०२ जन्माधिकरणम्

३,३८
… (लिने २०-)
अन्यथा श्वेतकेतूद्दालकाख्यायिकया प्रतिपादितत्वादद्वैतमपि न श्रुत्यभिप्रायः स्यात् ।
‘तद्धैतत्पश्यन् ऋषिर्वामदेवः प्रतिपेदेहं ब्रह्मास्मि’ इत्यपि परोपासनानुवादो न स्वार्थे तात्पर्यवान् स्यात्’अथ यो ऽन्यां देवतामुपास्ते’
इतयुपासनाप्रकरणत्वात् ।
तथाच बहुविप्लवः स्यात् ।
तस्मात्सूत्रकारस्यैवायमभिप्रायो यज्जगज्जन्मादिकारणत्वं ब्रह्मणः स्वरूपान्तर्गतमेव लक्षणमिति ।
तथाच विस्पष्टतदीयवाक्यान्तरबलादस्यापि सूत्रस्य स्वरूपलक्षणपरत्वमेवेति ।
३,४२
यत एवं जगज्जन्मादिकारणत्वं स्वलक्षणमत्र सूत्रे ब्रह्मणो ऽभिधीयते, ततो न परमते ऽस्य सूत्रस्यारम्भ एवोपपद्यते ।
इत्याह अत इति
अतो जीवैक्यमपि स निराचक्रे जगद्गुरुः (अनुव्याख्यानम्)१,१.९९अब्
न्यायसुधा-
लक्षणं हि सजातीयविजातीयव्यवच्छेदार्थं भवति ।
यथाऽह’समानासमानजातीयव्यवच्छेदो वा लक्षणार्थः’ इति ।
तथाचानेन लक्षणेन सजातीयाज्जीवाद्विजातीयाज्जडाच्च ब्रह्मव्यावर्तितं सूत्रकारेण ।
जीवैक्यनिराकरणसूत्रस्यारम्भः कथं जीवैक्यवादिनां स्यात् ।
स्याद्यदीदं कथञ्चित् (स्यात्कथञ्चिद्यदीदं) तटस्थलक्षणं स्यात् ।
स्वरूपलक्षणमिति चोपपादितम् ।
३,४३
स्यादयमद्वैतिनामनुपपन्नो लक्षणारम्भो यदीदं जीवव्यावृत्त्यर्थं लक्षणमुक्तं स्यात् ।
जडमात्रव्यावृत्त्यर्थं तु लक्षणे व्याख्यायमाने कथं जीवैक्यवादिनां लक्षणसूत्रारम्भो ऽनुपपन्न इत्यत आह नहीति
नहि जन्मादिहेतुत्वं जीवस्य जगतो भवेत् (अनुव्याख्यानम्)१,१.९९च्द्
न्यायसुधा-
यत्र हि लक्षणं नास्ति तत्सर्वं तद्वयावर्त्यमङ्गीकरणीयम् ।
अन्यथा लक्षणस्याव्याप्तिप्रसङ्गात् ।
नचेदं लक्षणं जीवस्यास्ति ।
तत्कथमसावनेन न व्यावर्त्यत इति ।
३,४४
किञ्चानेन लक्षणेन यदि जीवो न व्यावर्त्यते, किन्तु सो ऽपि लक्ष्यान्तर्गतः ।
तथा सति लक्षणस्य जीवे ऽतिव्याप्तिमाशङ्कयेतरव्यपदेशाद्धिताकरणादिदोषप्रसक्तिरिति सूत्रकारीयं तन्निराकरणमसङ्गतं स्यात् ।
नहि लक्ष्य एवातिव्याप्तिर्लक्षणस्य केनापि शङ्कयते ।
कथञ्चिच्छङ्कायां वा तस्यापि लक्ष्यत्वाङ्गीकारं परित्यज्य तत्र न लक्षणनिराकरणं क्रियत इत्याशवानाह हिताक्रियेति
हिताक्रियादिदोषं च वक्ष्यत्येव स्वयं प्रभुः (अनुव्याख्यानम्)१,१.१००अब्
न्यायसुधा-
यद्यपि परेणापि जीवस्य लक्षणव्यावर्त्यत्वमङ्गीकृतमेव, यथाऽह’सर्वज्ञं सर्वशक्तिं विहायान्यतः परपरिकल्पितात्प्रधानादेरचेतनाच्चेतनादपि
परिच्छिन्नज्ञानक्रियाशक्तेः संसारिणो हिरण्यगर्भादुत्पत्त्यादि न सम्भावयितुमपि शक्यते’ इति, तथापि न्यायेनोपपादयितुमिदमुक्तमिति ।
३,४५
$अथ मायावाद्युक्तस्य निर्गुणत्वस्यापि सूत्रकारैरेव निराकृतता$
इतो ऽपि मायावादिनां न ब्रह्मलक्षणसूत्रारम्भः सम्भवतीत्याह निर्गुणत्वं चेति
निर्गुणत्वं च तेनैव निषिद्धं प्रभुणा स्वयम् (अनुव्याख्यानम्)१,१.१००च्द्
न्यायसुधा-
लक्षणवाक्यं हि साक्षाल्लक्ष्यस्यासाधारणधर्मसंसर्गं प्रतिपादयदर्थादितरव्यावृत्तिं प्रतिपादयति ।
ततो ऽनेनापि लक्षणावाक्येन ब्रह्मणो जगज्जन्मादिकारणत्वेन तदविनाभूतैः सर्वज्ञत्वादिभिश्च संसर्गः प्रतिपादनीयः ।
तथाच निर्विशेषत्वं ब्रह्मणो ऽनेन सूत्रेण निषिद्धम् ।
निर्विशेषत्ववादिनां च निर्विशेषत्वं निषेधतः सूत्रस्यारम्भः कथमुपपद्यत इति ।
$जगज्जन्मादिकारणत्वस्य तटस्थत्वकल्पना $
स्यादियं जीवब्रह्मणोरेकत्वं ब्रह्मणश्च निर्गुणत्वमङ्गीकुर्वतां लक्षणसूत्रारम्भानुपपत्तिः ।
यद्यनेन सूत्रेण जगज्जन्मादिकारणत्वं ब्रह्मणः स्वलक्षणमुच्यते ।
न चैवं किन्तु तटस्थमेव ।
नहि तथाविधं जगज्जन्मादिकारणत्वं जीवब्रह्मणोरेकत्वं वा ब्रह्मणो निर्गुणत्वं वा विरुणद्धि ।
३,४६
ननु स्वलक्षणत्वे प्रमाणमुक्तम् ।
मैवम् ।
स्वस्य लक्षणानि स्वलक्षणानीति वा ।
सु सम्यक् स्वरूपान्तर्गत्या न लक्षणानीति वा तदर्थोपपत्तेः ।
तर्हि यतो ऽस्य जन्मादि सा माया तदाश्रयो ब्रह्मेति निर्देशः स्यात् ।
नतु जन्माद्यस्य यतस्तद्ब्रह्मेति ।
मैवम् ।
यत्र घोषः सा गङ्गेतिवल्लक्षणया प्रयोगोपपत्तेः ।
ननु तटस्थेनापि जगज्जन्मादिकारणत्वेन ब्रह्मणो जीवैक्यं निर्गुणत्वं च (नि)विरुद्धयते ।
काकनिलयनत्वं हि परेण तटस्थं लक्षणमुदाहृतम् ।
तस्य लक्ष्यान्तर्भावे काकाधिकरणत्वमपि गृहशब्दार्थः स्यात् ।
ततश्च काकविगमे गृहैकदेशभङ्गबुद्धिः स्यात् इति ।
तत्र काकाधिकरणत्वं तदनधिकरणेभ्यो गृहं व्यावर्तयति न वा ।
नेति पक्षे ऽनुभवविरोधस्तदभिधानवैयर्थ्यं च ।
आद्ये ब्रह्मलक्षणमपि कथं न जीवव्यावृत्तिं करोति ।
कथं च तत्सम्बन्धेन सगुणं न भवतीति ।
मैवम् ।
यो हि कार्यकारणसङ्घातादविविक्तं कर्तृत्वभोक्तृत्वदोषसंसर्गिणमात्मानं मत्वा क्लिश्यति स जीवो व्यावर्त्यत एव ते(अने)न लक्षणेन ।
तत्र यश्चैतन्यधातुः स ब्रह्मणो न भिद्यत इत्यभ्युपगमे विरोधाभावात् ।
नच सत्यस्य प्रपञ्चस्य कारणभूतायाः सत्याया मायाया आश्रयो ब्रह्मेति सूत्रार्थो येन ब्रह्मणः सविशेषत्वं स्यात् ।
किन्तु यदवष्टम्भो विश्वो विवर्तः प्रपञ्चस्तद् ब्रह्मेति सूत्रार्थः ।
सति चैवं सूत्रार्थे कथं जीवब्रह्मणोरेकत्वं ब्रह्मणो निर्गुणत्वं च विरुद्धयत इति ।
३,४७
$जगज्जन्मादिकारणत्वस्य तटस्थत्वकल्पना अयुक्ता$
अत्रोच्यते ।
आस्तां तावत्(एषा) प्रपञ्चस्य विवर्तताऽदिवार्ता प्रमाणाभावात् प्रकृत्यधिकरणे निराकरिष्यमाणत्वाच्च ।
तटस्थेन जगज्जन्मादिकारणत्वेनात्र सूत्रे लक्षणया ब्रह्म प्रतिपाद्यत इति कुतो ऽङ्गीकरणीयम् ।
मुख्यार्थासम्भवे हि लक्षणाश्रयणं दृष्टम् ।
न तावद् ब्रह्मणो जगज्जन्मादिकारणत्वस्य बाधकं प्रत्यक्षं तदगोचरत्वात् ।
नाप्यनुमानम् श्रुतिबाधितत्वात् ।
नाप्यागमः तस्याक्लिष्यकारित्वाद्यर्थतया सावकाशत्वात् ।
३,४७फ़्.
नन्वर्थापत्त्येदमवसीयते ।
जीवब्रह्मणोरेकत्वं तावदावश्यकम् ।
नच जगज्जन्मादिकारणत्वस्य स्वलक्षणत्वे तत्सम्भवति ।
अतो ऽन्यथानुपपत्त्या मायागतमेवेदं लक्षणम् ।
जन्माद्यस्य यतस्तद् ब्रह्मेति लक्षणयोच्यत इति कल्प्यत इति ।
तत्राह भेदेनैवेति
३,४८
भेदेनैव तु मुख्यार्थसम्भवे लक्षणा कुतः (अनुव्याख्यानम्)१,१.१०१अब्
न्यायसुधा-
यदि जीवब्रह्मणोरेकत्वपरिरक्षणाय यथाश्रुतं सूत्रार्थं परित्यज्य लक्षणाश्रीयते तर्हि जीवब्रह्मणोर्भेदेनैवाङ्गीकृतेन सूत्रस्य मुख्यार्थसम्भवे
लक्षणा कस्मादाश्रयणीया ।
नन्वभेदमुपादाय सूत्रे लक्षणा वाऽश्रयणीया भेदमुपादाय मख्यवृत्तिर्वेति सन्दिह्यते ।
वयं तु ब्रूमः द्वितीयः पक्ष एव श्रेयानिति, अप्रामाणिकपरिरक्षणाय वाक्यानां जघन्यवृत्तिराश्रीयमाणा क्वचि(दुपलब्धेति)दपि दृष्टेति ।
तदिदमुक्तं भेदेनैवेति
ननु कथं जीवब्रह्मैक्यमप्रामाणिकम् ।
तत्त्वमसीत्यादिश्रुतिसिद्धमि(त्वादि)ति चेन्न ।
उपपत्तिपराहतत्वात् ।
तथाहि ।
तच्छब्देना(ब्दस्य) मुख्यार्थो यः,’सदेव सोम्य’ इत्यादिना प्रकृतः प्रेक्षापूर्वं तेजो ऽबन्नादीनां स्रष्टा सर्वासां प्रजानां मूलमायतनं प्रतिष्ठा च
सकलावद्यगन्धविधुरो ऽपरिच्छिन्नगुणाकरः परमात्मा, यश्च त्वम्पदमुख्यार्थः प्रत्यक्ष(आदि)सिद्धो ऽल्पशक्तिः पराधीनो दोषकलुषितो
ऽवच्छिन्नज्ञानादिगुणः, तावुपादायानेन वाक्येनैक्यमुच्यते, उत विरुद्धभागत्यागेन लक्षणया वा ।
नाद्यः ।
परस्परविरोधेन योग्यताविरहे जरद्गवादिवाक्यवदाभासत्वप्रसङ्गात् ।
द्वितीये दोषमाह भेदनैवेति
३,४९
सिंहो देवदत्त इत्यादिवत्सामानाधिकरण्यमात्रं गौणमुपादाय जीवब्रह्मणोर्भेदे(ना)नैवाङ्गीकृतेन पदद्वयस्य मुख्यार्थ(त्व)सम्भवे(न)
जहदजहल्लक्षणा कुत आश्रयणीयेति ।
३,५४
ननु किं सामानाधिकरण्यं मुख्यमुपादाय तत्त्वम्पदयोर्लाक्षणिकत्वं व्याख्येयम् ।
किंवा सामानाधिकरण्यं गौणं गृहीत्वा तत्त्वम्पदयोर्मुख्यार्थता व्याख्यातव्येति सन्देहे न विनिगमनायां हेतुरस्ति ।
न नास्ति ।
त्यजेदेकं कुलस्यार्थ इति न्यायस्य विद्यमानत्वात् ।
तात्पर्यलिङ्गानां तत्रतत्र भेद एवानुगुण्यस्य व्युत्पादितत्वात् ।
तदिदमुक्तं भेदेनैवेति
३,५५
किञ्च विरोध्याकारपरित्यागेन स्वरूपमात्रलक्षणया’तत्त्वमसि’ इति वाक्यं जीवब्रह्मणोरेकत्वं प्रतिपादयतीत्यत्र विरोध्याकारपरित्यागो
नाम न तावदविवक्षामात्रमित्युक्तं प्राक् ।
अथ सो ऽयं देवदत्त इत्यादिवद्विरोध्याकारस्यानित्यत्वम् ।
तत्राह कथमिति
कथं नित्यगुणस्यास्य स्यादैक्यं गुणहानतः (अनुव्याख्यानम्)१,१.१०१च्द्
न्यायसुधा-
नित्यगुणत्वं चेश्वरस्य लिङ्गपादे साधयिष्यते ।
अस्येश्वरस्येत्युपलक्षणम् ।
जीवे ऽपि पारतन्त्र्यादिदोषाणां नित्यत्वात् ।
यथोक्तं पुराणे’अल्पशक्तिरसार्वज्ञम्’ इति ।
३,५६
ननु च विरोध्याकारपरित्यागेन जीवस्य ब्रह्मैक्यमित्यस्यार्थो न विरोध्याकाराविवक्षामात्रेणेति नाप्यनित्यत्वेनेति ।
किन्तु निर्गुणेन ब्रह्मणा जीवस्यैक्यमित्येवेति चेन्न ।
निर्गुण(त्व)स्यैव निरूपयितुमशक्यत्वात् ।
तथाहि ।
तन्निर्गुणं किं सगुणादीश्वराद्भिन्नमुताभिन्नम्(वा) ।
द्वितीये तस्यापि सगुणत्वप्रसङ्गेन निर्गुणत्वव्याघातः ।
आद्ये दोषमाह सदैवेति
सदैव गुणवत्त्वे ऽस्य भिन्नं स्यान्निर्गुणं सदा (अनुव्याख्यानम्)१,१.१०२अब्
३,५७
न्यायसुधा-
यदि निर्गुणं सगुणादत्यन्तभिन्नं तर्ह्यस्य सगुणस्य नित्यं सगुणत्वात्तस्मान्नित्यमेव निर्गुणं भिन्नं प्रसज्येत ।
तथाच न कदाचिदपि कैवल्यं स्यादिति ।
ननु स्वभावतो निर्गुणमेवेरोपितैर्मिथ्यागुणैः सगुणमिति बालैरभिलप्यते ।
आरोपितनीलिम्ना गगनमिव नीलत्वेन ।
आरोपप्रवाहस्य चानादिनित्यतया सदा सगुणत्वं च नानिष्यम् ।
तथाच मिथ्याभूतविरोध्याकारपरित्यागेनैक्योपदेशो ऽपि नानुपपन्नः ।
नीरूपं गगनमिति यथा ।
यथा वा यदिदं रजतं सा शुक्तिरित्येवं परेण स्वाभिसन्धावुद्घाटिते सत्याह नचेति
नच मिथ्यागुणत्वं स्यादनिर्वाच्यस्य दूषणात् (अनुव्याख्यानम्)१,१.१०२च्द्
न्यायसुधा-
मिथ्येत्यसदुच्यते ऽनिर्वचनीयं वा ।
नाद्यः ।
अनङ्गीकारात् ।
न द्वितीयः ।
अनिर्वाच्यस्य प्रथमसूत्र एव निराकृतत्वात् ।
अतो गुणराहित्यलक्षणं निर्गुणत्वं न सर्वथा शक्यनिरूपणम् ।
ननु गुणादिपञ्चकस्य निर्गुणत्वं पदार्थविदो मन्यन्ते ।
मन्यन्ताम् ।
न हीदानीं निर्गुणवस्तुनिराकरणं प्रस्तुतम् ।
किं नामाद्वैदिना निर्गुणं ब्रह्म निरूपयितुमशक्यमिति ।
गुणशब्देना(चा)त्र धर्ममात्रं प्रकृतम् ।
तद्गुणादिष्वपि सर्वसम्मतम् ।
गुणादीनां च सगुणत्वं परमाण्वारम्भनिरासे वक्ष्यते ।
३,५८
ननु (च)’साक्षी चेता केवलो निर्गुणश्च’ इति निर्गुणं ब्रह्म श्रूयते ।
मैवम् ।
उक्तानुपपत्तिपराहतत्वेनार्थान्तरपरत्वात् ।
अन्यथा साक्षित्वादीनामपि धर्मत्वाद्वयाघातश्च ।
साक्षाद्द्रष्टा हि साक्षी ।
यथाऽह पाणिनिः ।
साक्षाद्द्रष्टरि सञ्ज्ञायामिति ।
३,६०
एवं धर्मराहित्यलक्षणं निर्गुणत्वं निराकृतमप्याग्रहमात्रेण यो ऽङ्गीकरोति तं प्रति सोल्लुण्ठमाह निर्गुणत्वमिति
निर्गुणत्वं तदा च स्यादासुरत्वं नचान्यथा (अनुव्याख्यानम्)१,१.१०३अब्
न्यायसुधा-
तदा च युक्तया निर्गु(णे)णत्वे निराकृते ऽपि यदि निर्गुणत्वं परस्मै रुचिं स्यात् तर्हि गुणशब्दोदितसकलशुभराहित्यलक्षणमासुरत्वमेव स्यात् ।
अन्यथानिरूपयितुमशक्यत्वस्योक्तत्वात् ।
तेनैक्यं च मायावादिनामनुमन्यामह इति ।
एतेन ब्रह्मणो निर्गुणत्वादस्य लक्षणस्य यत्तटस्थत्वमुक्तम् ।
नहि नानाविधकार्यक्रियावेशात्मत्वं तत्प्रसवशक्तयत्मकं वा जिज्ञास्यविशुद्धब्रह्मान्तर्गतं भवितुमर्हति ।
तदपि निरस्तं वेदितव्यम् ।
निर्गुण(त्व)स्यैव निराकृतत्वात् ।
यच्चोक्तम्’नेदं ब्रह्मणो विशेषणम् प्रपञ्चोपाधित्वेन निरुपाधिकब्रह्मस्वरूपान्तर्गतत्वायोगात्’ इति, तदुत्तरत्र निराकरिष्यत इति ।
३,६१
$अथ तदुक्तस्य ‘गुणगुणिनोः अन्यत्वानन्यत्वाभ्याम् अनिरूपणम् इत्स्यय दुष्टता$
यदपि गुणगुणिनोरन्यत्वानन्यत्वाभ्यामनिरूपणादिति लक्षणस्य तटस्थत्वादि सिद्धये परेणोक्तं तद्दूषयितुमनुवदति लक्ष्यलक्षणयोरिति
लक्ष्यलक्षणयोर्भेदो ऽभेदो वा यदि वोभयम् (अनुव्याख्यानम्)१,१.१०३च्द्
३,६१फ़्.
न्यायसुधा-
यदत्र जगज्जन्मादिकारणत्वं मु(ख्य)खतो लक्षणमभिहितं सवर्ज्ञत्वादिसमस्तगुणवत्त्वं चाभिप्रायव्या(प्रा)प्तमित्युक्तम् ।
तदुभयमपि लक्षणं लक्ष्याद्ब्रह्मणो भिन्नमभिन्नं भिन्नाभिन्नं वा ।
नाद्यः ।
मेरुमन्दरवल्लक्ष्यलक्षणभावस्य गुणगुणिभावस्य चानुपपत्तेः ।
सम्बन्धसद्भावान्नेति चेत् (न) तस्यापि सम्बन्धिभ्यामन्यत्वानन्यत्वाभ्यामनिरूपणात् ।
न द्वितीयः ।
अनेकैरभिन्नस्य ब्रह्मणो ऽप्यनेकत्वापत्तेः ।
तथा चैकमेवेति श्रुतिविरोधात् ।
लक्षणानां वैकत्वमापद्येत ।
तथाच’यतो वा इमानि भूतानि जायन्ते’ इत्यादिश्रुतेः पुनरुक्तिदोषप्रसङ्गः ।
लक्ष्यलक्षणभावो गुणगुणिभावश्चाभेदे नोपपद्यते ।
प्रसिद्धेन ह्यप्रसिद्धं लक्षणीयम् ।
नच तदेव तदैव प्रसिद्धमप्रसिद्धं चेति युक्तम् ।
गुणी च गुणवान्भवति ।
नच स्वेनैव तद्वान्भवति ।
न तृतीयः ।
परस्परविरोधात् ।
अतो ऽशक्यनिरूपणत्वान्नेदं ब्रह्मस्वरूपान्तर्गतं लक्षणम् ।
किन्तु तटस्थमेव ।
नच तटस्थेन तेन ब्रह्मणो ऽद्वितीयत्वभङ्गः ।
यद्रजतमित्यभात्सा शुक्तिरितिवन्मिथ्याभूतेनापि प्रपञ्चकारणत्वेनोपलक्षणयोगादिति ।
३,६३
एवमनूद्य निराकर्तुमारभते इति पृष्ट इति
इति पृष्टे (अनुव्याख्यानम्)१,१.१०४अ
न्यायसुधा-
वक्तव्यमिति शेषः ।
पृष्ट इतयुपलक्षणम् ।
दूषिते चेत्यपि ग्राह्यम् ।
दूषणानामत्यन्तासम्बद्धत्वात्पृष्ट इत्येवोक्तम् ।
किं वक्तव्यमिति ।
तत्र जगज्जन्मादिकारणत्वादीनां धर्माणां भेदाभावे ऽपि विशेषस्य सद्भावात्तद्बलेन सर्वमुत्पद्यत इति वक्तुं निर्भेदवस्तुनि परेण
विशेषस्यानङ्गीकृतत्वात् घटादीनां च मिथ्यात्वेनाङ्गीकृतानामनुदाहरणत्वात्सत्य एव वस्तुन्यसावुदपपादनीय इति मन्वान आह तदेति
… तदैक्यस्य गतिरेव न विद्यते (अनुव्याख्यानम्)१,१.१०४अब्
३,६३फ़्.
न्यायसुधा-
यद्येवं पृष्ट्वा लक्षणं दूषयसि तदैक्यस्य गतिर्निरूपणप्रकारो न विद्यते ।
अयमभिप्रायः ।
द्विविधं हि वाक्यं मायावादिना तत्त्वावेदकमङ्गीकृतम् ।
एकं जीवब्रह्मणोरैक्यपरं महावाक्यम् ।
यथा तत्त्वमसीत्यादि ।
अपरं तत्स्वरूपपरमवान्तरवाक्यम् ।
यथा सत्यं ज्ञानमनन्तं ब्रह्मेत्यादि ।
तदुभयमपि सविशेषाभिन्नवस्तुनिष्ठं परेणाङ्गीकरणीयम् ।
गत्यन्तराभावात् ।
३,६५
तत्र तावदाद्यस्य गत्यन्तरं नास्ति ।
कथमिति चेत् उच्यते ।
तत्त्वमसीत्यादिवाक्यप्रतिपाद्यमैक्यं किं तत्पदलक्षिताच्चैतन्यादभिन्नमुत भिन्नमथ भिन्नाभिन्नमिति वाच्यम् ।
परेणाङ्गीकृतत्वेन प्राधान्यादभेदपक्षं तावदादौ निराकरोति ऐक्याभेद इति
ऐक्याभेदे न शास्त्रेण ज्ञेयं तत् स्वप्रकाशतः (अनुव्याख्यानम्)१,१.१०४च्द्
३,६५फ़्.
न्यायसुधा-
ऐक्यस्य चैतन्यस्वरूपाभेदे ऽङ्गीक्रियमाणे तदैक्यं तत्त्वमसीत्यादिना शास्त्रेण प्रतिपाद्यं न स्यात् ।
कुतः स्वरूपस्य स्वप्रकाशत्वेन नित्यसिद्धत्वात् ।
तन्मात्रस्वरूपत्वाच्चैक्यस्य ।
नहि प्रकाशमानमेव शास्त्रप्रतिपाद्यम् ।
वैयर्थ्यप्रसङ्गात् ।
किञ्चावेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं स्वप्रकाशत्वं परोणाङ्गीकृतम् ।
तथाच स्वप्रकाशचैतन्यात्मकं (च) शास्त्रप्रतिपाद्यं चेति व्याहतम् ।
अथ शास्त्रं नैक्यं प्रतिपादयति किन्तु भेदभ्रमं निराकरोति, यथोक्तम् सिद्धं तु निवर्तकत्वादिति ।
न ।
ऐक्ये प्रकाशमाने भेदभ्रमस्यैवानवकाशात् ।
तत्त्वाप्रतिपत्तेर्भ्रान्तिहेतुत्वात् ।
ऐक्यं न प्रकाशत इति चेन्न ।
स्वप्रकाशचैतन्यमात्रत्वविरोधात् ।
अविद्यावशात्स्वप्रकाशस्याप्यनवभास इति चेन्न सर्वथाप्यनवभासप्रसङ्गात् ।
तथाचाधिष्ठानानवभासे ऽविद्यारोपस्याप्यनुपपत्तेः ।
न ह्यखण्डे वस्तुन्यंशतो ऽविद्यावरणं सम्भवति ।
असम्भवनीयावभासचतुराविद्येति चेत् ।
तर्हि सा जडेष्वेव कुतो नाङ्गीकार्या ।
अनुपपत्तेस्तुल्यत्वात् ।
तथाच’सा न जडेषु वस्तुषु’ इत्ययुक्तम् ।
न शास्त्रेण ज्ञेयं तदित्युपलक्षणम् ।
शास्त्रप्रतिपाद्यत्वे ऽपि तत्पदेनैव सिद्धत्वात् ।
त्वमसीति व्यर्थमित्यपि द्रष्टव्यम् ।
तदित्येतावता न भेदभ्रमनिवृत्तिः ।
अतस्त्वमसीति सार्थकमिति चेन्न ।
तत्पदेनै(वै)क्यस्य प्रतिपादितत्वादैक्यप्रतीतौ च भेदभ्रमस्य निरस्तत्वात् ।
अन्यथा कदाप्यनिवृत्तिप्रसङ्गात् ।
तत्पदेनैक्यस्याप्रतिपादितत्वे तदुपलक्षितचैतन्यमात्रत्वानुपपत्तिः ।
ननु कथं तर्हि सो ऽयं देवदत्त इति वाक्यम् ।
अत्रापि विशेषानङ्गीकारे ऽनुपपत्तिरेवेति ।
३,६८
भेदे मिथ्यात्वतो भेदसत्यत्वं स्याद् बलादपि (अनुव्याख्यानम्)१,१.१०५अब्
न्यायसुधा-
द्वितीयं निराकरोति भेद इति
ऐक्यस्य स्वरूपाद्भेदे ऽङ्गीक्रियमाणे ऽपसिद्धान्तस्तावत् ।
तत्त्वमस्यादिवाक्यस्याखण्डार्थनिष्ठताया मायावादिनाङ्गीकृतत्वात् ।
३,६९
मिथ्यात्वप्रसङ्गो ऽपरो दोषः, चैतन्यातिरिक्तस्य सर्वस्य मिथ्यात्वाङ्गीकारात् ।
अन्यथाद्वैतेनैव सत्येनाद्वैतव्याघातात् ।
ऐक्यमिथ्यात्वे किन्नश्छिन्नमिति चेन्न ।
मिथ्यात्वतो न शास्त्रेण ज्ञेयं तदित्यनुवर्तनात् ।
अन्यथा तत्त्वमस्यादिशास्त्रस्यातत्त्वावेदकत्वं स्यात् ।
किञ्च जीवब्रह्मणोरैक्यस्य मिथ्यात्वतस्तद्भेदसत्यत्वमपि स्यात् ।
कुतः बलाद्वयाप्तिबलादित्यर्थः ।
ननु न कुत्रापि सतयो भेदो ऽस्माभिरभ्युपेयते तत्कथं व्याप्तिः ।
मैवम् ।
आस्तां तावत्परमार्थचिन्ता ।
ययोर्दूरस्थयोर्वनस्पत्योरैक्यं मिथ्या तयोर्भेदः सत्य इति दृष्टम् ।
अथवा यस्य स्वरूपेण सतो यो ऽभावो मिथ्या तस्य तद्विपरीतः सत्यो यथा ब्रह्मणो ऽनृतत्वादेर्मिथ्यात्वे सत्यत्वादिकं सत्यमिति
सामान्यव्याप्त्याश्रयणेन प्रसङ्गोपपत्तिः यथाहुः’परस्परविरोधे तु न प्रकारान्तरस्थितिः’ इति ।
३,७०
तृतीयं निराचष्टे भेदाभेदाविति
भेदाभेदौ यदि (अनुव्याख्यानम्)१,१.१०५च्
न्यायसुधा-
जीवब्रह्मणोरैक्यस्य स्वरूपाद्भेदाभेदौ यद्यङ्गीक्रियेते ।
तदा वक्तव्यं तौ किं चैतन्यादभिन्नावुत भिन्नौ अथ भिन्नाभिन्नाविति ।
आद्ये चैतन्यस्यापि द्वित्वं तयोर्वैकत्वमित्याद्यापद्येत ।
द्वितीययोर्देषमाह तदेति
… तदा स्यादेव ह्यनवस्थितिः (अनुव्याख्यानम्)१,१.१०५च्द्
न्यायसुधा-
हिशब्देनानवस्थाव्युत्पादनाय स्पष्टतामाचष्टे ।
तथा हि ।
स भेदः किं भेदिभ्यां भिन्नो ऽभिन्नो भिन्नाभिन्नो वा ।
प्रथमे सो ऽपि भेदस्तथेत्यनवस्था ।
द्वितीये शब्दपर्यायत्वादयो दोषाः ।
तृतीयस्तु तृतीये ऽन्तर्भवति ।
तत्राप्युक्तविधयानवस्थैवेति ।
ननु भेदस्य भेदान्तरं भेदाभेदयोश्च भेदाभेदान्तरमित्येतावता नानवस्था ।
उत्पत्तिज्ञप्तिप्रतिबन्धकत्वाभावादिति चेन्न ।
विशेषेणप्रतीतिमन्तरेण विशिष्टप्रत्ययानुपपत्त्या ज्ञप्तिप्रतिबन्धकत्वात् ।
तदिदमुक्तंस्यादेवेति
यद्यपि भेदाभेदाङ्गीकारे विरोधो वक्तुं शक्यते तथापि स्फुटत्वान्नोक्तः ।
एवमैक्यस्य स्वरूपाद्भेदपक्षे ऽनवस्थापीति ।
३,७२
नन्वैक्यं चैतन्याभिन्नमपि स्वनिर्वाहकत्वात्स्वाभाविकप्रकाशेनाप्रकाशितत्वमात्मनो निर्वक्ष्यति(हिष्यति) ।
यद्वा स्वरूपेणैक्यस्य भेदाभेदौ स्ताम् ।
तयोश्च भेदाभेदान्तराभावे ऽपि स्वनिर्वाहकत्वाद्वयवहारोपपत्तिरिति चेन्न ।
विशेषानभ्युपगमे स्वनिर्वाहकत्वस्यापि वक्तुमशक्यत्वादित्यभिप्रायेणाह स्वनिर्वाहकतेति
स्वनिर्वाहकता चेत् स्याद् (अनुव्याख्यानम्)१,१.१०६अ
न्यायसुधा-
ऐक्यस्य भेदाभेदयोर्वा स्वनिर्वाहकता यद्यङ्गीकृता स्यात् ।
तदा पृच्छामः स्वस्य निर्वाहकं हि स्वनिर्वाहकं तस्य भावः स्वनिर्वाहकता ।
स्वस्येति च कर्मणि षष्ठी ।
कर्तृकर्मणोः कृतीति वचनात् ।
तथा चैकस्यैवैकस्यामेव निर्वाहक्रियायां कर्मकर्तृत्वलक्षणं निर्वाह्यत्वं निर्वाहकत्वमित्युक्तं भवति ।
तन्निर्वाह्यत्वं निर्वाहकत्वं च परस्परं धर्मिणा क्रियया चात्यन्ताभिन्नमु(तात्यं)तभि(न्नाभि)न्नमिति ।
… बाह्यं बाहकमित्यपि ।
पर्यायो भेदवान् वा स्यादनवस्थोभयत्र च (अनुव्याख्यानम्)१,१.१०६ब्द्
न्यायसुधा-
निर्वाह्यमिति निर्वाहकमिति अपिशब्दान्निर्वाहकमित्यपि शब्दसमूहः पर्यायः प्रसज्येत एकार्थत्वात् ।
नच तेषां शब्दानां कश्चित्पर्यायत्वं मन्यते ।
द्वितीयमनूद्य दूषयति भेदवानिति
३,७२फ़्.
वाशब्दो यद्यर्थे ।
यदि निर्वाह्यत्वादिरर्थः परस्परं धर्मिणा न भेदवान् स्यात्तदा तद्भेदद्वयस्य भेदिस्वरूपमात्रत्वे
पर्यायत्वादिदोषप्रसङ्गाद्भेदान्तरवदित्यङ्गीकरणीयम् ।
तथाच परस्परं भेदं धर्मिभेदं वाऽश्रित्योभयत्रानवस्था स्यादिति ।
३,७४
एवं विशेषानभ्युपगमे महावाक्यार्थानुपपत्तिमभिधायावान्तरवाक्ये ऽपि तामतिदिशति सत्येति
सत्यज्ञानादिके ऽप्येवं (अनुव्याख्यानम्)१,१.१०७अ
न्यायसुधा-
सत्यं ज्ञानमनन्तं ब्रह्मेत्यादिके ऽवान्तरवाक्ये ऽप्येवं विकल्प्य दूषणमभिधानीयमित्यर्थः ।
तथाहि ।
सत्यज्ञानादिकं परस्परं ब्रह्मणा चात्यन्ताभिन्नं वा भिन्नं वा भिन्नाभिन्नं वा ।
नाद्यः ।
तथा सति स्वप्रकाशब्रह्मात्मकस्य तस्य सत्यज्ञानादिशास्त्रप्रतिपाद्यत्वप्रसङ्गात् ।
सत्यज्ञानादिपदानां पर्यायत्वापत्त्या सहप्रयोगानुपपत्तिप्रसङ्गाच्च ।
न द्वितीयः ।
अपसिद्धान्तात् ।
मिथ्यात्वापत्त्या शास्त्रस्यातत्त्वावेदकत्वप्रसङ्गाच्च ।
अज्ञानत्वादेः सत्यत्वापत्तेश्च ।
न तृतीयः ।
अनवस्थाप्रसङ्गात् ।
स्वनिर्वाहकत्वस्य चोक्तविधया निर्वक्तुमशक्यत्वादिति ।
३,७५
ननु सत्यज्ञानादीनां परस्परं ब्रह्मणा चात्यन्तमभेद एव ।
नच तावता सत्यज्ञानादिपदानां पर्यायत्वम् ।
वाच्यार्थभेदसद्भावात् ।
परापरसामान्यवाचिनां सगुणब्रह्मवाचिनां वा तेषां परब्रह्मणि लक्षणया प्रवृत्त्यङ्गीकारात् ।
नच वाच्यं सत्यपदेन लक्षितस्यैव ज्ञानपदेन लक्षणायां वैयर्थ्यात्, अधिकलक्षणायां च नाखण्डार्थतासिद्धिरिति ।
लक्ष्यार्थभेदाभावे ऽप्यारोपितासत्यत्वादिव्यवृत्त्यर्थत्वेनपदान्तराणां सप्रयोजनत्वात् ।
अत एव न शास्त्रवैयर्थ्यम् ।
स्वप्रकाशे ऽप्यारोपिताकारव्यावृत्त्यर्थत्वेन शास्त्रस्य सप्रयोजनत्त्वादिति चेन्न ।
किं ब्रह्मविशेषणत्वेनासत्यत्वादिव्यावृत्तिबोधः प्रयोजनमुच्यते ।
किंवा स्वतन्त्र एव व्यावृत्तिबोधः ।
३,७६
आद्ये दोषमाह न व्यावृत्त्येति
… न व्यावृत्त्या प्रयोजनम् ।
व्यावृत्तस्याविशेषत्वे … (अनुव्याख्यानम्)१,१.१०७ब्च्
न्यायसुधा-
इत्थम्भूतलक्षणे तृतीया ।
ब्रह्मविशेषणत्वेनासत्यत्वादिव्यावृत्तिलक्षणं प्रयोजनं सत्यादिपदानां त्वया वक्तुं न शक्यते ।
कुत इत्यत आह व्यावृत्तस्येति
व्यावृत्ततया प्रतीतस्य ब्रह्मणो ऽविशेषत्वे सतीत्यर्थः ।
अभावविशेषाङ्गीकारे च भावविशेषैः किमपराद्धम् ।
द्वितीयं दूषयति न व्यावृत्तस्येति
व्यावृत्तेर्व्यावृत्तस्य ब्रह्मणो ऽविशेषत्वे सा स्वतन्त्रा व्यावृत्तिर्न प्रयोजनम् ।
अजिज्ञासितत्वात् ।
मुमुक्षुणा ब्रह्म वा तद्धर्मो वा जिज्ञासितव्यः ।
तत्र व्यावृत्तिर्न ब्रह्म ।
तस्य भावरूपत्वादेकत्वान्निरुपाधिकत्वाच्च ।
ब्रह्मधर्मो ऽपि न चेत्कथं मुमुक्षुणा जिज्ञास्येत ।
अजिज्ञासितबोधनं च कथं प्रयोजनं स्यादिति ।
३,७९
किञ्च सत्यादिपदानि ब्रह्मणि किं सत्यत्वादिधर्मानाभिदधत्यसत्त्वादिव्यावृत्तिप्रयोजनानि ।
उतान्यथा वा ।
नाद्यः ।
अनङ्गीकारादित्याह न व्यावृत्त्येति
व्यावृत्तस्य ब्रह्मणो ऽविशेषत्वे ऽङ्गीकृते सति, विशेषणाभिधानमुखेन व्यावृत्तिः पदानां प्रयोजनमिति वक्तुं न शक्यत इत्यर्थः ।
३,८०
द्वितीयं दूषयति न व्यावृत्तस्येति
व्यावृत्तस्य ब्रह्मणो ऽविशेषत्वे सत्यत्वादिधर्माप्रतिपादन इति यावत् ।
असत्यत्वादिव्यावृत्तिः पदानां प्रयोजनमिति वक्तुं न शक्यते ।
नहि तीरे नदीत्वमनभिदधतो नदीपदस्यानदीत्वव्यावृत्तिः प्रयोजनं सम्भवति ।
विरोध्याकारसमर्पणेन हि विरोध्याकारान्तरं व्यावर्तनीयम् ।
यदुक्तं शास्त्रं चारोपिताकारव्यावृत्त्या स्वप्रकाशे ऽपि प्रयोजनवदिति ।
तदप्यनेनैव निरस्तम् ।
निर्विशेषे स्वयम्प्रकाशमाने विरोध्याकारारोप एवानुपपन्न इति चोक्तम् ।
एवं विशेषानङ्गीकारे वाक्यद्वयस्यानुपपत्तिमभिधायोपसंहरति तदिति
… तदखण्डं च खण्डितम् (अनुव्याख्यानम्)१,१.१०७द्
न्यायसुधा-
तत्तस्मादखण्डं निर्विशेषं वाक्यद्वयप्रतिपाद्यमित्येतन्मतं खण्डितं दूषितं वेदितव्यमित्यर्थः ।
३,८१
स्वक्रियाविरुद्धं च निर्विशेषत्ववचनमित्याह निर्विशेषत्वमिति
निर्विशेषत्वमेतेन मूको ऽहमितिवद् भवेत् (अनुव्याख्यानम्)१,१.१०७एफ़्
न्यायसुधा-
यथा मूको ऽहमित्येतत्स्वक्रियाविरुद्धम् ।
वक्तृत्वाभावो ह्यनेनोच्यते वचनक्रियया च वक्तृत्वमिति ।
तथा निर्विशेषं ब्रह्मेति स्वक्रियाविरुद्धं भवेत् ।
कथम् ।
एतेन निर्विशेषत्वेन विशेषेणापतितेन हेतुना ।
विशेषाभावो हि निर्विशेषं ब्रह्मेति वाक्येन प्रतिपादयितुमिष्यः ।
प्रतिपादनक्रियया च विशेषाभावलक्षणो विशेषः प्राप्नोतीति ।
अयमपि विशेषो निर्विशेषमित्यनेन निराक्रियत इति कुतस्तत्रापि स्वक्रियाविरोधः ।
प्रतीतिविरोध इति चेत् ।
तर्ह्येतद्वचनकर्तृत्वमपि मूको ऽहमित्यनेन निराक्रियत इति कुतस्तत्रापि स्वक्रियाविरोधः ।
प्रतीतिविरोध इति चेत् ।
समःसमाधिः ।
परबोधनोपायाभावाद्विशेषाभाव उपादीयते ।
नतु ब्रह्मविशेषतयेति चेत् ।
अत्रापि परबोधनोपायाभावादेवेदं वचनम् ।
वस्तुतस्त्वसौ मूक एवेत्यस्तु ।
निर्विशेषम् इत्यस्य विशेषनिरास एव तात्पर्यम् ।
न निर्विशेषत्वविशेषविधौ ।
अतः कथं विरोध इति चेत् ।
तर्हि मूको ऽहमित्यस्यापि वक्तृत्वनिरासे तात्पर्यम् ।
नैतद्वचनवक्तृत्व इति कुतस्तत्रापि विरोधः ।
न तत्र स्ववचनविरोधः ।
किन्तु स्वक्रियाविरोध इति चेत् ।
प्रकृते ऽपि किमन्यो ऽभिहित इत्यास्तां प्रपञ्चः ।
तदिदमुक्तं मूको ऽहमितिवदिति
३,८२
यदर्थमयं प्रयत्नस्तदाह अभिन्ने ऽपीति
अभिन्ने ऽपि विशेषो ऽयं बलादापतति ह्यतः (अनुव्याख्यानम्)१,१.१०८अब्
३,८२फ़्.
न्यायसुधा-
अत उक्तप्रकारेण महावाक्यावान्तरवाक्ययोरन्यथानुपपत्तिबलाद्भेदरहिते ऽपि ब्रह्मण्ययमनुपपत्तिशान्तिहेतुर्विशेषो नाम शक्तिविशेषो
ऽङ्गीकरणीयः प्राप्नोति ।
इदमुक्तं भवति ।
महावाक्यप्रतिपाद्यमैक्यमवान्तरवाक्यप्रतिपाद्यं च सत्यत्वादिकं ब्रह्मणा परस्परं चाभिन्नमेव ।
एकधैवानुद्रष्टव्यमित्याद्येकरस(त्व)प्रतिपादकश्रुतेः ।
न चोक्तदोषः ।
यतो भेदहीने ऽपि वस्तुन्यस्ति कश्चिच्छक्तिविशेषो येन प्रकाशमानमपि न प्रकाशत इत्यादि युज्यते ।
स च विशेषो ऽनयैवार्थापत्त्यावगम्यत इत्येव त्वया वक्तव्यमिति ।
३,८५
नन्वङ्गीकृते ऽपि विशेषे नानुपपत्तिशान्तिः ।
सो ऽपि हि विशेषो यदि वस्तुनो भिन्नस्तर्हि भेदानवस्थादि दोषः स्यादभिन्नत्वे च विशेषतद्वद्भावानुपपत्तेस्तादवस्थ्यादित्यत आह विशेषेति
विशेषतद्वतोश्चैव स्वनिर्वाहकता भवेत् (अनुव्याख्यानम्)१,१.१०८च्द्
न्यायसुधा-
विशेषविशेषिणोश्चाभेद एवाङ्गीकरणीयः ।
विशेषबलाच्च विशेषतद्वद्भावो ऽप्युपपादनीय इति शेषः ।
तथापि विशेषपरस्परयानवस्था स्यादित्यत आह स्वनिर्वाहकतेति
स एव विशेषो विशेषान्तरमन्तरेण विशेषतद्वद्भावं च घटयति ।
एकस्यैव निर्वाह्यत्वं निर्वाहकत्वं च तद्बलादेव सिद्धयतीत्यङ्गीकरणीयमिति ।
३,८६
नन्वभिन्ने वस्तुनि भेदकार्यनिर्वाहकत्वं विशेषस्य कुतः प्रमाणात्(तः) सिद्धमित्यत आह भेदहीने त्विति
तुशब्दो ऽवधारणे ।
भेदहीने त्वपर्यायशब्दान्तरनियामकः ।
विशेषो नाम कथितः … (अनुव्याख्यानम्)१,१.१०९अच्
न्यायसुधा-
अपर्यायशब्दान्तरनियामक इत्यशेषभेदकायर्निर्वाहकत्वोपलक्षणम् ।
एतदुक्तं भवति ।
जीवब्रह्मैक्यादीनामेकधैवेत्यादिश्रुत्या चैतन्यस्वरूपमात्रत्वं प्रतीयते ।
चैतन्ये स्वप्रकाशतया सिद्धे ऽप्यसिद्धिरपर्यायशब्दवेद्यत्वम्, चैतन्यप्रकाशस्य नाविद्यानिवर्तकत्वमद्वैतज्ञानस्य तन्निवर्तकत्वमित्यर्थक्रियविशेषः ।
चैतन्यमेकं सत्यत्वादीन्यनेकानीति सङ्खयावैलक्षण्यमित्यादिभेदकार्याणि चावगम्यते ।
एतदुभयान्यथानुपपत्त्या भेदरहिते ऽपि चैतन्ये भेद्रप्रतिनिधिस्तत्कायर्कारी कश्चिदतिशयो ऽस्तीति कल्प्यते ।
गत्यन्तराभावात् ।
तथाचार्थापत्त्या स्वरूपग्राहिण्या भेदकार्यनिर्वाहक एव(च)असौ सिद्ध इति किं तत्र प्रमाणान्तरान्वेषणेनेति ।
अनेनैव विशेषस्य लक्षणं चोक्तं भवति ।
भेदहाने ऽप्यनुपचरितभेदव्यवहारनिमित्तं विशेष इति ।
३,८७
$अन्यवादिभिरपि विशेषो ऽङ्गीकार्यः$
एवमद्वैतवादिना विशेषमङ्गीकारयित्वान्यानप्यङ्गीकारयति सो ऽस्तीति
… सो ऽस्ति वस्तुष्वशेषतः (अनुव्याख्यानम्)१,१.१०९द्
न्यायसुधा-
न केवलं ब्रह्मणि मायावादिना विशेषो ऽङ्गीकरणीयः ।
किं नाम प्रपञ्चसत्यतावादिभिरप्यशेषद्रव्येषु स विशेषो ऽङ्गीकार्यः ।
तथा हि पटस्तच्छौक्लयं च तावन्न भिद्येते ।
अङ्गुलीद्वयवद्भेदेनानुपलम्भात् ।
अयुतसिद्धत्वादिति चेत् ।
किमयुतसिद्धत्वं नाम ।
अवश्यमाश्रयाश्रयिभावेनावस्थानमिति चेत् ।
किमेतावता भेदेन न प्रत्येतव्यम् ।
नापि कुण्डमिव पटो ऽधिकरणत्वेन बदराणीव शौक्लयमाधेयत्वेन परिस्फुरति ।
किं नाम तदेव तदिति ।
न चैषा प्रतीतिर्भ्रान्तिः ।
बाधकाभावात् ।
शौक्लयपटयोर्भेदावगाहिनी प्रत्यक्षप्रतीतिर्हि बाधिका भवेत् ।
अनुमानादीनामभेदप्रत्यय(क्ष)रोधेनोत्थानस्यैवासम्भवात् ।
नच भेदावगाहिनी प्रत्यक्षप्रतीतिरस्तीत्युक्तम् ।
तेन प्रत्यक्षत एव सिद्धः पटशौक्लययोरभेदः ।
दृश्यन्ते च भेदकार्याणि, पटशौक्लयबुद्धयोरन्यूनानतिरिक्तविषयत्वाभावः, तच्छब्दयोरपर्यायत्वं अपर्यायशब्दस्मारकत्वं,
जलाहरणाद्यर्थक्रियाभेदः, पटमानयेत्युक्ते यत्किञ्चिच्छुक्लयानानयनं, शुक्लमानयेत्युक्ते नियमेन पटस्यानयनम्, अपटः पट इतिवदशुक्लः
पट इत्यनयोर्विरोधाभावः, अन्धस्यापि पटो ऽयमितिवच्छुक्लो ऽयमिति च प्रतीत्यनुत्पत्तिः, शुक्लाप्रतिपत्तिवत्पटाप्रतिपत्त्यभावः,
महारजनसम्पर्केण शुक्लत्ववत्पटस्या(प्या)वृत्तत्वाभावः, पटवद्वा शौक्लयस्याप्यनावृत्तत्वाभावः, इत्येवमादीनि ।
नचैषा प्रतीतिर्भान्तिः ।
बाधितत्वाभिमानस्याप्यभावात् ।
व्यवहाराद्यविसंवादाच्च तदेतयोरभेदभेदकार्यप्रतीत्योरन्यथानुपपत्त्या निर्भेदे ऽपि पटे ऽस्ति कश्चिदतिशयो भेदप्रतिनिधिर्यद्वशादिदं सर्वं समञ्जसं
स्यादित्येव कल्पनीयम् ।
न चातिशयो ऽभिन्ने ऽपि विशेषकत्वाद्विशेष इति गीयते ।
एवमन्यत्रापि द्रव्ये विशेषः प्रतिपत्तव्यः ।
ननु भेदाभेदाङ्गीकारेणानुपपत्तेः शमनात् किं विशेषेणेति चेन्न ।
परस्परविरुद्धयोर्भेदाभेदयोरेकत्रावस्थानघटनाया(म)पि विशेषस्याप्यङ्गीकरणीयत्वात् ।
प्रतीतत्वात्को विरोध इति चेत् ।
सत्यम् ।
प्रतीतिरपि कथमुपपन्नेति चिन्तायां वस्तुस्वभावातिशयस्यानुसरणीयत्वात् ।
भेदाभेदानवस्थापरिहारार्थमपि विशेषाङ्गीकारस्यावश्यकत्वस्योक्तत्वादिति ।
३,९१
ननु सर्ववस्तुषु यद्यस्ति विशेषः, स च वस्तुनो न भिद्यते, प्राप्तं तर्हि सकलवस्तूनामैक्यमित्यत आह विशेषा इति
३,९२
विशेषास्ते ऽप्यनन्ताश्च परस्परविशेषिणः ।
स्वनिर्वाहकतायुक्ताः सन्ति वस्तुष्वशेषतः (अनुव्याख्यानम्)१,१.११०
न्यायसुधा-
ते प्रकृतस्वरूपा विशेषा अशेषतो वस्तुष्वनन्तेषु द्रव्येष्वनन्ता एव सन्ति ।
न पुनरेक एव सर्वत्रातो नोक्तदोषः ।
सो ऽस्तीत्येकवचनं तु समुदायापेक्षया प्रयुक्तमिति भावः ।
नन्वेकैकस्मिंश्च द्रव्ये विशेषो ऽप्येकैको ऽस्ति तदा पटो महांश्छुक्लश्चलतीति विचित्रानेकव्यवहारानुपपत्तिः ।
न ह्येकस्मादविचित्रस्वभावाद्विचित्रानेककार्योत्पत्तिर्दृष्टा ।
तथा सत्याकस्मिकत्वप्रसङ्गात् ।
ततश्च विशेषाङ्गीकारो व्यर्थः स्यादित्यत आह विशेषा इति
ते ऽप्युक्तलक्षणा विशेषा अशेषतो ऽपि वस्तुषु प्रत्येकमनन्ताः सन्त्यतो नोक्तदोषावकाशः अनन्ता इत्युपलक्षणम् ।
यत्र यावन्तो व्यवहारास्तत्र तावन्तो विशेषा इति ज्ञातव्यम् ।
प्रतिद्रव्यमनेकत्वे विशेषाणां परस्परं भेदेन भाव्यम् ।
भेदाविनाभूतत्वादनेकत्वस्य ।
तथाच भिन्ननां द्रव्याभेदे द्रव्यस्यापि भेदप्रसङ्ग इत्यत आह परम्परेति
परस्परविशेषवत्त्वेनैवानेकत्वं सम्भवति ।
विशेषस्य भेदकार्यकारिताया उक्तत्वादिति भावः ।
विशेषाणामपि विशेषान्तराङ्गीकारे ऽनवस्थेत्यत आह स्वनिर्वाहकतेति
पूर्वं द्रव्येण विशेषस्याभेदचिन्ता ।
इदानीं तु परस्परमिति स्फुटो ऽर्थभेदः ।
सर्वं चैतद्विशेषस्वरूपसाधकार्थापत्त्यैव सिद्धमिति न पृथक् प्रमाणमुक्तम् ।
नहि स्वयमनुपपन्नमनुपपत्त्यन्तरशान्त्यै प्रभवति ।
किन्तु यथायथोपपद्यते तथातथैव स्वरूपग्राहिण्या ऽर्थापत्यैव कल्प्यते ।
यद्यपि विशेषः प्रत्यक्षो ऽपि भवति ।
‘येन प्रत्यक्षसिद्धेन’ इति वक्ष्यमाणत्वात् ।
तथापि विप्रतिपन्नो न तन्मात्रेण बोधयितुं शक्यत इत्यर्थापत्तिरुपन्यस्तेति ।
३,९४
यदर्थं तदैक्यस्येत्यादिना सर्ववादिभिर्विशेषो ऽङ्गीकारितस्तदिदानीमाह अत इति
अतो ऽनन्तगुणं ब्रह्म निर्भेदमपि भण्यते (अनुव्याख्यानम्)१,१.१११अब्
न्यायसुधा-
निर्भेदमपि ब्रह्मातो विशेषसामर्थ्यादनन्तगुणं भण्यत इति ।
यत्परेण पृष्टं लक्ष्यलक्षणयोर्भेद इत्यादि तस्येदमुत्तरम् ब्रह्म निर्भेदमिति
यदत्रोक्तमनेकलक्षराभिन्नस्यानेकत्वप्रसङ्गः, लक्षणानां वानेकत्वानुपपत्तिः, शब्दपर्ययत्वं, गुणगुणित्वाद्यनुपपत्तिरिति, तस्योत्तरं निर्भेदमप्यतो
विशेषशद्गुणानामनन्तत्वं, ब्रह्मणश्चैकत्वम्, अनन्ता गुणा अस्येति गुणगुण्यादिभावो, ब्रह्म च गुणाश्चेत्यपुनरुक्तभणनं च युज्यत इति ।
अत्र जगज्जन्मादिकारणत्वमिति वक्तव्ये ऽनन्तगुणमिति वचनमिदं सूत्रमनन्तगुण(वत्)त्वमेव ब्रह्मणो लक्षणमभिप्रेत्य तत्साधनाय
जगज्जन्मादिकारणत्वलक्षणं प्रतिपादयितुं प्रवृत्तमिति सूचयितुम् ।
तदेवं जगज्जन्मादिकारणत्वस्य स्वलक्षणत्वे बाधकाभावान्न तटस्थत्वकल्पनं युक्तमिति सिद्धम् ।
अत्राह ।
किमर्थं लक्ष्यलक्षणयोरभेदमङ्गीकृत्य विशेषबलेन सर्वव्यवहारसमाधानं क्रियते ।
भेद एव कस्मान्नाङ्गीक्रियते ।
गुणगुणिभावस्तु समवायसम्बन्धाद्भविष्यति ।
यदि च सूत्रकारेण समवायो निराकरिष्यत इति नाङ्गीकारार्हस्तदा गुणगुणिनोरेव स कश्चित्तादृशः स्वभावभेद इत्यङ्गीकरणीयम् ।
नहि पटादौ भेदाभावे ऽपि विशेषबलाद्वयवहारविशेषदर्शनमात्रेण ब्रह्मण्यपि तथा कल्पयितुं युक्तम् ।
निश्चायकप्रमाणाभावात् ।
निश्चायकप्रमाणोपन्यासार्थं हि सम्भावना कल्प्यते ।
यथाऽहुः
३,९५
‘सम्भावितः प्रतिज्ञायाअर्थः साध्येत हेतुना ।
न तस्य हेतुभिस्त्राणमुत्पतन्नेव यो मृतः’
इति ।
न पुनः सम्भावनैवार्थ(स्य)साधिकेत्यत आह एवं धर्मानिति
एवं धर्मानिति श्रुत्या तदभेदो ऽप्युदीर्यते (अनुव्याख्यानम्)१,१.१११च्द्
न्यायसुधा-
अपिशब्दाद्विशेषो ऽपि ।
अत्र हि ब्रह्मधर्माणां पृथक् दर्शननिन्दयाभेदो ऽवगम्यते ।
धर्मानिति च धर्मबहुत्वोक्तया सविशेषत्वम् ।
नच धर्मानित्यनुवादमात्रम् ।
श्रुतिं विना तदसिद्धेः ।
मूलश्रुत्यङ्गीकारे सैव विशेषाभिधात्री भविष्यतीति प्रमितमेतन्निर्भेदमेव ब्रह्म विशेषबलादेव नानाव्यवहारालम्बनमिति ।
३,९६
अत्र यत्परेण जगत्कारणत्वं किं ब्रह्मणो निमित्तत्वमेवोतोपादानत्वमेवाथोभयमपीति विमृश्य तृतीयः पक्षः (परि)गृहीतः ।
उपादानत्वं च परिणामित्वेनेति कश्चित् ।
प्रपञ्चभ्रमाधिष्ठानमात्रत्वेनेत्यपरः ।
तदेतत्सर्वं प्रकृत्यधिकरणे निपुणतरं निराकरिष्यते ।
तस्मादुक्तलक्षणद्वयोपपन्नं ब्रह्म नारायणाख्यं मुमुक्षुणा जिज्ञास्यमिति स्थितम् ।
इति श्रीमन्न्यायसुधायां जन्माधिकरणम्


__