकर्तेत्येतावता सर्वज्ञ इति लभ्यते ।
प्रसिद्धवनकर्तुरसर्वज्ञत्वात् ।
स एवक्षित्यादिकर्तेति कथं न सार्वज्ञ्यमिति चेन्न ।
तद्भावे प्रमाणाभावात् ।
नहि कार्यत्वादिहेतुः कर्तारमिव तस्य सर्वत्रैकत्वं गमयितुं शक्नोति ।
लाघवादेकत्वमाश्रीयत इति चेत्(न) ।
लोकदर्शनानुसारेण कर्तारं कल्पयतो गौरवाश्रयणस्यैवो(स्यो)चितत्वात् ।
लोके हि गजगवयगर्दभादीनां घटादीनां च निर्मातारो विजातीया एवोपलभ्यन्ते ।
नच वनकर्ता किञ्चिज्ज्ञ इति साधने किमीश्वरस्येति वाच्यम् ।
तस्य चेश्वरतायाः परेण ।
अन्यथा वनकर्तरि सिद्धे किमीश्वरसिद्धावायातमित्यपि स्यात् ।
३,१२५
न केवलं किञ्चिज्ज्ञत्वसाधनं सुकरम् ।
किन्तु स्वकृतकार्याज्ञत्वमपि शक्यसाधनमित्याशयेनाह वृक्षकृदिति
वृक्षकृन्नाखिलं वृक्षं वेत्ति पुंस्त्वाद्धि चैत्रवत् (अनुव्याख्यानम्)१,१.११७अब्
न्यायसुधा-
वृक्षकृदिति पूर्ववद्धर्मिग्राहकविरोधाश्रयासिद्धिपरिहारायोक्तम् ।
प्रसिद्धकर्तृरहितेत्यपि योज्यम् ।
अन्यथा सिद्धसाधनताप्रसङ्गात् ।
अखिलमित्यारम्भकावयवसङ्खयापलपरिमाणविशेषसहितम् ।
अस्मादादीनां विप्रतिपन्नवृक्षज्ञानमात्रसद्भावादनैकान्त्यपरिहारायाखिलमित्युक्तम् ।
हीति विपक्षे बाधकाभावं सूचयति ।
नहि यो यत्कर्ता स सकलं तज्जानातीति नियमः ।
कुलालादावभावात् ।
अनुपयोगाच्च तज्ज्ञानस्येति ।
३,१२६
अनेनैव न्यायेन सर्वत्र प्रतिपक्षसम्भवात् सत्यसङ्कल्पत्वाशरीरित्वनित्यज्ञानेच्छाप्रयत्नत्वदुःखादिराहित्यादिकमपि नानुमानेन साधयितुं
शक्यमित्याशयवानाह इत्यादीति
इत्याद्यनुमया स्पर्धि नानुमानं परेशितुः ।
शक्तं विज्ञापने … (अनुव्याख्यानम्)१,१.११७च्ए
न्यायसुधा-
आदिशब्दः प्रकारवचनः ।
परेशितुः सत्यसङ्कल्पत्वाद्युपेतस्य ।
३,१२८
आभाससमानयोगक्षेमं चेश्वरानुमानजातमित्याह चातिप्रसङ्ग इति
… चातिप्रसङ्गो ऽनुमयेदृशा (अनुव्याख्यानम्)१,१.११७फ़्
३,१२९
न्यायसुधा-
ईदृशा आगमादिसहायसम्पदमपहायात्यन्तातीन्द्रियार्थे(षु) प्रयुज्यमानया अनुमया अतिप्रसङ्गश्चभवतीत्यर्थः ।
अतिप्रसङ्गमेव दर्शयति वस्तुत्वादिति
वस्तुत्वात् तुरगः शृङ्गी पुष्पवत् खं सुतैर्युता ।
चित्रिणी च रसः षष्ठो रसत्वात् सोत्तरो भवेत् (अनुव्याख्यानम्)१,१.११८अद्
न्यायसुधा-
चित्रिणी वन्ध्या ।
षष्ठो रसो रसान्तरवानित्युक्ते प्रथमादिरसेन सिद्धसाधनं स्यात् ।
सप्तमरसवानित्युक्ते अप्रसिद्धविशेषणता स्यात् ।
अतः सोत्तर इत्युक्तम् ।
ईश्वरानुमानस्य प्रमाणतायामेतेषामपि प्रामाण्यं स्यादिति शेषः ।
ननु वस्तुत्वं घटादावनैकान्तिकमिति चेन्न ।
तस्यापि पक्षत्वात् ।
तुरगृङ्गादीनामनुपलम्भबाध इति चेत् ।
क्षित्यादिसकर्तुरप्येवमेव ।
अयोग्यत्वान्नोपलभ्यत इति चेत् ।
तुरगविषाणमपि एवम(मेवा)स्तु ।
न च(नु) विषाणं नाम महत्त्वे सत्युद्भूतरूप(ः) शरीरावयवविशेषः ।
स कथमुपलब्ध्ययोग्यः स्यादिति चेत् ।
कर्तापि तर्हि कुलालादिरिव महत्त्वे सत्यद्भुतरूपशरीरवान्कथमुपलब्ध्ययोग्यो भविष्यति ।
अशरीरत्वान्नोपलभ्यत इति चेत् ।
रूपाभावात्तुरगविषाणमपि तथास्तु ।
विषाणं रूपवदेवेति चेत् ।
कर्तापि शरीरवानेव ।
शरीरं कर्तृत्वे ऽनुपयुक्तमिति चेत् न ।
किमुपयोगेन ।
न हि तदुत्पत्त्या व्याप्तिर्बौद्धानामिव भवताम् ।
धर्मादिमत्त्वं शरीरित्वे प्रयोजकमिति चेन्न ।
तस्यापि कर्तृत्वेन साधनादिति ।
ननु कथमत्र प्रयोक्तव्यम् ।
अनुमानत्वं यदि कार्यत्वादौ वर्तेत तदा तदविशिष्टे वस्तुत्वादौ(अपि) वर्तेतेत्येवमिति ।
३,१३३
ननु विचारशास्त्रमारभ्य जगत्कारणे ऽनुमानानवकाशव्युत्पादनं व्याहतमित्याशङ्कां परिहरन्नुपसंहरति उपक्रमादीति
उपक्रमादिलिङ्गेभ्यो नान्यास्यादनुमा ततः (अनुव्याख्यानम्)१,१.११८एफ़्
न्यायसुधा-
आगमानुगृहीतानुमानोपलक्षणमेतत् ।
आगमानुग्रहे हि सर्वाण्येतान्यनुमानान्येव ।
पक्षधर्मतादीनामङ्गानामपौरुषेयतया स्वतः प्रमाणेन शास्त्रेण सिद्धेः ।
प्रतिपक्षादीनां च तद्विरोधेन बाधादिति सङ्क्षेपः ।
तदेवं जगत्कारणत्वस्य (णस्य) शास्त्रैकसमधिगम्यत्वान्नानुमानादिना
लक्षणस्यातिव्याप्तिकथनं युक्तमिति सिद्धम् ।
३,१३४
$अथ अत्र परकीयभाष्यस्य अपव्याख्यानत्वम्$
अत्र केचित् शास्त्रस्य योनिरिति व्याचक्ष(कृर्व)ते ।
तदनुपपन्नम् प्रकृतानुपयोगात् ।
नहि शास्त्रकारणत्वं जगत्कारणत्वे हेतुः ।
व्याप्त्यदर्शनात् ।
पूवर्सूत्रे जगत्कारणत्वेन प्रतीतं सार्वज्ञं ब्रह्मणो वेदकारणत्वेन स्फुटीक्रियत इति चेन्न ।
वेदस्यापि सकलजगदन्तर्भावात् ।
कथं चानन्तपदार्थात्मकस्य प्रपञ्चस्य कर्तृत्वेन न स्फुटं तदेकदेशवेदकारणत्वेन स्फुटीभविष्यति सार्वज्ञम् ।
अथ जगत्कारणत्वं प्रधानादिव्युदासेन ब्रह्मण्येव साधयितुं हेतुत्वेनोक्तं सार्वज्ञं शास्त्रयोनित्वेन साध्यत इति चेन्न ।
असिद्धिप्रसङ्गात् ।
नहि ब्रह्मणो जगत्कारणत्वमनङ्गीकुर्वाणो वेदकारणत्वमङ्गीकरोति ।
आगमेन साध्यत इति चेत् ।
तर्हि जगत्कारणत्वमेव तेन किं न साध्यते ।
ईक्षत्यधिकरणादिना जन्मादिसूत्रस्य पुनरुक्तप्रसङ्गाच्च ।
जगत्कारणत्वेन सवर्ज्ञत्वं न सिद्धयति वेदाकर्तृत्वादित्याशङ्कयेदमुक्तमिति चेन्न ।
तथा सति प्रतिज्ञामात्रत्वप्रसङ्गात् ।
वियदादिविषयेप्येवमाशङ्काप्रसङ्गात् ।
वियदधिकरणादौ सापि निराकरिष्यत इति चेत् न ।
तर्हि तेनैवेदं गतार्थं स्यात् ।
३,१३४फ़्.
किञ्च वेदकर्तृत्वाभावे(न) सार्वज्ञ्यं न सम्भवतीति शङ्कैव निर्दला ।
नहि तत्कर्त्रैव तज्ज्ञातव्यमिति नियमो ऽस्ति ।
किञ्च वेदकर्तृत्वं कथं सार्वज्ञ्यसाधकम् ।
यो यावदर्थप्रतिपादकस्य वाक्यस्य प्रणेता स ततो ऽप्यधिकमर्थं जानात्येव ।
यथा पाणिन्यादिः ।
अयं चाशेषार्थप्रतिपादकस्य शास्त्रस्य प्रणेतातः कथं न सर्वत्र इति चेत् न ।
किमिदं वेदप्रणेतृत्वं नाम ।
किं प्रमाणान्तरेणार्थमुपलभ्य स्वेच्छया (पदादिनि)प्रबन्ध(न)कतृत्वं किं वोच्चारणमात्रम् ।
आद्ये पौरुषेयत्वापत्तिः ।
द्वितीये सार्वज्ञ्यासिद्धिः ।
उपाध्याय(आदि)वत् ।
रज्जौ भुजङ्गवद्ब्रह्मण्यारोपितो वेद इति चेत् ।
कथं तर्हि पाणिन्यादिदृष्टान्तः ।
नहि पाणिनावारोपितं व्याकरणम् ।
कथं चैवं सति सार्वज्ञ्यसिद्धिः ।
तस्यैव विज्ञानशक्तिविवर्तत्वाच्छास्त्रस्येति चेत्(न) ।
वियदादीनामपि प्रकाशशक्तिप्रसङ्गात् ।
अविद्यागतावरणादिशक्तेरपि ब्रह्मणि तात्त्विकत्वप्रसङ्गात्(च) ।
किञ्च वेदे ज्ञानकरणत्वशक्तिर्ब्रह्मणि च तत्कर्तृत्वशक्तिरिति किं केन सङ्गतम् ।
कुत्र चेदमुपलब्धमारोप्यगता शक्तिरारोपाधिष्ठाने वास्तवीति ।
तस्मादपव्याख्यानमेव तदित्युक्त एव सूत्रार्थः ।
इति श्रीमन्न्यायसुधायां शास्त्रयोनित्वाधिकरणम्


__