अथ प्रथमाध्यायः श्रीमन्न्यायसुधायां जिज्ञासाधिकरणम्
$मङ्गलाचरणम्$
१,१
न्यायसुधा-
श्रियः पत्ये नित्यागणितगुणमाणिक्यविशदप्रभाजालोल्लासोपहतसकलावद्यतमसे ।
जगज्जन्मस्थेमप्रलयरचनाशीलवपुषे नमो ऽशेषाम्नायस्मृतिहृदयदीप्ताय हरये १
१,१६
येन प्रादुरभावि भूमिवलये व्यस्तारि गोसन्ततिः प्राबोधि श्रुतिपङ्कजं करुणया प्राकाशि तत्त्वं परम् ।
ध्वान्तं ध्वंसमनायि साधुनिकरश्चाकारि सन्मार्गगस्तेन व्यासदिवाकरेण सततं मा त्याजि मे मानसम् २
१,१७
व्याप्तिर्यस्य निजे निजेन महसा पक्षे सपक्षे स्थितिर्व्यावृत्तिश्च विपक्षतो ऽथ विषये सक्तिनर् वै बाधिते ।
नैवास्ति प्रतिपक्षयुक्तिरतुलं शुद्धं प्रमाणं स मे भूयात्तत्त्वविनिर्णयाय भगवानानन्दतीर्थो मुनिः ३
१,२०
भवति यदनुभवादेडमूको ऽपि वाग्मी जडमतिरपि जन्तुर्जायते प्राज्ञमौलिः ।
सकलवचनचेतो देवता भारती सा मम वचसि निधत्तां सन्निधिं मानसे च ४
१,२१
रमानिवासोचिवासभूमिःसन्न्यायरत्नावलिजन्मभूमिः ।
वैराग्यभाग्यो मम पद्मनाभतीर्थामृताब्धिर्भवताद्विभूत्यै ५
पदवाक्यप्रमाणज्ञान्प्रतिवादिमदच्छिदः ।
श्रीमदक्षोभ्यतीर्थाख्यानुपतिष्ठे गुरून्मम ६
१,२३
श्रीमदानन्दतीर्थार्यसन्मनःसरसीभुवि ।
अनुव्याख्याननलिने चञ्चरीकति मे मनः ७
१,२५
न शब्दाब्धौ गाढा नच निगमचर्चासु चतुरा नच न्याये प्रौढा नच विदितवेद्या अपि वयम् ।
परं श्रीमत्पूर्णप्रमतिगुरुकारुण्यसरणिं प्रपन्ना मान्याः स्मः किमपि च वदन्तो ऽपि महताम् ८
१,३०
भगवता बादरायणेन प्राणिनां निःश्रेयसाय प्रणीतमपि ब्रह्ममीमांसाशास्त्रमसाधुनिबन्धान्धतमसावकुण्ठितत्वेनाप्रणीतमिव मन्यमानो
भगवानानन्दतीर्थमुनिर्यथाऽचार्याभिप्रायं अस्य भाष्यं विधायानुभाष्यमपि करिष्यन्विलीनप्रकृतितया स्वयमन्तरायविधुरो
ऽप्यनवरतमीश्वरप्रवणकायकरणवृत्तिरपि नारायणप्रणामादिकं प्रारिप्सितस्यानन्तरायपरिसमाप्तेः प्रचयस्य च
हेतुतयाविगीतशिष्याचारपरम्परादिनावगतमवश्यं करणीयं शिष्यान् ग्राहयितुं ग्रन्थादौ निबध्नाति नारायणमिति
१,३७
नारायणं निखिलपूर्णगुणैकदेहं निर्दोषमाप्यतममप्यखिलैः सुवाक्यैः ।
अस्योद्भवादिदमशेषविशेषतो ऽपि वन्द्यं सदा प्रियतमं मम सन्नमामि (अनुव्याख्यानम्)१,१.१
न्यायसुधा-
अत्र नारायणं सन्नमामीत्यन्वयः ।
उत्तमपुरुषप्रयोगादेवाहमिति लभ्यते ।
समिति भक्तयाद्यतिशयसाहित्यलक्षणां प्रमाणस्य सम्यक्तामाह ।
तथाविध एव हि नारायणप्रणामो भवत्यभिमतसिद्धेरङ्गम् ।
निखिलेत्यादीनां तु प्रमाणकर्मणा नारायणेन विशेषणतया सम्बन्धः ।
प्रयोजनं च स्तुतिपदानां विशेष्यप्रशंसैव ।
तत्रार्थिकपुनरुक्तेः स्तुतित्वमेव समाधानमवधातव्यम् ।
१,४७
$नम्यत्वप्रयोजकधर्मपरतया व्याख्यानम्$
अथवा ।
कुतो नारायणस्य नम्यत्वम् ।
तथात्वे ऽपि कृतो ऽन्यासु देवतासु सतीषु तस्यैव नमनमित्यत्रोक्तमशेषविशेषतो ऽपि वन्द्यमिति ।
विशिष्टते वस्त्वेभिरिति विशेषा असाधारणधर्मा अशेषाश्च ते विशेषाश्च ।
अपिरभिव्याप्तौ ।
यावन्तो वन्द्यत्वनिमित्तभूता धर्माः तेभ्यो विशेषेभ्यो ऽपि हेतुभ्यो वन्द्यम् ।
तथाशेषाद्वन्द्यत्वेन समाशङ्कितात्पद्मभवादेर्जगतो विशेषो ऽतिशयो ऽशेषःसर्वोत्तमत्वम् ।
ततो हेतोः सतीष्वन्यासु देवतासु वन्द्यमिति ।
एतदुभयं कथं नारायणस्येत्यतो ऽभिहितं निखिलेत्यादि ।
त्रिविधा हि देवता वन्द्या भवति ।
विशिष्टाधिकृतेष्या चेति ।
नहि देवतावन्दनं व्यसनितया क्रियते ।
किन्तु विघ्नविघातादिप्रयोजनापेक्षया ।
विशिष्टैव देवता तस्येष्ये ।
अधिकृता च स्वविषयग्रन्थप्रबोधादिकं सम्पादयति ।
वन्दनं खलु भक्तयाद्युपेतमेव सफलम् ।
तच्चेष्यायामेव देवतायामुपपद्यत इति ।
तत्र वैशिष्ययोपपादनाय निखिलपूर्णगुणैकदेहं निर्दोषमस्योद्भवादिदमिति विशेषणत्रयम् ।
निखिला निःशेषाः पूर्णाः प्रत्येकमप्यनवधिका गुणा आनन्दादयः ।
एकशब्दः केवलार्थः ।
त एव देहो यस्य न पुनः प्राकृतादिरिति तथोक्तः ।
निष्क्रान्तो दोषेभ्यः पारतन्त्र्यादिभ्य इति निर्दोषः ।
अस्य प्रत्यक्षादिप्रमाणसिद्धतया बुद्धिसन्निहितस्य स्वव्यतिरिक्तप्रपञ्चस्योद्भव उत्पत्तिरादिरस्येत्युद्भवादि जन्माद्यष्टकं तद्यथासम्भवं
ददातीत्युद्भवादिदस्तम् ।
अस्येति सम्बन्धमात्रे षष्ठी ।
अशेषविशेषतो ऽपीत्येतदस्योद्भवादिदमित्यनेनापि सम्बद्धयते ।
वियदधिकरणादिव्युत्पाद्यसमस्तावान्तरभेदसहितोद्भवादिदमिति ।
अधिकृतत्वप्रदर्शनायाप्यतममप्यखिलैः सुवाक्यैरिति ।
अपिशब्दो वन्द्यत्वे हेतुसमुच्चयार्थः ।
अभिव्याप्तौ वा ।
अपौरुषेयत्वेन तन्मूलत्वेन वानाशङ्कितदोषत्वादिना शोभनानि वाक्यानि वेदादीनि ब्रह्मसूत्रादीनि च सुवाक्यानि तैरखिलैराप्यतमम् ।
अतिशयेन प्रतिपाद्यम् ।
यदि व्याचिख्यासितेन ब्रह्ममीमांसाशास्त्रेण तन्निर्णेतव्यार्थेन वेदादिना च प्रतिपाद्य इति नारायणो वन्दनीयः ।
हन्त तर्हि तत एव धर्मादिकं प्राणादिकं वा वन्दनीयं स्यात् ।
न स्यात् ।
तस्य नारायणप्रतिपत्त्यङ्गतया वेदाद्येकदेशप्रतिपाद्यत्वात् ।
अस्य पुनरनन्यार्थतयाखिलवेदादिवेद्यत्वात् ।
तथाविधमेव चाधिकृतमुच्यत इत्याशयवताऽप्यतममित्यखिलैरिति चोक्तम् ।
इष्टत्वप्रदशर्नं सदा प्रियतमं ममेति ।
अत्रापि पूर्ववत्सदापदस्य तमपश्च प्रयोजनमवधेयम् ।
$लक्षणपरतया व्याख्यानम्$
१,६५
यद्वा ।
नानिर्धारितस्वरूपस्य प्रणामो युक्तः ।
न चान्तरेण लक्षणं वस्तुनिर्धारणमित्यतो विभवादनेकानि नारायणस्य लक्षणान्यनेनोच्यन्ते ।
तत्र निखिलेत्यनेन निखिलगुणत्वं पूर्णगुणत्वं स्वतो गुणैकदेहत्वं चेति विपक्षाभेदेन त्रीणि लक्षणान्युदितानि ।
निर्दोषमित्यनेनैकम् ।
आप्यतममित्यनेन वेदादिमुख्यार्थत्वमखिलवेदाद्यर्थत्वं चेति द्वयम् ।
अस्येत्यनेनाष्यौ ।
अशेषेत्यनेन मुख्यवन्द्यत्वमुक्तमशेषाद्विशेषेण वन्द्यमिति ।
सदेत्यनेन परमप्रेमयोग्यत्वम् ।
तस्यानानुभाविकत्वादसम्भवमाशङ्कय सदा ममेत्युक्तम् ।
अन्येषामपि ज्ञानोत्तरकालमिदमानुभाविकं मम तु सदेति ।
अपिशब्दो लक्षणसमुच्चये ।
अथवा ।
निखिलेत्याद्युक्तलक्षणोपपन्नतया नारायणः केन प्रमाणेन प्रतिपत्तव्य इत्यतः
सुवाक्यैराप्यमित्युक्तम् ।
ननु वेदाद्येकदेशे ऽन्यथाप्युच्यते ।
न ।
तत्प्रतीतेरपरामर्शपूर्वकत्वादित्याशयेनाखिलैरित्युदितम् ।
तर्हि धर्माद्यसिद्धिः स्यात् ।
तस्य प्रमाणान्तरागोचरत्वात् ।
मैवम् ।
अमुख्यया वृत्त्या धर्मादेरपि वेदादिवेद्यत्वादित्याशयवताऽप्यतममित्यभिहितम् ।
अपिशब्दो वक्ष्यमाणप्रमाणसमुच्चयार्थः ।
सकलजगन्निमित्तकारणत्वादिहेतुभिरप्युक्तलक्षणो नारायणः प्रत्येतव्य इत्यभिप्रेत्योक्तमस्येति ।
$बाधकनिरासपरतया व्याख्यानम्$
१,६८
यद्वा नारायणस्य देहसद्भावे दुःखादिदोषानुषङ्गः ।
तदभावे ज्ञानादिगुणाभावः ।
उभयथापि जगज्जन्मादिकारणत्वासम्भव इत्याशङ्कयोक्तम् ।
निखिलपूर्णगुणैकदेहं निर्दोषमिति ।
देहवत्त्वाज्ज्ञानादिगुणपूर्णः ।
तस्यापि निखिलपूर्णगुणमात्रत्वेन दुःखादिदोषरहितश्चेति ।
अथवा नायं नारायणशब्दो डित्थादिशब्द इव भगवति साङ्गेतिको घटादिशब्द इव वा रूढिमात्रप्रवृत्तः ।
किन्तु विशिष्टगुणानप्याचष्ट इति
$सकलशास्त्रार्थपरतया व्याख्यानम्$
१,७०
अथवा श्रोतृबुद्धयनुकूलनाय सकलशास्त्रार्थं सङ्क्षेपतो ऽनेनाचष्टे ।
विदितसङ्क्षेपा हि प्रपञ्चं जिज्ञासवो भवन्ति ।
तत्र सदा वन्द्यमिति प्रथमसूत्रार्थोक्तिः ।
मनोवृत्तेस्तत्प्रवणता हि वन्दनम् ।
जिज्ञासापि तद्विशेष एव ।
तस्य जीवादिव्यावृत्तये यद्ब्रह्मेत्युक्तं तस्यार्थो निखिलेति ।
तदुपपादनाय द्वितीयसूत्रे लक्षणमभिहितम् ।
तदाह अस्येति
तृतीयसूत्रेण तत्र शास्त्रं प्रमाणमभिधाय तस्याध्यायशेषेण तद्विषयतोपपादिता ।
तत्कथनमाप्यतममिति ।
प्रथमाध्यायार्थे शङ्कितदोषनिरासो द्वितीये ऽभिहितस्तमाह निर्दोषमिति
एवं ब्रह्मस्वरूपे सिद्धे अधिकारिणस्तत्प्रसादसाधनोपायभूततत्साक्षात्कारजननाय वैराग्यभक्तिभ्यामखिलवेदार्थश्रवणादि तृतीय
$गुरुत्वेन व्यासस्य प्रणामः$
१,७५
तमेव शास्त्रप्रभवं प्रणम्य जगद्गुरूणां गुरुमञ्जसैव ।
विशेषतो मे परमाख्यविद्याव्याख्यां करोम्यन्वपि चाहमेव (अनुव्याख्यानम्)१,१.२
न्यायसुधा-
नारायणप्रणामस्येव गुरुप्रणामस्याप्यभिमतसिद्धयङ्गतया कार्यारम्भे ऽवश्यमनुष्ठेयत्वात्तदाचरणपुरःसरं ब्रह्ममीमांसाशास्त्रव्याख्यानं
समर्थयमानः प्रतिजानीते तमेवेति
तं पूर्वप्रणतं नारायणमेव ।
अन्वपि पुनरपि प्रणम्य भक्तयाद्युपेततालक्षणेन प्रकर्षेण नत्वाहं परमाख्यविद्याया ब्रह्ममीमांसाशास्त्ररूपाया व्याख्यां करोमीति सम्बन्धः ।
वर्तमानसामीप्यार्द्वर्तमानव्यपदेशः ।
सङ्क्षेपतो व्याख्यानस्य प्रक्रान्तत्वाद्वा ।
१,७८
ननु प्रणतस्य पुनः प्रणामः किमर्थः ।
नहि प्रणामावृत्तिर्विघ्नविघातादिहेतुरित्यत्र नियामकमस्ति ।
भावे वा पूर्वश्लोक एव बहुशः सन्नमामीति वक्तव्यम् ।
मैवम् ।
गुरुत्वेनात्र प्रणामाचरणात् ।
कथं नारायणस्य गुरुत्वमित्यत आह शास्त्रप्रभवमिति
शास्त्रशब्देन प्रकृतत्वाद्ब्रह्ममीमांसाशास्त्रं वेदादिकं चोच्यते ।
प्रभवत्युत्पद्यते प्रथममुपलभ्यते वा यस्मात्सः प्रभवः ।
यथासम्भवं शास्त्रस्य प्रभवः शास्त्रप्रभवस्तम् ।
यो हि यच्छास्त्रे प्रवर्तते तस्य तत्प्रभावो गुरुरिति प्रसिद्धमेव ।
प्रकृतशास्त्रसम्प्रदायप्रवर्तकत्वाच्च नारायणस्य गुरुत्वमित्याह जगद्गुरूणामिति
जगत एतच्छास्त्रप्रवक्तृणां ब्रह्मादीनामञ्जसा मुख्यतया न तु वयो ऽधिकत्वादिमात्रेण गुरुम् ।
अस्य शास्त्रस्य प्रवक्तारमिति यावत् ।
प्रकारान्तरेण गुरुत्वं नारायणस्य समर्थयते विशेषत इति
गुरुमिति वर्तते ।
विशेषत इति साक्षादुपदेष्यृत्वेन न तु जगत इव परम्परया ।
अत्र यदि शास्त्रप्रभवमित्याद्येवोच्येत तदा पृथक्प्रणामेन देवताया गुरोश्च पार्थक्यशङ्का स्यात् ।
तदर्थं तमेवेत्युक्तम् ।
नचैवं पृथक् प्रणामानुपपत्तिः ।
निमित्तद्वयसमावेशे नैमित्तिकविलोपनियमाभावात् ।
शिष्यशिक्षायै चैतद्ग्रन्थे निवेशनम् ।
शिष्याणां चास्ति गुरुदेवताभेदः ।
तदपेक्षयैव जगद्गुरूणामित्युक्तम् ।
अन्यथा विशेषतो म इत्युक्तमयुक्तं स्यात् ।
$व्याख्येयत्वसमर्थनम्$
१,८४
स्यादेतत् ।
अथातो ब्रह्मजिज्ञासेत्यादिकं ग्रन्थं व्याख्यातुमयं देवतादिप्रणामः ।
नचायं व्याख्यातव्यः ।
अर्थविवक्षापूर्वकस्यैव पौरुषेयवाक्यस्य व्याख्यातव्यत्वात् ।
नहि मातृकामात्रव्याख्याने प्रेक्षावान्प्रवर्तते ।
नचास्यार्थविवक्षापूर्वकत्वे मानमस्ति ।
प्रणयनमात्रस्य व्यभिचारित्वात् ।
प्रेक्षावत्प्रणयनस्य चानिश्चयात् ।
निश्चये वा विषहरमन्त्रस्येव जपादिनाभ्युदयसिद्धये निर्माणोपपत्तेः ।
गृहीतसङ्गतेरर्थप्रतिभासो हि विषहरमन्त्रे ऽपि समानः ।
नचार्थविवक्षापूर्वकत्वमात्रेणोपादेयता व्याख्यानं युक्तम् ।
विप्रलम्भकादिवाक्यव्याख्यानप्रसङ्गात् ।
किं नाम याथार्थ्ये च सति ।
नचास्य याथार्थ्ये मानमस्ति ।
तद्भावे ऽपि तथाविधवाक्यान्तरपरित्यागेनास्यैव व्याख्याने कारणं वक्तव्यमित्याशङ्कानिरासाय परमाख्यविद्येत्युक्तम् ।
१,८८
अयमभिसन्धिः ।
अस्ति तावदस्मिन्ग्रन्थे’द्वे विद्ये वेदितव्ये परा चैवापरा च’ इत्यादौ परविद्याख्या ।
अत्र विद्याशब्देनार्थविवक्षा याथार्थ्यं चास्यावगम्यते ।
याथार्थ्यज्ञानतत्साधनयोर्विद्याशब्दस्य योगरूढिभ्यां प्रवृत्तत्वात् ।
‘सञ्ज्ञायां समजनिषद’ इत्यत्र सञ्ज्ञायामित्यनुवृत्तेः ।
परशब्देन च याथार्थ्याद्वाक्यान्तरादुत्कर्षः ।
तदेवमागमेनास्य सर्वोत्तमप्रणामाप्यप्रतीतेर्गहनार्थत्वच्चोपपन्नमन्यपरित्यागेनास्यैव व्याख्यानमिति ।
तथाप्यन्यैरेव व्याख्यातत्वान्न पुनरिदं व्याख्यातव्यमित्यतो व्याख्यामित्युक्तम् ।
विशिष्टाऽख्या व्याख्या ।
अनेन परकृतानामपव्याख्यानतामभिप्रैति ।
तथाच तत्रतत्र प्रदर्शयिष्यति ।
तथापि स्वप्रणीतभाष्येणैव कृतव्युत्पादनमिदं शास्त्रमिति किमनेन व्युत्पादनेनेत्यतो ऽन्वपि चेत्याह ।
चशब्देन अनुव्याख्याने प्रयोजनसद्भावं समुच्चिनोति ।
तच्च वक्ष्यते ।
प्रयोजनसद्भावे भाष्यदिशा शिष्या एवानुव्याकरिष्यन्तीत्यतो ऽहमेवेत्याभिहितम् ।
एवशब्देनान्येषामसामर्थ्यं सूचयति ।
$आगमेन शास्त्रप्रामाण्यम्$
१,९६
प्रादुर्भूतो हरिर्व्यासो विरिञ्चभवपूर्वकैः ।
अर्थितः परविद्याख्यं चक्रे शास्त्रमनुत्तमम् (अनुव्याख्यानम्)१,१.३
१,९७
न्यायसुधा-
यदुक्तं नारायणो ऽस्य शास्त्रस्य प्रभव इति तदयुक्तम् ।
व्यासोपज्ञताप्रसिद्धिविरोधात् ।
नच नारायण एव व्यासः ।
जननविरोधात् ।
कृतकृत्यस्य प्रयोजनाभावेन शास्त्रप्रणयनासम्भवाच्च ।
यच्चास्य श्रौत्या परविद्याख्यया सर्वोत्तमप्रामाण्यसिद्धिरिति तदप्ययुक्तम् ।
परशब्दस्यानेकार्थत्वेन विद्याशब्दस्य चार्थविवक्षाविरहिण्यपि मन्त्रे प्रयोगदर्शनेन परविद्याख्यायाः सर्वोत्तमप्रामाण्यानिश्चायकत्वात् ।
किञ्चेयं परविद्याख्यैतद्विषयेत्यत्रापि न नियामकमस्तीत्यत आह प्रादुर्भूत इति
अत्र कृतकृत्यो ऽपि हरिरात्मकृपास्पदैर्विरिञ्चभवपूर्वकैरमरैरर्थितो व्यासः प्रादुर्भूतो न तु जातो ग्रन्थमिमं चक्र इत्यनेन नारायणस्य
शास्त्रप्रभवत्वे ऽनुपपत्तिः परिहृता ।
दृश्यन्ते हि केवलं कृपापारवश्येन परोपकाराय प्रवर्तमानाः सुतरां तैरर्थिताः ।
अत एव परप्रयोजनमप्यात्मगामीव मन्यमानस्य भगवतः शास्त्रप्रणयनमिति ज्ञापयितुमात्मनेपदप्रयोगः ।
अत्र च नारायणाद्विनिष्पन्नमित्याद्यागमः प्रमाणम् ।
परविद्याख्यया अस्य सर्वोत्तमप्रामाण्यसिद्धिं व्युत्पादयितुं परविद्याख्यमित्यनूद्यानुत्तमं शास्त्रमिति व्याख्यातम् ।
नास्त्युत्तमं शास्त्रमस्मादित्यनुत्तमम् ।
शिष्यते यथास्थितं प्रतिपाद्यते तत्त्वमनेनेति शास्त्रम् ।
१,१००
इदमुक्तं भवति ।
‘द्वे विद्ये वेदितव्ये परा चैवापरा च’ इति विद्याद्वयमुद्दिश्य तत्रापरेत्यादिना साङ्गान्वेदानपरविद्यात्वेनोक्तवा’अथ परा यया
तदक्षरमधिगम्यते’ इति परविद्या प्रदर्शिता ।
सा तावद्वेदादिशास्त्रप्रकरणात्परमाक्षराधिगतिकरणत्वलिङ्गाच्च शास्त्रमेव भवितुमर्हति अन्यथा
सकृदुक्तविद्याशब्दस्यानेकार्थत्वकल्पनाप्रसङ्गाच्च ।
शास्त्रं चाप्रमाणं चेति विप्रतिषिद्धम् ।
तस्य च परत्वं
नामन्यन्न सम्भवतीत्यनुत्तमत्वमेव ।
तदपि सन्निधानात् प्रमाणत्वेनैव ।
शब्दान्तरसमभिव्याहारवशेन सामान्यशब्दस्य विशेषाथर्स्य कल्पनीयत्वात् ।
तद्यथा परमधार्मिक इत्यभिहिते परमत्वं धर्मेणेति ज्ञायते ।
तच्चानुत्तमं शास्त्रमिदमेव विवक्षितम् ।
निर्णेतव्यार्थानामृगादिपदोपलक्षितानामशेषशास्त्राणामपरविद्यात्वेनोक्तत्वात् ।
अन्यस्य अप्रसङ्गात्परत्वासम्भवाच्च ।
सम्भवति त्वस्य परत्वमनुग्राहकत्वात् ।
एतेनोपनिषदः परविद्येति व्याख्यानमिति परास्तम् ।
ऋगादिग्रहणेन तासामपि गृहीतत्वात् ।
ब्राह्मणपरिव्राजकन्यायश्च अगतिका गतिः ।
तज्जन्यं ज्ञानं परविद्येत्यपि न युक्तम् ।
अधिगतिकरणत्वानुपपत्तेः ।
अनेकार्थताकल्पनापत्तेश्च ।
अतो ऽनया परविद्याख्ययास्य शास्त्रस्य सर्वोत्तमप्रामाण्यसाधनमुपपन्नमिति ।
$विद्याशास्त्रशब्दयोः समानार्थत्वम्$
१,१०५
यद्यपि विद्याशास्त्रशब्दौ शिष्याचार्यव्यापारानुबन्धिनौ तथाप्युभयानुगततत्त्वज्ञानकरणत्वमात्रमुपादाय द्वयोरैकार्थ्यमुक्तमित्यवगन्तव्यम् ।
‘ऋगाद्या अपरा विद्या यदा विष्णोर्न वाचकाः ।
ता एव परमा विद्या यदा विष्णोस्तु वाचकाः’ इति भगवत्पादीयं व्याख्यानमप्येतमेवार्थं सूचयति ।
ब्रह्ममीमांसाशास्त्रव्युत्पादितन्यायानुपकृता हि वेदादयो विष्णोरवाचकास्तदुकृताश्च तस्य वाचका भवन्तीति ।
तथापि केवलस्य न परविद्यात्वं लभ्यत इति चेत् ।
मा लाभि ।
वेदादीतिकर्तव्यतारूपस्यास्य पृथक् प्रामाण्यानभ्युपगमात् ।
$प्रामाण्यमात्रे अनुमानम्$
१,१०७
गुरुर्गुरूणां प्रभवः शास्त्राणां बादरायणः ।
यतस्तदुदितं मानमजादिभ्यस्तदर्थतः (अनुव्याख्यानम्)१,१.४
न्यायसुधा-
एवं तावदागमेनास्य शास्त्रस्यानुत्तमं प्रामाण्यं प्रसाध्याधुनानुमानतो ऽपि तत् सिषाधयिषुरादौ तावत्प्रामाण्यमात्रे अनुमानं वक्तुमाह गुरुरिति
यतो यत्कारणं बादरायणो गुरूणां जगतस्तत्त्वोपदेशकानां ब्रह्मादीनां गुरुरुपदेष्या ।
यतश्च शास्त्राणां वेदानां भारतादीनां च यथासम्भवं प्रभवो गुरूणामशेषार्थप्रतिपादकानां सविस्तराणां वेदादिशास्त्राणां गुरुर्मुख्यप्रभवो न तु
सम्प्रदायमात्रप्रवर्तक इति वा ।
यतश्चाजादिभ्यः श्रोतृभ्यस्तेषामर्थो मोक्षस्तदर्थः तस्मै तदर्थतः ।
तदुदितं तेन बादरायणेनोपदिष्यमिदं शास्त्रमतो मानं भवितुमर्हति ।
१,११४
$हेतूनां साक्षात्साध्यनिर्देशः$
अत्र गुरुर्गुरूणामित्यादिहेतूनां वक्तृश्रोतृप्रसङ्गानामानुकूल्यान्येव साक्षात्साध्यानि मानसीति तु परमसाध्यनिर्देश इति ज्ञातव्यम् ।
तथा हि ।
विवक्षितार्थतत्त्वज्ञानं करणपाटवं विवक्षा चेति त्रयं वक्तुरानुकूल्यं नाम ।
तत्त्वज्ञानयोग्यता वक्तृप्रीतिविषयता चेति द्वयं श्रोतुः ।
श्रोतृप्रयोजनोद्देशः प्रसङ्गस्य ।
तत्र गुरूणां गुरुरिति वक्तुर्बादरायणस्य विवक्षितार्थतत्त्वज्ञानसाधने हेतुः ।
यो हि यस्य तत्त्वोपदेष्या स ततो ऽधिकतत्त्वज्ञानवानुपलब्धः ।
अयं च सर्वज्ञकल्पानां ब्रह्मादीनां तत्त्वोपदेष्या ब्रह्मरुद्रादिदेवेष्वित्याद्यागमादवगतः ।
अतः सवर्ज्ञो भवितुमर्हतीति ।
गुरूणां शास्त्राणां गुरुः प्रभव इत्यनेनापि तत्त्वज्ञानं करणपाटवं च साध्यते ।
यो हि यावदथर्प्रतिपादकस्यागमस्य प्रभवः स तावन्तमर्थं तत्त्वतो जानन्नवगतः ।
अयं चाशेषार्थप्रतिपादकस्यागमस्य प्रभवो ऽनुक्तं पञ्चभिर्वेदैरुत्सन्नान्भगवान्वेदानित्यादिवचनादवगतः ।
ततो भवितव्यमनेन सर्वज्ञेन ।
यश्च बहोरागमस्य प्रभवः सो ऽसति निमित्तान्तरे पटुकरणो दृष्टः ।
अयं चापरस्य वेदादेः प्रभवः कथमपटुकरणो भवेदिति ।
तदुदितमिति वचनेन कार्येण वक्तुर्विवक्षा कारणभूतोपपादिता ।
गुरूणामिति श्रोतृणां तत्त्वज्ञानयोग्यतोपपादने हेतुः ।
नहि स्वयं तत्त्वज्ञानायोग्यः परेषां तत्त्वोपदेष्या दृष्टः ।
अजादिभ्य इति वक्तृप्रेमास्पदत्वोपपादनम् ।
ब्रह्मादयो हि परमेश्वरप्रेमविषयाः सुप्रसिद्धाः ।
तदर्थत इति प्रसङ्गानुकूल्योपपादनम् ।
अत्र सर्वत्राकारणकार्योत्वत्त्यादिप्रसङ्गो विपक्षे बाधकस्तर्कः उन्नेयः ।
१,११७
$किं मध्ये साध्यान्तराध्याहारकल्पनया$
नन्वत्र गुरुर्गुरूणामित्यादीनां शास्त्रप्रामाण्येन यथाश्रुत एव साध्यसाधनभावो व्याख्यायताम् ।
किं मध्ये साध्यान्तराध्याहारकल्पनया ।
यद्यपि यथाश्रुतानामेषां व्यधिकरणता ।
तथापि तदुदितमिति वचनाद्विभक्तिविपरिणामेन एकाधिकरणता भविष्यति ।
१,१२०
$हेतूणाम् अव्यभिचरितत्वम्$
यद्यपि चैते प्रत्येकं बौद्धागमादौ मानतां व्यभिचरन्ति ।
तथापि मिलितानां हेतुतास्तु ।
भारताद्यशेषसच्छास्त्रप्रभवप्रणीतत्वांशस्य सपक्षाप्रवेशितत्वेनासाधारण्यं स्यादिति चेन्न ।
तेष्वेव हेतुवृत्तिसम्भवात् ।
तत्प्रामाण्यस्य महाजनपरिग्रहादिना निश्चितत्वात् ।
एवं तर्हि भारतादिप्रणयनविशिष्टेन
तेषामप्रणीतत्वाद्बादरायणेन ब्रह्मादीन्प्रति तन्मोक्षार्तमुपदिष्टत्वमात्रं हेतुः स्यादिति चेद्बाढम् ।
तावन्मात्रस्यैव व्यभिचाराभावात् ।
तथा सति गुरुर्गुरूणां प्रभवः शास्त्राणामिति व्यर्थमापद्यत इति चेन्न ।
तस्य हेतुशरीराप्रवेशिनो ऽपि दृष्टान्तोपदर्शनादिना सार्थक्योपपत्तेरिति ।
१,१२५
$साध्यान्तराध्याहारसमर्थनम्$
सत्यम् ।
तथापि नैतदेवं विज्ञातुं शक्यम् ।
तथा सत्युत्तरवाक्ये वक्त्राद्यानुकूल्यस्य साध्यसम्बन्धव्युत्पादनमसङ्गतं स्यात् ।
तदनुमानान्तरं भविष्यतीति चेन्न ।
तथात्वे प्रामाण्यं त्रिविधम
१,१२९
$उपाद्युद्भावम् असङ्गतम्$
वक्तृश्रोतृप्रसक्तीनां यदाप्तिरनुकूलता ।
आप्तवाक्यतया तेन श्रुतिमूलतया तथा (अनुव्याख्यानम्)१,१.५
युक्तिमूलतया चैव प्रामाण्यं त्रिविधं महत् ।
दृश्यते ब्रह्मसूत्राणामेकधान्यत्र सर्वशः (अनुव्याख्यानम्)१,१.६
न्यायसुधा-
ननु तर्ह्यनेनेदमुदितं भवति ।
एतच्छास्त्रं प्रमाणमनुकूलवक्त्रादिमत्त्वाद्भारतादिवत् ।
वक्त्राद्यानुकूल्यं चोक्तहेतुसिद्धमिति ।
एतदनुपपन्नम् ।
आप्तवाक्यतायास्तत्रोपाधित्वात् ।
नच प्रत्यक्षादौ सत्यपि प्रामाण्ये नास्त्याप्तवाक्यत्वमिति साध्याव्यापकत्वान्नायमुपाधिरिति वाच्यम् ।
वाक्यत्वावच्छिन्नसाध्यव्यापकत्वेनोपाधित्वोपपत्तेः ।
तथाप्यपौरुषेये वेदे तदभावादनुपाधित्वमिति चेन्न ।
वेदापौरुषेयत्वस्यासम्भवात् ।
सम्मतत्वे वा साधनावच्छिन्ने पौरुषेयवाक्यत्वावच्छिन्ने वा साध्ये ऽस्योपाधित्वोपपत्तेरिति ।
मैवम् ।
अभिप्रायानवगमात् ।
नहि वयं वक्त्राद्यानुकूल्येन शास्त्रप्रामाण्यं साक्षात्साधयितुमुद्यताः ।
येनात्रोपाध्युद्भावनं सङ्गच्छेत ।
अपि तर्ह्यनुकूलवक्त्रादिमत्त्वस्याप्तवाक्यतया व्याप्तत्वात्तेन तां प्रसाध्य तया प्रामाण्यं शास्त्रस्य साध्यत इत्याशयवानाह
वक्तृश्रोतृप्रसक्तीनामिति
यद्यत्र वाक्ये वक्तृश्रोतृप्रसक्तीनामनुकूलता तत्राप्तिः ।
यद्वक्त्राद्यानुकूल्ययोपेतं तदाप्तवाक्यमिति यावत् ।
यत एवं व्याप्तिर्यतश्चास्य शास्त्रस्यास्त्यनुकूलवक्त्रादिमत्त्वम् ।
तेन सिद्धयाऽप्तवाक्यतया मानमिदं शास्त्रमिति पूर्वेण सम्बन्धः ।
१,१३२
$को ऽयम् आप्तः$
एतदुक्तं भवति ।
विमतमाप्तवाक्यमनुकूलेन वक्त्रानुकूलान् श्रोतृन्प्रति तदीयहितसाधनबोधायोपदिष्टत्वात्सम्प्रतिपन्नवत् ।
विमतं प्रमाणमाप्तवाक्यत्वात्सम्प्रतिपन्नत्वादिति ।
वक्तुरानुकूल्याभावाज्जैनाद्यनाप्तवाक्यम् ।
श्रोत्रानुकूल्यविरहाद्बौद्धादि ।
प्रसङ्गानुकूलतावैधुर्यात् नर्मादि ।
ननु को ऽयमाप्तो नाम यद्वाक्यत्वं साध्यते ।
यथादृष्टार्थवादीति चेन्न ।
भ्रान्तिदृष्टार्थवादिन्यपि प्रसङ्गात् ।
प्रमाणदृष्टेति विशेषणे ऽपि प्रमाणदृष्टस्य प्रमादादिनान्यथाकथके अपि प्रसङ्गात् ।
प्रमाणेन यथा दृष्टं तथा वादीति चेन्न ।
एकदेशे तथाभूतवादित्वे ऽप्यंशान्तरे अतथाभूतत्वादिन्यपि प्रसङ्गात् ।
यावत्प्रमाणदृष्टं तावतो वक्तेति चेन्न ।
प्रायेणातथाभूतत्वादेव लक्ष्याणां तदव्याप्तेः ।
नहि केनापि यावत्प्रमाणप्रमितं तावदभिधीयते ।
यावत्प्रमाणदृष्टं तावत एव वक्तेति चेन्न ।
अज्ञातसन्दिग्धानुवादवाक्यप्रयोक्तुरनाप्तत्वप्रसङ्गात् ।
भीमाग्रजस्य अपि कदाचिच्चाटुवादित्वसम्भवेनानाप्तत्वापत्तेश्च ।
निर्दोष आप्त इति चेन्न ।
आप्तानामपि क्वचिद्रागादिदोषसम्भवात् ।
यत्र विषये निर्दोषस्तत्राप्त इति चेन्न ।
यत्तच्छब्दयोर्विशेषविषयत्वेनासाधारण्यादव्याप्तेरिति ।
१,१४०
$आप्तिस्वरूपनिरूपणम्$
मैवम् ।
विवक्षिताथर्तत्त्वज्ञानमविप्रलिप्सा विवक्षा करणपाटवं चेतीयमाप्तिः ।
तद्वानाप्त इत्यङ्गीकारात् ।
आप्तत्वाभिमते ऽपि कदाचिदिदं नास्तीति चेन्मा भूत् ।
तदासावनाप्त इत्यङ्गीकारात् ।
कालादिभेदेनाविरोधात् ।
एवं सति यो यत्रैवम्भूतः स तत्राप्त इत्युक्तं स्यादिति चेदस्तु को दोषः ।
यत्तच्छब्दार्थयोरननुगम इति चेत् ।
को ऽयमननुगमो नाम किं सार्वत्रिकव्यवहारानौपायिकत्वमुतैकस्यानेकवृत्तित्वाभावः ।
नाद्यः ।
यो यस्य सुतः स तदीयं धनं अर्हतीत्यादौ सार्वत्रिकव्यवहारहेतुतोपलम्भात् ।
न द्वितीयः ।
अदोषत्वात् ।
यथा चाननुगतस्यापि नाव्याप्तिः सार्वत्रिकव्यवहारहेतुता च तथा सामान्यपरीक्षायां वक्ष्यामः ।
१,१४५
$आप्तेः लक्षणान्तरम्$
एतेन निर्दोषः प्रमितस्यैव वक्तेति लक्षणद्वयमपि समाहितं वेदितव्यम् ।
अनुवादस्य वादविषयत्वेन तत्प्रयोक्तुरप्याप्तत्वाविरोधात् ।
एवञ्च वक्तुरानुकूल्यमाप्त्येकदेश एव ।
विप्रलिप्सा च श्रोतृप्रसङ्गानुकूलतैकनिबन्धना तदभावे निवर्तत इति वक्त्राद्यानुकूल्यवत्ताया आप्तवाक्यतया सुस्थः प्रतिबन्धः ।
नन्वाप्तवाक्यता स्वकपोलकल्पितेषु मालतीमाधवादिषु प्रामाण्यं व्यभिचरति ।
नहि नाटकादिप्रबन्धं विरचयन्नपि कदाचिदुक्तलक्षणोपपन्नो न भवति भवभूतिरिति चेन्न ।
यो यत्रैवम्भूत इत्यनेनैवोक्तोत्तरत्वात् ।
आप्तिमूलवाक्यस्याप्तवाक्यतया विवक्षितत्वाच्च ।
अबोधकं विपरीतबोधकं वा वाक्यमप्रमाणमित्युच्यते ।
तत्राबोधकं वक्तुरपटुकारणतया भवति ।
विपरीतबोधकं च विपरीतज्ञानादिनेत्याप्तिपूर्वकवाक्यत्वस्य प्रामाण्येन प्रतिबन्धसिद्धिः ।
अन्यथा कारणेन विना कार्योत्पत्तिप्रसङ्गादिति ।
१,१४८
$मध्ये किं आप्तवाक्यतासाधनम्$
ननु चानुकूलवक्त्रादिमत्तया प्रामाण्यसाधनमेवात्र व्याख्यायताम् ।
किमाप्तवाक्यतासाधनं मध्ये व्याख्यायते ।
व्याप्तिपक्षधर्मतयोरतुल्यत्वात् ।
नहि यद्यद्वयापकस्य व्यापकं तत्तस्याव्यापकमिति सम्भवति ।
अनुकूलवक्त्रादिमत्तया आप्तवाक्यतासाधने वक्त्रानुकूल्यस्याप्त्येकदेशत्वेन साध्याविशिष्टता च स्यात् ।
वक्तृश्रोतृप्रसक्तीनामिति वाक्यं तु शङ्कितस्य उपाधेः साधनव्यापकताप्रदर्शनार्थं भविष्यति ।
मैवम् ।
आप्तवाक्यतया तेनेत्युत्तरवाक्यवैयर्थ्यप्रसङ्गात् ।
उपाधेः साधनव्यापकताया वक्तृश्रोतृप्रसक्तीनामित्यनेनैवोपपादितत्वात् ।
नहि उपाधिं दूषयता साधनव्यापकतां व्युत्पाद्य साधनेनोपाधेः पक्षे साधनं विधाय तेन साध्यं साधनीयमिति कुलधर्मः ।
१,१५२
उपाधेः साधनाभेदं प्रदर्श्य तेन साध्यं साध्यत इति चेन्न ।
आप्तेर्वक्तृमात्रधर्मस्य साधनाभेदानुपपत्तेः ।
साध्याविशिष्टता तु नास्त्येव ।
वक्त्रादीनामानुकूल्येन वक्तुराप्तिसाधने खल्वंशतः सा स्यात् ।
अनुकूलवक्त्रादिमत्तया आप्तवाक्यता साध्यत इति चोक्तम् ।
तथापि साध्यसाधनयोराप्त्येकदेशानुप्रवेशो ऽस्तीति चेत् ।
सत्यम् ।
तथापि विशिष्टभेदेन अदोषत्वात् ।
अन्यथा यो धूमवानसावग्निमानिति व्याप्यव्यापकभावो ऽपि न स्यात् ।
विशेष्यांशस्योभयत्रानुप्रवेशात् ।
कृतकत्वानित्यत्वयोःसत्तानुप्रवेशे ऽपि परैर्व्याप्यव्यापकभावस्य अङ्गीकृतत्वाच्च ।
यदा तु निर्दोषः प्रमितस्यैव वक्ता आप्त इत्याश्रितं तदा साध्यविशिष्टतायाः शङ्कैव नास्ति ।
१,१५६
$भाष्यकृतः परम्पराश्रयणे निमित्तम्$
ग्रन्थकृतापि कस्मादियं परम्पराऽश्रितेति चेन्न ।
वक्त्राद्यानुकूल्येन प्रामाण्यं साधयताप्यन्ततो ऽस्यार्थस्याश्रयणीयत्वात् ।
अन्यथास्तु वक्त्राद्यानुकूल्यं वक्तुर्विप्रलिप्सामूलत्वेनाप्रामाण्यं च भवत्वित्याशङ्कायाः को निवारयिता ।
यद्यपि प्रामाण्यं स्वत एवेति बादरायणीयं मतम् ।
यद्वक्ष्यति’न विलक्षणत्वात्’ इति ।
जैमिनिरपि’तत्प्रामाण्यं बादरायणस्य अनपेक्षत्वात्’ इति ।
तथाप्यप्रामाण्यशङ्कानिरासार्थो ऽयं प्रयत्न इत्यविरोधः ।
१,१५९
$यच्छ्रुतिसंवादियच्चयुक्तिसंवादितत्प्रमाणम्$
एवं विजातीयसंवादेनास्य शास्त्रस्य प्रामाण्यमुपपाद्य तदनुत्तमतासिद्धये सजातीयद्वयसंवादमप्याह श्रुतीति
तथाचशब्दौ समुच्चयार्थौ ।
मानमित्यस्यानुकर्षणार्थौ वा ।
यथा आप्तवाक्यतया तथा श्रुतिमूलतयापीत्युपमार्थो वा तथाशब्दः ।
यद्यपि श्रुतियुक्तिमूलशब्दौ श्रुतियुक्तिभ्यामथर्मुपलभ्य रचितस्य वाचकौ ।
तथाप्यत्र सामानार्थतासाम्येन गौप्या वृत्त्या श्रुतियुक्तिसंवादितार्थौ व्याख्येयौ ।
भगवतो बादरायणस्य स्वतः सर्वज्ञत्वेन मुख्यार्थासम्भवात् ।
यदि च श्रुतियुक्तिसंवादित्येवाक्ष्यत्तदा यादृच्छिकसंवादितापि व्यज्ञास्यत ।
सा मा विज्ञायीति गौणप्रयोगः ।
एवं हि प्रयोगे ऽङ्गाङ्गिभावो ऽप्यधिको विज्ञायते ।
सच पक्षधर्मतोपपादको भविष्यति ।
ततश्चायमर्थः ।
यच्छ्रुतिसंवादि तत्प्रमाणम् ।
यथा मन्वादिवाक्यम् ।
श्रुतिसंवादि चेदं शास्त्रम् ।
तदर्थविचारपरत्वात् ।
विसंवादे तदनुपपत्तेः ।
तच्च
‘पुनस्तस्यार्थवित्तये’ इत्याद्यागमसिद्धम् ।
यच्च युक्तिसंवादि तत्प्रमाणम् ।
यथा धूमवन्तं पर्वतमुद्दिश्य पर्वतो ऽयमग्निमानित्युक्तं वाक्यम् ।
युक्तिसंवादि चेदम् ।
मीमांसारूपत्वात् ।
मीमांसायाश्च युक्तयनुसन्धानात्मकत्वात् ।
तस्मात्प्रमाणम् ।
अन्यथा श्रुतेर्युक्तेश्चाप्रामाण्यप्रसङ्गः ।
अर्धवैशसासम्भवादिति ।
१,१६३
$शारीरकः परमात्मैव$
किमतो यद्देवमित्यत आह एव प्रामाण्यमिति
एवशब्दो ब्रह्मसूत्राणां इत्यनेन सम्बद्धयते ।
त्रिविधमिति क्रियाविशेषणम् ।
ब्रह्म वेदस्तदर्थः परब्रह्म वा तस्य सूत्राणि ब्रह्मसूत्राणि ।
सकलवेदार्थभूतस्य परब्रह्मणो विष्णोः स्वरूपनिर्णयार्थानि सूत्राणीति यावत् ।
सूत्रशब्दार्थश्चाल्पाक्षरमित्याद्यागमादवगन्तव्यः ।
एतेनैतच्छास्त्रवाचिनः शारीरकशब्दस्य शरीरमेव शरीरकं तत्र भवः शारीरको जीवः ।
तमधिकृत्य कृतो ऽयं ग्रन्थः शारीरक इति व्याख्यानं निरस्तं भवति ।
ब्रह्मसूत्रशब्दार्थेन विरुद्धत्वात् ।
त्वम्पदाभिधेयस्य तत्पदाभिधेयब्रह्मरूपता मीमांसेति व्याख्यानादविरोध इति चेन्न ।
असम्भवात् ।
नहि जन्मादिसूत्राणि अभेदपराणि ।
प्रत्युत तन्निरासपराणीति वक्ष्यते ।
अतः शारीरकः परमात्मैव ।
यथोक्तम् ।
‘शरीरौ तावुभौ
ज्ञेयौ जीवश्चेश्वरसञ्ज्ञितः’ इति ।
तस्य सकलगुरपूर्णत्वादिमीमांसैव शारीरकमीमांसा ।
तथा चोक्तं पुराणे’सर्वदोषविहीनत्वम्’ इत्यादि ।
१,१६७
$ब्रह्मसूत्राणाम् एव त्रिविधं प्रामाण्यम्$
यत एवं ब्रह्मसूत्राणां प्रामाण्यं त्रिविधं दृश्यते ।
आप्तवाक्यत्वादिप्रमाणत्रयेण दृश्यत इति यावत् ।
अतस्तन्महदनुत्तमं मन्तव्यम् ।
आप्तवाक्यत्रयादिलिङ्गत्रयावसितं प्रामाण्यं अन्यत्रापि चेत्स्यात्तदा कथमेषां तदनुत्तममित्यतो ब्रह्मसूत्राणामेवेत्युक्तम् ।
तत्कथमित्यत आह एकधेति
सर्वश इति वचनादेकधेत्युपलक्षणम् ।
तथा हि ।
क्वचिदेकधा ।
यथाऽप्तिमूलतया लौकिकविषये पितृवाक्ये ।
श्रुतिसंवादेन धर्मादिविषये प्रतिवाद्युदीरितवचने ।
तदुक्त एव पवर्तो ऽग्निमानिति वाक्ये युक्तिसंवादेन ।
क्वचित् द्वेधा ।
यथाऽप्तिश्रुतिभ्यां मन्वादिवाक्ये ।
आप्तियुक्तिभ्यां पर्वतो ऽग्निमानित्यादौ पितृवाक्ये ।
श्रुतियुक्तिभ्यामीश्वरः सर्वज्ञ इति प्रतिवाद्युदीरितवचसीति ।
जैमिन्यादिवाक्ये त्रेधाप्यस्तीति चेत् ।
सत्यम् ।
यथा ब्रह्मसूत्रेषु न तथा ।
निरवधिकं हि तत्राप्त्यादिकम् ।
एतदर्थमपि महदित्येतत्त्रिविधमित्यनेनापि योजनीयम् ।
ननु प्रमाणैकत्वानेकत्वयोः प्रमेयतादवस्थ्यात् कथमेतत् ।
इत्थम् ।
नहि प्रमाणमात्रं निःशङ्कप्रवृत्तावुपयुज्यते ।
किं नाम प्रमाणतया प्रमितमेव ।
तच्च यावद्यावदधिकं प्रमीयते तत्तदनुसारिणीमविशङ्कां क्षिप्रप्रवृत्तिं प्रसूत इत्यनुभवसिद्धम् ।
ततः प्रामाण्यमेव स्वकार्यातिशयवशेनातिशयवदुच्यते ।
एवं विषयप्रयोजनातिशयवशेनाप्यतिशयो द्रष्टव्यः ।
१,१७१
$प्रामाण्योक्तिसमर्थनम्$
अतो नैतादृशं किञ्चित् प्रमाणतममिष्यते ।
स्वयं कृतापि तद्वयाख्या क्रियते स्पष्टतार्थतः (अनुव्याख्यानम्)१,१.७
न्यायसुधा-
तदेवं श्रुत्यनुमानाभ्यामिदमेव शास्त्रं प्रमाणतमं नान्यदेतादृशमस्तीत्युपसंहरति अत इति
इष्यते प्रामाणिकैरिति शेषः ।
तथा चान्यपरिहारेणास्यैव व्याख्यानं युक्तमिति हृदयम् ।
ननु भारतं सर्वशास्त्रेषूत्तममुच्यते ।
सत्यम् ।
विचार्येषु शास्त्रेषु तदित्यविरोधः ।
ननु चास्य शास्त्रस्यारम्भणीयत्वं सूत्रकार एव प्रथमसूत्रे समर्थयते ।
तद्वयाख्यानेनैव सर्वं सम्पद्यते ।
किमनेन ।
प्रथमसूत्र एव कथं प्रवृत्तिरिति चेत् ।
प्रथमभाष्ये ऽपि कथम् ।
सन्देहात्प्रवृत्तस्य पुनरुक्तप्रमाणैर्निर्णय इति चेत् ।
समं प्रथमसूत्रे ऽपि ।
मैवम् ।
विषयादिसम्पादनेनैव तत् ।
नच तावताऽरम्भणीयत्वम् ।
प्रामाण्ये हि सति काकदन्तपरीक्षाग्रन्थवैलक्षण्यार्थं विषयादिव्युत्पादनमुपयुज्यते ।
अतः सूत्राक्षिप्तमेवेदं शिष्याणां बुद्धिशुद्धये भाष्यकृतोक्तमिति ।
१,१७६
$स्पष्टार्थः$
तथापि नेदं व्याख्यातव्यं व्याख्यातत्वादित्यत्रान्वपि चेति यत् प्रयोजनान्तरं अस्तीति सूचितं तद्विवरणार्थमाह स्वयमिति
यद्यपि तेषां ब्रह्मसूत्राणां व्याख्या स्वयं मयैव भाष्ये कृता तथापि पुनरत्र स्पष्टतैवार्थः प्रयोजनं यस्य स्पष्टतार्थः ।
तस्मै स्पष्टतार्थतः ।
भाष्ये अस्पष्टीकृतमर्थं स्पष्टीकर्तुं क्रियते ।
स्पष्टीकरणं चानेकविधम् ।
क्वचिदनुक्तांशस्योक्तिः ।
क्वाप्यतिसङ्क्षिप्तस्य विस्तरणम् ।
क्वचिदतिविस्तृततया बुद्धयनारूढस्य सङ्क्षेपः ।
क्वापि विक्षिप्तस्य एकीकरणम् ।
कुत्राप्युक्तस्योपपादनम् ।
क्वचिदपव्याख्याननिरासेन दृढीकरणमित्यादि तत्रतत्र द्रष्टव्यम् ।
नन्वेकत्रैव सर्वं वक्तव्यं किं प्रस्थानभेदेन ।
मैवम् ।
यतः सङ्क्षेपविस्तराभ्यामुक्तं श्रोतृणां सुग्रहं सप्रयोजनं च भवति ।
यथोक्तम् ।
‘सङ्क्षेपविस्तराभ्यां तु कथयन्ति मनीषिणः ।
बहुवारस्मृतेस्तस्य फलबाहुल्यकारणात्’ इति ।
तत्र भाष्याद्यपद्यार्थो अत्र श्लोकत्रयेण विवृतः ।
तथा हि ।
सर्वगुणोदीर्णतोक्तया प्राप्ता गुणगुणिभेदशङ्का निखिलेत्यादिना निराकृता ।
ज्ञेयत्वगम्यत्वयोरितरसाधारण्यात्कथं विशेषणत्वमित्याशङ्का आप्यतममित्यनेन परिहृता ।
अपिशब्दो विशेषणान्तरसमुच्चयार्थः ।
तद्विवरणमस्येत्यादि ।
शास्त्रप्रभवं इत्यादिभिर्बहुभिः प्रकारैर्यद्गुरुत्वोपपादनं तेन गुरूंश्चेति बहुवचनान्तं पदं विवृतम् ।
गुरुदेवतयोः भेदे ऽपिपदेनारुचिः सूचिता ।
तद्विवृतिस्तमेवेति ।
सम्प्रशब्दाभ्यां नत्वेति विशेषितम् ।
निरुपपदसूत्रग्रहणेन यद्ब्रह्मसूत्राणां सर्वोत्तमप्रामाण्यं सूचितं तदुपपादनं परमाख्येति ।
यद्द्वापर इत्यदिभाष्यं तदसङ्गतम् ।
सूत्रार्थवचनं प्रतिज्ञाय तदुत्पत्तिक्रमकथनस्योपयोगादर्शनात् ।
मैवम् ।
यस्मादाप्तिमूलत्वादियुक्तयापि ब्रह्मसूत्राणां सर्वोत्तमं प्रामाण्यं समर्थयितुं एतदिति दर्शयति गुरुर्गुरूणामित्यादिनेति ।
१,१७९
$मङ्गलवादः$
तथापि नेदं शास्त्रं व्याकर्तव्यं मङ्गलाचरणरहितत्वात् ।
मङ्गलाचरणपुरःसराणि खलु कर्माणि निरन्तरायं परिसमाप्यन्ते प्रचीयन्ते च ।
नचाकृतमङ्गलाचरणानामपि कार्यपरिसमाप्त्यादिदर्शनात्कृतमङ्गलाचरणानामपि तदभावोपलम्भान्न तद्धेतुत्वमस्येति साम्प्रतम् ।
तथा सति कारीर्यादेरपि वृष्टयादिहेतुत्वाभावापत्तेः ।
स्यादेतदेवम् ।
यदि कारीर्यादेववृष्टयादिहेतुत्वं निष्प्रमाणकं स्यान्न चैवम् ।
श्रुतिनिश्चिते तु साध्यसाधनभावे तदभावे ऽपि भावो ऽनेककारणकत्वस्य कल्पको भवति ।
दर्शपूर्णमासाभ्यामिव त्रैवर्णिकपरिचर्यादिनापिर् स्वर्गप्राप्तेः ।
भावे ऽप्यभावस्तु कर्तृकरणादिवैगुण्यनिमित्तो भवति ।
नहि सामग्रीवैकल्येन साध्यं व्यभिचरन् हेतुरहेतुः स्यात् ।
कर्त्रादिसाद्गुण्ये वा प्रबलप्रतिबन्धकसद्भावः कल्प्यते ।
नहि प्रतिबद्धं कार्यं अजनयत् कारणमकारणं भवति ।
वह्नेरपि स्फोटं प्रत्यकारणत्वप्रसङ्गात् ।
नचैवं सामग्रीवैगुण्यशङ्कयाः सर्वत्र सौलभ्येन सकलप्रवृत्तिविलयापातादिति ।
सममेतत्सकलं प्रकृते ऽपि ।
१,१८३
मङ्गलाचरणस्याविघ्नपरिसमाप्त्यादिहेतुत्वस्यापि अविगीतशिष्याचारानुमितश्रुतिसिद्धत्वात् ।
न तावत्प्रेक्षावत्प्रवृत्तिर्विफला सम्भाविनी ।
नापि प्रयोजनान्तरार्था ।
दृष्टपरित्यागादृष्टकल्पनाप्रसङ्गात् ।
कार्यमारिप्सुः खलु तत्समाप्त्यादिकं कामयत इत्यनुभवसिद्धम् ।
नच फलान्तरानुसन्धाने प्रमाणमस्ति ।
नचैतेषामिमं साध्यसाधनभावप्रतीतिभ्रान्तिः ।
तथा सत्यविगानानुपपत्तेः ।
नच प्रत्यक्षादेरत्रावकाश इति श्रुतिरेव शिष्याचारमूलं कल्प्यते ।
नच विघ्नहेतुसद्भावानिश्चयादिदमननुष्ठेयम् ।
तत्सन्देहे ऽप्यनुष्ठानस्य’पाक्षिको ऽपि दोषः परिहतर्व्यः’ इति न्यायप्राप्तत्वात् ।
नच भगवतः सूत्रकारस्य विघ्ना एव न सन्तीति तत्परिहारार्थाननुष्ठानं न दोषायेति युक्तम् ।
शिष्यार्थमपि कर्तव्यत्वात् ।
यतो मङ्गलाचरणपुरःसराणि शास्त्राणि वीर्यवन्ति भवन्त्यायुष्मत्पुरुषकाणि च ।
अन्यथा भारतादावपि न कुर्यात् ।
एतेन सूत्रकृता कृतमेव मङ्गलाचरणम् ।
किं नाम ग्रन्थादौ न निवेशितमित्यपि निरस्तम् ।
ग्रन्थे निवेशनस्यापि शिष्याचारप्राप्तत्वात् ।
शिष्यार्थत्वाच्च ।
अत एवान्यत्किमपि विघ्नविघाताद्यर्थमनुष्ठितं सूत्रकारेणेति निरस्तम् ।
अत्रोच्यते ।
कर्तव्यमेव कार्यारम्भे मङ्गलाचरणम् ।
कृतं च भगवता सूत्रकारेण ।
निवेशितं च ग्रन्थादौ ।
यदयमोङ्काराथशब्दावादितः कृतवान् ।
तयोर्माङ्गलिकत्वात् ।
यथोक्तम् ।
‘ओङ्कारश्चाथशब्दश्च द्वावेतौ ब्रह्मणः पुरा ।
कण्ठं भित्वा विनिर्यातौ तस्मान्माङ्गलिकावुभौ’ इति ।
१,१९२
$अथशब्दो मङ्गलार्थः$
तत्र ताराथमूलत्वं सर्वशशस्त्रस्य चेष्यते ।
सर्वत्रानुगतत्वेन पृथगोङ्क्रियते ऽखिलैः (अनुव्याख्यानम्)१,१.८
न्यायसुधा-
नन्वेतदनुपपन्नम् ।
तथा सत्येतयोर्विघ्नविघातादिहेतुत्वेन समस्तशास्त्राङ्गतया प्रथमसूत्रावयवत्वाभावप्रसङ्गात् ।
तथात्वे च प्रथमसूत्रं न्यूनमापद्येत ।
अधिकार्यादिप्रतिपादकस्य अन्यस्याभावात् ।
तत्प्रतिपादनस्य चावश्यकत्वात् ।
अन्यथाधिकारिविषयवैधुर्येण शास्त्रस्य अनारम्भणीयत्वशङ्का न निराकृता स्यादित्यनर्थकं सूत्रमापद्येतेत्यत आह तत्रेति
तरन्ति अनेन अनिष्यनिचयमित्योङ्कारस्तारः ।
तारश्चाथश्च तयोर्मूलत्वं क्रमेणादित्वम् ।
आदौ प्रयुक्तौ अनेन अनिष्यनिचयमित्योङ्कारस्तारः ।
तारश्चाथश्च तयोर्मूलत्वं क्रमेणोदित्वम् ।
आदौ प्रयुक्तौ ओङ्काराथशब्दाविति यावत् ।
तत्र प्रथमसूत्रे ऽवयवतया सर्वशास्त्रस्य चाङ्गतया चेष्यते ऽङ्गीक्रियते सूत्रकृतेति शेषः ।
एतदुक्तं भवति ।
प्रथमसूत्रे ऽधिकार्यादिप्रतिपादनायोपात्तावोङ्काराथशब्दौ शङ्खवीणावेणुध्वनिवत् श्रुतितो
माङ्गलिकत्वात्कृत्स्नशास्त्रस्यानन्तरायपरिसमाप्त्यादिकं कुर्वते ।
अन्यार्थानीयमानपूर्णकलशदर्शनवदिति ।
ताराथावित्येतावता पूर्णे यन्मूलत्वमित्याह तत्सूत्रकाराङ्गीकारलिङ्गसूचनम् ।
यत्पर्यायान्तरं विहायानयोरेव क्रमान्तरं विहायादावेवोपादानं तेन जानीमो ज्ञापकतयाऽदिसूत्रस्य कारकतया समस्तशास्त्रस्य चोपयोगित्वेनैतौ
सूत्रकृता विवक्षिताविति ।
नचैतद्यादृच्छिकम् ।
सकलसूत्रकारैरेवमेव प्रयुक्तत्वात् ।
नचानेकेषां प्रेक्षावतां यदृच्छयैकविधा प्रवृत्तिरुपलब्धेति ।
अनेनाथशब्दो मङ्गलार्थ इत्यादिभाष्यं विवृतं भवति ।
१,२००
$भामतीविवरणमतविमर्शः$
अत्र यत्परेषां दूषणं’मङ्गलस्य वाक्यार्थे समन्वयाभावात्’ इति ।
‘तथा हि ।
पदार्थ एव हि वाक्यार्थे समन्वीयते ।
स च वाच्यो वा लक्ष्यो वा ।
न चेह मङ्गलमथशब्दस्य वाच्यं लक्ष्यं वा ।
किन्तु मृदङ्गध्वनिवदथशब्दस्य कार्यम् ।
नच कार्यज्ञाप्ययोर्वाक्यार्थे समन्वयः शाब्दे व्यवहारे दृष्टः’ ।
‘अस्तु वा मङ्गलस्य पदार्थत्वम् ।
तथापि न वाक्यार्थे समन्वयः ।
तथाहि ।
न तावन्मङ्गलं ब्रह्मजिज्ञासायाः कर्तृकर्मकरणभावेन वाक्यार्थे ऽन्वेति ।
कर्त्राद्यन्यतमभावे प्रमाणाभावात् ।
कारकान्तराणां विद्यमानत्वाच्च ।
नापि सामानाधिकरण्येन अन्वयः ।
जिज्ञासा मङ्गलमिति प्रशंसापरतया अर्थवादत्वप्रसङ्गात्’ इति ।
तदेतेनापास्तं भवति ।
अस्माभिरप्यानन्तर्याभिधेयो ऽथशब्दः श्रुत्या मङ्गलप्रयोजन इत्यङ्गीकारात् ।
नन्वत्र सूत्रादावोङ्कार एव न विद्यते ।
तत्कथमुच्यते ताराथमूलत्वति ।
यद्यपि शिष्यैरध्येतृभिः
उच्चार्यमाणो ऽध्यक्षसिद्धस्तथापि नायं सूत्रावयवः ।
लक्षणान्तराभावे सत्यसंहिततया सम्पाठे अखिलैः पठ्यमानत्वात् ।
वेदाध्ययनोपक्रमे अध्येतृभिरुच्चार्यमाणोङ्कारवत् ।
अन्यथाथशब्दवत्संहिततया निर्दिश्येत ।
नच दृष्टान्तः साध्यविकलः ।
अध्ययनोपक्रमविरतिवैचितृयेण तत्तत्स्थानपरित्यागेनान्यान्यस्थाने ऽखिलैः पठ्यमानस्य वेदवाक्यानवयवतायाः सुप्रसिद्धत्वात् ।
अन्यथाध्ययनोपक्रमविरतिवैचितृये ऽपि ओं इति ब्रह्मेत्यादिवन्नियतस्थानतया पाठप्रसङ्गात् ।
पक्षसपक्षयोरादावुच्चारणं तु प्राङ्मुखत्वादिवदध्ययननियमान्तर्गतमध्येतृभिरनुष्ठीयत इत्यस्तु ।
एवञ्चायमोङ्कारः सूत्रकृता मङ्गलार्थतया सूत्रादावुपनिबद्ध इत्यनुपपन्नमित्यत आह सर्वत्र इति
अखिलैः सूत्रपाठकैः यत्पृथगसंहिततयोङ्क्रियते तत्सर्वत्र सूत्रेष्वनुगतत्वेनाभिलषितेन निमित्तेनोपपद्यते ।
१,२०८
$ओङ्कारः सूत्रावयवः$
एतदुक्तं भवति ।
सर्वाणि हि सूत्राणि प्रत्येकमनेकवेदवाक्यविचारपरत्वादवान्तरब्रह्मविद्याः ।
‘स्रवत्यनोङ्कृतं ब्रह्म परस्ताच्च विशीर्यते’ इति श्रौतार्थवादसामर्थ्यात्सर्वास्वपि ब्रह्मविद्यास्वाद्यन्तयोरोङ्कारस्योहः कर्तव्य इति गम्यते ।
न चोह्यमानं वाक्यात्पृथगिति शक्यते वक्तुम् ।
मन्त्रेष्वप्यूह्यमानस्यामन्त्रावयवत्वप्रसङ्गात् ।
ततश्च पतिसूत्रमाद्यन्तयोरुच्चारणे गौरवं स्यादित्यादावेवोङ्कारो ऽधिकृतत्वेनोच्चार्यते ।
तस्य संहिततया निर्देशे प्रथमसूत्रावयव एवायं विज्ञायेत ।
तन्मा विज्ञायीति शिष्यैः पृथगोङ्क्रियते ।
नच व्याख्यानतो ऽप्यधिकारो ज्ञायत इति व्यर्थं पृथक्करणमिति वाच्यम् ।
अन्तरङ्गज्ञापकाभाव एव बहिरङ्गस्यान्वेषणीयत्वादिति ।
तदनेनासंहिततया निर्देशे निमित्तान्तरं वदता हेतोरन्यथासिद्धिरुक्ता भवति ।
१,२१८
ननु च श्रौतार्थवादबलेनाद्यन्तयोरोङ्कारस्योहो वा प्राङ्मुखत्वादिवद्बहिर्भूतस्यैव उच्चारणं वा विधेयत्वेन कल्प्यमिति सन्दिह्यते ।
सत्यम् ।
सन्देहे ऽपि तया प्रणाड्यानुमानस्य सन्दिग्धान्यथासिद्धयाप्याभासत्वमेव ।
वक्ष्यमाणन्यायेनोङ्कारार्थस्य प्रथमसूत्रवाक्यार्थे समन्वयेन निश्चयोपपत्तौ बाधितविषयं चानुमानमिति ।
अथवा दृष्टान्तदूषणमनेन क्रियते ।
तथाहि ।
अखिलैर्वेदपाठकैः पृथग्रूपान्तरेण स्थानव्यत्यासेन यदोङ्क्रियते तदुक्तन्यायेनादावुच्चारणेनैव लब्धेन सर्वत्रानुगतत्वेन कारणेनैवोपपद्यत
इत्यनेन दृष्टान्ते साधकस्य हेतोरन्यथासिद्धिरुक्ता ।
तथाच दृष्टान्तस्य साध्यविकलतेति ।
एवमनुमाने निरस्ते निरपवादेनादावुच्चारणेनोङ्कारस्य प्रथमसूत्रावयवतासिद्धावुक्तमुपपन्नम् ।
तदेवं सिद्धे शास्त्रव्याख्येयत्वे प्रेक्षावत्प्रवृत्तिविषयस्यैव आरम्भणीयत्वात्प्रयोजनाभिधेयसम्बन्धवत्येव च प्रेक्षावतां प्रवृत्तेरारम्भणीयतासिद्धये
प्रेक्षावतः प्रवर्तयितुं प्रयोजनाद्यभिसम्बन्धं प्रतिपादयतः प्रथमसूत्रस्य व्याख्यामोतत्ववाचीत्यादिना आरभते ।
१,२२५
$प्रयोजनाद्यभिधानं सार्थकम्$
ननु ब्रह्मज्ञानस्य मोक्षहेतुता यदि शास्त्रप्रवृत्तेः प्रागेव प्रमाणान्तरसिद्धा व्यर्थं तदा तदभिधानं शास्त्रे ।
प्रमाणान्तरसिद्धे क्वचिदुपदेशानपेक्षणात् ।
अथेहैव तन्निश्चयस्तदा प्रवृत्तौ प्रयोजनादिनिश्चयो निश्चिते च प्रयोजनादौ प्रवृत्तिरित्यन्योन्याश्रयत्वम् ।
अथ प्रथमसूत्रात्तन्निश्चयः ।
तत्रैव
कथं प्रवृत्तिः ।
तदर्थं च प्रयोजनान्तराभिधाने ऽनवस्था ।
एवमेव तत्र प्रवृत्तावुत्तरत्रापि तथात्वप्रसङ्गादनर्थकं सूत्रे प्रयोजनाद्यभिधानमिति ।
उच्यते ।
त्रिविधा हि पुंसां चित्तवृत्तिः ।
अनुभव इच्छा प्रयत्नश्च ।
तत्र साधनगोचराविच्छाप्रयत्नौ प्रवृत्तिरिति उच्येते ।
न त्वनुभवो नापि फलगोचरेच्छा ।
येन तयोरपि प्रयोजननिश्चयापेक्षा स्यात् ।
नहि उपेक्षणीयं निष्प्रयोजनमिति नानुभूयते ।
नापि सुखं प्रयोजनान्तररहितमिति नेष्यते ।
नच मुमुक्षुणा अनपेक्षिते स्वर्गे यागादिकं तत्साधनतया नानुभूयते ।
पुरुषाथर्साधने तु इच्छालक्षणा प्रयत्नलक्षणा वा प्रवृत्तिस्तथा न स्वरससिद्धा ।
नहि कश्चित्क्षुत्प्रहाणादिकमननुसन्धाय भोक्तुमिच्छति प्रयतते वा ।
तस्माद्यो यत्र प्रवर्तनीयः स तत्प्रयोजनादिकं दर्शयित्वैव इति सार्थकं सूत्रे प्रयोजनाद्यभिधानम् ।
१,२३६
$आदिमसूत्रस्य शास्त्रान्तर्भावः$
उक्तं च प्रयोजनादिकं श्रोता कतं श्रद्दधीताश्रद्दधानश्च कथं प्रवर्तेतेति पुनरवशिष्यते ।
तत्रैके समाधानमाहुः ।
अवगतसूत्रकाराप्तभावस्तावत्तद्वचनादेव श्रद्धास्यति ।
यद्यपि आप्तत्वावधारणे प्रयोजनाद्यनभिधाने ऽपि तत्सामान्यनिश्चयो भवत्येव प्रयोजनादिमदिदं शास्त्रं आप्तोक्तत्वादिति ।
तथापि नासौ प्रवृत्त्यङ्गम् ।
नहि प्रयोजनादिमदित्येव प्रवर्तते ।
किं नामास्मदभिमतप्रयोजनादिमदिति ।
सच प्रयोजनादिविशेषो वचनादेवावसीयत इति सार्थकं तदभिधानम् ।
आप्तत्वानिश्चये ऽप्यर्थसन्देहादेव कृष्टादाविव प्रवृत्त्युपपत्तिः ।
ननु सन्देहः प्रयोजनाद्यवचने ऽपि साधकबाधकप्रमाणाभावे सति सुलभ एव ।
विशेषस्मृतिश्च
तदर्थित्वविशेषाद्भविष्यति ।
मैवम् ।
यो हि यद्वचनात्प्रवर्तते स तद्वचनादेव विशेषस्मृतिमपेक्षते ।
नतु स्वातन्त्र्येण ।
नहि रोगार्तो ममेदं रोगनिवृत्तिसाधनं न वेति यत्र तत्रोच्छृङ्खलः स्वयं उत्प्रेक्ष्य प्रवर्तते ।
किं नामानवधृताप्तभावस्यापि वैद्यस्यैव वचनात् ।
अन्यथा स्वयं प्रयोजनाभिधानमनधिगच्छन्ननर्थमप्याशङ्केत ।
किं निष्प्रयोजनमिदं काकदन्तपरीक्षाग्रन्थवदुताशक्यसाधनप्रयोजनं मृतिहरहिममहीधरोत्तरसानुसिद्धसञ्जीवनीकथनवत् ।
उत मदनभिमतप्रयोजनमार्यावर्तवासिनं प्रति दाक्षिणात्यस्य मातुलकन्यापरिणयनप्रकारोपदेशवत् ।
अथवाभिमतस्यापि प्रयोजनस्य सत्यपि लघीयस्युपायान्तरे गरीयानयमुपायः ।
पिपासुं प्रति गीर्वाणतरङ्गिणीसमीपकूपखननोपदेशवदित्यादि ।
एतासु चानर्थसम्भावनासु न प्रवर्तेत ।
नच प्रयोजनाद्यभिधाने ऽप्येतासामवकाशः ।
लोकव्यवहारोच्छेदप्रसङ्गात् ।
नहि कश्चिद्वैद्यवचनादावेवमाशङ्कय निवर्तते ।
तस्मादुपपन्नमुभयथापि प्रयोजनाद्यभिधानमिति ।
तदेतदनुपपन्नम् ।
तथा हि ।
यदि तावदाप्तवाक्यतया सूत्रमिदं प्रयोजनादेर्निश्चायकं स्यात्तदाऽगमतया न्यायसूत्रत्वहानिः ।
किञ्चाप्तत्वं सूत्रकृतो येन वेदादिना प्रमाणेनावगन्तव्यं तेनैव प्रयोजनाद्यभिसम्बन्धो ऽपि शास्त्रस्यावगम्यत इति व्यर्थं तदभिधानमापद्येत ।
आप्तत्वानिश्चये ऽप्यर्थसन्देहात् प्रवृत्तिरिति चातिस्थवीयः ।
नहि कश्चित्प्रयोजनादिसन्देहे ऽतिमहायाससाध्ये प्रवर्तते प्रागुक्तानर्थपरम्पराश्च कथं न शङ्केत ।
तस्मान्नेदं प्रयोजनाद्युपदेशमात्रं किन्तु श्रौतस्य प्रयोजनादेः न्येयेनोपपादनार्थमित्येव परिहारः ।
आप्तत्वं तु न्यायस्योपोद्बलकमात्रमिति भाष्यकारीयं तद्व्युत्पादनमपि नानर्थकम् ।
अत एवास्य सूत्रस्य न शास्त्रबहिर्भावः ।
अध्ययनविध्यादिवदस्याप्यत एवारम्भणीयत्वसिद्धेर्नानवस्थादिदोषो ऽपीति ।
१,२४४
$कः पुनर् अस्य सूत्रस्य प्रसङ्गः$
कः पुनरस्य सूत्रस्य प्रसङ्गः ।
उच्यते ।
प्रारिप्सिततया हि बुद्धिसन्निहितं शास्त्रं सूत्रकारस्य ।
तत्र संशयः किमिदमारम्भणीयं न वेति ।
उपलभ्यन्ते खलूभयविधान्यपि वाक्यानि ।
वाक्यं चेदम् ।
नच विशेषो दृश्यते ।
येनान्यतरपक्षनिश्चयः स्यात् ।
ननु कस्यायं संशयः ।
न तावत्सूत्रकारस्य ।
अवगतविशेषत्वात् ।
अन्यथा निर्णायकसूत्रप्रणयनानुपपत्तेः ।
नापि परस्य ।
परेणाद्यापि शास्त्रस्यानुपलब्धत्वात् ।
अनुपलब्धे च समानधर्मदर्शनाद्ययोगेन संशयोत्पादानुपपत्तेः ।
मैवम् ।
यदीदं शास्त्रं परेणोपलभ्येत तदोक्तसन्देहकारणोपपत्तौ प्रयोजनार्थित्वेन विशेषस्मृतिमतैवं सन्दिह्येतेति सूत्रकृत एव
परकीयसम्भावितसंशयाहरणोपपत्तेः ।
१,२४८
$जिज्ञासायाः कर्तव्यत्वचिन्तनम्$
नन्विदं युक्तयनुसन्धानात्मकविचारमीमांसामननापरनामकजिज्ञासाङ्गभूतन्यायनिबन्धनं जिज्ञासायाः कतर्व्यतायामारम्भणीयं भविष्यति ।
नहि विचारः कर्तव्यः तद्द्वारभूतन्यायनिबन्धनं च नारम्भणीयमिति सम्भवति ।
निःसाधनस्य विचारस्यैवानुत्थानात् ।
अन्यथा तु नेति जिज्ञासैव विचारणीया ।
सत्यम् ।
एतच्छास्त्रव्युत्पादनीयन्यायकरणिकायां जिज्ञासायां उभयविधव्यापारदर्शनाद्विशेषादर्शनाच्च संशयः किं कर्तव्या न वेति ।
ननु च तद्विजिज्ञासस्व इति जिज्ञासायाः श्रुतिविहितत्वात् कथं विशेषादर्शनम् ।
मैवम् ।
विना विचारेण श्रुत्यर्थस्य आद्याप्यनिर्णीतत्वेन संशयास्पदत्वात् ।
तत्र तावज्जिज्ञासा न कर्तव्येति प्राप्तम् ।
कुतः ।
विषयप्रयोजनसम्बन्धाधिकारिलक्षणानुबन्धविधुरत्वात् ।
कर्तव्यता खलु विषयादिमत्तया व्याप्ता ।
कृष्टादिकं हि सति विषयभूते भूम्यादौ प्रयोजने च सस्याधिगमादावधिकारिणि च कृषीवलादौ कर्तव्यमुपलब्धम् ।
सा च व्यापिका व्यावर्तमानेतो व्याप्यामपि कर्तव्यतां व्यावर्तयतीति प्रतिबन्धसिद्धिः ।
विषयशून्यत्वाद्धि समनस्केन्द्रियसन्निकृष्टस्य स्फीतालोकमध्यवर्तिनो घटस्य न जिज्ञासा क्रियते ।
प्रयोजनविकलत्वात्खलु सन्दिग्धमपि वायसदशनादिकं न जिज्ञास्यते ।
सम्बन्धवैधुर्याद्धि सप्रयोजनं सविषयमपि शब्दज्ञानमर्थयमानो न वैद्यके प्रवर्तते ।
अधिकारविरहाच्च न मुमुक्षोर्वात्स्यायने प्रवृत्तिः ।
१,२५६
$न अनात्मविषयेयं जिज्ञासा$
विषयादिवैधुर्यमेवात्र कथमिति चेदित्थम् ।
न तावदनात्मविषयेयं जिज्ञासा ।
तस्य तृणादिलक्षणस्य प्रत्यक्षादिनैव निश्चितत्वात् ।
सन्दिग्धश्चार्थो न्यायविषयो भवति ।
यथोक्तम् ।
‘अविज्ञाततत्त्वे ऽर्थे कारणोपपत्तितस्तत्त्वज्ञानार्थमूहस्तर्कः’ इति ।
निष्पादितक्रिये च कर्मण्यविशेषाधायिनः साधनस्य साधनन्यायातिपातः ।
नाप्यसौ जिज्ञासितः कस्मैचन प्रयोजनाय कल्पते ।
एवंविधे चाधिकारी दूरोत्सारितः ।
यतो ऽर्थी समर्थो विद्वानधिक्रियते ।
नचैतादृशे ऽर्थे ऽर्थिता सम्भवति ।
धर्मादिलक्षणस्त्वनात्मा शास्त्रान्तरादिनैव निर्णीतः ।
आत्मा च
शरीरेन्द्रियादिसङ्घातव्यतिरिक्तो नास्त्येव ।
शरीरादिकं च यथायथं प्रत्यक्षादिनैव निश्चितम् ।
नन्वात्मा शरीरादिव्यतिरिक्तो ऽहमित्यसन्दिग्धाविपर्यस्तसाक्षात्प्रतीत्यैव निश्चीयत इति चेत् ।
एवं तर्हि तत एव न जिज्ञास्यः ।
अत एवानादितस्तदीयतत्त्वज्ञाने विद्यमाने ऽपि इष्यानिष्यप्राप्तिपरिहारयोरदर्शनान्नासौ जिज्ञासितः कस्यचित्प्रयोजनस्येष्ये ।
१,२७२
$न स्वात्मपरात्मपरमात्मविषयेयं जिज्ञासा$
नन्वयं कर्ता भोक्ता दोषसंसर्गी चाहम्प्रत्यये प्रकाशते ।
तद्विपरीतस्तु श्रुतिप्रतिपादितः प्रतिपत्तव्यो ऽतो जिज्ञासेति चेत् ।
एवं तर्हि जरद्गवादिवाक्यवत्पावकशैत्यानुमानवच्च प्रतीतिविरोधेन श्रुतिजिज्ञासयोराभासतापातः ।
अत एव न परात्मा जिज्ञास्यः ।
तस्य प्राणादिलिङ्गैरवगतत्वात् ।
सैव जिज्ञासेति चेन्न ।
तस्या लौकिकप्रवेदनीयत्वेन शास्त्राव्युत्पादनीयत्वात् ।
न खलु बालकः स्तनपानेष्यसाधनत्वानुमाने शास्त्रव्युत्पादनमपेक्षते ।
यत्क्वचिच्छास्त्रे ऽपि लौकिकप्रवेदनीयार्थव्युत्पादनमनुवादो ऽसौ न पुनः स एव प्रधानव्यापारः ।
ईश्वरविषया जिज्ञासा भविष्यतीति चेन्न ।
तस्यैवाभावात् ।
न चैवमीश्वरादिपदानामानर्थक्येनापदत्वप्रसङ्ग इति वाच्यम् ।
तेषां कथञ्चिज्जीवविषयतोपपत्तेः ।
सो ऽपि हि स्वशरीरेन्द्रियादीनामीष्ये ।
प्रतीतार्थत्वोपपत्तावप्रतीतार्थत्वकल्पनायां गौरवप्रसङ्गात् ।
जीवस्य चाहमिति स्वप्रकाशतया स्वप्रकाशज्ञानाश्रयतया मानसप्रत्यक्षवेद्यतया वा सिद्धत्वेन न जिज्ञासाविषयत्वमित्युक्तम् ।
१,२७६
$न चेश्वरविषया जिज्ञासा$
किञ्चेश्वरः प्रमितो न वा ।
नोभयथापि जिज्ञासा सम्भवति ।
नेति पक्षे अनुग्राह्यप्रमाणाभावेन जिज्ञासायास्तर्कत्वव्याघातात् ।
कारणोपपत्तित इति हि उक्तम् ।
प्रमाकरणस्य प्रमाणस्योपपत्तिरनुग्रहस्तत्करणेनेत्यर्थः ।
नच बुद्धावनारूढं शक्यं जिज्ञासितुम् ।
प्रमितत्वे तु निश्चितत्वादेव ।
नचैवं सकलतर्कानुपपत्तिप्रसङ्गेन व्याघातः ।
सामान्यतः प्रतीतौ विशेषे तदवकाशात् ।
न चात्र तथात्वं पश्यामः ।
किञ्चेश्वरे प्रमाणं भवन्न तावत्प्रत्यक्षम् ।
तस्यापाततस्तदभावावेदकत्वात् ।
नाप्यनुमानम् ।
तत्प्रतिबद्धलिङ्गाभावात् ।
आगमस्तु कार्यनिष्ठो न निष्पन्नस्वरूपमीश्वरं शक्नोत्यवगमयितुम् ।
न चान्यत्प्रमाणमस्ति यन्मीमांसया अनुगृह्येत ।
किञ्चागमो ऽपि भवन्वेद एव वक्तव्यः ।
अन्यस्यानाशङ्कनीयत्वात्पारतन्त्र्याच्च ।
वेदस्य पौरुषेयत्वापौरुषेयत्वयोः कारणाभावेन प्रामाण्यमेव दुर्लभम् ।
स्वतः प्रामाण्याङ्गीकारे तु वेदविरुद्धानामपि शाक्यादिवचसां तथात्वापातेन पुनर्वेदाप्रमाण्यतादवस्थ्यम् ।
किञ्च शब्दस्यैव प्रामाण्यं दुर्घटमर्थसंस्पर्शशून्यत्वात् ।
वाक्यार्थप्रत्यायनप्रकारानिरूपणाच्च ।
कुतस्तद्विशेषस्य वेदस्य ।
१,२८२
$प्रयोजनाभावान्नजिज्ञासाकर्तव्या$
प्रयोजनं चेश्वरजिज्ञासया अभ्युदयो वा स्यात् मोक्षो वा ।
नाद्यः ।
तस्य धर्मादिलघूपायसाध्यस्य शास्त्रान्तरप्रयोजनत्वात् ।
न द्वितीयः ।
तस्याप्यपाम सोममित्याद्यागमेन लघूपायान्तरसाध्यतावगमात् ।
नचैकस्यैव कर्मणो ऽभ्युदयनिःश्रेयसहेतुत्वं विरुद्धम् ।
फलाभिसन्ध्यादिभावाभावाभ्यां विशेषोपपत्तेः ।
जिज्ञासा च मोक्षसाधनं भवन्ती किं साक्षादुत ज्ञानद्वारेण ।
नाद्यः ।
दृष्टादृष्टत्यागकल्पनाप्रसङ्गात् ।
न द्वितीयः ।
कर्मणा ज्ञानमातनोतीत्यागमेन ज्ञानस्य लघूपायान्तरसाध्यताध्यवसायात् ।
ज्ञानस्यापि साक्षान्मोक्षहेतुत्वाभ्युपगमे ऽदृष्टकल्पनैव ।
न चेश्वरप्रसादद्वारा ।
ज्ञानस्य प्रसादहेतुतायाः क्वाप्यदृष्टत्वात् ।
‘तत्कर्म हरितोषं यत्’ इत्यादिना तत्प्रसादस्य कर्माद्यल्पोपायसाध्यताप्रतीतेश्च ।
किञ्चायमात्माविद्याकल्पितो बन्धस्तद्विद्ययैव निवृत्तिमर्हति ।
शुक्तिकाविद्याकल्पितं रजतमिव शुक्तिविद्यया ।
तत्कुतो बन्धनिवृत्तिलक्षणे मोक्षे परमेश्वरप्रसादस्योपयोगः ।
कुतस्तरां तज्ज्ञानस्य कुतस्तमां च तज्जिज्ञासायाः ।
अथ परामार्थ एवायं बन्धस्तर्हि न ज्ञानेन निवर्तेत ।
नच सत्यस्यानादेरात्मस्वरूपमात्रानुबन्धिनो बन्धस्यात्मस्वरूपस्येव केनापि निवृत्तिर्युक्ता ।
अपि च मुक्तस्य शरीरेन्द्रियविषयादिसंसर्गे मुक्तत्वव्याघातः ।
दुःखादिप्रसङ्गश्च ।
कारणसामग्रीसद्भावात् ।
तथाचाभ्युदयतुल्यतयोक्तदोषः ।
शरीराद्यभावे च तत्साध्यसुखाभावेन कस्यापि तत्रार्थितानुपपत्तेरनधिकारिकं शास्त्रमापद्येत ।
को हि स्वस्थात्मा सहसा सुखतत्साधने हातुमुत्सहते ।
तदेवं विषयाद्यनुबन्धविधुरत्वान्न जिज्ञासा कर्तव्या ।
तद्विधयो ऽपि न प्रमाणम् ।
शास्त्रं चेदमनारम्भणीयमिति प्राप्ते सूत्रयामास भगवानाचार्यः ओं अथातो ब्रह्मजिज्ञासेति
१,२८८
ओं ओं अथातो ब्रह्मजिज्ञासा ओं
अथातो ब्रह्मजिज्ञासा । ब्ब्स्_१,१.१ ।
ओतत्ववाची ह्योङ्कारो वक्तयसौ तद्गुणोतताम् (अनुव्याख्यानम्)१,१.९अब्
न्यायसुधा-
$ईश्वर एव शास्त्रस्य विषयः$
यत्तावदुक्तं विषयाभावान्न जिज्ञासा कर्तव्येति तदनुपपन्नम् ।
अनात्मजीवात्मनोर्विषयत्वानुपपत्तावपीश्वरस्य तदुपपत्तेः ।
अत्र यदुक्तं जीवव्यतिरिक्त ईश्वर एव नास्तीति तत्परिहाराय सूत्रकृतोङ्कारब्रह्मशब्दौ प्रयुक्तौ ।
तेनायमर्थः सूचितः ।
‘ओं इत्येतदक्षरमुद्गीथमुपासीतऽ,’तद्विजिज्ञासस्व तद्ब्रह्म’ इत्यादिश्रुतावोङ्कारब्रह्मशब्दौ जिज्ञास्ये वस्तुनि श्रूयेते ।
ताभ्यां च तत्सकलजीवजडात्मकात्प्रपञ्चाद्विलक्षणमवगम्यत इति ।
तदयुक्तमिवाभाति ।
ओं आदिपदस्य अलौकिकार्थे ऽनवगतसङ्गतित्वात् ।
नहि पदं चक्षुरादिवदप्रतीत एवार्थे प्रतीतिं जनयति येनापूर्वमर्थं पदप्रयोगादेव प्रतीमः ।
स्वर्गापूर्वदेवताद्यर्थो ऽपि न पदप्रयोगादेव सिद्धः ।
किन्तु सन्निहितानेकवाक्यार्थसामर्थ्याल्लभ्यत इत्यत आह भाष्यकारः ओतत्ववाचीति
१,२९१
$गुणपूर्णतैव ओङ्कारस्यार्थः$
हिशब्दो हेत्वर्थे ।
ओङ्कारस्तावदोतत्वस्य गतत्वस्य प्रविष्टत्वस्य वा वाचकः ।
गत्याद्यर्थस्यावतेः खलु रूपमेतत्,’अवतेष्यिलोपश्च’ इति सूत्रात् ।
‘ओं इति पुनः कस्य वक्ता’ इति प्रश्नपूर्वकं’अवतिर्नामायं धातुर्गतिकर्मा प्रवेशनकर्मा च’ इत्यन्यत्राप्येवमेव निरुक्तत्वात् ।
तथाच यद्यसौ कर्माणि तदा कर्तुर्यदि वा कर्तरि तदा कर्मणो ऽपेक्षायामुपपदाद्यभावे ऽपि योग्यतया श्रुत्यन्तरादिबलाद्वासावोङ्कारस्तस्य
जिज्ञासस्य गुणैरानन्दाद्यनन्तकल्याणगुणैर्गुणान्वोततां वक्ति ।
पक्षद्वये ऽप्यनन्तानवद्यकल्याणगुणपूर्णतैवोङ्कारस्यार्थः ।
ब्रह्मशब्दस्यापि स एवार्थः ।
बृहतेर्वृद्धयर्थस्य खल्वेदद्रूपम् ।
तथा च पूर्ववद्योग्यतया ‘अथ कस्मादुच्यते ब्रह्मेति बृहन्तो ह्यस्मिन् गुणाः’ इत्यादिश्रुत्यन्तरबलाद्वा गुणानां सम्बन्धः ।
१,२९९
$यौगिकशब्दानाम् अवयवसङ्गतिग्रहणापेक्षा आवश्यकी$
एतदुक्तं भवति ।
यौगिका हि शब्दा नावश्यमर्थप्रत्यायने सङ्गतिग्रहणमपेक्षन्ते ।
किं नाम निगमनिरुक्तव्याकरणबलेनावयवार्थावगमे सति तत्संसर्गसम्भावनायां प्रसिद्धमन्यथापूर्वमेवार्थमवगमयन्ति ।
वाक्यरूपत्वात्तेषाम् ।
यथाऽह’श्रोत्रियंश्छन्दो ऽधीतेऽ‘वाक्यार्थे पदप्रयोगः’ इति ।
नच वाक्यं सङ्गतिग्रहणापेक्षमर्थमबोधयति ।
अधिगतार्थत्वप्रसङ्गादशक्यत्वाच्च ।
१,३०५
$ओङ्कारब्रह्मशब्दयोः न अभेदो ऽर्थः$
तदेतावोङ्कारब्रह्मशब्दावपि यौगिको जिज्ञास्यमनन्तगुणपरिपूर्णं प्रतिपादयन्तौ जीवजडयोस्तदयोगात्तद्वयतिरिक्तमेव किञ्चिद्ग्रमयतः
तच्चाविदितत्वात्सम्भवति जिज्ञासाविषयः ।
नच तत्रापि गुणपूर्णता विरुद्धा ।
प्राक् प्रतीतेर्निराश्रयस्य विरोधिप्रत्ययस्यानुत्थानात् ।
प्रतीत्या
चैवमेव सिद्धत्वादिति ।
यत्पुनरकारवाच्येन तत्पदार्थेनोकारवाच्यस्य त्वम्पदार्थस्याभेदो मकारेणोच्यते ब्रह्मशब्देन च सकलस्त्वात्मकत्वलक्षणपूर्णताभिधीयत इति
व्याख्यानम् ।
तदप्रामाणिकं प्रमाणविरुद्धं च ।
यत्त्वाप्तेरादिमत्त्वाद्वेत्याद्योङ्कारस्य नित्यशुद्धबुद्धमुक्तस्वभावं सर्वज्ञं सर्वशक्तिसमन्वितमित्यादि ब्रह्मशब्दस्य व्याख्यानम्
तज्जीवादिव्यतिरिक्तवस्तुसाधनाविरोधीति स्फुटमेवेत्याशयवता न व्याख्यानान्तरं दूषितमनुमतं च ।
१,३०७
$गुणोततेतिरूपः साधुः$
ननु गुणोततामिति कथम् ।
वृद्धिरेचीति भवितव्यम् ।
मैवम् ।
ओमाङ्गोश्च इति चशब्देनान्यत्रापि पररूपत्वानुशासनात् ।
अथवा ऊयते रूपमेतत् ।
नन्वसौ तन्तुसन्ताने पठ्यते ।
अनेकार्थत्वाद्धातूनामित्यदोषः ।
कथं तर्ह्येतत्ववाचीति गुणः ।
तत्रावतिरूपाङ्गीकारात् ।
वैचितृयं तु धातुद्वयजत्वसूचनार्थम् ।
अथवाऽकारोपसर्गपूर्वको ऽसावित्यदोषः ।
१,३१९
स एव ब्रह्मशब्दार्थो नारायणपदोदितः (अनुव्याख्यानम्)१,१.९च्द्
न्यायसुधा-
$नारायणपदस्यापि गुणपूर्णतैवार्थः$
अस्तु वोङ्कारब्रह्मशब्दाभ्यां जीवजडातिरिक्तस्य जिज्ञास्यस्य सिद्धिः ।
तथापि ईश्वरस्य किमायातमित्यत आह नारायणेति
स एवेत्यनुवर्तते ।
नहि नाम्नि विप्रतिपत्तिरित्याशयः ।
अथवा सूत्रकारोक्तावोङ्कारब्रह्मशब्दावुपलक्षणमात्रम् ।
‘नारायणं महाज्ञेयम्’ इत्यादिश्रुतौ जिज्ञास्ये नारायणशब्दो ऽपि श्रूयते ।
नारायणपदोदितश्चार्थः स एव यो गुणपूर्णत्वाख्यः ।
अतो नारायणशब्देनापि जिज्ञास्यं जीवादिव्यतिरिक्तं सिद्धयतीत्यनेनोच्यते ।
एतदप्युपलक्षणम् ।
आत्मानन्तेश्वरादिशब्दा अपि ज्ञातव्याः ।
तेषामपि’आत्मानमेव लोकमुपासीत’ इत्यादौ जिज्ञास्ये श्रवणात् ।
गुणपूर्णत्वाभिधायित्वाच्च ।
न चालौकिकार्थकल्पने गौरवप्रसङ्गाद्वरं कथञ्चिदेषां शब्दानां जीवादिविषयाङ्गीकरणमिति वाच्यम् ।
यौगिकशब्दप्रयोगान्यथानुपपत्तेरुक्तत्वेन कल्पनाभावात् ।
अन्यथा वाक्यादप्यलौकिकाथर्प्रत्ययो न स्यात् ।
लौकिकाथ एव कथञ्चिदर्थानुगमस्य वक्तुं शक्यत्वात् ।
किञ्च क्वचिन्मुख्यार्थ एव शब्दो ऽनुपपत्त्या
क्वचिदमुख्यार्थो ऽनुगम्यते ।
न पुनरमुख्यार्थ एव ।
तथाच श्रौतं ब्रह्मादिशब्दं जीवादिविषयमङ्गीकुर्वाणेनापि निरवग्रहपूर्णतायुक्तं किञ्चिदभिधेयं मुख्यमङ्गीकरणीयमेव ।
ततश्चानेन किं कृतं स्यात् ।
जीव एवैते मुख्यार्थास्तदनुपलब्धिस्त्वविद्यावरणनिमित्तेति चेन्न ।
यतो ऽत्राचार्यः स्वयमेव प्रतिवक्ष्यतीति ।
१,३२२
स एव भर्गशब्दार्थो व्याहृतीनां च भूमतः ।
भावनाच्चैव सुत्वाच्च सो ऽयं पुरुष इत्यपि (अनुव्याख्यानम्)१,१.१०
न्यायसुधा-
$ईश्वरः वेदेन प्रमितः$
यदत्रोक्तमीश्वरः प्रमितो न वेति ।
तत्र प्रमित इत्युत्तरम् ।
तत्पक्षदोषश्च परिहरिष्यते ।
तथाच शास्त्रस्य विषयसम्बन्धः समाहिता भवति ।
यत्पुनरत्रोक्तं केन प्रमाणेनेति ।
तत्र वेदेनेति वदामः ।
वेदस्येश्वरविषयता कुत इत्यतो ऽप्योङ्कारः सूत्रकृता ब्रह्मणि प्रयुक्तः ।
तत्कथमस्यार्थस्योपपादकमित्याशङ्कयेदमत्राकूतं सूत्रकारस्येत्याह व्याहृतीनां चेति
स एवार्थ इति सम्बन्धः ।
ओङ्कारस्तावद्भगवत ईश्वरस्य वाचकः ।
‘ओमिति ब्रह्म’ इत्यादि श्रुतेः ।
अतः स एव व्याहृतीनां च भूरादीनामर्थ इति गम्यते’प्रणवार्था व्याहृतयः’ इत्याद्यागमेन तिसृणां व्याहृतीनां
वर्णत्रयात्मकोङ्कारव्याख्यानतयावगतत्वात् ।
व्याख्यानव्याख्येययोश्चैकविषयता सुप्रसिद्धेति ।
एवकारो व्याहृतीनामग्निवायुसूर्यदेवताकत्वप्रसिद्धया तत्प्रतिपादकत्वभ्रमं निवारयति ।
अग्न्यादीनामधिदेवतात्वेनापि प्रसिद्धयुपपत्तेः ।
अन्यथोक्तव्याख्यानव्याख्येयभावानुपपत्तिप्रसङ्गः ।
केन निमित्तेन व्याहृतीनां च स एवार्थ इत्यत आह भूमत इति
भूमा पूर्णत्वं ततो भूः ।
भवतेर्बहुत्वार्थस्य क्विपि रूपमेतत् ।
भावनाज्जगत उत्पादनाद्भुवः ।
भवतेरेवान्तर्णीतप्यर्थस्य कप्रत्यये रूपम् ।
सुत्वात्सुखत्वात्स्वः ।
स्वशब्दो हि सुखवाची प्रसिद्धः ।
चकारौ निमित्तान्तरसमुच्चये ।
यथोक्तम् ।
‘पूर्णो भूतिवरो ऽनन्तसुखो यद्वयाहृतीरितः’ इति ।
एतैरेव निमित्तैर्व्याहृतीनामर्थो न पुनर्लोकत्रयात्मकत्वेन ।
तस्य प्रमाणविरुद्धत्वात् ।
‘भूरिति वा अयं लोकः’ इत्यादिश्रुतिरपि लोकत्रयान्तर्गतभगवद्विषयैवेत्येवशब्दार्थः ।
१,३२७
$गायत्र्यर्थः नारायण एव$
किमतो न हि व्याहृतय एव वेद इति चेत् ।
व्याहृत्यर्थतया तावत्परमेश्वरस्य गायत्रीप्रतिपाद्यतावगम्यते ।
त्रिपदाया गायतृया व्याहृतित्रयव्याख्यानत्वस्यागमसिद्धत्वात् ।
ननु गायतृयां यो भर्गो नो ऽस्माकं धियः प्रचोदयात्प्रेरयेत्तस्य सवितुर्देवस्य तद्वरेण्यं रूपं धीमहि चिन्तयाम इति भर्गनामकः सविता प्रतिपाद्यो
दृश्यते ।
तत्कथं भगवत्परत्वमित्यत आह स एव भर्गशब्दार्थ इति
भरणगमनयोगादिति शेषः ।
उपलक्षणं चैतत् ।
जगत्प्रसवहेतुत्वात्सवितेत्यपि द्रष्टव्यम् ।
नतु सूर्यः ।
तथात्वे गायतृया व्याहृत्यर्थत्वानुपपत्तेः ।
‘ध्येयः सदा सवितृमण्डलमध्यवर्ती नारायणः’ इत्याद्यागमविरोधाच्चेत्येवार्थः ।
अस्तु गायतृयर्थो नारायणः किमेतावतापि ।
गायतृयर्थत्वात्पुरुषसूक्तार्थो ऽपि स एवेति सिद्धयति ।
वर्गत्रयात्मकस्य तस्य त्रिपादगायत्रीव्याख्यानत्वेन’तद्भेदः पौरुषं सूक्तम्’ इत्याद्यागमसिद्धत्वात् ।
ननु पुरुषसूक्ते पुरुषस्य पशोर्हिरण्यगर्भस्य वा प्रतिपादनात्कथं नारायणः प्रतिपाद्यत इत्यत आह सो ऽयमिति
पूर्णत्वादिनेति शेषः ।
तथाच श्रुतिः ।
‘स वा अयं पुरुषः सर्वासु पूर्षृपुरिषयो नैनेन किञ्चनानावृतं नैनेन किञ्चनासंवृतम्’ इति ।
अन्यथोक्तयुक्तिविरोधः ।
वक्ष्यते चैतत् ।
सिद्धे च पुरुषसूक्तार्थत्वे विष्णोः किं स्यात् ।
सर्ववेदार्थत्वमेव सिद्धम् ।
१,३३१
स एव सर्ववेदार्थो जिज्ञास्यो ऽयं विधीयते (अनुव्याख्यानम्)१,१.११अब्
न्यायसुधा-
$स सर्वा वाक् साक्षात् ओङ्कारव्याख्यानम्$
‘वेदाः पुरुषसूक्तगाः’ इत्यागमेन सर्ववेदानां पुरुषसूक्तार्थतयावगतत्वादित्याह स एवेति
एवशब्दः कार्यादिव्यावृत्त्यर्थः ।
‘सर्वे वेदा यत्पदमामनन्ति’ इत्यादिश्रुतिसिद्धमपि भगवतः सर्ववेदार्थत्वं न्यायेनोपपादयितुमयं प्रयत्नः सूत्रकारस्य ।
स्यादेतत् ।
ईश्वरः सवर्वेदार्थस्तद्वयाख्येयोङ्कारार्थत्वात् ।
यो यद्वयाख्येयार्थः स तदर्थो यथा सम्प्रतिपन्न इति वा सर्वो वेद ईश्वरपरस्तत्परोङ्कारव्याख्यानत्वादिति वा साक्षादेवानुमानं किं न व्याख्यायते ।
‘तद्यथा सर्वाणि पर्णानि शङ्कुना सन्तृण्णान्येवमोङ्कारेणैव सर्वा वाक् सन्तृण्णा’ इत्यादिश्रुत्या हेत्वर्थसमर्थनं भविष्यति किमनेन
परम्पराव्याख्यानेन ।
सत्यम् ।
तथापि वाक्यान्तरबलेन न सर्वा वागोङ्कारव्याख्यानं साक्षात्किं नामोक्तप्रकारेण परम्परयैवेति ज्ञापयितुमित्थं व्याख्यानमित्यदोषः ।
ननु चेश्वरे प्रमाणं पृष्टवत ओङ्कारब्रह्मशब्दावेव कस्मान्नोक्तौ किं वेदानुमानेन ।
नच पदस्याप्रमाणतेति वाच्यम् ।
यौगिकपदप्रामाण्यस्य उक्तत्वात् ।
मैवम् ।
मीमांसानुग्राह्यप्रमाणस्य पृष्टत्वात् ।
न चोङ्कारादिमात्रं तथा विवक्षितम् ।
किं नाम समस्तो वेद एवेति ।
किमतो यद्येवमीश्वरः सर्ववेदार्थ इति चेत् ।
विषयसम्बन्धसम्भवाज्जिज्ञासायाः कर्तव्यता शास्त्रस्य चारम्भणीयत्वं सिद्धमित्याशयवान् साकाङ्क्षस्य
वाक्याभासस्याप्रतिपादकत्वादाकाङ्क्षिताध्याहारं सूचयन्सूत्रवाक्यार्थमाह जिज्ञास्य इति
अयमिति उक्तविधया जीवजडात्मकात्प्रपञ्चादत्यन्तविविक्तत्वेन निश्चिततया विषयभूतः सर्ववेदार्थतया शक्यप्रतिपादनश्चेत्यर्थः ।
१,३३३
$मीमांसाद्वारा शास्त्रस्यापि ईश्वरविषयकत्वम्$
ननु वेदानामीश्वरप्रतिपत्तिजनकत्वाद्भवतु तद्विषयत्वम् ।
शास्त्रं तु तेषामीश्वरप्रतिपादनानुसरणोपायन्यायविषयं कथमीश्वरपरमुच्यते ।
मैवम् ।
वेदानामीश्वरमवबोधयतामितिकर्तव्यता हि मीमांसा ।
तेनोपकारकत्वाद्भवति तद्विषया तदुद्धारा शास्त्रमपि ।
न हि बीजस्याङ्कुरं जनयतः सहकारिणो जलादेरङ्कुरो न कार्यम् ।
ननु मीमांसापि सम्भावनादिविषया कथमीश्वरविषया भवति ।
मैवम् ।
द्विविधं खलु कर्मकारकं भवति ।
किञ्चिदव्यवधानेन व्यापारजन्यातिशययोगि ।
यथोद्यमननिपतनव्यापारजन्योर्ध्वादेशसंयोगविभागातिशयविशिष्टः कुठारः कर्तृव्यापारस्याव्यवधानेन कर्म भवति ।
किञ्चिदुद्देश्यफलसम्बन्धितया करणव्यापारव्यवधानेन ।
यथा द्वैधीभाववान्वृक्षः ।
तत्र कर्तृव्यापारस्य करणव्यापारव्यवधानेन वृक्षकर्मतेव मीमांसाव्यापारस्यापि प्रमाणादिसम्भावनाद्धारेणेश्वरावबोध एवोद्देश्य इति भवति
तत्कर्मता ।
स्यादेतदेवम् ।
यदि वेदेतिकर्तव्यता विचारः स्यात् ।
न चैवम् ।
विनापि विचारेण शब्दोपलब्धिसमयग्रहणतत्स्मरणसहकृताच्छब्दादेवार्थावगमदर्शनात् ।
नच मन्तव्यं शक्तितात्पर्याज्ञानविपर्ययदोषाच्छब्दः संशयविपयर्ययावुत्पादयति ।
तत्र दोषापनयनेन संशयादिव्युदासाय शक्तितात्पर्यविचारो ऽङ्गं भवतीति ।
यतस्तत्रापि शब्दो विना विचारेण तत्त्वज्ञानस्येष्ये ।
किं नाम प्रतिबन्धमात्रं विचारेणापनीयते ।
न हीतिकर्तव्यतैवम् ।
तत्कथं वेदेतिकर्तव्यता जिज्ञासा ।
कथन्तरां चेश्वरविषया ।
कथन्तमां च शास्त्रस्य तद्विषयतेति ।
१,३३८
$निर्णयप्रयोजकत्वात् मीमांसायाः ईश्वरविषयत्वम्$
अत्रोच्यते ।
सत्यमेवम् ।
तथापि प्रतिबन्धनिवृत्तौ सत्यामेव निर्णय इति प्रतिबन्धकनिरासहेतोरपि विचारस्योपचारेण निर्णयहेतुत्वादुपपन्नमीश्वरविषयत्वम् ।
एतेनैतदपि निरस्तम् ।
ईश्वरस्य वेदप्रमाणकत्वे तत एव निश्चितत्वात्किं मीमांसयेति ।
युक्तिवाक्याभासजनितविप्रतिपत्तिप्रतिबन्धस्योक्तत्वात् ।
तथा हि ।
वेदप्रामाण्यमेवानङ्गीकुर्वाणाः केचिदीश्वर एव नास्तीति प्रतिपन्नाः ।
अपरे तु तदङ्गीकृत्यापि तद्वाचिनां पदानां जीवादिविषयतां व्याकुर्वन्तस्तदभावमस्थिताः ।
अन्ये तु पुनरस्तीश्वरः किन्तु परमार्थतो निर्गुण एवेति सङ्गिरन्ते ।
एके तु सगुणो ऽपि न जगतः कारणमपि तूदासीन एवेत्यातिष्ठन्ते ।
केचित्कारणत्वे ऽप्युपादानमित्यभ्युपयन्ति ।
निमित्तमात्रत्वे ऽपि कतिपयगुणं गुणेभ्यो भिन्नमन्ये मन्यन्ते ।
इतरे तु भिन्नाभिन्नमुपगतवन्तः ।
केचिद्विग्रहवन्तमित्येवमाद्यास्वनेकासु विप्रतिपत्तिषु सतीषु तत्त्वज्ञानकरणादपि वेदात्तदनुत्पत्तौ तदपनोदनद्वारेण वेदेतिकर्तव्यतारूपा
जिज्ञासा कर्तव्येति ।
१,३४०
$कर्मणि षष्ठीपरिग्रहः षष्टिसमासविचारः$
तत्र तावद्ब्रह्मणो जिज्ञासा ब्रह्मजिज्ञासेति षष्ठीसमासो न पुनर्धर्माय जिज्ञासेतिवच्चतुर्थीसमासः ।
तादर्थ्यसमासे प्रकृतिग्रहणं कर्तव्यमिति वार्तिककृता प्रकृतिविकारभाव एव चतुर्थीसमासस्य नियमितत्वात् ।
तथैवोदाहरणं यूपाय दारु यूपदार्विति ।
प्रकृतिविकारभावरहितेषु चाश्वघासादिष्वश्वघासादयः षष्ठीसमासा भवन्तीति प्रतिविहितम् ।
नचात्र प्रकृतिविकारभावो ऽस्ति ।
षष्ठीसमासे ऽपि केचिच्छेषे षष्ठीति प्रतिपन्नाः ।
केचित्कर्मणीति ।
तत्र कर्मणि षष्ठीपरिग्रहाय जिज्ञास्य इत्यक्तम् ।
कृत्यानां कर्मणि स्मरणात् ।
अन्यथा जिज्ञासास्येत्यवक्ष्यत् ।
जिज्ञासा खलु कर्मापेक्षा विना कर्मणा न ज्ञातुं शक्या न तु सम्बन्धिनं विनेति कर्मणः प्राधान्यात्तदेव वक्तव्यम् ।
सम्बन्धिसामान्योक्तवर्थात्कर्मापि लभ्यत इति चेन्न ।
साक्षात्प्रतीतपरित्यागेनार्थलभ्यस्वीकारस्य वैयर्थ्यात् ।
एवं सति लक्षणादिजिज्ञासापि प्रतिज्ञाता स्यादिति चेन्न ।
तस्या विनाप्यभिधानेन लाभात् ।
नहि लक्षणादिजिज्ञासामन्तरेण ब्रह्मजिज्ञासास्ति ।
अन्यथानेकविषयत्वेन शास्त्रभेदप्रसङ्गः ।
निर्विषयताशङ्कापनोदार्थं प्रयुक्तं पदमिदं कर्माभिधान्येव युक्तम् ।
तद्विजिज्ञासस्वेत्यादिश्रुत्यर्थानुगतं चैवं सति सूत्रं स्यात् ।
१,३५६
ननु च ‘प्रतिपदविधाना षष्ठी न समस्यते’ इति कर्माणि षष्ठयाः समासः प्रतिषिध्यत इति चेन्न ।
‘कृद्योगलक्षणा च षष्ठी समस्यते’ इति प्रतिप्रसवात् ।
१,३६८
$कर्मप्राधान्यार्थं जिज्ञास्य इति प्रयोगः$
अथवा ब्रह्मणः कर्मत्वेनाप्राधान्यशङ्कां निवर्तयितुं जिज्ञास्य इति कर्मप्राधान्यं सूचितम् ।
ज्ञानविधौ हि ब्रह्मणो ऽप्राधान्यं स्यात् ।
तज्ज्ञानोद्देशेन जिज्ञासाविधाने कुतः अप्राधान्यम् ।
१,३७५
$कर्तव्येतिपदाध्याहारविचारः$
विधीयत इत्यनेन कर्तव्येति पदाध्याहारं सूचयति ।
ननु भवतीति स्वतः सिद्धम् ।
मैवम् ।
तथा सत्यनुवादत्वप्रसङ्गात् ।
अत्रैके चोदयन्ति ।
सिद्धैव ननु ब्रह्मजिज्ञासा ।
अथातो धर्मजिज्ञासेति सकलवेदार्थविचारस्योदितत्वात् ।
ब्रह्मज्ञानस्य चोदनालक्षणत्वेन धर्मस्वरूपत्वादभ्यधिकाशङ्काभावादिति ।
१,३८३
$गतार्थताशङ्कातत्समाधानानुपपत्ति प्रदर्शनम्$
तत्र केचिदभ्यधिकाशङ्कां दर्शयन्तो ब्रह्मजिज्ञासां पृथगारभन्ते ।
अपरे तु कार्यनिष्ठ एव वेदभागो विचार्यत्वेन तत्र प्रक्रान्तो विचारितश्च न वस्तुतत्त्वनिष्ठ इत्यतो वस्तुतत्त्वनिष्ठं वेदभागं विचारयितुमिदमारभ्यत
इत्याहुः ।
सेयं गतार्थताशङ्का तत्समाधानं च नोपपद्यते ।
सर्ववेदानामीश्वरैकनिष्ठत्वेन सर्ववेदार्थस्यात्रैव जिज्ञास्यत्वात् ।
धर्मजिज्ञासाशास्त्रं तु वेदैकदेशामुख्यार्थधर्मविचाराय प्रवृत्तमित्याशयेन वा’स एव भर्गशब्दार्थः’ इत्याद्युक्तम् ।
तत्र सर्ववेदार्थ इत्यनेन गतार्थताशङ्कानिरासः स एव न तु कार्यशेषतयेत्याद्यं समाधानं सर्वेति द्वितीयं च निरस्तम् ।
तदुपपादनाय पूर्ववाक्यम् ।
जिज्ञास्य इति साध्यनिर्देशः ।
वक्ष्यति च एतद्विस्तरेण कार्यता चेत्यादिना ।
१,३९१
ज्ञानी प्रियतमो ऽतो मे तं विद्वानेव चामृतः (अनुव्याख्यानम्)१,१.११च्द्
वृणुते यं तेन लभ्य इत्याद्युक्तिबलेन हि ।
जिज्ञासोत्थज्ञानजात् तत्प्रसादादेव मुच्यते (अनुव्याख्यानम्)१,१.१२
न्यायसुधा-
$जिज्ञासाया निष्प्रयोजनत्वनिरासः$
ब्रह्मजिज्ञासाया निष्प्रयोजनत्वं शङ्कितमपाकर्तुं अतःशब्दं व्याचष्टे ज्ञानीति
तं विद्वानित्यनेन’तमेवं विद्वानमृत इह भवति’ इति वाक्यमेवशब्देन’नान्यः पन्था अयनाय’ इत्युत्तरवाक्यमवधारणार्थं च सङ्गृहीतम् ।
चशब्दो वाक्यसमुच्चये ।
वृणुते यमित्यनेन’यमेवैष वृणुते’ इति वाक्यं सङ्गृहीतम् ।
आदिपदेन’आत्मा वा अरे द्रष्टव्यः’ इत्यादेः सङ्ग्रहः ।
हिशब्दौ हेतौ ।
एवशब्दः प्रत्येकमभिसम्बध्यते ।
यस्मात्तस्य ब्रह्मणो नारायणस्य प्रसादात्परमानुग्रहादेव मुच्यते संसारात् न तु कर्मादिनेति’तमेवम्ऽ‘यमेवैष वृणुते’ इति श्रुतिबलेन गम्यते ।
यद्यपि तमेवमिति परमपुरुषप्रसादो न श्रूयते ।
तथापि यमेवैष वृणुत इति श्रुतिबलेन गम्यते ।
यद्यपि तमेवमिति परमपुरुषप्रसादो न श्रूयते ।
तथापि यमेवैष वृणुत इति वाक्यानुरोधेन तत्राप्यनुसन्धेयः ।
निमित्तेन नैमित्तिकोपलक्षणान्मुमुक्षुसम्बन्धिसाधनावधारणाय तु न साक्षादुक्तः ।
वरणं तु प्रसाद उच्यते ।
‘अपाम सोमम्’ इत्याद्यास्तु श्रुतयः सावकाशत्वादन्यथा योज्याः ।
ईश्वरपरमप्रसादश्च तज्ज्ञानादेव भवति ।
न पुनः कर्मादिनेति ज्ञानी प्रियतमस्तमेवं विद्वानित्युक्तिबलेनावगम्यते ।
विद्वानित्यस्यापि प्रसादातिशयद्वारेणेत्यर्थपर्यवसानस्योक्तत्वात् ।
कर्मादेरनुग्रहमात्रहेतुत्वेनापि तद्वचनं सार्थकम् ।
ईश्वरज्ञानं च तज्जिज्ञासयैव नान्येनेति’आत्मा वा अरे द्रष्टव्यः’ इति परमात्मदशर्नानुवादेन तत्साधनतया श्रोतव्य इत्यादिना
श्रवणादिविधायकोक्तिबलेन प्रतीयते ।
कर्मणां त्वन्तःकरणशुद्धिद्वारेण ज्ञानाङ्गत्वोपपत्तेस्तद्वाक्यं सार्थकं भविष्यति ।
अतो ब्रह्मजिज्ञासा कर्तव्येति सम्बन्धः ।
१,३९७
इदमुक्तं भवति ।
यद्यपि न जिज्ञासायाः स्वर्गादिरूपो ऽभ्युदयः प्रयोजनं सम्भवति ।
तथापि मोक्षो भविष्यति ।
तस्यानन्यसाध्यत्वात् ।
मोक्षसाधनं हि साक्षात् भगवानेव ।
‘बन्धको भवपाशेन भवपाशाच्च मोचकः’ इत्यादिवचनात् ।
साधनं च द्विविधम् ।
सिद्धमसिद्धं च ।
तत्रासिद्धमुत्पाद्यं फलकामेन ।
यथा यागादि ।
सिद्धं तु सव्यापारीकरणीयम् ।
यथा कुठारादि ।
सिद्धं च साधनं भगवानिति मुमुक्षुणा सव्यापारीकरणीयः ।
व्यापारश्च प्रसन्नतैव ।
निगडादिमोचकेषु राजादिषु तथा दर्शनात् ।
‘यस्य प्रसादात्परमार्तिरूपादस्मात्संसारान्मुच्यते नापरेण’ इत्यादिश्रुतेश्च ।
व्यापारप्राधान्योक्तिश्चेन्द्रियार्थसन्निकर्षः प्रत्यक्षमित्यादाविवौपचारिकी ।
मोचकश्चेश्वरप्रसादस्तद्भक्तयेकसाध्यः ।
‘भक्तयैव तुष्यिमभ्येति विष्णुनान्येन केनचित्’ इत्यादिवचनात् ।
स्वर्गादिहेतुप्रसादमात्रं कर्मादिसाध्यम् ।
‘कर्मणा त्वधमः प्रोक्तः प्रसादः’ इत्यादिस्मृतेः ।
प्रसादो नामेच्छाविशेषो गुणान्तरं वा न नः कचित् क्षतिः ।
परमेश्वरभक्तिर्नाम निरवधिकानन्तानवद्यकल्याणगुणत्वज्ञानपूर्वकः स्वात्मात्मीयसमस्तवस्तुभ्यो ऽनेकगुणाधिको
ऽन्तरायसहस्रेणाप्यप्रतिबद्धो निरन्तरप्रेमप्रवाहः ।
यमधिकृत्य’यत्र नान्यत्पश्यतिऽ‘सा निशा पश्यतो मुनेः’ इत्यादिश्रुतिस्मृतयः ।
नचासौ तत्साक्षात्कारमन्तरेणोत्पद्यते ।
लोके तथा दर्शनात् ।
नचाव्यक्तस्वभावो भगवांसहस्रेणापि प्रयत्नानां शक्यः साक्षात्कर्तुं विना तदनुग्रहात् ।
प्रसन्नस्त्वनन्ताचिन्त्यशक्तियोगादात्मानं दर्शयतीति युज्यते ।
दर्शनासाधनं चानुग्रहः स्वयोग्यगुणोपेतस्य निर्दोषस्य भगवद्विग्रहविशेषस्यादरनैरन्तर्याभ्यां विषयवैराग्यतद्भक्तिसहिताद्
बहुकालोपचितान्निदिध्यासनापरनामकाद्विचिन्तनादृते न लभ्यते ।
नच निदिध्यासनं वाक्यार्थग्रहणलक्षणे श्रवणे कृते ऽपि विना मननापरनाम्ना विचारेणोपपद्यते ।
संशयविपर्ययोस्तादवस्थ्यात् ।
नहि तयोः सतोरादरनैरन्तर्याद्युपपद्यते ।
अतो जिज्ञासा निदिध्यासनपरमेश्वरानुग्रहतद्दर्शनपरमभक्तिपरमानुग्रहद्वारा मोक्षासाधनत्वात् कर्तव्येति ।
ये तु ध्यानमेव परमपाटवापन्नमपरोक्षाकारमिति मन्यन्ते तेषां दर्शनश्रुतय उपचरितार्थाः प्रसज्येरन् ।
१,४०३
स्यादेतत् ।
अतःशब्दस्तावत्प्रकृतस्य हेतुभावे वतर्ते ।
तत्र ब्रह्मजिज्ञासायाः प्रयोजनाकाङ्क्षायामधिकारिविशेषणतयाथशब्देन प्रकृतो मोक्षः सम्बद्धयते ।
ज्ञातुमिच्छा जिज्ञासा ।
नचात्रावयवार्थेन जिज्ञासाशब्दो ऽर्थवान् ।
इच्छायाः स्वातन्त्र्याविषयत्वेन विधातुमशक्यत्वात् ।
अत एवेष्यमाणज्ञानोपलक्षणाप्ययुक्ता ।
तस्माज्ज्ञानेच्छान्तर्णीतो विचारो जिज्ञासापदेन लक्ष्यते ।
मुख्यप्रयोगातिक्रमेण लाक्षणिकाश्रयणे चेदं प्रयोजनम् ।
यद्विचारस्य ज्ञानद्वारैव मोक्षसाधनत्वज्ञापनम् ।
अन्यथा योग्यताविरहेणान्वयाभाववप्रसङ्गात् ।
यदि च जिज्ञासाशब्दो मीमांसाशब्दवद्विचार एवोपसङ्खयायते ।
तदाप्यन्वयव्यतिरेकाभ्यां विचारस्य ज्ञानसाधनता ज्ञास्यते ।
एवञ्च विचारो यतो ज्ञानसाधनं ज्ञानं च मोक्षसाधनमतो असौ कर्तव्य इति लभ्यते ।
१,४०९
मोक्षादेरन्यलभ्यत्वस्य शङ्कितत्वात्सावधारणतापि ।
ईश्वरप्रसादस्य तु ज्ञापकं न किञ्चिदत्र पश्यामः ।
१,४१८
$ज्ञानमोक्षयोर् मध्ये प्रसादानपेक्षत्वशङ्का$
नच ज्ञानस्य मोक्षसाधनता न युक्ता ।
येनेश्वरप्रसादो मध्ये ऽध्याह्रियते ।
आत्मयाथात्म्याज्ञानादनात्मनि शरीरादावात्मत्वारोपे सति हि तदनुकूलप्रतिकूलयो रागद्वेषौ भवतः ।
ताभ्यां प्रयुक्तः पुण्यपापलक्षणां प्रवृत्तिमाचिनुते ।
ततश्च सुरनरतिर्यगादिनानायोनिषु नवीनशरीरेन्द्रियादिसंयोगलक्षणं जन्मास्य भवति ।
तस्माच्च दुःखानुभव इत्यनादिरयं कार्यकारणप्रवाहः संसार इत्युच्यते ।
आत्मतत्त्वज्ञानाच्चाज्ञानविपर्ययौ निवर्तेते ।
तत्त्वज्ञानस्य समानाश्रयविषयाज्ञानमिथ्याज्ञाननिवर्तनस्वाभाव्यात् ।
शुक्तिकातत्त्वज्ञानस्य तदज्ञानरजतारोपनिवर्तकत्वदर्शनात् ।
मिथ्याज्ञाननिवृत्तौ च रागद्वेषानुदयः ।
कारणाभावात् ।
तयोरभावे च न प्रवृत्तेरुत्पत्तिः प्रागुपचितायाश्चोपभोगेन प्र्रक्षयः ।
प्रवृत्त्यभावे च जन्मान्तराभावो हेत्वभावादेव ।
वतर्मानशरीरादेश्चारम्भकक्षये सति निवृत्तिः ।
जन्माभावे च न निर्बीजस्य दुःखस्योत्पाद इत्येवमात्यन्तिकी दुःखनिवृत्तिर्मुक्तिः ।
तथाच ज्ञानस्वभावलभ्यायां मुक्तौ किमीश्वरप्रसादेन ।
न ह्यन्धकारनिबन्धनदुःखनिवृत्तये प्रदीपमुपाददानाः कस्यचित्प्रभोः प्रसादमपेक्षन्ते ।
स्वभावो हि प्रदीपस्यायं यत्समानाधिकरणान्धकारनिवर्तकत्वम् ।
तथाच न्यायसूत्रम् ।
‘दुःखजन्मप्रवृत्तिदोषमिथ्याज्ञानानामुत्तरोत्तरापाये तदनन्तरापायादपवर्गः’ इति ।
१,४२०
द्रव्यं कर्म च कालश्च स्वभावो जीव एव च ।
यदनुग्रहतः सन्ति न सन्ति यदुपेक्षया (अनुव्याख्यानम्)१,१.१३
नर्ते त्वत् क्रियते किञ्चिदित्यादेर्न हरिं विना ।
ज्ञानस्वभावतो ऽपि स्यान्मुक्तिः कस्यापि हि क्वचित् (अनुव्याख्यानम्)१,१.१४
न्यायसुधा-
$मोक्षस्य हर्यधीनत्वम्$
यत्तु मोक्षस्येश्वराधीनत्ववचनं तज्ज्ञानादिजन्मनीश्वरस्य निमित्ततापरमित्यविरुद्धम् ।
तदर्थं च तदुपास्त्यादेरुपयोगः ।
तदेवं ज्ञानस्वभावेनाज्ञानादिनिवृत्तौ कारणाभावे कार्यानुदयस्येश्वरप्रसादानपेक्षत्वादयुक्तमिदमतःशब्दव्याख्यानमित्यत आह द्रव्यमिति
द्रव्यशब्देन प्रकृत्यादितत्त्वमुच्यते ।
कर्मेति धर्माधर्मौ ।
स्वभावः प्रकृत्यादीनां परिणामादिः ।
जीव इत्यभिमानी ।
एवेति यदनुग्रहत इत्यतः परं द्रष्टव्यम् ।
अनेन सर्वोत्पत्तिमदुपादाननिमित्तानां सत्तापि परमेश्वराधीनेत्युच्यते ।
‘न ऋते त्वत्क्रियते किञ्चन’ इति श्रुत्या सर्वार्थक्रियायास्तदधीनत्वम् ।
इत्यादेरागमादवगम्यत इति शेषः ।
ज्ञानस्वभावतो ऽपीत्यपिशब्देनाङ्गीकारवादो ऽयमिति सूचयति ।
हिशब्दो हेतौ ।
यस्मादेवं तस्मादुपपन्नं पूर्वव्याख्यानमिति ।
१,४२१
$बन्धस्येश्वराधीनत्वोपपादनम्$
ततश्चायमर्थः ।
स्यादेतदेवम् ।
यद्यज्ञानमात्रनिबन्धनो ऽयं बन्धो जीवस्य स्यात् ।
न चैवम् ।
श्रुतिस्मृतीतिहासपुराणेषु परमेश्वरेच्छानिमित्तत्वावगमात् ।
अद्वैतिनामविद्याधीनजीवब्रह्मविभागवत्तार्किकादीनां च गुणवत्त्वाधीनद्रव्यवदनादेरपीश्वराधीनत्वोपपत्तेः ।
उपपादयिष्यते हि ज्ञानानन्दादिस्वरूपो ऽयं जीव इति पुंस्त्वादिवदित्यादिना ।
तद्भावानुपलब्धिश्चानुभवसिद्धा ।
तेनावगम्यते ऽस्ति किमप्यावरकम् ।
येनावृतः स्वप्रकाशचैतन्यरूपो ऽपि नात्मनस्तत्त्वं वेद ।
नच कामकर्मादिकमेव तथा भवितुमर्हति ।
तस्यापि सादिनः कारणापेक्षत्वात् ।
नच पूर्वपूर्वस्मादुत्तरोत्तरमिति युक्तम् ।
सुप्तिप्रलययोस्तद्वृत्त्यभावेन निष्कलङ्कचैतन्यबलात्स्वरूपावभासप्रसक्तेः ।
अतः कामकर्माद्यतिरिक्तं मायाविद्या प्रकृतिरित्यादिशब्दाभिधेयमनाद्येव किमपि द्रव्यमङ्गीकरणीयम् ।
‘अनादिमायया सुप्तः’ इत्यादिश्रुतिस्मृतयश्च भवन्ति ।
नच मायापि कथं स्वप्रकाशमावृणोतीति युक्तम् ।
आवरकतयैव तस्याः प्रमितत्वात् ।
वक्ष्यते चात्रोपपत्तिः ।
नच जडस्य स्वतः किञ्चित्करत्वं युक्तम् ।
द्रव्यं कर्म चेत्यादिवाक्यविरुद्धं च ।
१,४२४
$ईश्वरप्रसादस्यापेक्षितत्वसमर्थनम्$
अतः परमेश्वर एव सत्त्वादिगुणमय्या विद्याविरोधित्वेनाविद्यया स्वाधीनया प्रकृत्याचिन्त्याद्भुतया स्वशक्तया च जीवस्य स्वप्रकाशमपि
स्वरूपचैतन्यमाच्छादयतीति युक्तम् ।
स एव च स्वाधिष्ठानलब्धपरिणाममहदहङ्कारादिप्रकृत्यंशैः संयोज्य कर्तृत्वभोक्तृत्वस्वातन्तृयं कारकफलस्वाम्यं चास्याविद्यमानमेवोपदर्श्य
रागाद्युत्पादनद्वरा दुःखमनुभावयति ।
तदेवं बन्धस्येश्वराधीनत्वात्स एव मोचको ऽङ्गीकार्याऽपरस्य स्वातन्त्र्याभावात् ।
प्रसन्न एवासौ स्वकीयां मायां व्यावर्तयतीति तत्प्रसादार्थं सर्वो ऽप्ययं साधनसन्दर्भ इत्युक्तम् ।
ततो यद्यपि न सूत्राक्षरेभ्यो भगवत्प्रसादो लभ्यते ।
तथाप्यनुपपत्त्याङ्गीकरणीय इति युक्तं व्याख्यानम् ।
वक्ष्यति चैतत्सूत्रकारः’ततो ह्यस्य बन्धविपर्ययौ इति ।
एवमुक्तेन न्यायेन न ज्ञानस्यैवायं स्वभावो यत्साक्षान्मोक्षसाधनत्वम् ।
अस्तु वा तथापीश्वरप्रसादो ऽपेक्षितः ।
सकलकारकाणां तदधीनसत्ताप्रवृत्तित्वेन तदिच्छां विना कस्यापि कार्यस्यानुदयादिति ।
अङ्गीकारवादस्य चेदं प्रयोजनं यत्पूर्वस्यैवार्थस्य समर्थनम् ।
तथाहि ।
येन ज्ञानस्य मोक्षहेतुत्वमङ्गीकृतं न तेनापि ईश्वरेच्छां त्यक्तुं शक्यते ।
कारकप्रेरकत्वादिनावश्याभ्युपगमनीयत्वात् ।
तथाच किमनेन ज्ञानेनाप्रमितेन ।
प्रमित ईश्वर एवाङ्गीकार्य इति ।
१,४२६
अज्ञानां ज्ञानदो विष्णुर्ज्ञानिनां मोक्षदश्च सः ।
आनन्ददश्च मुक्तानां स एवैको जनार्दनः (अनुव्याख्यानम्)१,१.१५
न्यायसुधा-
$विवरणमतानुवादः$
यदुक्तं न कार्यो मोक्षः किन्तु प्राचीनेषु मिथ्याज्ञानादिषु निवृत्तेषु कारणाभावादेवोत्तरप्रवाहानुत्पादमात्रम् ।
तत्र का नाम परमेश्वरापेक्षा ।
तद्वचनानि तु ज्ञानोत्पत्त्यादिनिमित्ततापराणीति ।
तदनुपपन्नम् ।
ज्ञानप्रदानाद्यतिरिक्तस्यापीश्वरप्रयोजनस्यागमेषूक्तेरिति आह अज्ञानामिति
मोक्षदः प्रागुक्तप्रकृतिबन्धात् ।
नन्वनादेः प्रकृतिबन्धस्य कथं निवृत्तिरिति चेत् ।
अत्राह कश्चित् ।
न सादित्वमनादित्वं वा विनाशाविनाशयोर्निमित्तम् ।
किन्तु विरोधिसन्निपातासन्निपातावेव ।
किञ्च लोके तावदनादिः प्रागभावो निवर्तते सुगतानां तत्त्वपतिभावनाप्रकर्षेणानादिवासनासन्तानानां निवृत्तिरिष्या ।
नैय्यायिकानामप्यनादिमिथ्याज्ञानप्रवाहः परमाणुश्यामता च निवर्तते ।
साङ्खयानामप्यविवेको निवर्तते विवेकेन ।
मीमांसकानामिदानीन्तनधर्मतत्त्वज्ञानप्रागभावो ऽनादिर्निवर्तते ।
अनादिभावरूपस्य न निवृत्तिरिति चेन्न ।
अनिर्वचनीयत्वादज्ञानस्य ।
अनादिनर् निवर्तत इति सामान्यव्याप्तिः ।
ज्ञानेनाज्ञाननिवृत्तिरिति विशेषव्याप्तिः ।
अतः सैव बलवती ।
१,४३०
$विवरणमतनिरासः$
ननु स्वोपादानगतोत्तरावस्था विनाशः ।
तत्कथमनादेर्निरुपादानस्य विनाशः ।
न ।
स्वाश्रयगतोत्तरावस्थेत्येतावत्वात् ।
अन्यथा परमाणुश्यामत्वादीनामनिवृत्तिप्रसङ्गात् ।
अभाववैलक्षण्यादात्मवदज्ञानस्यानिवृत्तिरिति चेन्न ।
सद्वैलक्षण्यात्प्रागभाववन्निवृत्तिः किं न स्यात् ।
कस्तर्हि निर्णयः ।
ज्ञानाज्ञानकृतो विशेषान्वय इत्युक्तमिति ।
तदयुक्तम् ।
तथाहि ।
यत्तावन्न सादित्वमनादित्वं वेत्यादि ।
तत्र किं निवर्तकाभाव उपाधिरनेनोच्यते किं वा निवर्तकसद्भावेन सत्प्रतिपक्षता ।
नाद्यः ।
साधनव्यापकत्वात् ।
न द्वितीयः ।
असिद्धेः ।
न हि अज्ञानस्यानादितया निवृत्त्यनुपपत्तिं ब्रुवाणस्तन्निवर्तकमभ्युपैति ।
किन्त्वनादित्वेन तदभावमप्यनुमिनोति ।
यदपि प्रागभावे व्यभिचारोद्भावनं तदपि भावत्वेन हेतुविशेषणादयुक्तम् ।
यदपि सुगतानामित्यादि तदत्यन्तमसङ्गतम् ।
नहि वासनानामनादित्वं वैनाशिका अभ्युपयन्ति ।
नच तद्वयतिरिक्तं सन्तानम् ।
येन तत्र व्यभिचार उद्भाव्येत ।
नच नैय्यायिका अभ्युपयन्ति ।
नच तद्वयतिरिक्तं वा प्रवाहमङ्गीकुर्वते ।
परमाणुश्यामतापि सादिरेव ।
नहि परमाणुपाकस्येदम्प्रथमता तत्सिद्धान्तः ।
१,४३७
यदप्यज्ञानस्यानिर्वचनीयत्वमुक्तम् ।
तत्रानिर्वचनीयत्वं सदसद्विलक्षणत्वं चेत् किमनेन प्रकृतानुपयुक्तेन ।
प्रतिपक्षो ऽयमिति चेन्न ।
परस्यासिद्धेरव्याप्तेश्च ।
भावाभावविलक्षणत्वमनिर्वचनीयत्वम् ।
तेन विशेषणासिद्धिरुच्यत इति चेन्न ।
स्वोक्तिविरोधात् ।
स्वयमेव ह्यनादिभावरूपं यद्विज्ञानेन विलीयत इत्यज्ञानलक्षणमभिधाय भावरूपामानसाधनाय प्रमाणान्युपन्यस्तानि ।
अभाववैलक्षण्यमात्रं तत्र विवक्षितमिति चेन्न ।
तस्यैव हेतुविशेषणत्वोपपत्तेः ।
नन्वत्रोक्तम् ।
सद्वैलक्षण्यात्प्रागभाववन्निवृत्तिः किं न स्यादिति ।
सत्यमुक्तं दुरुक्तं तत् ।
प्रागभावस्यापि सत्त्वाङ्गीकारात् ।
अथ सद्विलक्षणत्वं नाम भावविलक्षणत्वं विवक्षितम् ।
तदाभाववैलक्षण्याङ्गीकारविरोधेनासिद्धिप्रसङ्गो ऽत्यन्ताभावे व्यभिचारश्च ।
तस्यापि निवृत्तिसाधने तन्निवृत्तावेव व्यभिचारः ।
किञ्चात्मनि भावत्वं नास्तीति तत्रानैकान्त्यं दुष्परिहरम् ।
तथाप्यारोपितं भावत्वं तत्रास्तीति चेत् ।
तदविद्यायामपि समानमित्यसिद्धिः ।
यदपि व्याप्त्योः सामान्यविशेषभावकथनं तस्योपयोगो वक्तव्यः ।
तेन बलाबलनिश्चय इति चेत् ।
स किं सामान्यविशेषभावमात्रेणोताव्यभिचारादिसम्पत्तौ सत्याम् ।
आद्ये धूमवानग्निमानिति सामान्यव्याप्तेः पर्वतो निरग्निक इति विशेषव्याप्तिर्बलवती प्रसज्येत ।
द्वितीये किं सामान्यविशेषभावेन व्यभिचारादिकमेव व्युत्पाद्यताम् ।
किं वानेन प्रबलत्वेन दुर्बलत्वेन च ।
विशेषव्याप्त्या सामान्यव्याप्तिर्बाध्यत इति चेत् ।
किं सङ्कोचनं बाध्यत्वमुत व्यभिचारप्रदर्शनमथोपाध्युद्भावनम् ।
नाद्यः ।
यदनादि तदज्ञानातिरिक्तं न निवर्तत इति सङ्कोचनीयम् ।
न पुनर्यदनादित्वरहितं तदेव ज्ञाननिवर्त्यमिति सङ्कोच्यमित्यत्र नियामकाभावात् ।
सामान्यविशेषभावे तूक्तम् ।
न द्वितीयः ।
व्यभिचारस्थलस्यादर्शितत्वात् ।
व्याप्तिबलेनाज्ञानस्य ज्ञाननिवर्त्यत्वे सिद्धे ऽनादित्वस्य तत्रैव व्यभिचार इति चेत् ।
तर्ह्येतदेवोच्यताम् ।
किं सामान्यविशेषभावेन ।
अनादित्वेनाज्ञानस्यानिवत्यर्त्वे सिद्धे ऽज्ञानत्वस्य तत्रैव व्यभिचार इति किं न स्यात् ।
१,४४२
अस्तु तहिर् प्रतिपक्ष एवेति चेत् ।
किं व्याप्तिमात्रेणोत पक्षधर्मतोपेतया व्याप्त्या ।
न प्रथमः ।
व्यप्तिमात्रस्याप्रतिपादकत्वात् ।
अन्यथा पक्षधर्मतावैयर्थ्यात् ।
द्वितीये संसारकारणमज्ञानं ज्ञाननिवर्त्यं भवितुमर्हति ।
अज्ञानत्वात् ।
शुक्तिकाज्ञानवदित्युक्तं स्यात् ।
अत्रापि किं सामान्यविशेषभावेन ।
किञ्च तु शुक्तिकाज्ञानं नाम किं ज्ञानाभावो ऽथ भावरूपमज्ञानम् ।
आद्ये दृष्टान्तस्य साधनवैकल्यम् ।
नहि शब्दसाम्यमात्रेण दृष्टान्तदार्ष्यान्तिकभावो ऽस्ति ।
तथात्वे गोत्वेन वागादीनामपि शृङ्गित्वसाधनप्रसङ्गात् ।
द्वितीये किं तत्साद्युतनादि ।
आद्ये कथमयं विशेषः स्यात् ।
द्वितीये तदपि पक्षतुल्यम् ।
न तृतीयः ।
अज्ञानेतरत्वस्य समव्याप्त्यावात्पक्षेतरत्वाच्च ।
१,४४५
$टीकाकृत्स्वयं समाधत्ते$
एतेन ज्ञानाज्ञानकृतो विशेषान्वय इति निरस्तम् ।
यदपि निरुपादानस्य विनाशानुपपत्तिमाशङ्कयोक्तं स्वाश्रयगतोत्तरावस्था विनाश इति ।
तदनुपपन्नम् ।
अनुपादानभूताश्रयोत्तरावस्था चेदाश्रितविनाशः स्यात्तदा भूतलादपसारिते घटे घटविनाशः स्यात् ।
परमाणुश्यामताप्रतिबन्दी तु तस्या अपि सोपादानत्वेनैव निरस्तेति ।
अत्रोच्यते ।
यत्तावदविद्याया अनादित्वेनानिवृत्तिरिति सो ऽयं प्रसङ्गः स्वतन्त्रानुमानं वा ।
नाद्यः ।
अविद्यानादित्वस्य श्रुतियुक्तिसिद्धत्वेन विपयर्यापर्यवसानात् ।
न द्वितीयः ।
‘विश्वमायानिवृत्तिःऽ‘मायामेतां तरन्ति तेऽ‘तरन्त्यविद्याम्’ इत्यादिश्रुतिस्मृतिविरुद्धत्वात् ।
अनादेरपि निवृत्तौ बाधकाभावेनाप्रयोजकत्वाच्च ।
आत्मनो ऽपि निवृत्तिप्रसङ्गो बाधक इति चेन्न ।
व्याप्त्यभावात् ।
निवर्तकभावाभावाभ्यां विशेषोपपत्तेः ।
प्रमितनिवर्तकानभ्युपगमस्यानुचितत्वात् ।
अनादित्वेन निवर्तकाभावानुमानस्य बाधितत्वात् ।
एतेन निवर्तकाभावस्योपाधित्वम् तद्विपर्ययस्य प्रतिपक्षत्वं च समाहितम् ।
१,४५०
नन्ववयवतत्संयोगविनाशाभ्यां द्रव्यनाशो दृष्टस्तत्कथमत्र विनाश इति चेत् ।
कुतो ऽयमुभयाभ्युपगमः ।
एकैकपरिहारेणापि विनाशदर्शनादिति चेत् ।
तर्हि सादेरेवमस्तु ।
अनादेस्तृतीयो ऽपि प्रकारो ऽनुसर्तव्यः ।
प्रमितत्वादेव विनाशस्य ।
अनादेः कीदृशो विनाश इति चेत् ।
स्वरूपध्वंस एव ।
स्वोपादानगतोत्तरावस्था स्वोपादानमात्रत्वापत्तिरित्यादि कार्यविषयम् ।
नन्वविद्या चेन्निवर्तेत ।
तर्ह्येकमुक्तौ सर्वमुक्तिः स्यात् ।
न स्यात् ।
प्रतिजीवमविद्याभेदाङ्गीकारात् ।
अत्र विशेषः’स्वगुणाच्छादिकात्वेका’ इत्यागमादनुसन्धेयः ।
१,४५३
$सिद्धान्तेबन्धनिवृत्तिसमर्थनम्$
स्यादेतत् ।
ब्रह्मविदामप्यविद्यानुवर्तते ।
तेन च श्रुतिस्मृतीनां प्रामाण्यम् ।
ब्रह्मसाक्षात्कारो ऽविद्यानिवर्तको न विवेकमात्रमिति चेन्न ।
तद्वतामपि संसारानुवृत्तिदर्शनात् ।
साक्षात्कृतब्रह्मणां सद्यः शरीरादिपाते वातपुत्रीयाः पौरुषेया ब्रह्मोपदेशाः प्रसज्येरन्निति ।
मैवम् ।
न स्मरति भवानुक्तार्थस्य ।
प्रसन्नः परमेश्वर एव बन्धविध्वंसं करोतीत्युक्तम् ।
नच साक्षात्कारस्तत्प्रसादसाधनम् ।
येन सो ऽपि कथं तेषां नेति पर्यनुयुज्येत ।
भक्तेः परावस्था हि तद्धेतुरुक्ता तत्सम्पत्तिश्च कार्यगम्या ।
परचित्तवृत्तीनामप्रत्यक्षत्वात् ।
प्रारब्धकर्मप्रतिबद्धो भगवत्प्रसाद इति तु मन्दम् ।
अचेतनानां कर्मणां स्वतन्त्रभगवत्प्रसादप्रतिबन्धकत्वायोगात् ।
१,४६१
तान्यपि तदिच्छाविशेषानुगृहीतानीति चेत् ।
भगवदिच्छयोर्विरोधप्रसङ्गात् ।
मोचकप्रसाद एवैवंरूप इति चेत् ।
तर्हि स एवापरिपूर्ण इत्येवागतम् ।
अन्यथा कथं प्रारब्धानामप्युपमर्दं वक्ष्यति ।
प्रारब्धप्रतिबन्धादिवादास्तूपचरितार्था एव ।
वस्तुतस्तु भगवानेव अनादेरपि बन्धस्य निवर्तक इति साधूक्तं’ज्ञानिनां मोक्षदश्च सः’ इति ।
ननु चानन्दः स्वरूपमेव ।
स चाविद्यावृतो ऽविद्यानिवृत्तौ स्वतः सिद्ध एव ।
अनुभवो ऽप्येवमेव ।
विषयित्वमप्यनुभवस्वभावो न त्वागन्तुको धर्मः ।
ततो मोक्षदानात्कथं पृथगानन्दादिदानम् ।
उच्यते ।
परमेश्वरशक्तिरेव जीवस्वरूपावरणं मुख्यम् ।
अविद्या तु निमित्तमात्रम् ।
ततो ऽविद्यायां निवृत्तायामपि नाशेषानन्दाभिव्यक्तिर्यावदीश्वर एव स्वकीयां बन्धशक्तिं न ततो व्यावर्तयति ।
अत एवानन्दह्रासवृद्धी वक्ष्येते इति ।
१,४६७
इत्युक्तेर्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते (अनुव्याख्यानम्)१,१.१६अब्
न्यायसुधा-
$बन्धमिथ्यात्ववर्णनम्$
एवं तावत्स्वमतेन सूत्रं व्याख्याय तत्परिशुद्धये परेषां भाष्यं दूषयति बन्धमिथ्यात्वमित्यादिना
मायावादिना हि कर्तृत्वभोक्तृत्वदोषसंसर्गक्रियाकारकफललक्षणस्य बन्धस्याऽत्मन्यारोपितत्वेन मिथ्यात्वं स्वभाष्यादौ वर्णितम् ।
तदनुपपन्नम् ।
बन्धमिथ्यात्वस्यासूत्रितत्वात् ।
असूत्रितार्थवर्णने च भाष्यलक्षणाभावेनाभाष्यत्वप्रसङ्गात् ।
सूत्रार्थो वर्ण्यते यत्र वाक्यैः सूत्रानुकारिभिः ।
स्वपदानि च वर्ण्यन्ते भाष्यं भाष्यविदो विदुरिति हि भाष्यलक्षणमाचक्षते ।
अत्राह ।
द्विविधो हि सूत्रार्थः ।
श्रौत आर्थश्च ।
तत्राथातो ब्रह्मजिज्ञासेतिसूत्रे अनुवादत्वपरिहाराय शास्त्रे पुरुषप्रवृत्तिसिद्धये च कर्तव्येति पदमध्याहार्यम् ।
जिज्ञासापदं चानुष्ठानयोग्यस्यान्तर्णीतस्य विचारस्योपलक्षणमिति स्थिते साधनचतुष्ययसम्पन्नस्य ब्रह्मज्ञानाय विचारः कर्तव्य इति सूत्रवाक्यस्य
श्रौतो ऽर्थः सम्पद्यते ।
अर्थादधिकारिविशेषणमोक्षसाधनं ब्रह्मज्ञानमिति सिद्धयति ।
सन्निधानाच्च वेदान्तवाक्यविचार इति श्रुत्यर्थाभ्यां साधनचतुष्ययसम्पन्नस्य मोक्षसाधनब्रह्मज्ञानाय वेदान्तवाक्यविचारः कर्तव्य इति
सूत्रवाक्यस्य तात्पर्येण प्रतिपाद्यो ऽर्थो ऽवगतः ।
एवञ्च शास्त्रे प्रेक्षावत्प्रवृत्त्यङ्गतया ऽर्थतः सूत्रितस्य प्रयोजनादेरुपपादकं बन्धमिथ्यात्वमिति तदपि सूत्रार्थ एव ।
१,४७०
$बन्धमिथ्यात्वं प्रयोजनविषयोपपादकम्$
ब्रह्मज्ञानं हि सूत्रितमनर्थहेतुनिबर्हणम् ।
अनर्थश्च प्रमातृताप्रमुखं कर्तृत्वं भोक्तृत्वं च ।
तद्यदि वस्तुकृतं स्यान्न ज्ञानेन निबर्हणीयम् ।
यतो ज्ञानमज्ञानस्यैव निवर्तकम् ।
तद्यदि कर्तृत्वं भोक्तृत्वमज्ञानहेतुकं स्यात्ततो ब्रह्मज्ञानमनर्थहेतुनिबर्हणमुच्यमानमुपपद्येत ।
तेन सूत्रकारेणैव ब्रह्मज्ञानमनर्थहेतुनिबर्हणं सूत्रयताविद्चाहेतुकं कर्तृत्वं भोक्तृत्वं प्रदर्शितं भवति ।
विचारविषयतया च ब्रह्म सूत्रितम् ।
आत्मा च ब्रह्म ।
तस्य चाहं कर्ता भोक्तेति प्रतीयमानं रूपं यदि परमार्थिकं स्यात् तदासन्दिग्धतया विचारविषयता न स्यात् ।
तद्यदि कर्तृत्वादिरूपमविद्यारोपितम् ।
पारमार्थिकं निष्क्रयं निष्कलं ब्रह्मरूपं स्यात्ततो ऽस्य सन्दिधतया विषयतोच्यमानोपपद्यते ।
तेनात्मस्वरूपं विचारविषयं सूत्रयता सूत्रकृतैव कर्तृत्वाद्यतदाकारस्य मिथ्यात्वं सूत्रितं भवति ।
कर्तृत्वादेर्बन्धस्य मिथ्यात्वं च यावता विना नोपपद्यते तदपि सूत्रितमेव ।
न चैवमनेकार्थतादोषः ।
श्रौतार्थिकत्वभेदस्योक्तत्वात् सूत्रत्वाच्च ।
अलङ्कार एव ह्ययं सूत्रस्य यदनेकार्थत्वम् ।
यथाहुः ।
‘अल्पाक्षरमसन्दिग्धं सारवद्विश्वतोमुखम् ।
अस्तोभमनवद्यण् च सूत्रं सूत्रविदो विदुर्’इति ।
विश्वतोमुखमित्यनेकार्थतामाह ।
अन्यत्रापि ।
‘लघूनि सूचितार्थानि स्वल्पाक्षरपदानि च ।
सर्वतः सारभूतानि सूत्राण्याहुर्मणीषिण’ इति ।
यावान्त्सूचितः स सर्वो ऽप्येषामर्थ इति सूचितार्थानि ।
अतो यः कश्चिद् अर्थः शब्दसामर्थ्येनार्थवशाद्वा प्रतीयते स सर्वस्तदर्थ एवेति भवत्ययमर्थकलापस्तन्महिमाधिगतः ।
तदेवं विध्यपेक्षितेष्वधिकारिविषयप्रयोजनानुबन्धेषु सूत्राक्षिप्तप्रयोजनविषययोरुपपादकं बन्धमिथ्यात्वं
प्रतिपादयद्युप्मदस्मत्प्रत्ययगोचरयोरित्यादिभाष्यां सूत्राथर्सङ्गतमेव ।
१,४७६
स्यादेतत् ।
प्रथमप्रतिपन्नं श्रौतार्थमुल्लङ्घय चरमप्रतिपन्नमार्थिकार्थमेवोपपादयन्कथमकुशलो न स्यादिति ।
अत्रोच्यते ।
स्यादेतदेवम् ।
यदि युष्मदस्मादित्यादिभाष्यं प्रथमसूत्राक्षिप्तार्थस्यैवोपपादकं स्यात् ।
न चैवम् ।
किं नाम सकलतन्त्रा ऽर्थोपोद्घातो ऽपि प्रयोजनमस्य भाष्यस्य ।
तथाहि ।
अस्य शास्त्रस्यैदम्पर्यं सुखैकतानसदात्मकूटस्थचैतन्यैकरसतासंसारित्वाभिमतस्यात्मनः पारमार्थिकं स्वरूपमिति वेदान्ताः पर्यवस्यन्तीति ।
तच्चाहं कर्ता सुखी दुःखीति प्रत्यक्षाभिमतेनाबाधितकल्पेनावभासेन विरुद्धयते ।
अतस्तद्विरोधपरिहारार्थं ब्रह्मस्वरूपपिपरीतरूपमविद्यानिमित्तमात्मन इति यावन्न प्रतिपाद्यते तावज्जरद्गवादिवाक्यवदनर्थकं प्रतिभाति ।
अतस्तन्निवृत्त्यर्थमविद्याविलसितमब्रह्मस्वरूपत्वमात्मन इति प्रथममेव प्रेक्षावत्प्रवृत्तये प्रतिपादनीयम् ।
तदनेन भाष्येणोच्यत इति ।
१,४७९
तदेतदादिभाष्यस्य सङ्गतित्रयमप्यसङ्गतम् ।
तथा हि ।
यत्तावदुक्तं सूत्रितप्रयोजनाक्षिप्तं बन्धमिथ्यात्वमिति ।
तदसत् ।
यत्खलु प्रमितमप्यनुपपद्यमानं स्वोपपत्तये यदपेक्षते तत्तदाक्षिपति नान्यत् ।
यथा जीवतो देवदत्तस्य गृहे ऽभावो बहिर्भावं न पुनः शब्दानित्यत्वम् ।
तत्कस्य हेतोः ।
यतो गृहे ऽभावो बहिर्भावेनैवोपपद्यमानस्तमपेक्षते ।
एवञ्च प्रयोजनतयोक्ता मुक्तिर्यदि बन्धमिथ्यात्वामपेक्षेत तदा तदाक्षिपेत् ।
न चैतदस्तीत्याह बन्धमिथ्यात्वमिति
एवशब्देनान्यथैवोपपन्नतां सूचयति ।
कथम् ।
उक्तमेतत् ज्ञानात्प्रसन्नः ।
परमेश्वर एव बन्धनिवृत्तिं करोतीति ।
उपपद्यते च सत्यस्यापि प्रभुप्रसादान्निवृत्तिरिति वक्ष्यते ।
१,४८३
ननु दर्शनेन बन्धनिवृत्तिरुभयी दृष्टा ।
यथा सत्यस्यापि निगडादिबन्धस्य दर्शनजन्येन राजप्रसादेन ।
यथा च मिथ्याभूतस्य स्वाप्ननिगडबन्धस्य प्रबोधेनैव साक्षात् ।
तत्र ब्रह्मज्ञानात्संसारबन्धनिवृत्तिः सूत्रिता कं पक्षमवलम्ब्यतामिति सन्दिह्यते ।
तथाच अन्यथाप्युपपत्तिः स्यान्नान्यथैवोपपत्तिरिति ।
मैवम् ।
विशेषोक्तया निर्णयोपपत्तेरित्येतदर्थोपपादनायाज्ञानामित्युक्तमत्राप्यनुषञ्जनीयम् ।
तरति शोकमात्मविदिति सामान्यवचनं विशेषवचनेन बाध्यते ।
दृष्ट्वैव तं मुच्यत इति श्रुतिर्दर्शनमोक्षावन्तरा किञ्चिन्न सहत इति चेन्न ।
अवधारणस्यायोगव्यवच्छेदपरत्वोपपत्तेः ।
दर्शनजन्यादेवेश्वरप्रसादान्न पुनः कर्मादिहेतुकादित्यन्ययोगव्यवच्छेदपरत्वोपपत्तेश्चेति ।
१,४८५
$बन्ध्मिथ्यात्वं विनापि मुक्तिर्घटते$
अस्तु वा ज्ञानाद्बन्धनिवृत्तिः ।
तथापि बन्धमिथ्यात्वं नैवमुक्तिरपेक्षते ।
कथम् ।
नहि दृष्टसामर्थ्याज्ज्ञानाद्बन्धनिवृत्तिः ।
येन बन्धमिथ्यात्वमपेक्षेत ।
किन्त्वागम एव ज्ञानाद्बन्धनिवृत्तिं श्रावयति ।
प्रमिते च साध्यसाधनभावे का नामानुपपत्तिर्यच्छमनायोपपादकं मृग्यम् ।
ननु यथाग्नेयादीनां षण्णां यागानामपूर्वकारणभावे श्रुते ऽपि कालान्तरभाविप्रधानापूर्वसाधनत्वोपपत्त्यर्थं क्रमभावियागजन्यानि
मध्यवर्तीन्यवान्तरापूर्वाणि कल्प्यन्ते ।
यथा वा श्रुतस्यैव यागस्य स्वर्गसाधश्रत्वस्योपपत्तये ऽपूर्वं कल्प्यते ।
तथा श्रुतोपपत्त्यर्थमेव बन्धमिथ्यात्वकल्पनमिति ।
मैवम् ।
वैषम्यात् युक्तं हि तत्रापूर्वकल्पनम् ।
यत्कालान्तरभाविन तत्कारणमिति नियमात् ।
न चेह तथास्ति ।
इहापि ज्ञानमज्ञानस्यैव निवर्तकमिति नियमो ऽस्तीति चेन्न ।
सत्यस्यापि ज्ञानेन निवृत्तौ बाधकाभावेन तदनिश्चयात् ।
नच दर्शनादर्शनमात्रं व्याप्तेर्नियामकमिति वक्ष्यामः ।
नियतपूर्वक्षणवृत्तित्वशून्यमपि कारणमस्त्विति व्याहता शङ्कैव नोदेति ।
यन्निवृत्तये बाधकमुपन्यसनीयम् ।
सत्यस्यापि निवृत्तावात्मापि निवर्तेतेति चेन्न ।
व्याप्त्यभावात् ।
विपक्षे बाधकाभावाच्च ।
अनादेश्चाज्ञानस्य निवृत्तावात्मनो ऽपि निवृत्तिः किं न स्यात् ।
मिथ्याभूतमज्ञानमनाद्यपि निवर्तते ।
न सत्य आत्मेति चेत् ।
क्वेदमुपलब्धं भवता यत्सत्यं न निवर्तत इति ।
निवृत्तावनादित्वमप्रयोजकीकृत्य मिथ्यात्वं प्रयोजकीकुर्वताज्ञानस्य येन केनापि निवृत्तिः कस्मान्नेष्यते ।
किं ज्ञाननियमेन ।
ज्ञानमेवाज्ञानविरोधीति चेत् ।
हन्त तर्हि विरोधिसद्भाव एव निवृत्तौ प्रयोजक इति कुत आत्मनिवृत्तिः ।
१,४९५
$विवरणोक्तबाधकपरिहारः$
ननु ज्ञानेन सत्यं निवर्तमानं किं विषयगतं निवर्तते ।
उताश्रयगतम् ।
अथोभयगतम् ।
नाद्यः ।
यतश्चित्रावयविनि नीलविशिष्टद्रव्यज्ञानं स्वविषयं वा स्वविषयसमवेतं वा रसादिकं विरोधिनं वा पीतिमादिगुणं न निवर्तयति ।
न द्वितीयः ।
घटादिज्ञानेनात्मगतधर्माद्यनिवृत्तेः ।
न तृतीयः ।
आत्मनः शरीरविषयज्ञानेन शरीरात्मसम्बन्धानिवृत्तेरिति ।
मैवम् ।
उक्तोत्तरत्वात् ।
यदि ज्ञानमाश्रयगतं निवर्तयेत् तदा धर्मादिकमपि निवर्तयेदित्यत्र व्याप्त्ययोगात् ।
विपक्षे बाधकाभावाच्च ।
घटादिज्ञानं धर्माद्यविरोधि ।
आत्मयाथात्म्यज्ञानं तु बन्धविरोधीति वैषम्याच्च ।
आत्मयाथात्म्यज्ञानस्यैवापादनविषयतायामिष्यापादनम् ।
चित्रावयविनि नीलविशिष्टद्रव्यज्ञानं तु मिथ्याज्ञानमेव ।
नापि तत्र पीतिमगुणो ऽस्ति ।
एकमेव हि चित्रं नाम रूपमाश्रयव्याप्यवृत्तीति पदार्थविदः ।
१,५१३
$मुक्तिः बन्धमिथ्यात्वं नैवापेक्षत$
अस्तु वा ज्ञानमज्ञानस्यैव निवर्तकमिति व्याप्तिस्तथात्रप बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते ।
किन्तु बन्धस्याज्ञानतत्कार्ययोरत्वमेवेति तदेव वर्णनीयम् ।
अध्यासवर्णनस्य का सङ्गतिः ।
अज्ञानस्य मिथ्यात्वं तु कपोणिगुडायितम् ।
निराकरिष्यमाणत्वात् ।
१,५१५
अपि च सत्यस्यापि विषस्य गरुडध्यानेन निवृत्तिदर्शनाद्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते ।
विषं न सत्यमिति चेन्न ।
तथा सति नीलविशिष्टद्रव्यादेरपि तवासत्यत्वेन तन्निवृत्त्यापादनस्यानुपपत्तिप्रसङ्गात् ।
सत्यम् ।
तदपि मम मिथ्या ।
पराङ्गीकारेण त्वापादनमिति चेत् ।
तर्हि तदेव न ज्ञानान्निवृत्तमिति न मिथ्याभूतस्यापि ज्ञानान्निवृत्तिः ।
मिथ्याभूतं विरोधिज्ञाननिवर्त्यमिति चेन्न ।
विशेषणवैयर्थ्यात् ।
अविरोधादेवात्मनो ऽनिवृत्तिसम्भवात् ।
मिथ्यात्वमङ्गीकृत्यापि विरोधो ऽङ्गीकार्यः ।
ततो वरं स एव प्रयोजक इत्यङ्गीकारो लाघवात् ।
ज्ञानविरोधित्वं मिथ्याभूतस्यैवेति चेन्न ।
प्रमाणाभावात् ।
दर्शनादिति चेत् ।
तर्ह्यागमेन सत्यस्यापि भवत्केन वार्यते ।
नच दर्शनमात्रं व्याप्तेर्नियामकम् ।
ध्यानं मानसीक्रिया न ज्ञानमिति चेन्न ।
यदि क्रियापरिस्पन्दः स तर्ह्यतीन्द्रियाश्रितो ऽतीन्द्रिय इत्यपरोक्षावभासविरोधो रूपरहितत्वेन तदवभासविरोधश्च ।
यदि च मानसी सृष्टिरिति मतम् अनुमतमेतत् ।
श्रवणदर्शनादिजनितमानसवासनामयस्य वस्तुनो मनसावलोकनं ध्यानमित्यङ्गीकारात् ।
अतीन्द्रियोपादानकस्यापि द्रव्यस्यैन्द्रियकत्वं तृयणुकादेरिवोपपद्यते ।
नीरूपाद्वायो रूपवतस्तेजसो जन्म वेदान्तिनां प्रसिद्धमेव ।
तार्किकादीन्स्त्वारम्भवादनिराकरणेन तोषयिष्यामः ।
एवञ्च ध्यायतेश्चिन्तार्थतापि स्मृतिसिद्धासिद्धा ।
अत एव क्रियामानसवदिति सूत्रविरोधो ऽपि परिहृतः ।
विधिजन्यपुरुषेच्छाप्रयत्ननिरपेक्षमेव सर्वत्र ज्ञानस्य पुष्कलकारणम् ।
अनिच्छतो ऽप्यनिष्यज्ञानदर्शनात् ।
तत्कथमिदं ज्ञानमिति चेन्न ।
विधेः साध्यसाधनभावमात्रज्ञापनेन चरितार्थत्वात् ।
इच्छाप्रयत्नयोश्च संस्कारोद्बोधे कृतार्थत्वान्मानसवस्त्ववलोकने व्यापाराभावात् ।
चक्षुश्चलननिरासवन्मनोविक्षेपनिरासे वा तदुपयोगः ।
१,५२५
किञ्च सेतुदर्शनादिना पापादिनिवृत्तिः सुप्रसिद्धा ।
मध्ये ऽदृष्टकल्पनायां तु न प्रमाणमस्ति ।
अन्यथा प्रकृते ऽप्यदृष्टकल्पनायां तु न प्रमाणमस्ति ।
अन्यथा प्रकृते ऽप्यदृष्टकल्पनाप्रसङ्गात् ।
अदृष्टसाध्यत्वे मोक्षस्यानित्यताप्रसक्तिरिति चेत् ज्ञानजन्यत्वे ऽपि साम्यात् ।
ज्ञानजन्यत्वे ऽपि प्रध्वंसत्वान्नानित्यत्वमिति चेत् ।
समानमेतददृष्टसाध्यत्वे ऽपीति ।
१,५३०
अपि च बन्धविध्वंसलक्षणत्वाद्बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते ।
किं नाम सत्यत्वमेव ।
नहि मिथ्याभूतस्य शशविषाणादेर्ध्वंसो ऽस्ति ।
ननु यथा मिथ्याभूताच्छशविषाणादेर्व्यावृत्तौ ध्वंसः सत्ये पर्यवस्यतीति भवतोच्यते ।
तथा सत्याच्चिदात्मनो ऽपि व्यावृत्तौ मिथ्याभूते पर्यवस्यतीति मयापि वक्तुं शक्यत एव ।
सत्यमापाततस्तथा तथाप्यपि सौत्री अर्थापत्तिः सन्देहास्कन्दिता कुण्ठितैव ।
अनिर्वाच्यनिरासेन निश्चयमपि भवतो जनयिष्यामः ।
बन्धबाध एव मुक्तिरिति चेत् ।
नैवं श्रुतिसूत्रे वदतः ।
तरति शोकमित्यादौ विपरीताभिधानात् ।
विमुक्तश्च विमुच्यत इति श्रुतार्थापत्तिस्तु भाष्यकृतैवान्यथोपपादिता ।
१,५३५
अपि चैवम् उक्तिर्ब्रह्मज्ञानं जीवगतं बन्धं निवर्तयतीति सौत्री प्रयोजनोक्तिर्बन्धमिथ्यात्वं नापेक्षते ।
यदि जीवज्ञानं जीवगतस्य बन्धस्य निवर्तकमिति प्रयोजनोक्तिः सूत्रे स्यात्तदा कथञ्चिदपेक्षेतापि बन्धमिथ्यात्वम् ।
नचैवं सूत्रकृदाह नहि शुक्तिकायामारोपितं रजतं घटज्ञानान्निवर्तते ।
ब्रह्मज्ञानं नाम त्वम्पदार्थस्य जीवस्य तत्पदार्थेन ब्रह्मणैक्यानुभव इति तु स्वगोष्ठीनिष्ठं प्रलापमात्रम् ।
निराकरिष्यमाणत्वात् ।
१,५३६
अपि च यदि बन्धमिथ्यात्वं यदि च ज्ञानमात्राद्बन्धबाधः ।
तदा ज्ञाने सति किमपि मुक्तिर्नैवापेक्षत इति सद्य एव साक्षात्कृतब्रह्मणां शरीरादिनिवृत्तिः प्रसज्येतेत्यर्थापत्तेस्तर्कविरोधः ।
एतच्च तृतीये प्रपञ्चयिष्यामः ।
एवं सूत्रितप्रयोजनाक्षिप्तं बन्धमिथ्यात्वमिह वर्णितमित्येतन्निराकृतम् ।
१,५३८
अथवा विषयोक्तयाक्षिप्तमित्येतदनेन निराचष्टे ।
एवमुक्तिः सौत्री ब्रह्मणो विषयत्वोक्तिर्बन्धमिथ्यात्वं नापेक्षते ।
यदि हि सूत्रे जीवात्मनो विषयतयोक्तिः स्यात्तदा सा तस्य सन्दिग्धतासिद्धये कतृत्वादिबन्धमिथ्यात्वं कथञ्चिदपेक्षेतापि ।
ब्रह्मैव ह्यत्र विषयतयोच्यते ।
नह्यन्यस्य सन्दिग्धतयान्यस्य विचारविषयतोपपद्यते ।
अतिप्रसङ्गात् ।
आत्मैव ब्रह्मेत्येतां तु दुराशामपाकरिष्यामः ।
यद्वा सकलतन्त्रार्थोपोद्घातः प्रयोजनं युष्मदस्मदित्यादिग्रन्थस्येत्येतदनेनापाकरोति ।
तथा हि ।
एवमुक्तिः सकलजगज्जन्मादिनिमित्तत्वलक्षणं समस्तजीवजडात्मकात्प्रपञ्चदत्यन्तव्यावृत्तं ब्रह्मैवाशेषवेदप्रतिपाद्यमित्येवं तत्तु
समन्वयादित्यादिकोक्तिर्जीवगतबन्धमिथ्यात्वं नापेक्षते ।
एषा हि ब्रह्मण्येव प्रमाणाभासप्रतिपन्नस्य जीवाभेदादेरेव मिथ्यात्वमपेक्षते ।
यदि हि जीवस्य ब्रह्मतायां सकलवेदान्तपर्यवसानं प्रतिपादयितुमिदं शास्त्रं प्रवृत्तं स्यात्तदा विरोधशान्त्यै बन्धमिथ्यात्वापेक्षा ।
न चैवम् ।
यथा चैतत्तथा वक्ष्यामः ।
नन्वपेक्षायाः पुरुषधर्मत्वात्कथमेतत् ।
इत्थम् ।
प्रमितस्यानुपपद्यमानस्यार्थस्यैवोपपादकाक्षेपशक्तिरपेक्षात्रोच्यत इति ।
एवञ्च ज्ञानद्बन्धनिवृत्तेर्बन्धमिथ्यात्वेन विनानुपपद्यमानत्वाभावान्न तदाक्षेपकत्वमित्युक्तम् ।
१,५४२
मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतः (अनुव्याख्यानम्)१,१.१६च्द्
न्यायसुधा-
$मिथ्यात्वस्य प्रत्यक्षविरोधः$
दूषणान्तरं चार्थापत्तेराह मिथ्यात्वमपीति
न केवलं बन्धमिथ्यात्वं नैव मुक्तिरपेक्षते किं नाम बन्धस्य मिथ्यात्वं नास्तीत्यपिसम्बन्धः ।
नन्वेतदनुपपन्नम् ।
प्रमाणं हि स्वमहिम्नैवार्थं व्यवस्थापयति ।
न पुनः प्रागर्थसिद्धिमपेक्षते ।
तथात्वे वा प्रमाणवैयर्थ्यं पूर्वप्रमाणस्यापि तथात्वेनानवस्था च स्यात् ।
अतः प्रागाक्षेप्यासिद्धिरर्थापत्तेर्भूषणमेव ।
प्रवृत्तायां त्वर्थापत्तौ नापेक्ष्यासिद्धिः प्रमितत्वादेव ।
एवं तर्हि परिचितचरपुरुषस्य दिवाभुञ्जानस्य पीनत्वमनुपपद्यमानं रसायनसिद्धिं योगर्द्धिं वा कस्मान्नाक्षिपेत् ।
तदसिद्धिरपि प्रागर्थापत्तिप्रवृत्तेरलङ्कार एव ।
उत्तरकालं तु नास्त्येवेति चेत् ।
न ।
वैषम्यात् ।
नहि रसायनसिद्धयाद्यसिद्धतया नार्थापत्तिप्रमेयम् ।
अपि तर्हि परिचितचरे पुरुषे प्रमाणबाधिततया ।
असिद्धं साधयति प्रमाणं न तु प्रमाणविरुद्धमिति हि प्रसिद्धम् ।
एषा खल्वर्थापत्तिसामग्री ।
यदाक्षेपकस्य प्रमितत्वमनुपपद्यमानत्वं च ।
आक्षेप्यस्याप्युपपादकत्वं प्रमाणाविरुद्धत्वं च ।
अत एवाप्रमितत्वमनुपपत्त्यभावो ऽन्यथाप्युपपत्तिरन्यथैवोपपत्तिः प्रमाणविरुद्धार्थत्वं चेत्यर्थापत्तिदूषणानीति ।
सत्यम् ।
वयमपि हि बन्धमिथ्यात्वमहं कर्ता भोक्ता सुखी दुःखीत्यादिप्रत्यक्षविरुद्धत्वादेव नार्थापत्तिप्रमेयमिति ब्रूमः ।
तदिदमुक्तं प्रत्यक्षविरोधत इति ।
प्रत्यक्षविरोधतो ऽपीति वा योजना ।
तेन प्रमाणान्तरविरोधं समुच्चिनोति ।
चेष्यादिलिङ्गैरहमित्येव यो वेद्य इत्याद्यागमैश्चात्मनः कर्तृत्वाद्युपेतस्यैव प्रमितत्वात् ।
अथवा ऽर्थापत्तेराभासत्वेनानाक्षिप्तबन्धमिथ्यात्वं वर्णयत्परेषां भाष्यमनुपयुक्तमित्युक्तम् ।
अयुक्तमपि प्रत्यक्षादिविरुद्धार्थप्रतिपादकत्वादित्यनेनोच्यते ।
ननु प्रत्यक्षं बन्धस्वरूपमात्रं गोचरयति न तु तस्मिन् मिथ्यात्वाभावम् ।
अतो ऽर्थापत्तेर्भाष्यकारीयस्य वा तन्मिथ्यात्वव्युत्पादनस्य कथं प्रत्यक्षविरोधः ।
मैवम् ।
प्रत्यक्षं खलु बन्धं गोचरयदस्तीति नास्तीति वा गोचरयेत् ।
उभयोदासीनस्य ज्ञानस्यादशर्नात् ।
आद्ये ऽस्तित्वं मिथ्यात्वाभावश्चेत्यनर्थान्तरमिति कथं न प्रत्यक्षविरोधः ।
द्वितीये ऽनुभवविरोधस्तद्व्युत्पादनवैयर्थ्यप्रसङ्गाच्च ।
१,५४६
मिथ्यात्वं यदि दुःखादेस्तद्वाक्याग्रतो भवेत् (अनुव्याख्यानम्)१,१.१७अब्
न्यायसुधा-
$नेह नानास्तीति श्रुत्यर्थविचारः$
स्यादेतदेवम् ।
यदीदं प्रत्यक्षं तत्त्वावेदकं भवेत् ।
न चैतदस्ति ।
समस्तोपाध्यनवच्छिन्नानन्तानन्दचैतन्यैकरसमुदासीनमेकमेवाद्वितीयं खल्वात्मतत्त्वं नेहनानास्ति किञ्चनेत्यादिश्रुतिस्मृतीतिहासपुराणेषु
गीयते ।
न चैतान्युपक्रमादिवशादीदृगात्मतत्त्वमभिदधति तत्पराणि सन्ति शक्यानि केनाप्युपचरितार्थानि कर्तुम् ।
तद्विरुद्धं च प्रादेशिकमनेकविधदुःखादिप्रपञ्चोपप्लुतमात्मानमादर्शयत्प्रत्यक्षं कथमुपप्लवो न भवेत् ।
येयं चैतन्यस्य स्वत एव स्थितलक्षणब्रह्मरूपतावभासं प्रतिबध्य जीवत्पापादिकविद्याकमर्पूर्वप्रज्ञासंस्कारचित्रभित्तिरनादिरनिर्वाच्यविद्या ।
तस्याः परमेश्वराधिष्ठितत्वलब्धपरिणामविशेषो विज्ञानक्रियाशक्तिद्वयाश्रयः कर्तृत्वभोक्तृत्वैकाधारः कूटस्थचैतन्यसंवलनसञ्जातज्योतिरपरोक्षो
ऽहङ्कारः ।
सच चिदात्मनो बुद्धया निष्कृष्ट वेदान्तवादिभिरन्तःकरणं मनो बुद्धिरहम्प्रत्ययीति च विज्ञानशक्तिविशेषमाश्रित्य गीयते ।
परिस्पन्दशक्तया च प्राण इति ।
तदुपरागनिमित्तं मिथ्यैवात्मनः कर्तृत्वादिकं प्रतिभाति ।
स्फटिकमणेरिवोपधाननिमित्तो लोहितिमा ।
तदेवमहं कर्ता भोक्ता सुखी दुःखीत्यादिप्रत्यक्षे श्रुत्यादिविरोधेन पूतिकूष्माण्डीकृते बन्धमिथ्यात्वव्युत्पादनमुपपन्नतरमित्यत आह मिथ्यात्वं
यदीति
भेवेदेतन्नेहनानेत्यादिवाक्यविरोधेन प्रत्यक्षमाभासीकृत्य बन्धमिथ्यात्ववर्णनम् ।
बालजनमनोहरा चैषा प्रक्रिया ।
यदि तद्वाक्यमुक्तविधात्मतत्त्वपरं स्यात् ।
न चैवम् ।
तथाहि ।
किमापाततः प्रतिपन्न एव वाक्यार्थः ।
अथवोपक्रमोपसंहारावभ्यासो ऽपूर्वता फलम् ।
अथर्वादोपपत्ती च लिङ्गं तात्पर्यनिर्णय इत्याद्युक्तलिङ्गानुगुणस्तदविरुद्धश्च ।
नाद्यः ।
मीमांसावैयर्थ्यापत्तेः ।
द्वितीये तु कथमिदं वाक्युक्तलक्षणात्मतत्त्वपरं स्यात् ।
उपक्रमादिलिङ्गेषु बलवत्योपपत्त्या विरुद्धत्वात् ।
अत एव ह्यसतः सदजायतेत्यादिवाक्यप्रतिपन्नो ऽर्थः कुतस्तु खलु सोम्यैयं स्यात्कथमसतः सञ्जायेतेत्युपपत्तिविरुद्धस्त्यज्यते ।
वक्ष्यति च भगवन्सूत्रकारो ऽभिमान्यधिकरणे मृदब्रवीदित्यादिवाक्यात्प्रतीतमप्यर्थमुपपत्तिविरुद्धं परित्यज्यार्थान्तरम् ।
कथमत्रोपपत्तिविरोध इति चेत् ।
एवं यदि दुःखादेरात्मातिरिक्तस्य समस्तस्य मिथ्यात्वं श्रुत्यादिबलेन स्यात्तर्हि तस्य श्रुत्यादिवाक्यस्य तावन्मिथ्यात्वं भवेत् ।
आत्मातिरिक्तत्वात् ।
अन्यथा स्वस्मिन्नेवास्य प्रामाण्यं प्रतिहतमिति न कञ्चिदर्थं प्रतिपादयेत् ।
यदि चेदं वाक्यं मिथ्या स्यात्तथापि न दुःखादेर्मिथ्यात्वं प्रतिपादयेत् ।
मिथ्याभूतस्य वन्ध्यासुतवचसः साधकत्वादर्शनात् ।
तदेवमस्य वाक्यस्य मिथ्यात्वामिथ्यात्वयोर्बन्धमिथ्यात्वप्रतिपादनासामथ्र्यात्प्रत्यक्षबाधकत्वानुपपत्तेर्न दुःखादिबन्धमिथ्यात्वसिद्धिरिति ।
१,५५६
तत्त्वविदो वदन्ति ।
सर्वो ऽपि हि बन्धो बुद्धीन्द्रियशरीरविषयतद्धर्मलक्षणो ऽस्माभिरप्यात्मन्यारोपित एवेत्यङ्गीक्रियते ।
यथोक्तं भाष्यकृता ।
प्रमादात्मकत्वाद्बन्धस्येति ।
अतः किन्निबन्धनो बन्धमिथ्यात्वनिरासे निबर्न्धः ।
सत्यम् ।
तथाप्यस्त्यत्र दर्शनभेदः ।
एवं खल्वध्यात्मविदां दर्शनम् ।
क्रियाज्ञाने प्रति कारकान्तराप्रयोज्यत्वादिलक्षणं कर्तृत्वं भोक्तृत्वं च परमेश्वरायत्तमात्मनि स्वतो विद्यत एव ।
क्रियावेशादिरूपया विक्रियया विनाशाद्यहेतुत्वस्य वक्ष्यमाणत्वात् ।
तस्यापरायत्तत्वावभासो ऽविद्यानिमित्तको भ्रमः ।
अविद्यादिकं च स्वरूपेणात्मसम्बन्धित्वेन च सदेव ।
एवं बुद्धीन्द्रियशरीरविषयाः स्वरूपसन्त एवेश्वरवशा अप्यविद्यादिवशादात्मीयतयाध्यस्यन्ते ।
परायत्तात्मीयताप्यस्त्येव ।
तांश्चात्मनो विविक्तानपि विस्पष्टतयानुपलभमानस्तद्धर्मान्दुःखादीन्त्सत्यानेवात्मीयत्वेन पश्यंस्तत्कृते नीचोच्चत्वलक्षणे विकृती सत्ये एव
प्रतिपद्यते ।
ततो रागद्वेषाभ्यां प्रयुक्तस्तद्विनिवृत्तये यत्करोति तदप्येतादृगेवातनोतीत्यनेकयोनिषु बम्भ्रमीति ।
न क्वाप्यात्यन्तिकं तदुपशमं लभते विना परमपुरुषाराधनादिति ।
मायावादिनस्तु दुःखादिकं स्वरूपेणापि मिथ्येति मन्यन्ते ।
यदवोचत् ।
सत्यानृते मिथुनीकृत्येति ।
अतस्तन्निराकरणनिर्बन्धो युक्त एवेत्येतत्परिभावयितुं बन्धमिथ्यात्वमिति सम्मुग्धे प्रस्तुते ऽपि दुःखादेरिति निष्कृष्टोक्तम् ।
स्वातन्त्र्यादेर्नान्यो ऽतो ऽस्तिकर्तेत्यादिश्रुतिबाधितत्वात् ।
नहि सर्वमिथ्यात्वश्रुतेरिवास्याः कश्चिद्विरोधो ऽस्ति ।
वक्ष्यति चैतत्तत्र तत्र सूत्रकारः ।
१,५६५
यदपि परेणात्मानात्मनोरितरेतराध्याससमर्थनाय तमेतमविद्याख्यमात्मानात्मनोरितरेतराध्यासं पुरस्कृत्य सर्वे प्रमाणप्रमेयव्यवहारा
लौकिकाः प्रवृत्ताः सर्वाणि च शास्त्राणि इत्यादिना प्रमाणान्तरमादर्शितम् ।
तदनेनैव निरस्तम् ।
अत्र हि प्रमातृप्रमाणप्रमेयकर्तृकर्मकार्यभोक्तृभोग्यभोगलक्षणव्यवहारत्रयस्य शरीरेन्द्रियादेष्वहम्ममाध्यासपुरःसरत्वप्रदर्शनेन
व्यवहारकार्यलिङ्गकमनुमानं व्यवहारान्यथानुपपत्तिर्वाध्यासे प्रमाणमुक्तम् ।
नचानेनान्तःकरणशरीरेन्द्रियविषयाणां तद्धर्माणां दुःखादीनां च मिथ्यात्वं सिद्धयति ।
स्वरूपसतामपि तादात्म्यतत्सम्बन्धित्वाभ्यामारोपेणैव व्यवहारोपपत्तेः ।
नचारोपितत्वमात्रेण मिथ्यात्वम् ।
आत्मनो ऽप्यन्तःकरणादिष्वारोपितत्वेन मिथ्यात्वप्रसङ्गात् ।
अङ्गीकृतश्चान्तःकरणादिषु परेणात्माध्यासः ।
यथोक्तम् ।
तं प्रत्यगात्मानं सर्वसाक्षिणं तद्विपर्ययेणान्तःकरणादिष्वध्यस्यतीति ।
चेतनस्याचेतने स्वरूपाध्यासाभावात्संसृष्टतयैवाध्यासात्तन्मात्रेणैव सकललौकिकवैदिकव्यवहारोपपत्तेर्न मिथ्यात्वमिति चेत्
सममचेतनस्यापि ।
यदत्र केनचित्प्रलपितम् ।
इतरेतराध्यासे ऽपि देहेन्द्रियादिप्रपञ्चस्य बाधनं श्रुतियुक्तिभिरुपपादयिष्यते ।
चिदात्मा तु श्रुतिस्मृतीतिहासपुराणतदविरुद्धन्यायनिर्णीतो ऽबाधित इति ।
तदसत् ।
प्रपञ्चबाधकश्रुत्यादेनिर्राक्रियमाणत्वात् ।
युक्तीनां च निराकरिष्यमाणत्वात् ।
श्रुत्यादिसिद्धत्वे च मिथ्यात्वस्य तमेतमविद्याख्यमित्यादि व्यथर्मापद्येत ।
न खलु को ऽपि वादी वदति ।
केनापि रूपेण शरीरादिकमात्मनि नाध्यस्तमिति ।
येनाध्यासमात्रमुपपाद्येत ।
तादात्म्याध्यासं च निराकरिष्यत्याचार्यः ।
विना च तेन व्यवहारमुपपादयिष्यति ।
१,५७४
यदप्यहङ्कारस्थं कर्तृत्वादिकं तदुपरागादात्मनि चकास्तीति ।
तदयुक्तम् ।
अहम्प्रत्ययस्यात्मविषयत्वात् ।
ननु तथा सति सुप्तावप्यहमुल्लेखः स्यात् ।
तदाऽत्मनः स्वप्रकाशतया प्रकाशमानत्वात् ।
नचाविद्याकार्यस्यापि तदानीं प्रतीतिप्रसङ्गः ।
सुप्तावविद्यायाः समुत्खातितनिखिलपरिणामत्वेन तदभावादिति ।
मैवम् ।
सुप्तावप्यहमवभासस्येष्टत्वात् ।
तथा सति स्मर्येत ह्यस्तन इवाहङ्कारः ।
अनुभूते स्मृतिनियमाभावे ऽपि स्मर्यमाणात्ममात्रत्वादिति चेन्न ।
सुखमहमस्वाप्समिति सुप्तोत्थितस्य स्वापसुखानुभवपरामर्शदर्शनात् ।
तदा विशेषतः स्मर्येति चेत् ।
किं स्पष्टं स्मरणमापाद्यते ।
उत विषयविशेषोपरक्तम् ।
आद्ये त्विष्यापादनम् ।
न द्वितीयः ।
अविषयजन्यत्वात्सौषुप्तिकसुखस्य ।
न चायमस्ति नियमो यत्स्मर्यमाणमशेषसम्बन्धिविशेषसहितं स्मर्यत इति ।
अत एव मुख्यसुखतदनुभवे बाधकाभावाददुःखाभावविषयकत्वकल्पनं परामर्शस्यापास्तम् ।
१,५८१
यत्त्वथातो ऽहङ्कारादेशो ऽथात आतमादेश इत्यात्माहङ्कारयोर्भेदवचनं तद्भाष्यकृतैवान्यथा व्याख्यातम् ।
वक्ष्यति च सूत्रकारः सैव हि सत्यादय इति ।
कथमन्यथाहङ्कारस्य सर्वगतत्वमुपपद्येत ।
महाभूतान्यहङ्कार इत्यादिस्मृतिसिद्धस्त्वहङ्कारो यद्यप्यात्मनो भिन्नः ।
तथापि नासावहं कर्तेत्युल्लेखविषयः ।
तथा सति अहम्ब्रह्मास्मीत्यादावपि तथात्वप्रसङ्गात् ।
अत्रापि यः स्थाणुः स पुरुष इतिवद्वयख्यानमिति चेन्न ।
तदाऽत्मानमेवावेदहम्ब्रह्मास्मीति निरवद्यस्य ब्रह्मणो ऽप्यहमुल्लेखदर्शनात् ।
‘मामेव ये प्रपद्यन्ते मायामेतां तरन्ति ते’ इति स्वप्रपन्नमायानिरसनसमर्थस्येश्वरस्याप्यहं सर्वस्य प्रभव इत्याद्युल्लेखोपलम्भाच्च ।
स्पष्ट एव शब्दतो ऽप्यनयोर्भेदः ।
यत्प्रकृतिपरिणामवाचि मकारान्तमव्ययमहम्पदं न जातु तदात्मनि प्रयुज्यते ।
यच्चात्मवाचि दकारान्तास्मच्छब्दजं तन्न कदाचिदपि मायापरिणामे प्रयुज्यत इति ।
तदेवं सर्वमिथ्यात्वपरत्वे श्रुतेरेव मिथ्यात्वप्रसङ्गेनासाधकत्वापत्तौ दुःखादिबन्धमिथ्यात्वासिद्धया न प्रत्यक्षमतत्त्वावेदकमिति ।
नन्वग्रत इति कथम् ।
नेहनानेतिवाक्येनात्मातिरिक्तं सकलमपि मिथ्येत्येकैव बुद्धिरुत्पद्यते ।
नच बुद्धेर्विरम्यव्यापारो ऽस्ति ।
यावत्स्वविषयगोचराया एव तस्याः समुत्पादात्तदतिरिक्तव्यापाराभावादिति ।
सत्यम् ।
वाक्येन सकृदेव जातायाः सकलमिथ्यात्वविषयाया बुद्धेः प्रामाण्यावधारणाय परीक्षकबुद्धय एव तद्विषयं बुद्धया विभज्य क्रमेणावगाहन्त
इत्यदोषः ।
समानमेतद्यावज्जीवमहं मौनीत्यादिवाक्यप्रामाण्यचिन्तायामिति ।
१,५८६
मिथ्यायाः साधकत्वं च न सिद्धं प्रतिवादिनः (अनुव्याख्यानम्)१,१.१७च्द्
न्यायसुधा-
$असतः साधकत्वभङ्ग$
ननु श्रुत्यादेर्मिथ्यात्वे ऽपि साधकत्वं सम्भवति ।
मया मिथ्याभूतस्यैव साधकत्वाभ्युपगमादित्यत आह मिथ्याया इति
याः श्रुत्यादिवाचो मिथ्या तासामिति योजना ।
विभक्तिप्रतिरूपकं वा मिथ्याया इत्यव्ययम् ।
अयमभिसन्धिः ।
नेहनानेत्यादिवाक्यैः किं पुमान्निश्चिताद्वैतो बोध्यते ।
उत तद्विपरीतः ।
नाद्यः ।
वैयर्थ्यात् ।
द्वितीयस्तु सत्यस्यैव साधकत्वमिति मन्यमानो यदीदं वाक्यं सकलमिथ्यात्वं प्रतिपादयेत्तदा सकलान्तर्गतत्वात्स्वयमपि मिथ्या स्यात् ।
यथा’शब्दो ऽनित्यः’ इतिशब्दो ऽनित्यः ।
यदि चैतद्वाक्यं मिथ्या स्यान्न कस्याप्यर्थस्य साधकं स्यादित्यनिष्यप्रसङ्गं पश्यन्कथं त्वदभ्युपगममात्रेण स्वतर्कस्य विरुद्धतां प्रतिपद्येतेति ।
ननु वाक्यस्य साधकत्वं नाम पदार्थसंसर्गप्रमितिजनकत्वम् ।
तत्क्वचित्पददोषेण विहन्यते ।
क्वचित्सङ्गत्यग्रहणात्क्वापि तद्विस्मरणात्कदाचिकाङ्क्षादिविरहात्कुत्रचिद्विपरीतप्रतिपादनेन ।
तदत्रापि नेहनानेत्यादिवाक्ये साधकत्वाभावमापादयता पददोषाद्यन्यतममेवापादकमुपादेयम् ।
किं मिथ्यात्वेन ।
तत्किमविद्यमानस्यापि वाक्यस्य निर्दोषपदावयवत्वादिकं विद्यत इति वक्तुमुद्यतो भवान् ।
एवञ्च वदता भवता कस्मिंश्चन विप्रतिपन्ने ऽर्थे वन्ध्यासुतवचनं प्रमाणयन्तं प्रतिवादिनं प्रति नूनं पददोषादिकमेवोपपाद्य साधकत्वं दूषयिष्यते ।
स्वरूपस्यैवाभावेनासाधकत्वे सिद्धे किं तत्र चरमभाविन्या पददोषादिचिन्तया ।
नहि शब्दे ऽविद्यमानत्वेनैव चाक्षुषत्वस्यानित्यत्वसाधकत्वाभावे सिद्धे किं तत्र चरमभाविन्या पददोषादिचिन्तया ।
नहि शब्दे ऽविद्यमानत्वेनैव चाक्षुषत्वस्यानित्यत्वसाधकत्वाभावे सिद्धे व्याप्तिचिन्ता क्रियत इति चेत् ।
समं प्रकृते ऽपि ।
ननु मा भूत्प्रतिवाद्यपेक्षया तर्कस्य विरुद्धता ।
वाद्यपेक्षया तु भविष्यति ।
मैवम् ।
वादिनापि हि श्रुतिवाक्येनात्मातिरिक्तस्याखिलस्य मिथ्यात्वं प्रतिपद्य मिथ्याभूतस्यापि साधकत्वमिति प्रतिपत्तव्यम् ।
सो ऽपि हि प्राक् सकलमिथ्यात्वबोधात्प्रतिवादितुल्य एव ।
तथाच श्रुतेः सर्वमिथ्यात्वप्रतिपादकत्वे मिथ्याभूतस्यैव साधकत्वं प्रतीत्य तद्विरोधेन तर्को निरसनीयः ।
तन्निरासे च श्रुतेः सर्वमिथ्यात्वप्रतिपादकत्वमित्यन्योन्याश्रयमनुत्तीर्णः कथमसावपि तर्कस्य विरुद्धतां प्रतिपद्येत ।
१,५९२
तच्च मिथ्याप्रमाणेन सता वा साध्यते त्वया ।
सता चेद् द्वैतसिद्धिः स्यान्न सिद्धं चान्यसाधनम् (अनुव्याख्यानम्)१,१.१८
न्यायसुधा-
अथ मतम् ।
प्रत्यक्षादिकस्य साधकत्वं तावदनुभवसिद्धम् ।
तन्मिथ्यात्वं च श्रुतिभिर्युक्तिभिश्चावगम्यते ।
मिथ्याभूतस्य साधकत्वमित्येषो ऽर्थः कुतः सिद्ध इति मा वोचः ।
एकज्ञानजनितसंस्कारसहकृतस्येतरप्रमाणस्यैव सुरभिचन्दनमितिवद्विशिष्टप्रत्ययजनकत्वोपपत्तेः ।
अथवोभयप्रतिसन्धातुरात्मनो विद्यमानत्वाद्दशर्नस्पर्शनाभ्यमेकार्थग्रहणवद्विशिष्टप्रतिपत्तिर्भविष्यति ।
एवञ्च प्रमाणेनैव मिथ्याभूतस्यैव साधकत्वे सिद्धे विरुद्धस्तर्को न मदभ्युपगममात्रेणेत्येतद्दूषयितुं विकल्पेन पृच्छति तच्चेति
तदिति मिथ्याभूतस्यैव साधकत्वम् ।
आत्मातिरिक्तस्य मिथ्यात्वमिवेति चशब्दः ।
सता वा प्रमाणेनेति सम्बन्धः ।
यदिदं मिथ्याभूतस्यैव साधकत्वं साधयितुं त्वया प्रमाणद्वयसमाहारात्मकं प्रमाणमुपन्यस्यते ।
तन्मिथ्या सद्वेति प्रश्नार्थः ।
सत्त्वपक्षं दूषयति सता चेदिति
यद्यपि परेणाङ्गीचिकीर्षितत्वेन प्राधान्यान्मिथ्यात्वविकल्पः प्रथमं प्रश्नावसरे निर्दिष्यः ।
तथापि मिथ्यासत्ययोः सत्यमर्थतः प्रधानमिति तत्क्रमेण दूषणम् ।
सता चेदित्यतः परमात्मरूपेण तदन्येन वेति विकल्पः ।
प्रथमपक्षे वक्ष्याम इत्याद्यपक्षदूषणप्रतिज्ञानं चाध्याहार्यम् ।
आत्मेतरेण सतेति द्वितीयपक्षदूषणं द्वैतसिद्धिः स्यादिति ।
तथाचाद्वैतप्रतिपादकश्रुतेरुपपत्तिविरोध इति हृदयम् ।
न पुनरपसिद्धान्तमात्रे तात्पर्यम् ।
प्रक्रमाननुरूपत्वात् ।
श्रुतेरुपपत्तिविरोधेनाद्वैतप्रतिपादकत्वाभावस्य प्रक्रान्तत्वात् ।
मिथ्यात्वपक्षे दोषमाह न सिद्धं चेति
चशब्दो ऽवधारणे तुशब्दार्थो वा ।
सतो ऽन्यन्मिथ्याभूतं तु साधनं न सिद्धमेव ।
मिथ्याभूतस्य प्रमासाधनत्वं न सिद्धमेवेति यावत् ।
इदमुक्तं भवति ।
यो हि यन्मिथ्या न तत्साधकमिति व्याप्तिमङ्गीकृत्य श्रुतेर्मिथ्यात्वे असाधकत्वं प्रसञ्जयति स मिथ्याभूतस्यैव
साधकत्वमित्यर्थसाधनयोपन्यस्तप्रमाणस्यापि मिथ्यात्वे ऽसाधकत्वमापादयिष्यत्येव ।
तथाच अस्य प्रमाणस्य साधकत्वे सिद्धे मिथ्याभूतस्यैव साधकत्वमित्यर्थसिद्धिः ।
ततश्च तर्कस्य विरुद्धतासिद्धिः ।
ततश्चास्य प्रमाणस्य साधकत्वसिद्धिरिति चक्रक्रमप्रसङ्गेन नैकस्यापि सिद्धिरिति ।
१,६०५
$असतः साधकत्वाभावे बाधकोद्धारः$
ननु च श्रुतिः स्वव्यतिरिक्तस्य दुःखादेर्मिथ्यात्वं प्रतिपादयन्ती कथमुपपत्तिविरुद्धेति चेत् ।
कृतो ऽयं श्रुत्यर्थसङ्कोचः ।
साधकत्वानुपपत्तिप्रमाणबलादिति चेत् ।
तर्हि प्रमितं विहाय मिथ्यात्ववादिनी कथं दुःखादिमिथ्यात्वमपि प्रतिपादयेत् तस्यापि प्रत्यक्षसिद्धत्वात् ।
ननु च श्रुतिविरोधेन प्रत्यक्षमाभासीकर्तुं मयोपक्रान्तम् ।
तेनैव श्रुतिविरोधाभिधाने कथमितरेतराश्रयत्वं न स्यात् ।
श्रुतेरप्रामाण्ये बाधकाभावात्प्रत्यक्षप्रामाण्यम् ।
ततश्च तद्विरुद्धत्वेन श्रुतेरप्रामाण्यमिति ।
हन्त तवापि कथमितरेतराश्रयत्वं न स्यात् ।
श्रुतिप्रामाण्ये तद्विरोधेन प्रत्यक्षाप्रामाण्यम् ।
ततश्च बाधकाभावेन श्रुतिप्रामाण्यसिद्धिरिति ।
श्रुतेः प्रबलत्वान्नैवमिति चेन्न ।
तस्य दूष्टत्वात् ।
साधयिष्यते च प्रत्यक्षप्राबल्यम् ।
ननु चात्र श्रुतेः प्रत्यक्षविरोधमेवोपन्यस्य तत्प्राबल्यव्युत्पादनं कुतो न कृतम् ।
किमुपपत्तिविरोधव्युत्पादनेन ।
उच्यते ।
परेण ह्यत्राद्वैतपरत्वे तात्पर्यलिङ्गानुगुणत्वं महता प्रबन्धेनोपपादितम् ।
अतस्तद्विरोध एव परस्य विचाराकौशलप्रकटनाय व्युत्पादितः ।
उपक्रमादिविरोधस्य चैतदुपलक्षणम् ।
तं च व्युत्पादयिष्यामः ।
१,६०७
ननु मा भूत्तर्कस्य विरुद्धता ।
तथापि मिथ्याभूतो ऽपि स्वाप्नो ऽर्थः शुभाशुभयो रेखारोपितो वर्णो ऽर्थस्य प्रतिबिम्बं च बिम्बस्य स्फटिकलौहित्यं चोपाधानसन्निधानस्य
वर्णदैर्घ्यादिकं चार्थभेदस्य सवितृसुषिरप्रभृतिचारिष्यस्य साधकमुपलब्धमिति प्रशिथिलमूलत्वेनाभासत्वम् ।
मैवम् ।
यतो ऽत्र, यत्साधकं न तन्मिथ्या, यच्च मिथ्या न तत्साधकम् ।
तथा हि ।
स्वप्नस्य तावज्ज्ञानार्थरूपस्य सत्यतां वक्ष्यति ।
रेखापि वर्णे पदमिवार्थे सङ्केतिता तं स्मारयतीति न किञ्चिदत्र मिथ्यास्ति ।
अत एव रेखामुपलभ्य वर्णमुच्चारयन्ति ।
प्रतिबिम्बस्य तु सत्यता परेणाप्यङ्गीकृता ।
विच्छेदस्यापि सत्यतामुपपादयिष्यामः ।
स्फटिकलौहित्यमप्येतेनैव व्याख्यातम् ।
दैर्घ्यादयो ऽपि ध्वनिष्विव वर्णेष्वपि स्वाभाविका एव ।
अन्यथा स्वरेष्विव व्यञ्जनेष्वपि ध्वानोपधानवशेन दीर्घादिप्रतिभासप्रसङ्गात् ।
न तथाविधध्वनिव्यङ्गं व्यञ्जनमिति चेन्न ।
तथात्वे वर्णेष्वेव विशेषो ऽङ्गीकार्यः स्यात् ।
स एव दैर्घ्यादिपदाभिधेयो भविष्यति ।
सवितृसुषिरप्रभृतिज्ञानमेवारिष्यसूचकम् ।
वक्ष्यते चैतत् ।
एवमन्यदप्यूहनीयमिति ।
तस्मात्पदवाक्यप्रमाणविदामग्रेसरेण परमास्तिकेन भगवता भाष्यकारेणोक्तो भगवति स्वरूपभेदाभाव एव श्रुत्यर्थो ऽवधेयः ।
१,६१३
$सिद्धान्ते नेह नानेति श्रुत्यर्थसमर्थनम्$
नन्वत्राप्यनुपपत्तिरेव ।
यतो नानेति नानाभूतः प्रपञ्चो ऽभिधीयते ।
नतु भेदः ।
तथात्वे नानात्वमिति स्यात् ।
मैवम् ।
मुक्तोपसृप्यव्यपदेशादित्यादाविव भावप्रधाननिर्देशोपपत्तेः ।
भवितृप्राधान्ये ऽपि ब्रह्मणि नानाभूतावयवगुणकर्मादिनिषेधे नानात्वमेव निषिद्धं भवति ।
‘सविशेषणे हि विधिनिषेधौ विशेषणमुपसङ्क्रामते’ इति न्यायात् ।
उभयनिषेधे गौरवात् ।
विशेषणस्य प्रथमप्राप्तत्वात् ।
अन्यथा तदुपादानवैयर्थ्यात् ।
‘न जीर्णमलवद्वासाः स्नातकः स्यात्’ इत्यादौ दर्शनाच्च ।
अत एवोक्तम् ।
‘विशेष्यं नाभिधा गच्छेत्क्षीणशक्तिर्विशेषणे’ इति ।
यत्क्वचिद्विशिष्टविधिनिषेधाङ्गीकरणं तदगतिकयैव ।
सविशेषत्वं च ब्रह्मणो वक्ष्यामः ।
नन्वेवं सत्यप्राप्तप्रतिषेध इति चेन्न ।
आभासप्राप्तत्वात् ।
तथाच’न स्थानतो ऽपि’ इत्याद्यधिकरणपूर्वपक्षे दर्शयिष्यामः ।
परस्यैव स्वर्गापूर्वादिनिषेधो ऽप्राप्तत्वादनुपपन्नः ।
‘एकमेवाद्वितीयम्’ इत्यादौ सजातीयविजातीयस्वगतनानात्वनिषेधं व्याकुर्वता भवतापि समाधातव्यमेतत् ।
१,६२४
साधकत्वं सतस्तेन साक्षिणा सिद्धिमिच्छता ।
स्वीकृतं ह्यविशेषस्य साध्या साधकता पुनः (अनुव्याख्यानम्)१,१.१९
तच्चाविशेषमानेन साध्यमित्यनवस्थितिः (अनुव्याख्यानम्)१,१.२०अब्
न्यायसुधा-
$अविशेषस्य साधकत्वभङ्गः$
ननु यथा भवतो मिथ्याभूतस्य साधकत्वं न सम्मतम् ।
तथा मम सत्यस्य साधकत्वं न सम्मतम् ।
चैतन्यातिरिक्तस्य सत्यतानभ्युपगमात् ।
चैतन्यस्य च क्रियावेशशून्यस्य साधकत्वायोगात् ।
तत्र यथा मिथ्याभूतस्य साधकत्वानभ्युपगमेन श्रुतेर्मिथ्यात्वे ऽसाधकत्वप्रसङ्गान्न बन्धमिथ्यात्वसाधकतेत्युक्तं भवता ।
एवं मयापि सत्यस्य साधकत्वमनभ्युपगच्छता वक्तुं शक्यत एव ।
प्रत्यक्षस्य सत्यत्वे साधकत्वं न स्यात् ।
मिथ्यात्वं तु त्वयैव नोपेयते ।
ततश्च प्रत्यक्षस्यापि बन्धसत्यत्वसाधकत्वाभावात्’मिथ्यात्वमपि बन्धस्य न प्रत्यक्षविरोधतः’ इत्यनुपपन्नमिति ।
एवञ्च प्रथममेव मतिकर्दमे कथारम्भणमशक्यमापद्येत ।
तेनाविचार्यैय तावत्प्रमाणसदसक्षत्त्वं विचार आरब्धव्य इति ।
मैवम् ।
दुःखादिसत्यताग्राहिणः प्रत्यक्षस्य सत्यत्वे ऽप्यविरोधात् ।
सतः साधकत्वं मया न स्वीकृतमित्युक्तमिति चेत्तत्राह साधकत्वमिति
तेन मायावादिना ।
भावरूपाज्ञानस्येति शेषः ।
हिशब्दो हेतौ ।
प्रसिद्धिद्योतको वा ।
मायावादिना खलु भावरूपाज्ञानं सिषाधयिषता’प्रत्यक्षं तावदहमज्ञो मामन्यं च न जानामीत्यपरोक्षावभासदर्शनात्’ इत्यादिना तत्साधनाय
साक्षिप्रत्यक्षं प्रमाणमङ्गीकृतम् ।
आश्रयप्रतियोगिज्ञानभूतमपि साक्षिचैतन्यमित्याद्युत्तरवाक्येन प्रत्यक्षस्य साक्षित्वावगमात् ।
एवञ्च साक्षिणाज्ञानसिद्धिमिच्छता परेण सतः साधकत्वं स्वीकृतमेव ।
साक्षिचैतन्यस्य सत्त्वात् ।
अतो मया सतः साधकत्वं नाङ्गीकृतमिति न शक्यते वक्तुम् ।
अस्माभिरपि दुःखादिबन्धसत्यतायां साक्षिप्रत्यक्षमेवोपन्यस्तमिति हृदयम् ।
अज्ञानवशादेव साक्षिणः साधकत्वं मयाङ्गीक्रियते ।
न स्वत इति चेन्न ।
इतरेतराश्रयत्वप्रसङ्गात् ।
न खलु साक्ष्यवभासादन्याज्ञानसत्ता तवास्ति ।
ततो ऽज्ञाने सति साक्षिणः साधकत्वसिद्धिस्तस्यां चाज्ञानसिद्धिरिति कथं नेतरेतराश्रयत्वम् ।
द्वयोरनादित्वान्नैवमिति चेत् ।
तर्ह्यज्ञानवशादिति रिक्तं वचः ।
नहि सर्वथा यद्यन्नापेक्षते तत्तदधीनमिति युज्यते ।
अपेक्षायां तु परस्पराश्रयानुत्तारः ।
१,६३०
एवमुभयवादिसम्प्रतिपन्नं प्रमाणं स्वमते ऽस्तीति दर्शयितुं सत्यस्य साक्षिणो ऽज्ञानसाधकत्वं पराभ्युपगतमुपन्यस्तम् ।
साम्प्रतं प्रसङ्गात्तदपि नोपपद्यत इत्याह अविशेषस्येति
भावरूपमज्ञानमनिच्छन्तं प्रति हि तत्र साक्षिप्रत्यक्षं प्रमाणमुपन्यस्तम् ।
नच तदुचितम् ।
साक्षिणो ऽशेषविशेषविधुरत्वाङ्गीकारात् ।
अविशेषस्य साधकता तु परं प्रति त्वया साध्यैव ।
न तु सिद्धा ।
यत्साधकं करणं वा फलं वा नित्यं वा ज्ञानं तत्सर्वं जात्यादिविशेषवत् ।
यच्च निर्विशेषं शशविषाणादि न तत्साधकमिति परेण नियमस्याङ्गीकृतत्वात् ।
न ह्यसम्प्रतिपन्नसाधकभावं कस्याप्यर्थस्य साधनायोपन्यासमर्हति ।
अतिप्रसङ्गात् ।
ननु प्रमाणं वस्तुसिद्धावुपयुज्यते ।
तत्सविशेषत्वं तु किमर्थमिति चेत्सत्यम् ।
निर्विशेषस्य प्रामाण्यमेव नोपपद्यत इति तदर्थमेव विशेषानुसरणम् ।
न हि साधकतमत्वादिविशेषाभावे प्रामाण्यं शक्यनिर्वाहम् ।
साक्षिण्यारोपिततयैवाज्ञानं सिद्धयति ।
न ततो ऽतिरिक्तं साधकत्वं तस्येति चेत् ।
न तर्हि सुतरां साक्षिणाज्ञानसिद्धिः ।
प्रकाशाश्रयं तमः प्रकाशेनैव सिद्धयतीत्यस्यार्थस्याविशेषवादिना भवता परं प्रत्युपपादयितुमशक्यत्वात् ।
किञ्चाज्ञानमारोपितमपि साक्षिणो विषयो न वा ।
आद्ये विषयित्वं साक्षिण्यापतितम् ।
द्वितीये साक्षित्वमेवानुपपन्नम् ।
‘साक्षाद्द्रष्टरि सञ्ज्ञायाम्’ इति निर्वचनासम्भवात् ।
अतद्विषयेण तत्सिद्धिरलौकिकी ।
निर्विशेषस्याप्यज्ञानवशात्साक्षित्वमिति च निरस्तम् ।
यस्तु वैय्यात्याद्ब्रयीति ।
सिद्धप्रामाण्यमिव साध्यप्रामाण्यमपि प्रमारं प्रयोगार्हमेव ।
अन्यथा शब्दानित्यत्वे कृतकत्वमुपन्यस्य परेणान्यतरासिद्धावुद्भावितायां तत्साधनस्फूर्तिमतापि तूष्णीं भवितव्यम् ।
अहं चाविशेषस्य साक्षिणः साधकत्वं विप्रतिपत्तौ साधयिष्यामीति ।
स प्रष्टव्यः ।
किं सविशेषेण प्रमाणेनैतत्साध्यते ।
उताविशेषेणेति ।
नाद्यः ।
तस्य तव मिथ्यात्वात् ।
परेण चोक्तन्यायेन तस्य साधकत्वानभ्युपगमात् ।
अतो द्वितीय एवाङ्गीकर्तव्य इत्याह
तच्चेति
किमतः ।
इदं ततः ।
तदविशेषप्रमाणं किं साक्ष्युतन्यत् ।
आद्ये अन्योन्याश्रयत्वम् ।
साक्षिणः साधकत्वसिद्धिरिति ।
न द्वितीयः ।
तदभावात् ।
अविशेषान्तराङ्गीकारे दूषणमाह इत्यनवस्थितिरिति
तस्यापि अविशेषस्य साधकत्वमविशेषप्रमाणेनैव साध्यमित्युपपादनमितिशब्देन सूचयति ।
ननु चाविशेषस्य साध्या साधकतेति प्रकृतमतः सा चेति परामर्शो युक्तः ।
सत्यम् ।
तथापि प्राग्यन्मिथ्याभूतस्यापि साधकत्वं प्रमाणविकल्पनिराकरणेन निरस्तं तत्सविशेषत्वादिविकल्पनिराकरणेनापि निराकरणीयमिति
सूचनाय सामान्येन नपुंसकनिर्देशः ।
एतेन प्राग्विकल्पितः सताऽत्मभूतेनेति पक्षो ऽपि निरस्तो वेदितव्यः ।
१,६४३
अनङ्गीकुर्वतां विश्वसत्यतां तन्न वादिता (अनुव्याख्यानम्)१,१.२०च्द्
तस्माद् व्यवहृतिः सर्वा सत्येत्येव व्यवस्थिता (अनुव्याख्यानम्)१,१.२१अब्
न्यायसुधा-
$प्रमाण्यादिसत्तानभ्युपगमे वादित्वानुपपत्तिः$
मिथ्यात्वं यदीत्यादिनोक्तं प्रसङ्गमुपसंहरति अनङ्गीकुर्वतामिति
यस्मादेवं न मिथ्याभूतस्य साधकत्वं तत्तस्माद्विश्वसत्यतामनङ्गीकुर्वतामात्मातिरिक्तस्य सर्वस्यापि मिथ्यात्वं प्रतिपादयतां
नेहनानेत्यादिवाक्यानामपि मिथ्यात्वप्रसक्तया न वादिता न साधकता स्यात् ।
तद्वाक्यस्येति प्रकृतमेकवचनं समूहविषयमिति ज्ञापयितुमुपसंहारे बहुवचनम् ।
अथवातिप्रसङ्गान्तराभिधानमेतत् ।
तथाहि ।
यदि चैतन्यातिरिक्तं समस्तं मिथ्या स्यात्तदा समस्तान्तर्गतं कथाव्यवहाराङ्गभूतं प्रमाणादिकमपि मिथ्या स्यात् ।
तथाच विश्वसत्यतामनङ्गीकुर्वतस्तन्मिथ्यात्वमङ्गीकुवर्तो मायावादिनो निरुपायस्य कथकता न स्यात् ।
कुतः ।
तत्तस्मादुक्तरीत्या मिथ्याभूतस्य साधनबाधनाङ्गतायोगादिति ।
विश्वमिथ्यात्वमङ्गीकुर्वतामपि चार्वाकाणां बौद्धानां च वादित्वोपलम्भाद्वयभिचार इति चेन्न ।
तेषामप्यापादनविषयत्वात् ।
तदिदमुक्तमनङ्गीकुर्वतां चार्वाकबौद्धमायावादिनामिति ।
अन्यथा त्वया तेनेत्येकवचनस्य प्रस्तुतत्वादनङ्गीकुवर्त इत्यवक्ष्यत् ।
तथापि प्रमाणबाधः ।
चार्वाकादीनां वादित्वस्य प्रत्यक्षादिसिद्धत्वात् ।
मैवम् ।
वादित्वाभावस्यात्रापाद्यमानत्वात् ।
साधनस्य हि प्रमाणबाधो दूषणम् ।
न त्वापादनस्य ।
तस्य अनिष्यविषयत्वात् ।
अनिष्यस्य च प्रामाणिकपरित्यागाप्रामाणिकस्वीकाररूपत्वात् ।
अन्यथातिप्रसङ्गमात्रोच्छेदप्रसङ्गादित्याशयवानुक्तस्य प्रसङ्गत्वं स्फुटीकर्तुं विपर्ययपर्यवसानमाह पक्षबलाबलचिन्ता न स्यात्
व्यवह्रियते ऽनयेति व्यवहृतिः ।
कथाङ्गभूतप्रमाणादीति यावत् ।
प्रमाणादीनां कथाव्यवहारकारणत्वात्कारणाभावे च कार्याभावस्य सुलभत्वात्सुस्थो ऽतिप्रसङ्गमूलभूतः प्रतिबन्ध इति ज्ञापयितुं प्रमाणादीति
रूढपदपरित्यागेन व्यवहृतिरिति यौगिकपदोपादानम् ।
एन्द् ओफ़् वोलुमे १
२,१
$जिज्ञासाधिकरणे प्रमाणादिसत्तानभ्युपगमे वादित्वानुपपत्तिः$
अस्तु कथाङ्गभूतप्रमाणादिव्यवहारस्य सत्यता दुःखादिबन्धस्य तु किमायातमित्यत आह व्यावहारिकमिति
एतस्मात्प्रमाणादिव्यवहारस्य सत्यत्वाद्वयावहारिकं व्यवहारविषयो दुःखादि ।
चशब्दो न केवलं व्यवहारो व्यावहारिकं चेति सम्बद्धयते ।
नहि प्रमेयं नास्त्यस्ति च प्रमाणमिति सम्भवति ।
व्याघातादित्यर्थप्रतिपादनाय व्यावहारिकमित्युक्तम् ।
यदत्रोक्तम् ।
प्रमाणादीनां सत्त्वं यदभ्युपेतं कथकेन तत्कस्य हेतोः ।
किं वाग्व्यवहारस्य प्रमाणादिसत्ताभ्युपगमव्याप्तत्वेन तदभावे प्रवर्तयितुमशक्यत्वादथ कथकप्रवर्तनीयवाग्व्यवहारं प्रति हेतुभावादुत
लोकसिद्धत्वादथवा तदनभ्युपगमस्य तत्त्वनिर्णयविजयातिप्रसक्तत्वात् ।
आद्ये ऽपि किं व्यवहारमात्रं प्रमाणादिसत्ताभ्युपगमव्याप्तमुत साधबाधनक्षमो व्यवहारः ।
न प्रथमः ।
तदनभ्युपगच्छतो ऽपि चार्वाकमाध्यमिकादेर्वाग्विस्तराणां प्रतीयमानत्वेन व्यभिचारात् ।
तस्यैवानिष्पत्तौ भवतस्तन्निरासप्रयासानुपपत्तेः ।
तस्यापि पक्षत्वे बाधः ।
द्वितीये बाधतादवस्थ्यम् ।
मम सत्तानभ्युपगमस्यानुभवसिद्धत्वात् ।
हेतुश्च तवासिद्धः ।
सिद्धत्वे वा सिद्धं मम समीहितम् ।
व्यतिरेके च सद्वचनाभासलक्षणयोगित्वमुपाधिः ।
यतो ऽभ्युपगम्यापि प्रमाणसत्तां प्रवर्तिता मतान्तरानुसारिभिर्व्यवहारा अभ्युपगतप्रमाणादिसत्त्वैर्मतान्तरानुसारिभिरपरैः साधनाद्यक्षमा इति
कथ्यन्ते ।
तेन ज्ञायते व्यवहारस्य साधनाद्यक्षमतायां सद्वचनाभासलक्षणयोगित्वमेव प्रयोजकम् ।
नतु सत्तानभ्युपगम इति ।
ननु यदि प्रमाणादीनि न सन्ति ।
तदा व्यवहार एव धर्मी कथं सिद्धयेत् ।
दूषणादिव्यवस्था वा कथं स्यात् ।
सर्वविधिनिषेधानां प्रमाणाधीनत्वात् ।
मैवम् ।
न ब्रूमो वयं न सन्ति प्रमाणादीनीति स्वीकृत्य कथारभ्येति ।
किं नाम सन्ति न सन्ति प्रमाणादीनीत्यस्यां चिन्तायामुदासीनैर्यथा स्वीकृत्य तानि भवता व्यवह्रियन्ते ।
तथा व्यवहारिभिरेव कथा प्रवर्त्यतामिति ।
किञ्च कीदृशीं मर्यादामवलम्ब्य प्रवृत्तायां कथायामिदं दूषणमुक्तं भवता ।
किं प्रमाणादीनां सत्त्वमुपगम्योभाभ्यां वादिप्रतिवादिभ्यां प्रवर्तितायामुतासत्त्वमभ्युपेत्याथैकेन सत्त्वमपरेण चासत्त्वमङ्गीकृत्य ।
नाद्यः ।
अभ्युपगतप्रमाणादिसत्त्वं प्रत्येतादृक्पर्यनुयोगानवकाशात् ।
न द्वितीयः ।
स्वस्याप्यापत्तेः ।
न तृतीयः ।
तथैव कथान्तरप्रसक्तेः ।
तस्मात्प्रमाणादिसत्त्वासत्त्वाभ्युपगमौदासीन्येन, व्यवहारनियमे समयं बद्ध्वा, प्रवर्तितायां कथायां, भवतेदं दूषणमुक्तमिति वाच्यम् ।
तथाच व्याघातः ।
नच वाच्यं नेदं दूषणं प्रतिवादिनं प्रत्युच्यते ।
किं नाम शिष्यादयः प्रमाणादिसत्तानभ्युपगन्तुः कथानधिकारं ज्ञाप्यन्त इति ।
यतः शिष्यादीन्प्रत्यपि चार्वाकादेर्देषो ऽयमित्येवाभिधातव्यम् ।
कथं च तथा स्यात् ।
तस्य कथाप्रवेशाप्रवेशयोस्तद्बोधाक्षमत्वात् ।
कथायामेव हि निग्रहः ।
न द्वितीयः ।
स्यादप्येवं यदि कथकप्रवर्तनीयवाग्व्यवहारं प्रति प्रमाणादीनां हेतुता तत्सत्तानभ्युपगमे निवर्तेत ।
नत्वेवं सम्भवति ।
तथा सति तत्सत्तानभ्युपगन्तृणां वाग्व्यवहारस्वरूपमेव न निष्पद्येत ।
हेत्वनुपपत्तेः ।
अथ मन्यसे ।
कथकव्यवहारं प्रति हेतुत्वात्प्रमाणादीनां सत्त्वम् ।
सत्त्वाच्चाभ्युपगमो यत्सत्तदभ्युपगम्यत इति स्थितेरिति ।
मैवम् ।
कयापि नियमस्थित्या प्रवृत्तायां कथायां कथकवाग्व्यवहरं प्रति हेतुत्वात्प्रमाणादीनां सत्त्वं सत्त्वाच्चाभ्युपगमो भवता प्रसाध्यः ।
कथातः पूर्वं तु तत्त्वावधारणं परपराजयं वाभिलषद्भयां कथकाभ्यां यावता विना तदभिलषितं न पर्यवस्यति तावदनुरोद्धव्यम् ।
तच्च व्यवहारनियमसमयबन्धादेव द्वाभ्यामपि ताभ्यां सम्भाव्यत इति व्यवहारनियममेव बध्नीतः ।
सच प्रमाणेन तर्केण च व्यवहर्तव्यमित्यादिरूपः ।
नच प्रमाणादीनां सत्तापीत्थमेव ताभ्यामङ्गीकर्तुमुचिता ।
तादृशव्यवहारनियममात्रेणैव कथाप्रवृत्त्युपपत्तेः ।
प्रमाणादिसत्तामभ्युपेत्यापि तथाविधव्यवहारनियमव्यतिरेकेण कथाप्रवृत्तिं विना तत्त्वनिर्णयस्य जयस्य वाभिलषितस्य कथकयोरपर्यवसानात् ।
नापि तृतीयः ।
लोकव्यवहारो ऽपि प्रमाणव्यवहारो वा स्यात् पामरादिसाधारणव्यवहारो वा ।
नाद्यः ।
विचारप्रवृत्तिमन्तरेण तस्य दुर्निरूपत्वात् ।
तदर्थमेव च पूर्वं नियमस्य गवेषणात् ।
नापि द्वितीयः ।
शरीरात्मत्वादीनामपि तथा सति भवता स्वीकर्तव्यतापातात् ।
पश्चात्तद्विचारबाध्यतया नाभ्युपेयत इति चेत् ।
तर्हि प्रमाणादिसत्तापि यदि विचारबाध्या भविष्यति तदा नाभ्युपेयैव अन्यथा तूपगन्तव्येति लोकव्यवहारसिद्धतया सत्त्वमभ्युपगम्यत इति
तावन्न भवति ।
न चतुर्थः ।
यादृशो भवता प्रमाणादिसत्तामभ्युपगम्य व्यवहारनियमः कथायामवलम्ब्यते ।
तस्यैव प्रमाणादिसत्त्वासत्त्वानुसरणौदासीन्येनास्माभिरप्यवलम्भात् ।
तस्य यदि मां प्रति फलातिप्रसञ्जकत्वम् ।
तदा त्वां प्रत्यपि समानः प्रसङ्गः ।
तस्मात्प्रमाणादिसत्ताभ्युपगमस्य कथोपयोगाभावादनङ्गीकुर्वतां प्रमाणादिसत्तां न वादितेत्यनुपपन्नमिति ।
२,२३
तदेतत्सर्वमनेनापहसित वेदितव्यम् ।
तथा हि ।
यत्तावद्वयवहारमात्रस्य प्रमाणादिसत्ताभ्युपगमव्याप्तत्वपक्षे दूषणमुक्तम् ।
तदसत् ।
यदि खल्वेवमस्माभिः साध्येत ।
मायावादी प्रमाणादिसत्ताभ्युपगमवान् ।
व्यवहर्तृत्वात् ।
तद्वयवहारो वा प्रमाणादिसत्ताभ्युपगमपुरःसरो व्यवहारत्वात्तत्त्ववादिवत्तद्वयवहारवच्चेति ।
यद्वा नायं व्यवहर्ता प्रमाणादिसत्तानभ्युपगन्तृत्वात् ।
तद्वयवहारो वा न व्यवहारः ।
प्रमाणादिसत्ताभ्युपगमपुरःसरताशून्यत्वादिति ।
तदा स्यादेव व्यभिचारदोषः ।
को नाम स्वस्थात्मैवमनुमिमीते ।
किं नाम यदि प्रमाणादीनि सन्ति न स्युः ।
तर्हि साधकानि न स्युः ।
असतः सादकत्वानुपपत्तेः ।
तेषां चासाधकत्वे तत्कार्यो व्यवहारो न निष्पद्येत ।
तथाच वादिता न स्यात् ।
अस्ति चेयम् ।
तस्मात्तद्धेतूनां प्रमाणादीनां सत्ताभ्युपगन्तव्येत्याचार्येण प्रसङ्गत्वेनाभिमतत्वात् ।
व्यभिचारस्थलस्य च प्रसङ्गविषयतुल्यताङ्गीकृता ।
बाधस्तु प्रसङ्गस्यालङ्कार एवेत्युक्तम् ।
साधनबाधनक्षमव्यवहारस्य प्रमाणादिसत्ताभ्युपमव्याप्तत्वपक्षे ऽप्युक्तदूषणमनेनैव निरस्तम् ।
मायावादिनं तद्वयवहारं वा पक्षीकृत्य विशिष्टव्यवहारकर्तृत्वेन विशिष्टव्यवहारत्वेन वा हेतुना प्रमाणादिसत्ताभ्युपगन्तृत्वे तत्पूर्वकत्वे वा
साध्यमाने तत्स्यात् ।
विमतो व्यवहारो न साधनादिक्षमः ।
प्रमाणादिसत्ताभ्युपगमपूर्वकतारहितत्वादिति वा साधने कथञ्चिदन्वये पूर्वोक्तोपाधिः स्यात् ।
नचैवमित्युक्तम् ।
किञ्चायमुपाधिर्न साधनाद्भिद्यते ।
यदा हि प्रमाणादिसत्ता नाभ्युपगता तदा तदसत्त्वमेवाङ्गीकृतमिति स्वरूपसिद्धत्वम् ।
तच्च सद्वचनाभासलक्षणविशेष एव ।
नन्वेतदाशङ्कयोक्तं न ब्रूमो वयमित्यादि दुरुक्तं तत् ।
सत्त्वासत्त्वे विहाय प्रमाणस्वरूपस्य बुद्धावारोपयितुमशक्यत्वेनोदासीनस्य तत्स्वीकारानुपपत्तेः ।
एवञ्च वदता यदनिर्वचनीयमभिप्रेतं तदग्रे निराकरिष्यते ।
यदप्यत्रोक्तं कीदृशीं मर्यादामित्यादि ।
तत्र यः प्रमाणाद्यसत्त्वमभ्युपैति ।
यश्च तत्सत्तां प्रतीत्यापि सत्ताऽद्युदासीनो ऽहमिति मन्यते तं प्रतीदं दूषणमिति वदामः ।
न चोक्तदोषः ।
नहि वयं प्रमाणादिसत्ताभ्युपगमं कथाप्रवृत्तिकारणतयावश्यं ततः पूर्वभाविनं ब्रूमः ।
किं नाम यो यथाकथञ्चित्कथायां प्रवृत्तस्तं विपक्षे कथानुत्पत्तिप्रसङ्गं दण्डं प्रदर्श्य तत्कारणानां प्रमाणादीनां सत्तामङ्गीकारयामः ।
न चैवं कथान्तरप्रसक्तयादिदोषः ।
प्रमाणादिसत्तानभ्युपगमे कथाया एवानिष्पत्तेः ।
एतेन शिष्यज्ञापनमपि समाहितम् ।
प्रतिवादिनः कथाप्रवेशमभ्युपगम्य तत्र प्रवृत्तं प्रति प्रमितकथाकार्यबलेन कारणप्रमाणादिसत्ताया अभ्युपगन्तव्यत्वस्योक्तत्वात् ।
द्वितीयपक्षोक्तदोषो ऽप्यसङ्गत एव ।
नहि वयं प्रमाणादिसत्ताभ्युपगममपि कथकप्रवर्तनीयवाग्व्यवहारकारणकोटौ निवेशयामः ।
येन तत्सत्तानभ्युपगन्तृणां वाग्व्यवहारस्वरूपं न निष्पद्येतेति प्रसङ्गः स्यात् ।
अपि तर्हि प्रमाणादीनामेव कथाकारणता ।
सा च सत्त्वाभावे नोपपद्यत इति तत्सत्त्वमङ्गीकरणीयमिति वदामः ।
यत्पुनः कथकवाग्व्यवहारं प्रतीत्याद्याशङ्कयोक्तम् ।
‘एवं वदता कथाप्रवृत्त्युत्तरकालं प्रमाणादिसत्ताङ्गीकारयितव्या ।
तथाच कथाफलस्य प्रमाणादिसत्ताभ्युपगमस्य न कथाकारणत्वम् ।
किन्तु प्रमाणैर्व्यवहर्तव्यमित्यादिव्यवहारनियमस्यैवेति ।
तदस्माभिरभ्युपगतमेव ।
यस्तु सत्ताभ्युपगममपि कथाकारणं ब्रूते ।
स एवैवं पर्यनुयोज्यः ।
यत्पुनर्नच प्रमाणादीनामित्यादिना कल्पनागौरवमवादि ।
तत्र किं प्रमाणादिसत्ताभ्युपगमे कल्पनागौरवमुत तत्सत्ताभ्युपगमस्य कारणकोटिप्रवेशने ।
नाद्यः ।
कारणत्वान्यथानुपपत्त्या तत्सत्तायाः प्रमितत्वात् ।
प्रमितस्य परीक्षकैरङ्गीकरणीयत्वात् ।
द्वितीये तु संवाद एव ।
तृतीये ऽप्याद्यं तावदङ्गीकुर्मः ।
तत्रोक्तं दूषितप्रायम् ।
द्वितीयाङ्गीकारे ऽपि न दोषः ।
देहात्मत्वादिकं तु पश्चाद्विचारबाध्यतया नाभ्युपगम्यत इति ।
यदत्रोक्तं प्रमाणादिसत्तापीत्यादि ।
तेन किमुक्तं भवति ।
किं विचारसाध्यः प्रमाणादिसत्ताभ्युपगमो न विचारप्रवृत्तेः कारणमिति ।
किं वा विचारबाध्यताया एव प्रमाणादिसत्ताभ्युपगमप्रयोजकत्वेन व्यवहारस्याप्रयोजकत्वमिति ।
आद्ये सम्प्रतिपत्तिः ।
न द्वितीयः ।
औत्सर्गिकं प्रामाण्यं बाधकादपोद्यत इत्यत्रदर्शने तस्यैव प्रयोजकत्वात् ।
चतुर्थपक्षोक्तदोषो ऽप्यनेनैव परिहृतः ।
नहि वयं प्रमाणादिसत्ताभ्युपगमं कथाफलनिष्पत्तिहेतुं ब्रूमः ।
किन्तु प्रमाणादीन्येव ।
तेषां च तद्धेतुता नासतामुपपद्यत इति तत्सत्तावश्यमभ्युपगमनीयेति ।
स्यादेतत् ।
नियतावाग्व्यहारक्रियासमयबन्धेन कथां प्रवर्तयतापि व्यवहारसत्ताभ्युपगन्तव्या ।
नहि सत्तामनभ्युपगम्य व्यवहारक्रियाभिधातुं शक्या ।
क्रिया हि निष्पादना ।
असतः सद्रूपताप्रापणमिति यावत् ।
प्रमाणैव्यर्वहर्तव्यमिति च नियमबन्धनं प्रमाणकरणभावस्य नियमान्तर्भावान्नियतपूर्वसत्त्वरूपं कारणत्वं प्रमाणानामनादाय न पर्यवस्यति ।
दूषणानां चास्तित्वेन भङ्गावधारणनियमबन्धने साधनाङ्गानां च व्याप्त्यादीनां सत्त्वेन तद्विषयस्य तत्त्वरूपताव्ववहारनियमनादौ च
कण्ठोक्तयैव तस्य तस्य सत्त्वमङ्गीकृतमिति रि??मिदमुच्यते ।
प्रमाणादीनां सत्तामनभ्युपगम्य कथाऽरम्भः शक्यत इत्येवमाशङ्कय यदुक्तमेतैरपि बाधकैः कथायामारब्धायामभिमतस्य प्रसाधनीयत्वेन
पूर्वोक्तबाधाया न निस्तारः स्यादिति ।
तदप्यनेनैव परिहृतम् ।
कथास्वरूपपलनिष्पत्तये स्वेच्छास्वीकृतस्यैव व्यवहारनियमस्य प्रमाणादिसत्तास्वीकार एव पर्यवसानमिति कथायां प्रवृत्तं
स्वव्याघातमप्यचेतयन्तं प्रत्यस्माभिरुच्यमानत्वात् ।
ननु कथादेः कार्यस्य सत्त्वे कथञ्चित्कारणस्य प्रमाणादेः सत्त्वमङ्गीकरणीयं स्यात् ।
कार्यस्यैव सत्त्वाभावे किं कारणसत्तयेति चेत् ।
कुतः प्रमाणात्कथादिसत्ताभावो भवता निश्चितः ।
श्रुत्यादेरिति चेन्न ।
तस्यैवानेकातिप्रसङ्गगहननिविष्टत्वात् ।
तथाच सिद्धे तत्प्रामाण्ये कथादिकार्यासत्त्वसिद्धिः ।
ततो ऽन्यथासिद्धया तर्कस्याभासतासिद्धिस्तस्यां च श्रुत्यादिप्रामाण्यसिद्धिरिति चक्रकापत्त्या नैकस्यापि सिद्धिः ।
असतः कारणत्वं तु सूत्रकृतैव निराकरिष्यत इत्यलं प्रसङ्गेन ।
२,४६
$व्यावहारिकसत्यस्य साधकत्वभङ्गः$
व्यवहारसतश्चापि साधकत्वं तु पूर्ववत् (अनुव्याख्यानम्)१,१.२१अब्
न्यायसुधा-
स्यादेतदेवम् ।
यदि नेहनानोत्यादिबलेनात्मातिरिक्तस्य सर्वस्यासत्त्वमभ्युपगच्छामः ।
न चैवं किं नाम व्यावहारिकी सत्ताभ्युपगम्यत एव ।
तथा च सर्वान्तःपातिनो व्यवहारसतः प्रमाणादेः साधकत्वसम्भवान्नोक्तप्रसङ्ग इत्यत आह व्यवहारसतश्चेति
चशब्दो हेतौ ।
अपिशब्दः समुच्चये ।
तुशब्दो ऽवधारणे ।
व्यवहारसतो ऽपि साधकत्वं पूर्वस्यासत इव प्रतिवादिनो न सिद्धमेव यतो ऽतो नोक्तप्रसङ्गनिस्तार इति ।
अयमर्थः ।
यदि व्यावहारिकं सन्नाम सदेव तदा मिथ्यात्वप्रतिपादनं व्याहतम् ।
फलितं चास्मन्मनोरथद्रुमेण ।
व्यर्थं च व्यावहारिकपदम् ।
अथ तदसत्तदा किमनेनाधिकमाचरितम् ।
सत्त्वाभावे साधकत्वं न स्यादित्यनिष्यप्रसङ्गस्य तदवस्थत्वादिति ।
ननु च द्विविधं सन्मुख्यममुख्यं च ।
तत्र यस्य सर्वप्रकारेण बाधितत्वं नास्ति तन्मुख्यं सत्पारमार्थिकमिति च गीयते ।
यस्य तु सत्प्रतीतिरेव सत्ता तदमुख्यं सत् ।
नच ततः सत्ता सिद्धयति ।
तथाहि ।
किं सत्तावगममात्रात्तत्सत्ताभ्युपगम्येति मन्यसे ऽबाधितात्तदवगमाद्वा ।
नाद्यः ।
मरुमरीचिकाऽदौ जलरूपतासद्भावाभ्युपगमप्रसङ्गात् ।
द्वितीये ऽपि वादिप्रतिवादिमध्यस्थमास्यि तस्यापि कथाकाल एव बाधितत्वावगमाभावात् ।
अथवा कस्यचिदपि कालान्तरे ऽपि च बाधितत्वबोधविरहात् ।
नाद्यः ।
अतिप्रसङ्गात् ।
पुरुषत्रयावगतस्याप्येकक्षणावगतस्य पुरुषान्तरेण तेनापि क्षणान्तरे ऽपि बहुलं बाधदर्शनात् ।
नचासावर्थो ऽसत्यो ऽपि द्वित्रादिपुरुषमात्रपूर्वजाततत्प्रतीत्यनुरोधाद्बाधदर्शने सञ्जाते ऽपि तथैव सन्नित्यभ्युमभ्युपगम्यते ।
तस्माद् द्वितीयः पक्षः परिशिष्यते ।
न चासावमुख्ये ऽस्तीति कुतः पारमार्थ्यप्राप्तिः ।
नच वाच्यं सत्प्रतीतेरपि प्रतीत्यन्तरमेव सत्तेत्यनवस्थेति ।
प्रतीतेः पारमार्थिकत्वात् ।
नहि तस्या बाधो ऽस्ति ।
अस्ति चेत्सैव प्रतीतिरबाधिता परमार्थसती ।
नच प्रतीतेः स्वरूपभेदो ऽस्तीत्यतो विज्ञानं ब्रह्मैव परमार्थसत् ।
अमुख्यं पुनर्द्वेधा ।
मायोपाधिमविद्योपाधिकं चेति ।
तत्राऽद्यमम्बरादिकम् ।
तच्चाब्रह्मज्ञानाद्बाधवैधुर्येण हानादिव्यवहारनिर्वाहकत्वाद्वयावहारिकमिति गीयते ।
कतिपयप्रतिपत्तृकतिपयकालतथात्वावगमादेव हि लौकिको व्यवहारः प्रतीयते ।
द्वितीयं शुक्तिरजतादि ।
नतु प्रतीतिसमयमात्रपरिवर्ति ।
न पुनर्हानादिहेतुरिति प्रातितिकमुच्यते ।
तदेवं सत्त्रैविध्यादम्बरादिकं विश्वं सदपि पारमार्थिकत्वाभावान्मिथ्येति युज्यते ।
व्यावहारिकसत्त्वाच्च तदन्तर्गतस्य प्रमाणाऽदेः कथाङ्गतोपपद्यते ।
पारमार्थिकप्रातीतिकव्यावृत्त्यर्थत्वेन व्यावहारिकपदं च सम्भवतीति अत्रेदं वक्तव्यम् ।
किं पारमार्थिकसदेव सदसच्च बाधकभेदेन द्विविधमिति सत्त्रैविध्यमुत सत्येवान्तरभेदेन ।
आद्ये प्रागुक्तदोषनिस्तारः ।
नहि सदिति ज्ञानमात्रेणासदर्थक्रियार्हम् ।
येन तथाविधं प्रमाणादि, कथाङ्गतां गच्छेत् ।
तथात्वे विषमपि पीयूषतयावगतं तदर्थक्रियां कुर्यात् ।
बाधविलम्बतार्थक्रियाकारित्वप्रसङ्गात् ।
यदपि तथैव लौकिको व्यवहारः प्रतीयत इति तदग्रे निराकरिष्यते ।
अर्थक्रियाप्यसतीति चेतरेतराश्रयादिना निरस्तम् ।
सतो ऽर्थक्रियासम्भवादसत्येव कथञ्चित्साङ्गीकार्येति चेत् ।
श्रुतिप्रामाण्यनिश्चयोत्तरकालमेवैतत् ।
प्राक्तन्निश्चयात्परमार्थसत एवार्थक्रियेति मन्यमानः प्रतिवादी कथं बोधनीयः ।
अन्योन्याश्रयादिप्रसङ्गादित्युक्तम् ।
२,५९
$सत्त्रैविध्ये अनिर्वचनीये च प्रमाणनिरासः$
सत्त्रैविध्यं च मानेन सिद्धयेत् केनेति पृच्छ्यते (अनुव्याख्यानम्)१,१.२२च्द्
तस्याप्युक्तप्रकारेण नैव सिद्धिः कथञ्चन ।
वैलक्षण्यं सदसतोरप्येतेन निषिध्यते (अनुव्याख्यानम्)१,१.२३
न्यायसुधा-
द्वितीयं दूषयति सत्त्रैविध्यं चेति
केनेत्यस्य परमार्थसता वा व्यावहारिकसता वा प्रातिभासिकसता वा ।
आद्ये ऽपि किमात्मेतरेणोताऽत्मनेत्यर्थः ।
पृच्छ्यते ऽस्माभिरिति शेषः ।
यथा मिथ्याभूतस्य साधकत्वं केन सिद्धयेदिति पृष्टं तथेति चार्थः ।
व्यावहारिकसतः साधकत्वसिद्धये यदुपन्यस्तं तच्चेति वा ।
पृच्छाविषयत्वमेव न दोष इत्यत आह तस्यापीति
असतः साधकत्वस्येव तस्य सत्त्रैविध्यस्यापि कथञ्चन विकल्पितपक्षेषु कस्मिंश्चन पक्षे नैव सिद्धिः ।
कुतः ।
उक्तप्रकारेणैव ।
तथा हि ।
न तावत्परमार्थसत्ताऽत्मेतरेण ।
द्वैताऽपत्तेः ।
नाप्यात्मनैव ।
तस्य निर्विशेषस्य साधकतायोगात् ।
व्यावहारिकप्रातीतिकयोस्तु स्वरूपमेवाद्यापि न सिद्धमिति ।
नामुख्यं सदसन्नपि सत् ।
येनोक्तदोषप्रसङ्गः ।
किन्त्वनिर्वचनीयम् ।
नच तदपि दुर्वचम् ।
सदसद्वैलक्षण्यस्यैव तत्त्वात् ।
तच्चोक्तविधया व्यावहारिकप्रातिभासिकभेदाद् द्विविधम् ।
तत्र व्यावहारिकस्य प्रपञ्चस्य सदसद्विलक्षस्य सद्विलक्षणत्वादुपपन्नं श्रुत्यादिना मिथ्यात्वसमर्थनम् ।
असद्विलक्षणत्वात्तदन्तर्गतस्य प्रमाणादेः साधकत्वं चेति ।
स्यादेतदेवं कथञ्चिद्यदि विश्वस्य सदसद्विलक्षणत्वं स्यात् ।
तदेव न सिद्धयतीत्याह वैलक्षण्यं सदसतोरिति
विश्वस्येति शेषः ।
सदसतोरिति सम्बन्धमात्रे षष्ठी ।
तथाच सदसद्भयामित्यर्थः ।
एतेन ।
प्रमाणविकल्पनिरासेन ।
तथाहि ।
विश्वस्य सदसद्वैलक्षण्यं किं सता प्रमाणेन साध्यते ।
उतासता ।
अथ सदसद्विलक्षणेन ।
नाद्यः ।
वादिनो ऽनुपपत्तेः ।
न द्वितीयतृतीयौ ।
प्रतिवादिनो ऽसम्प्रतिपत्तेरिति ।
नन्वत्र सदसद्वैलक्षण्ये साधकत्वं न स्यादिति प्रसङ्गो वाच्यः ।
नच तत्र व्याप्तिः ।
मैवम् ।
साक्षिणि व्याप्त्यवधारणोपपत्तेः ।
सत्त्वाभावे साधकत्वं न स्यादिति वा प्रसङ्गं वक्ष्यामः ।
तत्रासत्त्वमुपाधिरिति चेन्न ।
तस्य सत्त्वाभावानतिरेकात् ।
तद्भङ्गस्य च प्रागनिर्वचनीयसिद्धेरशक्यत्वात् ।
एतेन सद्विलक्षणत्वान्मिथ्यात्वोपपादनसद्विलक्षणत्वात्साधकत्वं चोपपन्नमिति परास्तम् ।
सद्वैलक्षण्ये ऽसत्त्वापत्त्या साधकत्वाभावास्यासद्वैलक्षण्ये च सत्त्वापातेन मिथ्यात्वोपपादनस्यासम्भवस्यापत्तेः ।
प्रागनिर्वाच्यसिद्धेर्व्याप्तिद्वयनिरासायोगात् ।
असद्वैलक्षण्यमात्रेण हानादिव्यवहारोपपत्तौ शुक्तिरजतादावपि तत्प्रसङ्गः ।
मायाविद्यावैलक्षण्यान्नैवमिति चेन्न ।
तस्य निराकरिष्यमाणत्वात् ।
वैलक्षण्यमात्रस्य प्र्रकृतानुपयोगादिति ।
आस्तां वा सत्त्वादिविकल्पनिरासेन दूषणाभिधानम् ।
प्रमाणमेव प्रपञ्चानिर्वचनीयतायां नोपपद्यते ।
नहि नेहनानेत्यादिश्रुतिः सदसद्वैलक्षण्यलक्षणानिर्वचनीयतां विश्वस्य वक्ति ।
२,७०
वैलक्षण्यं सतश्चापि स्वयं सद्भेदवादिनः ।
असतश्चापि विश्वस्य तेनानिष्यं कथं भवेत् (अनुव्याख्यानम्)१,१.२४
न्यायसुधा-
अथ मन्येत ।
विवादपदं सदसद्विलक्षणं ज्ञानबाध्यत्वाद्यदेवं तदेवं यथा शुक्तिरजतमित्यनुमानं विश्वस्य सदसद्विलक्षणत्वे मानम् ।
तद्बलाच्छ्रुतिरपि तत्रैव पर्यवस्यतीति ।
तदसत् ।
अनुमानस्याभासत्वादित्याशयवान्प्रथमप्राप्तत्वात्प्रतिज्ञां तावन्निराकरोति वैलक्षण्यं सतश्चेति
चशब्दाववधारणे ।
अपिशब्दौ मिथः समुच्चये ।
अयमर्थः ।
किमत्र सदसच्छब्दौ भावाभाववाचिनौ ।
किंवा विद्यमानाविद्यमानवाचिनौ ।
आद्ये दूषणम् ।
सतो भावात्मकस्य विश्वस्यासतो ऽभावाद्वैलक्षण्यमपि भावाभावभेदवादिनो मम मते स्वयं सदस्त्येव ।
एवमसतो ऽभावात्मकस्य विश्वस्य सतो भावाद्वैलक्षण्यमपि भेदवादिनः स्वयं सदेव ।
अतस्तेन साधितेन ममानिष्यं कथं भवेत् ।
किं नामैवं विभागेन सदसद्वैलक्षण्यसिद्धयापि प्रतिज्ञातार्थसिद्धेरर्थान्तरता परस्य स्यादिति १
यदि च प्रत्येकं भावाभाववैलक्षण्यं विवक्षितम् ।
तदा सतो भावस्यापि विश्वस्य सतो भावाद्वैलक्षण्यं भावभेदवादिनो मम स्वयं सदेव ।
भावान्तरवैलक्षण्याङ्गीकारात् ।
असतो ऽभावादपि वैलक्षण्यं सुतरां भावाभावभेदवादिनः स्वयं सदेव ।
एवमसतो ऽभावस्य विश्वस्यासतो ऽभावाद्वैलक्षण्यमभावभेदवादिनः स्वयं सदेव ।
अभावान्तरवैलक्षण्याङ्गीकारात् ।
सतो भावाद्वैलक्षण्यमपि सुतरां स्वयं सदेवेति तेनानिष्यं कथं भवेत् २
२,७७
भावाभाववैलक्षण्यं नाम तत्त्वानधिकरणत्वं विवक्षितमिति चेत् ।
तथापि सतो भावस्यापि विश्वस्यासतो ऽभावाद्वैलक्षण्यमभावत्वानधिकरणत्वमपि स्वयं सदेव ।
असतो ऽभावस्य विश्वस्य सतो भावाद्वैलक्षण्यमपि भावत्वानधिकरणत्वमपि मम स्वयं सदेव ।
भावाभावभेदवादित्वात् ।
यदि हि भावे ऽप्यभावत्वमभावे ऽपि भावत्वमङ्गीकुर्यां कुतस्तदा भावाभावभेदवादः ।
तथाच कथं तेन साध्यमानेनानिष्यं मम भवेत् ३
अथ प्रत्येकं भावाभावत्वानधिकरणत्वं विवक्षितमिति मन्येत ।
तदा सतो भावस्यापि विश्वस्य भावाभाववैलक्षण्यं भावाभावरूपत्वानधिकरणत्वं मम स्वयं सदेव ।
तथासतो ऽभावस्यापि विश्वस्योक्तरूपं वैलक्षण्यं स्वयं सदेव ।
भावभावभेदवादिनैकैकार्थस्योभयरूपतानङ्गीकारात् ।
भावे हि भावत्वमेव ।
नाभावत्वमपि ।
अभावे चाभावत्वमेव ।
न भावत्वमपीत्यतस्तेन साधितेनानिष्यं मम कथं भवेत् ४
अथैकैकस्य वस्तुनो भावत्वानधिकरणत्वमभावत्वानधिकरणत्वं च साध्यतया विवक्षितमिति मन्वीत ।
तथापि सतो भावस्यापि विश्वस्यासतो ऽभावाद्वैलक्षण्यमभावत्वानधिकरणत्वं मम सदेव ।
एवमसतो ऽभावस्यापि विश्वस्य सतो भावाद्वैलक्षण्यं भावत्वानधिकरणत्वं स्वयं सदेव ।
भावाभावभेदवादित्वात् ।
अतः कथं तेनानिष्यं भवेत् ।
अंशे सिद्धार्थतया परस्य निग्रहात् ।
उभयसाधनाददोष इति चेन्न ।
असिद्धसन्निधाने ऽपि सिद्धस्य तत्त्वानपायात् ।
विशिष्टसाधनान्नैवमिति चेन्न ।
तथापि वैयर्थ्यानिस्तारात् ५
२,८६
अथ भावाभिमते भावत्वानधिकरणत्वमभावाभिमते चाभावत्वानधिकरणत्वं साध्यते ।
अतो नोक्तदोष इति चेन्न ।
तथापि सतो भावस्यापि विश्वस्य सतो वैलक्षण्यं भावत्वानधिकरणत्वं मम स्वयं सदेव ।
कथं भावत्वभेदवादिनो नैकमेव भावत्वं सर्वभावेष्वनुगतम् ।
किं नाम प्रतिभावं भावत्वानि भिद्यन्ते ।
प्रतिपादयिष्यते चैतत् ।
तथाच भावो ऽपि भावत्वान्तराधारो भविष्यति ।
एवमसतो ऽभावरूपस्यापि विश्वस्यासतो वैलक्षण्यमभावत्वानधिकरणत्वं मम स्वयं सदेव ।
कथम् ।
अभावत्वभेदवादिनाभावे ऽप्यभावत्वान्तराभावस्वीकारात् ।
तथा च तेनानिष्यं कथं भवेत् ।
परस्यैव सिद्धार्थतानिस्तारात् ६
अथ भावाभावाभिमतयोः सर्वथा भावाभावत्वे न स्त इत्यर्थो विवक्षितः ।
तथापि सत एव भावस्यैवासतो वैलक्षण्यमभावत्वानधिकरणत्वं स्वयं सदेव ।
यतस्तस्माद्विश्वस्य तेन साधितेन भेदवादिनो ऽनिष्यं कथं भवेत् ।
इदमुक्तं भवति ।
यदि प्रागभावादिकं पक्षीकृत्याभावत्वानधिकरणमिति साध्यते ।
तदा तस्य भावत्वं प्रतिज्ञातं स्यात् ।
भावस्यैवाभावत्वानधिकरणत्वनियमात् ।
द्वौ नञौ हि प्रकृतमर्थं सातिशयं गमयतः ।
एवं वियदादिकं पक्षीकृत्य भावत्वानधिकरणत्वे साध्यमाने तस्याभावत्वं प्रतिज्ञातं स्यात् ।
अभावस्यैव भावत्वानधिकरणत्वनियमात् ।
भावनिषेध एव ह्यभावः ।
तथाच विश्वस्य भावाभावविभागस्य च परेणाभ्युपगतत्वान्न भावाभावभेदवादिनो ममानिष्यं किञ्चित् ।
किन्तु भावाभावव्यतिकरमात्रम् ।
तत्साधनं च प्रकृतानुपयुक्तमिति ७
२,९१
भावाभावाभिमतयोरभावभावत्वानधिकरणत्वे वादिप्रतिवादिसम्मते भावाभावत्वानधिकरणत्वमप्यधिकं साध्यते ।
अतो नोक्तदोष इति चेन्न ।
यतः सतो भावस्यैव विश्वस्य वियदादेरसतो वैलक्षण्यमभावत्वानधिकरणत्वं स्वयं सदेव ।
प्रमितमेव ।
यतश्चासतो ऽभावस्यैव विश्वस्य प्रागभावादेः सतो वैलक्षण्यं भावत्वानधिकरणत्वं स्वयं सदेव ।
प्रमितमेव ।
यतश्चासतो ऽभावस्यैव विश्वस्य प्रागभावादेः सतो वैलक्षण्यं भावत्वानधिकरणत्वं स्वयं सदेव ।
अतो भेदवादिनस्तेन विपरीतेन प्रतिज्ञातेनानिष्यं कथं भवेत् ।
प्रतिज्ञातार्थसिद्धौ खल्वनिष्यं भवेत् ।
नहि प्रमाणबाधितो ऽसौ सिद्धयति ।
व्यावहारिकभावत्वाभावत्वगोचरं प्रमाणं तत्त्वविषयेणानुमानेनैव बाध्यत इति चेन्न ।
यतो ऽस्माकं तावद्भावाभावत्वविषयं प्रमाणं तत्त्वगोचरमेव ।
अन्यथा चक्रकादिप्रसङ्गादतिप्रसङ्गाच्चेति ८
द्वितीये ऽप्येतदेवोत्तरम् ।
विश्वस्य सतः सत्याद्वैलक्षण्यमपि मम स्वयं स्वमतमेव ।
तथासतो ऽविद्यमानादपि वैलक्षण्यं स्वयमेव ।
अतस्तेन साधितेन ममानिष्यं कथं भवेत् ।
भवतु विश्वस्यात्मनः शशविषाणादेर्वैलक्षण्यं स्वमतम् ।
सतो वैलक्षण्यं तु कथम् ।
सत्त्वाङ्गीकारादिति चेन्मैवम् ।
सतो विद्यमानस्याप्यसतो भेदं वदतो मम यथा विश्वस्यासतो वैलक्षण्यं स्वयमेव ।
तथा सतो ऽपि विश्वस्य सतो वैलक्षण्यं सतां भेदवादिनः स्वयमेव ।
सदन्तरवैलक्षण्यात् ९
सत्त्वासत्त्वानधिकरणत्वं सदसद्विलक्षणत्वमिति चेत् ।
तदापि सतो विश्वस्यासतो वैलक्षण्यं सदसद्भेदवादिनः स्वयं सदेव ।
अतस्तेन साधितेन ममानिष्यं कथं भवेत् ।
परस्यैवांशतः सिद्धार्थता भवेत् ।
तर्हि सत्त्वानाधारत्वमेव साध्यत इति चेन्न ।
असत एव हि सतो वैलक्षण्यं सत्त्वानधिकरणत्वं भेदवादिनो मम स्वयं सदेव नियमेन भवति ।
तथाच विश्वस्य तेन सत्त्वानधिकरणत्वेन साधितेनासत्त्वापत्त्या परस्यैवानिष्यं भवेत् ।
अनिष्यप्रसङ्गेन परं निगृहीतवतो ममानिष्यं कथं भवेत् १०
२,९५
अथासत्त्वानधिकरणत्वे वादिप्रतिवादिसिद्धे सत्त्वानधिकरणत्वमप्यधिकं साध्यत इति चेन्न ।
अनिष्यानिस्तारात् ।
किञ्च, न सत्त्वं नामैकमनुगतं किन्तु प्रतिवस्तु सत्त्वानि भिद्यन्ते ।
तत्र वियदादेरसद्वैलक्षण्ये सति सत्त्वानधिकरणत्वं साध्यमानं किमेकसत्त्वानधिकरणत्वमुतानेकसत्त्वानधिकरणत्वमथ
सर्वसत्त्वानधिकरणत्वम् ।
किं वाविशेषितसत्त्वानधिकरणत्वम् ।
अथवा सर्वथा सत्त्वानधिकरणत्वं विवक्षितम् ।
नाद्यः ।
विश्वस्यासतो ऽपि वैलक्षण्यं तावन्मम स्वयमेव सतो ऽपि वैलक्षण्यं सत्त्वानधिकरणत्वमपि स्वयमेव ।
कथम् ।
सत्त्वभेदवादिनो मम सतो ऽपि सत्त्वान्तरानधिकरणत्वाङ्गीकारात् ।
तथाच सिद्धेन तेन साध्यमानेन ममानिष्यं कथं भवेत् ।
एवमेव चतुर्थनिराकरणमपि व्याख्येयम् ।
न द्वितीयतृतीयौ ।
विश्वस्यासतो वैलक्षण्यमसत्त्वानधिकरणत्वं तावन्मम स्वयमेव ।
सतो वैलक्षण्यमनेकसत्त्वानधिकरणत्वम् ।
सर्वसत्त्वानधिकरणत्वं तावन्मम स्वयमेव ।
सतो वैलक्षण्यमनेकसत्त्वानधिकरणत्वम् ।
सर्वसत्त्वानधिकरणत्वमपि स्वयं सदेव ।
कथम् ।
भेदवादिनैकैकस्यार्थस्यानेकसर्वसत्त्वास्वीकारात् ।
स्वीकारे च भेदभङ्गः स्यात् ।
ततश्च तेनानिष्यं कथं भवेत् ।
न पञ्चमः ।
यतः सत एवासतो वैलक्षण्यं स्वयं तदेव ।
नियतमेवास्ति ।
यतश्चासत एव सतो वैलक्षण्यमपि नियतमेवातस्तेन साध्यमानेन विश्वस्य सदसत्त्वापत्त्या भेदवादिनः कथमनिष्यं भवेत् ।
मया ह्येकस्यैव सदसत्त्वमङ्गीकृतम् ।
स्वोपाधौ प्रतिषेधाप्रतियोगित्वात्परोपाधौ च तत्प्रतियोगित्वात् ।
द्वयोरपि सर्वथा प्रतिषेधात्कथं सदसत्त्वप्रसङ्ग इति चेत्तर्ह्यसत एव सतो वैलक्षण्यं स्वयं सन्नियतमेव ।
अतः सद्वैलक्षण्यमुक्तवा पुनरसतो ऽपि वैलक्षण्येन व्याहतेन प्रतिज्ञातेन भेदवादिनः कथमनिष्यं भवेत् ।
एवं सत एवासतो ऽपि वैलक्षण्यं नियतमित्यसद्वैलक्षण्यमुक्तवा पुनर्विश्वस्य सद्वैलक्षण्यप्रतिज्ञा व्याहता द्रष्टव्या ।
नह्यनिर्वाच्यसिद्धेः प्रागयं विप्रतिषेधो निवारयितुं शक्यः ।
अस्मादेव हेतोस्तत्सिद्धिरिति चेत्तर्हि माता वन्ध्येति प्रतिज्ञा कुतो विप्रतिषिद्धा ।
वक्ष्यमाणहेतुनैव प्रतिज्ञातार्थसिद्धेस्तत्रापि सुवचत्वात् ।
‘सम्भावितः प्रतिज्ञाया अर्थः साध्येत हेतुना’ इति न्यायात्तत्र हेत्वाकाङ्क्षैव नास्तीति चेत्सत्यम् ।
किञ्च सत एव विश्वस्यासतो वैलक्षण्यं स्वयं सदेव ।
साक्षिप्रमितमस्ति ।
अतस्तेन बाधितेन सर्वथा सत्त्वानधिकरणत्वेन प्रतिज्ञातेन भेदवादिनः कथमनिष्यं भवेत् ।
अमुख्यसत्त्वावेदकं प्रमाणं तदिति चेत् ।
मम तावन्मुख्यमेव तत्सत्वमित्युक्तम् ।
परकीयप्रमाणतर्काणामद्यापि गहने निविष्टत्वादिति ।
केचित्ते तवानिष्यं कतं न भवेदिति व्याचक्षते ।
तत्र न पादादाविति प्रतिषेधस्य नञा निर्दिष्यमनित्यमिति समाधानमवसेयम् ।
२,९९
यद्युच्यते ऽपि सर्वस्मादिति सद्भेदसंस्थितिः ।
सन्मात्रत्वं ब्रह्मणो ऽपि तस्मात् तदपि नो भवेत् (अनुव्याख्यानम्)१,१.२५
न्यायसुधा-
द्वितीये दूषणान्तरमाह यद्युच्यत इति
अपिशब्दो दूषणसमुच्चये ।
सर्वस्मादपीत्यभिविधौ वा ।
यदीति श्रवणात्तर्हीति ग्राह्यम् ।
सर्वशब्दो ऽनेकार्थः ।
यद्यनेकस्मात्सतो वैलक्षण्यात् ।
अनेकसत्त्वानधिकरणत्वं विश्वस्य साध्यमित्युच्यते तर्हि सतां भेदसंस्थितिस्ततश्चापसिद्धान्तः ।
इदमुक्तं भवति ।
विश्वमनेकसत्तानधिकरणमिति प्रतिजानतानेकसत्त्वान्यङ्गीक्रियन्ते न वा ।
द्वितीये ऽनेकविशेषणं व्यथर्म् ।
आद्ये ऽप्येकस्मिन्नेवार्थे ऽनेकानि सत्त्वान्युताधारभेदेन ।
नाद्यः ।
वैयर्थ्यात् ।
द्वितीये त्विदमुपतिष्ठते ।
सद्भेदसंस्थितिरिति ।
अनेकसत्त्वाधिकरणताप्रतिषेधसामर्थ्यादेकैकसत्त्वस्वीकारापत्तेरिति वा ।
तृतीयस्य वेदं दूषणान्तरम् ।
यदि सर्वस्मात्सतो वैलक्षण्यं सर्वसत्त्वानधिकरणत्वं विश्वस्य साध्यतयोच्यते तर्हि सद्भेदसंस्थितिः ।
न ह्यनेकसदनङ्गीकारे सर्वशब्दस्य प्रयाजेनमस्ति ।
सन्त्येवानेकानि सन्ति पारमाथिर्कं त्वेकमेवेति चेन्न ।
तत्सिद्धयर्थमेवाद्यापि भवता प्रयतनात् ।
तदनधिकरणत्वसाधनेंऽशे ऽपसिद्धान्तात् ।
चतुर्थे दूषणान्तरमाहसन्मात्रत्वमिति
अविवक्षितविशेषं सत्त्वं यस्माद्ब्रह्मणो ऽप्यस्ति ।
तस्मात्कारणात्तस्मात्सतो ब्रह्मणस्तद्वैलक्षण्यम् ।
तत्सत्त्वानधिकरणत्वमपि विश्वस्य नो ऽस्माकं मतं भवेत् ।
तथाच सिद्धत्वात्तदपि साध्यं नो भवेत् ।
अविवक्षितविशेषसत्त्वानधिकरणत्वे साध्ये ब्रह्मगतसत्त्वानधिकरणतयापि प्रतिज्ञातार्थोपपत्तेरर्थान्तरतेति ।
२,१०५
$परमते सत्वनिरुक्तभङ्गः$
अथवा किमिदं सत्त्वं नाम ।
यदनधिकरणत्वं विश्वस्य साध्यते ।
किं सामान्यसत्त्वमुत स्वरूपसत्त्वम् ।
आद्यं दूषयति यद्युच्यत इति
सर्वस्मात्सर्वार्थानुगतात्सामान्याद्वैलक्षण्यं तदनाधारत्वमिति यावत् ।
साध्यतया यद्युच्यते तदा सद्भेदसंस्थितिः ।
यदि सत्तैव नास्ति तदा तदनधिकरणत्वप्रतिज्ञा व्यार्था स्यात् ।
नेदं शशविषाणाधिकरणमितिवद्विप्रतिपत्तेरेवानुदयात् ।
सत्तासामान्याङ्गीकारे च सद्भेदो दुर्वार एव ।
न ह्येकाश्रयं सामान्यमस्ति ।
सन्ति सत्ताधिकरणानि सन्तीति चेत्तर्हि कानीति वक्तव्यानि ।
द्रव्यादीनीति चेत्कथं तर्हि तेषामेव तदनधिकरणत्वसाधनम् ।
व्यवहारतः सर्वमस्ति ।
परमार्थतस्तु नेति चेन्न ।
उक्तोत्तरत्वात् ।
एतच्च परमतेनोत्तरमुक्तं वेदितव्यम् ।
स्वमतेन तु सिद्धसाधनत्वं द्रष्टव्यम् ।
द्रव्याद्यतिरिक्तानुगतसत्त्वसामान्यस्यैवानङ्गीकारात् ।
द्वितीयं दूषयति सन्मात्रत्वमिति
सत्तानपेक्षं सत्त्वं सन्मात्रत्वं स्वरूपसत्त्वमिति यावत् ।
तद्ब्रह्मणो ऽप्यस्ति यतस्तस्मात्कारणात्तस्माद्ब्रह्मणस्तद्वैलक्षण्यमब्रह्मत्वमपि विश्वस्य नो भवेदिति ।
अथवा सामान्यसत्तापक्षे दोषान्तरमनेनोच्यते ।
तथाहि सत्तासामान्यविधुरस्यापि ब्रह्मणः सन्मात्रत्वं स्वरूपसत्त्वं तावदस्ति ।
न पुनः सत्त्ववैधुर्यादसदनिर्वाच्यं वा ब्रह्म ।
तस्मात्सत्तावैधुर्यस्यासत्त्वाद्यहेतुत्वात्तत्सत्तानधिकरणत्वमपि विश्वस्य नो भवेदिति ।
एतेन ब्रह्मस्वरूपं सत्त्वमिति पक्षो ऽपि निरस्तः ।
अर्थक्रियाकारित्वं ज्ञानाबाध्यत्वं वा सत्त्वमिति पक्षद्वयं स्फुटदोषत्वान्न दूषितम् ।
अर्थक्रियेति वदता मिथ्याभूतस्यैवार्थक्रियाङ्गीकृतेति सिद्धान्तविरोधश्च ।
अर्थक्रियाविधुरस्यापि ब्रह्मणः सत्त्वात्तद्वैधुर्यं नासात्त्वादिहेतुः ।
अर्थक्रियानधिकरणतामात्रसाधनं प्रकृतानुपयुक्तं तद्विरुद्धं च ।
ज्ञानाबाध्यत्ववैधुर्यं च तद्बाध्यत्वमेव ।
तच्च हेत्वर्थान्न भिद्यत इति स्फुटमेव ।
हेत्वन्तराभिधाने ऽपि वक्ष्यमाणन्यायेन बाधसिद्धार्थताद्यापत्तिः स्फुटैव ।
यदत्रोक्तम् ।
त्वयापि द्वे तत्त्वे सदसिदति तत्त्वं व्यवस्थापयता यदेव सत्त्वेन व्यवस्थापितं तस्यैव मयाप्यङ्गीकारान्न सच्छब्दार्थानिरुक्तिरिति ।
तदतीव मन्दम् ।
मया हि ।
क्वचित्सदिति भावो व्यवह्रियते ।
क्वचिच्च प्रतिपन्नोपाधौ निषेधाप्रतियोगि ।
क्वापि मूर्तमित्यादि तत्सर्वं च निरस्तमिति ।
२,११२
ज्ञानबाध्यत्वमपि तु न सिद्धं प्रतिवादिनः ।
विज्ञातस्यान्यथा सम्यग् विज्ञानं ह्येव तन्मतम् (अनुव्याख्यानम्)१,१.२६
न्यायसुधा-
$पराभिमतबाध्यत्वखण्डनम्$
एवं प्रतिज्ञां निराकृत्य हेतुमप्यपाकरोति ज्ञानबाध्यत्वमिति
न केवलं प्रतिज्ञा दुष्या ।
किं नाम हेतुभूतं ज्ञानबाध्यत्वमपीत्यर्थः ।
तुशब्दः सिद्धान्त्यभिमताज्ज्ञानबाध्यत्वाद्वयवच्छिनत्ति ।
ज्ञानबाध्यत्वं हि ज्ञाननिवर्त्यत्वं वा प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं वा हेतुत्वेन परस्याभिमतम् ।
नच प्रपञ्चे तत्प्रतिवादिनो मम सिद्धम् ।
अतो ऽन्यतरासिद्धो हेतुरिति ।
नन्वीश्वरज्ञानेन प्रपञ्चनिवृत्तिस्त्वयापीष्यत एव ।
अन्यथा तस्य संहारकर्तृत्वानुपपत्तेः ।
ज्ञानादिमत एव कतृत्वात् ।
सत्यम् ।
नैवं ज्ञाननिवर्त्यत्वं परस्याभिप्रेतम् ।
अपि तर्ह्यज्ञानोपादानकस्य समाने विषये विरोधिता ज्ञानेनोपादाने निवृत्ते स्वयमेव विलपनम् ।
यथाऽह ।
‘अज्ञानस्य स्वकार्येण वर्तमानेन प्रविलीनेन वा सह ज्ञानेन निवृत्तिबाधः’ इति ।
न चायं प्रपञ्चे ऽस्माकं सम्मतः ।
किन्तु मुद्गरप्रहारादिना घटस्येवेश्वरस्य ज्ञानेच्छाप्रयत्नव्यापारैर्विनाश एव ।
स एव हेतुरस्त्विति चेन्न ।
तथाविधमपि ज्ञानबाध्यत्वं पक्षैकदेशे प्रकृत्यादौ न सिद्धं प्रतिवादिन इति भागासिद्धत्वात् ।
किञ्च सत्यस्यापि ज्ञानविनाश्यत्वमस्तु ।
नच विपक्षे किञ्चिद्बाधकमस्तीत्यतो ऽप्रयोजकत्वाज्ज्ञानबाध्यत्वं न सिद्धमपि व्याप्यत्वासिद्धमपीति यावत् ।
प्रतिवादिनो मतेनेति गुडजिह्विकामात्रम् ।
बाधकानुपन्यासे वादिनो ऽपि व्याप्यत्वासिद्धेरावश्यकत्वात् ।
सतो विनाशे चैतन्यस्यापि विनाशप्रसङ्ग इति चेत् ।
तर्हि विनाशमात्रस्य साध्यप्रयोजकत्वेन ज्ञानबाध्यत्वमसिद्धमपि ।
व्यर्थविशेषणासिद्धमपि स्यात् ।
नाश्यत्वमात्रं हेतुर्ज्ञानेति स्वरूपकथनमात्रम् ।
स चोक्तबाधकसानाथ्येन नाप्रयोजक इति चेन्न ।
सत्त्वसाम्ये ऽपि विनाशकारणसदसद्भावेन विशेषस्योक्तत्वात् ।
ननु च नेहनानास्तीतिप्रतिपन्नोपाधौ श्रौतनिषेधात्मा बाधः प्रपञ्चे ऽस्तीति चेन्न ।
श्रुत्यर्थनिर्णयोत्तरकालमेवैतत् ।
स एव तूपपत्तिविरोधादशक्य इत्युच्यमानत्वात् ।
अथवा ज्ञानबाध्यत्वमसिद्धं व्याप्तिरहितमपीति योज्यम् ।
तथा हि ।
किं त्वदभिमतं ज्ञानबाध्यत्वमत्र हेतूक्रियते किं वास्मदभिमतमिति वाच्यम् ।
आद्यं चेदुक्तन्यायेन न सिद्धं प्रतिवादिनः ।
द्वितीये व्याप्तिवैधुर्यमिति ।
तत्कथमित्यत आह विज्ञातस्येति
हि यस्मादन्यथाविज्ञातस्य सम्यग्विज्ञानमेव बाधस्तद्विषयत्वमेव तद्बाध्यत्वं मतमस्माकम् ।
तच्चात्मनि विपक्षे गतमिति व्याप्तिविकलमिति वाक्यशेषः ।
सत्यो ऽप्यात्मा देहाद्यात्मना विज्ञातो वेदान्तजनितसम्यग्विज्ञानवृत्तिविषय इति परेणाप्यङ्गीकार्यम् ।
अन्यथा अविद्यानिवृत्त्यनुपपत्तेरिति ।
२,१२१
$बाध्यत्वनिर्वचनम्$
अथवा दृष्टान्तं प्रत्याचष्टे ज्ञानबाध्यत्वमिति
अपिपदेन सदसद्विलक्षणत्वलक्षणं साध्यमनिर्वाच्यत्वं समुच्चिनोति ।
तुशब्दो ज्ञानबाध्यत्वमभिमताद्वयवच्छिनत्ति ।
न सिद्धिं शुक्तिरजतादाविति शेषः ।
शुक्तिरजतादेरनिर्वचनीयत्वं तावत्प्रतिवादिनो ममासिद्धम् ।
मयात्यन्तासत्त्वेनाङ्गीकृतत्वात् ।
अत एव ज्ञानबाध्यत्वं मम तत्रासम्मतम् ।
तद्धि ज्ञाननिवर्त्यत्वं परस्याभिमतम् ।
न चासतस्तत्सम्भवति ।
तस्य नित्यनिवृत्तत्वात् ।
अतः साध्यसाधनविकलो ऽयं दृष्टान्ताभासः ।
ननु प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं बाध्यत्वमस्त्येव शुक्तिरजतादौ ।
मैवम् ।
तथा सत्यसत्त्वप्रसङ्गात् ।
वक्ष्यते चैतत् ।
यदि तर्हि न बाध्यत्वं शुक्तिरजतादेः ।
(बाढम् ।
ननु) सकललोकविरोधादिप्रसङ्गः ।
मैवम् ।
त्वदभिमतस्याभावे ऽप्यन्यस्य बाध्यत्वस्य तत्र विद्यमानत्वात् ।
किं तदित्यत आह विज्ञातस्येति
बाध्यत्वमिति प्रकृतप्रकृत्यर्थं बाध्यं तदिति सामान्येन परामृशति ।
केचिन्नेदं रजतमिति ह्यध्यस्तवस्त्वभावबोधं बाधमाहुः ।
अपरे तु शुक्तिरियमिति विरोधिभावान्तरज्ञानम् ।
तदुभयं प्रत्येकमव्यापकम् ।
शाब्दादौ द्वयोरपि बाधत्वप्रसिद्धेः ।
तस्मादुभयानुगतमेतदुच्यते ।
रजतत्वादिना विज्ञातस्य पुरोवर्तिनः शुक्तित्वादिना विज्ञानं खल्वन्यथाविज्ञातस्य सम्यग्विज्ञानं भवति ।
एवमसतो रजतस्य सत्त्वादिनावगतस्यासत्त्वादिना विज्ञानमप्यन्यथाविज्ञातस्य सम्यग्विज्ञानं भवत्येव ।
सम्यग्विज्ञानं बाध इत्येवोक्ते सर्वमपि सम्यग्ज्ञानं बाधः प्रसज्येत ।
नच तथा व्यवहारः ।
तन्निवृत्त्यर्थमन्यथाविज्ञातस्येत्युक्तम् ।
अन्यथाविज्ञातस्य ज्ञानमित्येवोक्ते धारावाहिकभ्रमे राजतत्वेनावगतस्य शुक्तिकाशकलस्य पुनर्नागवङ्गत्वादिज्ञाने ऽपि प्रसङ्गः ।
तन्निरासाय सम्यगित्युक्तम् ।
अन्यथेति ।
तत्स्वरूपापेक्षया ।
तेन घटस्यैव पटाद्यपेक्षयान्यथा घटत्वेन ज्ञानस्य पुनर्घटत्वेन ज्ञाने प्रसङ्गो निरस्तः ।
छलप्रसङ्गात् ।
तथापि रजतत्वेनावगतस्य शुक्तिकाशकलस्य शुक्लत्वादिज्ञाने प्रसङ्गस्तदवस्थः ।
एवमेकेनान्यथाविज्ञातस्य पुरुषान्तरसम्बन्धिनि तस्यैव वा पुरुषस्य कालान्तरभाविन्याजानसिद्धे सम्यग्विज्ञाने प्रसङ्गो ऽपीति चेन्मैवम् ।
बाधतिः खलु लोडने पठ्यते ।
तच्च ज्ञानास्यार्थस्य वास्तु ।
न तावज्ज्ञानस्य ।
तस्य क्षणिकत्वेन स्वत एव लोडितत्वात् ।
सम्यग्विज्ञानस्याप्युत्तरज्ञानविनाश्यस्य बाधितत्वव्यवहारप्रसङ्गात् ।
नाप्यर्थस्य ।
शुक्तिशकलादेस्तादवस्थ्यात् ।
रजतादेनिर्त्यलोडितत्वात् ।
अतः पूर्वज्ञानप्रसञ्जितस्यान्यथाकारस्य लोडनमिवेति वक्तव्यम् ।
तथाच सति को ऽतिप्रसङ्गः ।
तत्किं वक्तव्यमेतत् ।
नहि ।
कथमनुच्यमानं ज्ञास्यते ।
अन्यथाविज्ञातस्येति वचनसामर्थ्यात् ।
अन्यथा सम्यग्विज्ञानमित्येवावक्ष्यत् ।
किमनेनेति ।
तद्विषयत्वं बाध्यत्वमिति शेषः ।
२,१३५
$अनिर्वचनीयलक्षणनिरासः$
अथवानिर्वचनीयममुख्यं सदित्युक्तम् ।
तत्र किमिदमनिर्वचनीयत्वम् ।
किं निरुक्तिविरहः ।
किंवा निरुक्तिनिमित्तविरहः ।
नादक्यः ।
अनिर्वचनीयमित्यादिनिरुक्तेः सत्त्वेनासम्भावित्वात् ।
द्वितीये ऽपि निरुक्तिनिमित्तं ज्ञानमर्थो वा स्यात् ।
नाद्यः ।
ज्ञानस्योभयवादिसिद्धिसद्भावात् ।
न द्वितीयः ।
यता प्रतिभासमर्थस्यालौकिकस्य रजतादेर्मायावादिनाभ्युपगतत्वादित्याशङ्कय परेणानिर्वचनीयस्य लक्षणद्वयमभिहितम् ।
सदसद्विलक्षणत्वमनिर्वचनीयत्वं ज्ञानबाध्यत्वं चेति ।
तत्राद्यं तावन्निराकरोति वैलक्षण्यं सतश्चेति
व्याख्यानानि तु पूर्ववदेव ।
तत्र यावत्सु पक्षेषु सिद्धाथर्त्वपर्यवसानं तावत्स्वनिर्वचनीयत्वस्य सत्त्वाविरोधित्वेन न सन्प्रपञ्चः किन्त्वनिर्वचनीय इत्यारम्भासङ्गतिर्देषो
ऽवगन्तव्यः ।
यत्र पुनर्बाधादिपर्यवसानं तत्राव्याप्तिरवगन्तव्या ।
अथवानिर्वचनीयत्वेन वियदादिकं शुक्तिरजतादिकं च परस्याभिमतम् ।
तत्र सत एव सत्त्वेन प्रमितस्यैव वियदादेर्विश्वस्यासद्विलक्षणत्वमेव स्वयं सत् ।
एवमसत एवासत्त्वेन प्रमितस्यैव शुक्तिरजतादेर्विश्वस्य सर्वस्याप्यारोपितस्य सद्विलक्षणत्वमेव स्वयं सत् ।
वियदादावसद्विलक्षणत्वमेवास्ति ।
सद्वैलक्षण्यं तु प्रमाणबाधितम् ।
तथा शुक्तिरजतादौ सद्विलक्षणत्वमेवास्ति ।
असद्वैलक्षण्यं तु प्रमाणविरुद्धम् ।
अतो ऽसम्भविना तेन लक्षणेनोक्तेन कथं ते ऽनिष्यं निग्रहस्थानं न भवेदित्यादियोजना द्रष्टव्या ।
भेदवादिन इत्यनेन मायावादिनो वियदादौ सद्वैलक्षण्याङ्गीकारः शुक्तिरजतादौ चासद्विलक्षणत्वाभ्युपगतिराग्रहमात्रमलैवेत्यभिप्रैति ।
यद्युच्यत इत्यत्राप्युक्तरीत्यासम्भवित्वादिकं ज्ञातव्यम् ।
सन्मात्रत्वमित्यनेनातिव्याप्तिरुच्यते ।
तथा हि ।
ब्रह्मणो ऽपि सन्मात्रत्वं सत्त्वानधिकरणत्वमिति यावत् ।
मायावादिनाभ्युपगतमिति शेषः ।
निर्धर्मकत्वाङ्गीकारात् ।
असत्त्वानधिकरणत्वं तु निश्चितमेव ।
तस्मात्तदपि ब्रह्मापि सन्नो भवेत्किन्त्वनिर्वाच्यं प्रसज्येतेति ।
सत्त्वेनासत्त्वेन च विचारासहत्वमनिर्वचनीयत्वं न पुनः सत्त्वासत्त्वधर्मानधिकरणत्वम् ।
ब्रह्म तु सत्त्वेन विचारसहं कथमनिर्वचनीयं स्यादिति चेन्न ।
सत्त्वेनेति त्वप्रत्ययार्थस्यानभ्युपगमात् ।
किञ्च यो वियदादौ विचारः स ब्रह्मण्यपि समान इति कथं न तस्यानिर्वचनीयत्वम् ।
यथोक्तम् ।
‘सर्ववैलक्षण्याङ्गीकारात्’ इत्यादि ।
निराकरिष्यते चासौ दुर्विचारस्तत्र तत्रेति ।
द्वितीयमपि लक्षणं निराकरोति ज्ञानबाध्यत्वमिति
यदि ज्ञानबाध्यत्वं नामोक्तविधया शुक्तिरजतादेश्चासत्वेनाविद्योपादानकत्वाभावात् ।
ततश्चासम्भवित्वं लक्षणदोषः ।
यदि पुनर्ज्ञानविनाश्यत्वमात्रम् ।
तथापि वियदादौ नित्ये नित्यत्वादेव शुक्तिरजतादौ चासत्वान्न सिद्धमित्यव्याप्तिः ।
यदि च प्रतिपन्नोपाधौ निषेधप्रतियोगित्वं तदपि वियदादौ न सिद्धमित्यव्याप्तिरेव ।
उपपत्तयस्तूक्ता वक्ष्यमाणाश्चानुसन्धेयाः ।
ननु भवतापि बाध्यत्वं किमप्यङ्गीकरणीयमेव ।
पदस्य निरर्थकत्वायोगात् ।
तदेवास्माकमनिर्वचनीयलक्षणं भवत्वित्यत आह प्रतिवादिनो विज्ञातस्येति
प्रतिवादिनो मम मतमिति सम्बन्धः ।
तच्चात्मन्यनिर्वचनीये ऽप्यस्तीत्यतिव्याप्तमिति शेषः ।
अत्रान्यथाविज्ञानमेव भ्रान्तिः ।
तत्प्रसञ्जितान्यथाऽकारलोडनं सम्यग्विज्ञानमेव बाध इत्यवधारणतया मतान्तराणि निरस्तानि वेदितव्यानि ।
हि शब्देन तत्र प्रमाणप्रसिद्धिं सूचयति ।
२,१४९
$प्रभाकरेण परिणामपक्षानुवादः$
अथ पञ्चाख्यातिवादः
इह खलु केचिद्यथार्थमेव सर्वविज्ञानमिति मन्यमाना नान्यथाख्यातिं सहन्ते ।
तथा हि ।
केयमन्यथाख्यातिर्नाम ।
यदि तावदन्यथापरिणते वस्तुनि ख्यातिरन्यथाख्यातिः ।
तदा घटादिप्रत्ययाः सर्वे ऽप्यन्यथाख्यातित्वाद्विभ्रमाः प्रसज्येरन् ।
किञ्च शुक्तिकाया रजताकारपरिणामः किं सकारण उताकारणः ।
न तावदकारणः ।
कादाचित्कत्वानुपपत्तेः ।
आद्ये कारणं वाच्यम् ।
करणदोष इति चेन्न ।
तस्य करणसम्बन्धिनः शुक्तिकापरिणामहेतुत्वानुपपत्तेः ।
अन्यथा तदैव सकलार्थानां रजतरूपपरिणामप्रसङ्गात् ।
दुष्यकरणसंसर्गो हेतुरिति चेत्तथापि किं शुक्तित्वापगमेन रजतरूपपरिणामः ।
किं वा तदनपगमेन ।
आद्ये पुरुषान्तरेणापि तदा शुक्तित्वं न प्रत्येतव्यम् ।
द्वितीये भ्रान्तेनापि तत्प्रत्येतव्यम् ।
किञ्च शुक्तित्वापगमे बाधे ऽपि न तद्भायात् ।
अथ पुनः शुक्तयाकारेण रजतं परिणतमिति चेन्न ।
करणदोषस्य कारणस्याभावात् ।
बाधो ऽप्येवं तेनैव गृह्यत इति चेन्न ।
घटादेरपि कुलालादिमात्रवेद्यतापातात् ।
सुखादिवदिति चेन्न ।
बाह्यान्तरत्वेन विशेषात् ।
अन्यथोक्तातिप्रसङ्गानिस्तारात् ।
२,१५४
किञ्च दोषवशाद्रजताकारेण परिणता चेच्छुक्तिस्तदा दोषापगमे ऽपि तथैव कथं नावतिष्ठते ।
नहि निमित्तकारणनाशात्कार्यनाशो दृष्टः ।
कमलकुड्मलविकासनिमित्तसावित्रतेजो ऽपगमस्य विकासनिवृत्तिहेतुता दृष्टेति चेन्मैवम् ।
दलविभागो हि विकासो नाम ।
स च क्षणिकत्वात्सत्येव सावित्रतेजसि निवृत्तः ।
संयोगप्रध्वंसस्तु न कदापि निवर्तते पुनः संयोगलक्षणो मुकुलीभावस्तु शीतादिनोदनजन्य एव ।
स्थायित्वे ऽपि विभागस्यान्यदेव तन्नाशे निमित्तमिति यत्किञ्चिदेतत् ।
परत्वादिवत्स्यादिति चेन्न ।
विप्रतिपत्तेः ।
किञ्चोत्पन्नं चेद्रजतं विनष्टं तदा तथैव प्रतीतिः स्यात् न पुनर्नेदं रजतमिति बाधबुद्धिः ।
एतेन दुष्यकरणजन्याद्विज्ञानाद्रजतमेत्यपि परास्तम् ।
का चैवं सति दोषवाचोयुक्तिः ।
नहि मृदो घटाकारपरिणामस्य निमित्तं दण्डचक्रादिकं दोषत्वेन मन्यन्ते ।
किञ्च यस्याः प्रतीतेस्तदालम्बनं तत एव तज्जन्म किंवा प्रतीत्यन्तरात् ।
नाद्यः ।
परस्पराश्रयप्रसङ्गात् ।
उत्पन्ने हि रजते तदालम्बनायाः प्रतीतेर्जन्म, तस्यां जातायां रजतोत्पत्तिरिति ।
न खलु निरालम्बना प्रतीतिरुत्पद्यते ।
द्वितीये ऽपि किं तत्प्रतीत्यन्तरं शुक्तिकाऽलम्बनम् ।
उत शुक्तिकारजतान्तरालम्बनम् ।
अथवार्थान्तरालम्बनम् ।
नाद्यः ।
सर्वत्र शुक्तिप्रतीत्यनन्तरं रजतोत्पादप्रसङ्गात् ।
शुक्तिरजतप्रतीतेः प्राक् शुक्तिरिति प्रतीतिनियमाभावाच्च ।
दुष्यकरणालोचितशुक्तिसाधारणाकारप्रतीते रजतजन्मेति चेन्न ।
साधारणाकारमात्रदर्शनानन्तरं रजतप्रतीतिनियमाभावात् ।
कारणवैकल्यं तत्र कल्प्यत इति चेत् ।
स्यादेतदेवम् ।
यदि रजतजन्म प्रमितं स्यात् ।
प्रतीतिं तु प्रकारान्तरेणोपपादयिष्यामः ।
न द्वितीयः ।
पूर्वरजतस्यापि तदेव कारणमिति रजतप्रतीतिप्रवाहाविच्छेदप्रसङ्गात् ।
न तृतीयः ।
अतिप्रसङ्गात् ।
तदेवं भ्रान्तिबाधयोरनुपपत्तेर्न परिणामपक्षो युक्तः ।
२,१५९
नापि वस्तुनो वस्त्वन्तरात्मनावभासो ऽन्यथाख्यातिरिति युक्तम् ।
तथा हि किं वस्तुनो वस्त्वन्तरात्मना सती उतासती ।
आद्ये न भ्रान्तिर्नापि बाधः ।
सर्वेषां च सर्वं सर्वात्मना प्रतीयेत ।
न हि दोषः करणसंस्कारः ।
तथा सत्यदुष्यकारणेन न किञ्चिदुपलभ्येत ।
किञ्चैवं सति रजतसंवित्समीचीना शुक्तिरेवेयमिति चासमीचीनेत्यापद्येत ।
न द्वितीयः ।
असतः प्रतीत्यनुपपत्तेः ।
उपपत्तौ वा किं रजतस्यापि वस्तुत्वग्रहणेन ।
एतेनासम्बद्धविशेषणविशिष्टप्रतीतिरन्यथाख्यातिरिति निरस्तम् ।
असतो विशेषणसम्बन्धस्य प्रतीत्यनुपपत्तेः ।
उपपत्तौ वा किमसत्ख्यातिवादिभिरपरार्द्धम् ।
अथ ब्रूषे ऽन्याकारं ज्ञानमन्यथाख्यातिरिति ।
तदसत् ।
समीचीनज्ञानस्याप्यान्तरबाह्यत्वादिना ऽर्थविलक्षणाकारत्वेन विभ्रमत्वापत्तेः ।
२,१६१
अन्याकारोल्लेखिज्ञानमन्यालम्बनमन्यथाख्यातिरिति तु विरुद्धम् ।
तथा हि ।
न तावत्सदसद्भावमात्रेणालम्बनं सद्भावमात्रस्य सर्ववस्तुप्रत्ययसाधारण्येन सर्वप्रत्ययानां सर्वार्थालम्बनत्वापत्तेः ।
सर्वं सर्वज्ञता चैवं सति स्यात् ।
अतीतादिविषयस्य निरालम्बनतापातश्च ।
एतेन पुरोदेशे सद्भावेनालम्बनत्वमपि प्रत्युक्तम् ।
नच कारणत्वेनालम्बनम् ।
रूपादिज्ञानस्य चक्षुराद्यपि कारणमिति तदालम्बनत्वप्रसङ्गात् ।
अतीतानागतविषयत्वं च ज्ञानस्य न स्यात् ।
अतीतानागतयोरसत्त्वेन कारणत्वानुपपत्तेः ।
एतेन विषयतया कारणत्वमित्यपि निरस्तम् ।
आत्माश्रयत्वं चैवं सति स्यात् ।
विषयत्वस्यैव निरूप्यमाणत्वात् ।
किञ्चैवं विषयत्वमित्येवास्तु ।
किं कारणतया व्यर्थयानर्थजनन्या ।
किं चेदं विषयत्वम् ।
येन यस्यातिशय उत्पद्यते स तस्य विषय इति चेत् ।
अतिशयो हि ज्ञातता वा स्याद्वयवहारो वा ।
नाद्यः ।
अनभ्युपगमात् ।
अभ्युपगमे ऽप्यतीतादिज्ञानस्य निर्विषयत्वापातात् ।
न ह्यसति धर्मिणि धर्मोत्पादो युज्यते ।
न द्वितीयः ।
अतदर्थिनो व्यवहारानुत्पत्तावविषयत्वापत्तेः ।
व्याघ्रचोरादिज्ञानानन्तरमादीयमानस्य दण्डादेरपि तद्विषयत्वप्रसक्तेश्च ।
यद्विज्ञानं यदाकारं तत्तदालम्बनमिति तु तथागतमतमनुधावति ।
२,१६३
यत्सन्निकृष्टकरणेन यज्ज्ञानं जन्यते तत्तद्विषयमित्यपि न ।
रूपादिज्ञानस्याकाशादिविषयतापातात् ।
नहि रूपादिज्ञानमुत्पादयच्चक्षुराकाशादिना न सन्निकृष्टत इति युज्यते ।
प्रत्यभिज्ञा च तत्तासन्निकृष्टकरणजन्या न तद्विषया स्यात् ।
नच वाक्यं वाक्यार्थेन सन्निकृष्टते ।
येन तज्जनितज्ञानस्य वाक्यार्थो विषयः स्यात् ।
आकाशादिविषयतैवं चापद्येत ।
लिङ्गज्ञानाच्चात्मसन्निकृष्टाज्जायमानं लिङ्गिज्ञानमात्मविषयमापद्येत ।
तस्माद्यज्ज्ञानं यत्प्रतिभासं तदेव तस्यालम्बनमिति मन्तव्यम् ।
तत्र रजतज्ञाने शुक्तिरवभासते न वेति वक्तव्यम् ।
अवभासत इति ब्रुवाणः श्लाघनीयप्रज्ञो देवानां प्रियः ।
यदि संविदि बहुमानवान्नेति ब्रूयात्तदा कथं तच्छुक्तिकालम्बनं स्यात् ।
किञ्च रजतमवभासते शुक्तिकालम्बनं चेदतिप्रसङ्गः कतं परिहरणीयः ।
ननु रजतावभासस्य रजतविषयकत्वे तेन रजतेन भवितव्यम् ।
कथं न भवितव्यम् ।
नहि सम्प्रतिपन्नसमीचीनरजतस्वीकारे ऽपि निमित्तमस्त्यन्यद्रजतावभासात् ।
न ह्यन्यतररजतप्रतिभासपक्षपाते कारणमस्ति ।
नास्त्यत्र रजतमित्यपि प्रतिभासो ऽस्तीति चेत् ।
सत्यम् ।
प्रतिभाससामर्थ्याद्रजताभावो ऽप्यङ्गीकृत एव पुरतः ।
प्रतीत्योर्विरोधः स्यादिति चेन्न ।
यथा न विरोधस्तथा वक्ष्यमाणत्वात् ।
२,१६६
न चान्यथाख्यातिजनने कारणं पश्यामः ।
नच चक्षुरादिकमेव कारणम् ।
तस्य समीचीनज्ञानकरणतावधारणात् ।
न खलु जरामरणविध्वंसहेतुर्जातु सुधा तद्धेतुरपि भवति ।
कारणैक्ये कार्यभेदस्याकस्मिकत्वप्रसङ्गात् ।
नचादृष्टभेदात्कार्यभेदः ।
तस्य कार्यभेदनिश्चयोत्तरकालं निश्चेयत्वात् ।
कार्यभेदस्य च विप्रतिपन्नत्वात् ।
दोषसहकृतादिन्द्रियादेवान्यथाज्ञानजननमित्यप्यसत् ।
दोषा हि कारणानामौत्सर्गिककार्यजननसामर्थ्यं निघ्नन्ति ।
नतु विपरीतकार्यजननसामर्थ्यमादधाति ।
न खलु दुष्यं कुटजबीजं वटं जनयति ।
किं नाम न जनयत्येव कुटजाङ्कुरम् ।
नच वक्तव्यं दावदहनदग्धवेत्रबीजानां कदलीकाण्डजननसामर्थ्यमुपलब्धमिति ।
पाकेन द्रव्यान्तरोत्पत्तेस्तेषामबीजत्वात् ।
२,१६८
किञ्च प्रदर्शिताकारव्यभिचारे प्रत्ययस्य सर्वत्र व्यभिचारशङ्का दुर्वारा स्यात् ।
तथाच कथं बाह्यार्थनिन्हवं निराकुर्मः ।
तथाहि ज्ञानमेव खलु सर्वत्र वस्तुव्यवस्थापकं नान्यत् ।
तच्चेत्क्वचिद्वयभिचरति ।
तदा तत्सर्वत्र शङ्कितव्यभिचारमेव ।
नच तच्छङ्कापङ्कसङ्क्षालनक्षमं किञ्चिदन्यद्विज्ञानात् ।
तच्च सकलमपि शङ्काकलङ्कसङ्कोचितप्रभावं न प्रभवतीत्युक्तम् ।
ततश्च कुतो बाह्यार्थप्रत्याशा ।
नच वाच्यं यथा घटादेः पार्थिवस्य वह्निव्यभिचारे ऽपि न धूमस्यापि तद्वयभिचारः शङ्कयते ।
एवमेकज्ञानस्यार्थव्यभिचारे ऽपि न सर्वत्र व्यभिचारशङ्केति ।
वैषम्यात् ।
अस्ति हि तत्र पार्थिवत्वाविशेषे ऽप्यव्यभिचारनिश्चयोपायो धूमत्वादिरेवावान्तरो विशेषः ।
नहि तत्र बाधकं किञ्चित् ।
तेनोपपद्यते तत्राश्वासः ।
प्रकृते तु न ज्ञानत्वावान्तरविशेषमनाश्वास निरसनक्षममीक्षामहे ।
नच बाधकभावाभावरूपाद्विशेषाद्वयवस्थेति वाच्यम् ।
बाधकस्यापि ज्ञानत्वेन शङ्कास्पदत्वात् ।
न खलु बाधकस्य किमपि शृङ्गमस्ति ।
बाधकाभावश्चानुपसञ्जातबाधभ्रमे समानः ।
संवादकभावाभावाभ्यां विशेष इति चेन्न ।
उक्तोत्तरत्वात् ।
संवादकमपि ज्ञानमेवेति तदपि कथं संशयास्पदं न स्यात् ।
तत्रापि संवादकान्तरान्वेषणे ऽनवस्था कुतो न भवेत् ।
अङ्गीकृतश्च परेण धारावाहिकभ्रमे ऽन्योन्यसंवादः ।
एतेन ज्ञानजन्यव्यवहारविसंवादाविसंवादलक्षणो ऽपि विशेषः परास्तो वेदितव्यः ।
तद्विशेषग्राहिण्यपि विश्वासकारणाभावात् ।
अपि च प्रतीयमानो ऽयं रजताकारः कुतस्त्य इति वक्तव्यम् ।
न तावत्पुरोवर्तिनिष्ठ इतीष्यमन्यथाख्यातिवादिनाम् ।
बाधविरोधश्च तथा सति स्यात् ।
नापि देशान्तरवर्तीति वक्ष्यामः ।
ततश्च ज्ञानस्थ एवायमित्यापतितम् ।
तथा च जितं साकारविज्ञानवादिभिर्बौद्धैः ।
२,१७०
ननु तर्हीदं रजतमित्यादिप्रत्ययस्य का गतिः ।
उच्यते ।
रजतमिदमिति द्वे ज्ञाने स्मृत्यनुभवरूपे ।
तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम् ।
दोषवशात्तद्गतस्य शुक्तित्वसामान्यविशेषस्याग्रहणात् ।
तत्रेदमिति पुरोवर्तिद्रव्यमात्रग्रहणम् ।
दोषवशात्तद्गतस्य शुक्तित्वसामान्यविशेषस्याग्रहणात् ।
तन्मात्रं च गृहीतं सदृशतया संस्कारोद्बोधक्रमेण रजतस्मृतिं जनयति ।
सा च गृहीतग्रहणस्वभावापि दोषवशाद्गृहीततत्तांशप्रमोषेण गृहीतिसरूपावतिष्ठते ।
तथाच रजतस्मृतेः पुरोवृत्तिग्रहणस्य च मिथः स्वरूपतो विषयतश्च भेदाग्रहणात्सन्निहितरजतज्ञानसारूप्येणेदं रजतमिति भिन्ने अपि
ग्रहणस्मरणे अभेदव्यवहारं सामानाधिकरण्यव्यपदेशं च प्रवतर्यतः ।
कुत एतदिति चेन्न ।
अन्यथानुपपत्तेरुक्तत्वात् ।
किञ्चेदमिति पुरोवर्ति नयनसम्प्रयोगजं ज्ञानमनुभव इत्यविवादम् ।
रजतज्ञानं च न तावदिन्द्रियजम् ।
इन्द्रियस्य सन्निकृष्टाथर् एव ज्ञानजननसामर्थ्यात् ।
अन्यथा सर्वसार्वज्ञप्रसङ्गात् ।
नच विप्रकृष्टेन रजतेन सन्निकर्षो ऽस्ति ।
तत्कार्यस्य साक्षात्कारस्य कदाप्यदर्शनात् ।
नच शुक्तिशकलसन्निकर्षादेवेन्द्रियं रजतज्ञानमुत्पादयतीति साम्प्रतम् ।
अतिप्रसङ्गात् ।
नच दोषसदसद्भावाभ्यां व्यवस्था ।
दोषाणां विपरीतकार्यकारितया निरस्तत्वात् ।
भस्मकदोषदूषितस्य जाठरजातवेदसो बहुतराऽहारपरिणतिहेतुतोपलभ्यत इति चेन्न ।
विप्रतिपत्तेः ।
दोषस्यैवाऽहारविकारहेतुतोपपत्तेः ।
नच दहनकार्यं कथं दोषः करोतीति वाच्यम् ।
कार्ये ऽपि वैजात्योपलम्भात् ।
जाठराग्निपरिणता हि रसाः शरीरोपचयहेतवो न भस्मकपरिणतास्तथा ।
तस्मान्नेदमिन्द्रियजम् ।
नचि लिङ्गाद्यनुसन्धानविधुराणामपि जायमानमनुमानाऽदिप्रभवमिति वक्तुं शक्यते ।
अतः प्रत्युत्पन्नकरणाभावे ऽप्युत्पद्यमानेनानेन परिशेषात्स्मरणेनैव भवितव्यम् ।
२,१७३
किञ्चेदं स्मरणमनाकलितरजतस्यानुत्पद्यमानत्वात्सम्प्रतिपन्नस्मरणवत् ।
नचेदमस्मरणम् ।
तत्तांशविकलत्वात्सम्प्रतिपन्नवदिति युक्तम् ।
पदात्पदार्थस्मृतौ हरिहरादिस्मृतौ च व्यभिचारात् किञ्चानुभूतं तावन्न समस्तं स्मर्यते ।
तत्तांशश्चातीतदेशकालसम्बन्धः स्मर्यमाणधर्मः ।
तथाच स्मरणं च भवतु ।
भवतु दोषवशात्प्रमुषिततत्तांशम् ।
नच विपक्षे बाधकं किञ्चिदित्यप्रयोजको हेतुः ।
नच नेयं स्मृतिरिन्द्रियजन्यत्वात् ।
तच्चेन्द्रियव्यापारान्वयव्यतिरेकानुविधायित्वादिति वाच्यम् ।
स्मृतिबीजसंस्कारोद्बोधहेतुपुरोवर्तिसाधारणाकारग्रहण एवेन्द्रियव्यापारान्वयव्यतिरेकयोरुपक्षीणत्वात् ।
नन्वेवं सत्यनास्वादिततिक्तस्य शिशोस्तिक्तस्मरणानुपपत्तेः कथं तिक्तो गुड इति प्रत्यय इति चेन्न ।
जन्मान्तरानुभूतत्वात् ।
अदृष्टवशाच्च कस्यचिदेव स्मरणमुपपद्यते ।
अथवा नायं नियमो ग्रहणस्मरणे एवागृहीतविवेके व्यवहारादिप्रवर्तके इति किन्तु क्वचिद्ग्रहणे एव मिथो ऽगृहीतभेदे ।
यथा पीतः शङ्ख इति ।
अत्र हि विनिर्यन्नयनरश्मिवर्तिनः पित्तद्रव्यस्य पीतत्वं दोषवशाद्द्रव्यरहितं गृह्यते ।
शङ्खो ऽपि गुणहीनः स्वरूपमात्रेण गृह्यते ।
तदनयोर्गुणगुणिनोरितरेतरापेक्षिणोरसंसर्गाग्रहात्सारूप्यात्पीतचिरबिल्वादिफलप्रत्ययाविशेषेणाभेदव्यवहारः
सामानाधिकरण्यव्यपदेशश्च भवतः ।
यत्तु कज्जलकालिमाग्रहणं तत्तिर्यगवस्थानात् ।
अस्वच्छतया नयनरश्मिप्रतिबन्धकत्वाच्च ।
पित्तं तु आजर्वावस्थितं काचमिव स्वच्छं न प्रतिबन्धकमिति विशेषः ।
एवं तिक्तो गुड इति व्यवहारो ऽपि ।
क्वचित्पुनः स्मरणे एवागृहीतविवेके ।
यथा स घटस्तत्रासीदिति ।
अनयैव दिशालातचक्रादिव्यवहाराः सर्वे ऽपि निर्वाह्याः ।
२,१७७
किञ्च विपर्ययमङ्गीकुर्वाणेनापि विवेकाग्रहो ग्राह्य एव ।
न हि विवेकग्रहे विपर्ययावकाशो ऽस्ति ।
विरोधात् ।
अन्यथा विपर्ययनिवृत्त्यनुपपत्तेः ।
तथाच तत एव सर्वस्योपपत्तौ किं विपर्ययकल्पनया ।
न चान्यथाख्यातौ किमपि प्रमाणमस्ति ।
भेदाग्रहप्रसज्जिताभेदव्यवहारबाधनेनैव नेदमिति विवेकज्ञानस्य बाधकत्वमप्युपपद्यते ।
तदुपपत्तौ चागृहीतविवेकस्य ज्ञानद्वयस्य भ्रान्तित्वमपि लोकसिद्धं सिद्धम् ।
तथाच प्रयोगः ।
विगीतप्रत्ययो यथार्थः ।
प्रत्ययत्वात्सम्प्रतिपन्नवत् ।
नन्वत्र विगीतप्रत्ययो नाम किं पुरोवर्तिनिर्विकल्पकज्ञानमुत सदृशदर्शनोत्थं रजरस्मरणम् ।
किं वोभयमाहोस्विद्रजतपुरोवर्त्येकताज्ञानमाहोस्वित्प्रमुषितभेदं वेदनद्वयम् ।
तत्राद्यपक्षत्रये सिद्धसाधनता ।
चतुर्थे वाद्याश्रयासिद्धत्वमपसिद्धान्तो व्याघातश्च ।
पञ्चमे प्रतिवाद्याश्रयसिद्धतेति चेत् ।
मैवम् ।
अस्ति तावत्पुरोवर्ति निर्विकल्पकज्ञानम् ।
अस्ति च सदृशपुरोवर्तिदर्शनजनिता रजतस्मृतिः ।
तथास्त्येव च तत्समुत्थं सविकल्पकमिदमिति वेदनात्सविवादभेदाभेदं रजतवेदनम् ।
तत्र विप्रतिपन्नौ भेदाभेदौ विहायेदं रजतमित्यवगममात्रमिदं रजतमित्यादिसामानाधिकरण्यव्यवहारकारणं पक्षत्वेन विवक्षितं चेत्को विरोधः ।
नहि विप्रतिपन्नाकारेणैव पक्षीकारः क्वचित् ।
मा हि भून्नित्यानित्याग्निमदनग्निमच्छब्दपर्वतपक्षीकारे प्रकृतदोषानुषङ्गाद्भङ्गो ऽनुमानमुद्रायाः ।
२,१८१
किञ्च सिद्धस्यैव पक्षीकरणम् ।
विमताकारस्यापि सिद्धत्वे किं साध्येत ।
विमतौ च भेदाभेदौ विभ्रमगोचरविवादावसरे ।
भेदे हि वेदनयोरिदं वेदनम् पुरोवतिर्मात्रगोचरम् न रजतवाता वेत्ति ।
रजतवेदनमपि रजतमात्रग्राहि नेदमिति पुरोवर्तिनमनूद्य तस्यैव रजततामिदं रजतमिति ।
विदधाति ।
किन्तु रजतमित्येव यस्य कस्यचिद्रजतत्वमनुसन्धत्ते ।
तच्च न प्रमाणविरुद्धमिति क्वान्यथाख्यातिः ।
अतस्तद्वादिभिरभेद एव वक्तव्यो ऽपाकर्तव्यश्चाख्यातिवादिभिरित्यस्त्येव विप्रतिपत्तिः ।
ततो विप्रतिपन्नाकारं परित्यज्येदं रजतमित्यवगममात्रपक्षीकारे न कश्चिद्दोषः ।
कथमन्यथाख्यातिवादीदं रजतमिति ज्ञानस्य पुरोवर्तिविषयत्वसाधनाय साधनमुपन्यस्यन्नितो दोषाद्विमुच्येत ।
अथ रजताथिर्नः शुक्तिकायां प्रवृत्तौ हेतुभूतं ज्ञानं मया पक्षीक्रियत इति चेन्मोच्चैर्वाच्चः परो ऽपि श्रोष्यति ।
ईश्वरज्ञानेन सिद्धसाधनता स्यादिति चेत्तवापि बाधः कथं न स्यात् ।
प्रकृतप्रवृत्तिहेतुरनीश्वरज्ञानं पक्षीक्रियत इति चेन्ममापि तथैव स्यात् ।
त्वयेश्वरानभ्युपगमाद्वयर्थं विशेषणमिति चेत्तर्हि मां प्रति तवापि कथं न व्यर्थम् ।
तथापि व्याप्तिज्ञाने सिद्धसाधनतेति चेत्तत्रैव तव बाधप्रसङ्गः ।
इदं ज्ञानादगृहीतविवेकं रजतज्ञानमिति विप्रतिपत्तिविषयमुद्धाटयामीति चेत्सममेतन्ममापि ।
२,१८६
किञ्च विवादाध्यासितं रजतज्ञानं रजतविषयं रजतज्ञानत्वात्सम्मतवत् ।
अत्रापि पूर्ववद्विमतिविषयो विवेचनीयः ।
स्यादेतत् ।
किमिदं रजतज्ञानं नाम रजतस्य ज्ञानं रजतज्ञानम् ।
रजतं च तज्ज्ञानं चेति वा ।
रजतशब्दोल्लेखिज्ञानं वा रजतार्थिनः प्रवृत्तिहेतुज्ञानं वा रजतमिति ज्ञानं वा ।
न प्रथमः ।
षष्ठयर्थस्य विषटविषयिभावव्यतिरेकेणासम्भवात्साध्याविशिष्टत्वात् ।
न द्वितीयः ।
उभयासिद्धेः ।
ज्ञानस्य निराकारत्वात् ।
न तृतीयः ।
उल्लेखार्थस्य विषयत्वे ऽसिद्धेः ।
तज्ज्ञानजनितस्मृतिमात्रयोनित्वे पूर्वपदमात्रज्ञानेनापि रजतपदस्य स्मरणसम्भवेन व्यभिचारात् ।
न चतुर्थः ।
विवेकग्रहवादिनामिदमिति ज्ञानस्यापि शुक्तिकाऽलम्बनस्य तद्धेतुत्वेन व्यभिचारात् ।
न पञ्चमः ।
पूर्वोक्तपक्षाबहिर्भावादिति ।
मैवम् ।
अन्यथाख्यातिवादिना किं शुक्तिकाज्ञानं शुक्तिविषयमन्यथाख्यातिरुच्यते ।
उत रजतज्ञानं शुक्तिविषयम् ।
आद्ये न नो विवादो यथार्थख्यातित्वात् ।
द्वितीये रजतज्ञानशब्देन यो ऽर्थः परेण विवक्ष्यते स एवास्माकं हेतुर्भविष्यति ।
तथा हि न तावदाद्यः कल्पः परेणाङ्गीकर्तुमुचितः ।
व्याघातप्रसङ्गात् ।
शुक्तिरजतयोरभेदप्रसङ्गाच्च ।
न द्वितीयः ।
अनभ्युपगमात् ।
न तृतीयः ।
कदाचिच्छक्तिकाज्ञानस्याप्यन्यथासङ्केतितरजतशब्दस्मृतिहेतुत्वसम्भवेनान्यथाख्यातिप्रसङ्गात् ।
नापि चतुर्थः ।
यत्र शुक्तिकातदधस्तद्रजतमस्तीति वाक्यं श्रुतवतः शुक्तिज्ञानमपि रजताथिर्प्रवृत्तिहेतुर्भवतीति तस्याप्यन्यथाख्यातितापातात् ।
नापि पञ्चमः ।
प्रागुक्तपक्षाबहिर्भावात् ।
अतो रजतज्ञानं नामोक्तपक्षेषु किञ्चिदङ्गीकृत्य तद्दोषो वा परिहरणीयः ।
पक्षान्तरं वोत्प्रेक्षणीयम् ।
तत्त्वमेव मया हेतूकरिष्यत इति यत्किञ्चिदेतत् ।
केचित्पुना रजतविषयं ज्ञानमित्येव हेत्वर्थमुपगम्य रजतेतराविषयत्वं साध्यमङ्गीकृत्य साध्याविशिष्टतादोषं परिहरन्ति ।
तदसत् ।
रजतघटाविति ज्ञाने व्यभिचारात् ।
अन्यतरासिद्धेश्च ।
तस्मादुक्त एव परिहारः ।
अपि च ज्ञानत्वं यथार्थमात्रवृत्ति ज्ञानमात्रवृत्तित्वात्प्रमात्ववत् ।
शुक्तिका न रजतत्वेनावभासते तद्रूपेणासत्त्वात् ।
यद्यद्रूपेणासत्तत्तद्रूपेण नावभासते ।
यथा मेरुः सर्षपत्वेन ।
इदं रजततादात्म्यं न प्रत्येतुं शक्यमसत्त्वात्कूर्मरोमवत् ।
तस्मादख्यातिपक्ष एव श्रेयानिति ।
२,१९०
$प्रभाकराख्यातिनिरासः$
अत्रोच्यते ।
यत्तावदन्यथाख्यातिलक्षणं निराकृतमन्याकारोल्लेखित्यन्तेन तदिष्यमेवास्माकम् ।
अन्यदन्यात्मना विषयीकुर्वज्ज्ञानमन्यथाख्यातिरित्यङ्गीकारात् ।
यथोक्तम् असतः सत्त्वप्रतीतिः सतो ऽसत्त्वप्रतीतिरित्यन्यथाप्रतीतिरेव भ्रान्तित्वादिति ।
नन्वन्यस्यान्यात्मता सती उतासती ।
असतीति ब्रूमः ।
असतो न प्रतीतिरिति चेन्न ।
तस्या उपपादयिष्यमाणत्वात् ।
एवं सति रजतस्यापि कुतः सत्त्वमङ्गीकरणीयमिति चेन्न ।
को हि ब्रूते रजतं सदिति ।
वक्ष्यामो ह्यभिनवान्यथाख्यातिस्वरूपमुपरिष्टत्वात् ।
अत्र केनचित्प्रलपितम् ।
खण्डो गौः शुक्लः पट इत्यादयः सर्व एव सविकल्पकप्रत्यया विभ्रमाः प्रसज्येरन् ।
सामानाधिकरण्यप्रत्ययस्य तादात्म्यालम्बनत्वात् ।
तस्य चात्राभावादिति ।
तदतीव मन्दम् ।
तथा हि ।
सामानाधिकरण्यप्रत्ययो हि कयोस्तादात्म्यमवलम्बते ।
किं गुणक्रियाजात्यादेः द्रव्येणोत गुणादीनामेव परस्परमथ गुणाश्रयस्य क्रियाश्रयेणेत्यादि ।
नाद्यः ।
असम्मतेः ।
न हि शुक्लः पट इत्यस्य शौक्लयं पट इत्यर्थो ऽभिमतो लौकिकानाम् ।
नच चलति पट इत्यस्य चलनं पट इत्यर्थो ऽभिमतः ।
नापि खण्डो गौरित्येतत्खण्डत्वं गोत्वं च पिण्ड एवेत्यनेन समानार्थम् ।
तथात्वे दण्डी देवदत्त इत्यस्यापि दण्डदेवदत्ततादात्म्यविषयतापत्तेः ।
दण्डीति शाब्दव्यवहारे भेदार्थप्रत्ययप्रयोगाज्ज्ञानमपि तादृशं कल्प्यत इति चेत्सममत्रापि ।
शुक्तगुणो ऽस्यास्तीत्यस्मिन्नर्थे ऽर्शआदिभ्यो ऽजित्यकारप्रत्ययविधानात् ।
चलतीत्यादौ तु स्फुट एव प्रकृतिप्रत्यययोरर्थभेदः ।
नहि गौरिति गोत्वमुच्यते तथात्वे त्वप्रत्ययवैयर्थ्यात् ।
अत एव शुक्लः पट इत्युक्त्वा शौक्लयं पटस्येति व्याकर्तारो भवन्ति ।
२,१९६
अत एव न द्वितीयः ।
न हि शुक्लः पटश्चलतीत्यस्य शौक्लयं पटत्वं चलनं चैकमित्यर्थश्चेतसि चकास्ति प्रतिपत्तृणाम् ।
तथा सति दण्डी कुण्डली देवदत्त इत्यस्यापि ज्ञानस्य दण्डकुण्डलदेवदत्तत्वतादात्म्यविषयतापातात् ।
तृतीयस्तु स्यादेव ।
समानमेकमधिकरणं येषां ते हि समानाधिकरणास्तेषां भावः सामानाधिकरण्यम् ।
तथाच गुणादीनामाश्रयेण परस्परं च भेदः आश्रयाणां चाभेदः स्फुट एव ।
नहि स्वयमेव स्वस्याधिकरणम् ।
नापि समानमधिकरणं येषामिति परस्पराभेदे युज्यते ।
नचाश्रयभेदे तस्य समानतास्ति ।
नच गुणाद्याश्रयस्य भेदे प्रमाणमस्ति ।
विशिष्टयोर्भेदे ऽपि न तत् गुणाद्याश्रयः ।
किन्तु गुणाद्याश्रयाश्रितं वस्त्वन्तरं तत् ।
एवञ्च यत्र भेदो न तदभेदेन प्रतिभासते यच्चाभेदेन प्रचिभासते न तत्र भेद इति क्वातिव्याप्तिः ।
ननु गुणादीनामाश्रयेण परस्परं चाभेदो भगवतो मुनेः सिद्धान्तः ।
क्वचिद्भेदाभेदौ च ।
सामानाधिकरण्यप्रतीतिस्तु भेदनिष्ठैव व्याख्याता ।
तथाच पुनः शुक्लः पट इत्यादिप्रत्यया विभ्रमाः प्रसक्ताः ।
मैवम् ।
सविशेषत्वाङ्गीवकारात् ।
विशदं चैतद्विशेषनिरूपणे व्युत्पादयिष्यामः ।
२,१९९
यत्पुनरन्याकारोल्लेखीत्यादिनास्मदभिमतान्यथाख्यातेरनुभवविरोधं प्रतिज्ञाय तदुपपादनाय
यत्सन्निकृष्टकरणेनेत्यन्तेनालम्बनलक्षणनिराकरणं कृतं तदनुमतमेवास्माकम् ।
यद्विज्ञानं यत्सन्निकृष्टकरणेन जन्यते स तस्य विषय इत्यङ्गीकारात् ।
नन्वत्रापि दोषो ऽभिहित इति चेन्न ।
सन्निकर्षस्यापि कारणतया विवक्षितत्वेन तस्यासम्बद्धत्वात् ।
नहि चक्षुरादेराकाशादिसन्निकर्षो रूपादिज्ञानकारणम्, नापि वाक्यस्याकाशादिसन्निकर्षो वाक्यार्थज्ञाने हेतुः, नच लिङ्गज्ञानस्यात्मना
सन्निकर्षो लिङ्गिज्ञाननिमित्तम्, किं नामावर्जनीयसन्निधयस्ते सन्निकर्षाः ।
लिङ्गस्य साध्यधर्मिसन्निकर्षो लिङ्गिज्ञानकारणमिति चेन्न लिङ्गज्ञानस्य करणतयाभ्युपगमात् ।
अनेनैव वाक्यस्य श्रोतृश्रोत्रसन्निकर्षाश्रयणेन दूषणं परास्तम् ।
वाक्यज्ञानस्यैव करणत्वाङ्गीकारात् ।
तथापि प्रत्यभिज्ञायां तत्तांशेन चक्षुरादेर्लिङ्गिना च लिङ्गज्ञानस्य वाक्यार्थेन वाक्यज्ञानस्य सन्निकर्षाभावादविषयतापत्तिरिति चेन्न
असन्निकृष्टज्ञापने ऽतिप्रसङ्गात् ।
तदनुभवजनितसंस्कारसहकृतेन्द्रियेण प्रत्यभिज्ञा जायते, तद्वयाप्तलिङ्गविषयेण च लिङ्गज्ञानेन लिङ्गिज्ञानमुत्पद्यते,
संसर्गधर्मकपदार्थवाचिपदसमुदायरूपवाक्यविषयज्ञानेन वाक्यार्थज्ञानं जन्यते, अतो नातिप्रसङ्ग इति चेत्तर्ह्यभ्युपगतः सन्निकर्षः ।
नहि संयोगादिरेव सन्निकर्षः किं नाम प्रत्यासत्तिमात्रम् ।
२,२०२
तथापि रूपप्रतीतेरात्मा विषयः प्रसज्येत ।
तत्र मनसः करणत्वात् ।
आत्ममनःसन्निकर्षस्यापि रूपज्ञानं प्रति कारणत्वादिति चेन्न ।
असाधारणकारणस्य विवक्षितत्वात् ।
मनसश्च साधारणत्वात् ।
तर्हि मनःसन्निकृष्टेन चक्षुषा जायमानं रूपज्ञानं मनोविषयमापन्नमिति चेन्न ।
सन्निकर्षस्याप्यसाधारणकारणतया विवक्षितत्वात् ।
चक्षुमर्नःसन्निकर्षो हि द्रव्यादिज्ञानसाधारणः ।
एवमन्ये ऽत्रप क्षुद्रोपद्रवाः परिहरणीयाः ।
तदेवं जन्यज्ञाने विषयत्वस्यान्यथाव्यवस्थितत्वाद्यज्ज्ञानं यत्प्रतिभासमित्यन्यथापरिभाषणमनुपपन्नम् ।
न चैवं सत्यनुभवविरोधः, रजतावभासस्य शुक्तिकासन्निकृष्टकरणजन्यत्वेन तद्विषयत्वोपपत्तेः ।
नचातिप्रसङ्गः, दोषजन्यत्वतदभावादिना व्यवस्थोपपत्तेः ।
अन्यथा रजतज्ञानादरजते प्रवृत्तावपि कथं नातिप्रसङ्गः ।
यत्पुना रजतावभासस्येत्याद्याशङ्कय समाधानमभिहितं तज्ज्ञानैकत्वसमर्थनेन निराकरिष्यामः ।
२,२०६
अस्तु वा यद्विज्ञानं यत्प्रतिभासं तत्तद्विषयमित्येव व्यवस्था ।
तथापि नानुभवविरोधः ।
तत्किं रजतावभासस्य शुक्तित्वविषयतायामनुभवविरोधं ब्रूषे उतेदन्त्वाकारस्य ।
आद्ये सम्प्रतिपत्तिः ।
नहि वयमस्मिन्प्रत्यये शुक्तित्वमावभासत इति ब्रूमो येन विरोधः स्यात्, शुक्तित्वप्रतिभासस्य रजतावभासविरोधित्वाभ्युपगमात् ।
द्वितीये तु न कश्चिद्विरोधः ।
विरोधे वा समीचीनरजत इदं रजतमिति प्रतीतिर्न स्यात् ।
इदमाकारस्य रजतप्रतिभासविषयतामनभ्युपगच्छत एव प्रतीतिविरोधं वक्ष्यामः ।
एवं सति रजतस्यापि ज्ञानविषयता प्रसज्यत इति चेत् सत्यम्, इष्यमेवैतत् ।
न चैवमख्यातिपक्षपातः, ज्ञानैक्याभ्युपगमात् ।
नापि’शुक्तिकारजते’ इति ज्ञानं विभ्रमः प्रसज्यते रजतस्यासत्त्वाभ्युपगमात्, तादात्म्यावभासाभ्युपगमाच्च ।
अत एवोक्तमसतः सत्त्वप्रतीतिः सतो ऽसत्त्वप्रतीतिरिति ।
वक्ष्यति च विषयस्य कुतो बाध इत्यसतो रजततादात्म्योर्ज्ञानविषयतामाचार्यः ।
नचान्यथाख्यातिजनने कारणाभावः, इन्द्रियादेरेव तत्कारणत्वात्, समीचीनज्ञानकारणस्यापि तस्य दोषकलुषितस्य विभ्रमहेतुत्वोपपत्तेः ।
नच दोषाणां स्वारसिकशक्तिविरोधितामात्रमिति वाच्यम् ।
तथा सति विपरीतशक्तयनाधायकत्वमङ्गीकर्तव्यं दोषाणामेव वा ।
आद्ये पशुहिंसा किं धर्मजनने स्वारसिकशक्तिमती उताधर्मजनन इति वाच्यम् ।
आद्ये कतं क्रतुबाह्यापि धर्मं न जनयेत् ।
द्वितीये कथं क्रत्वान्तर्गतापि धर्मं जनयेत् ।
सहकारिवशादिति चेत् अङ्गीकृतं तर्हि सहकारिणां स्वारसिकशक्तिप्रतिबन्धेन विपरीतशक्तयाधायकत्वम् ।
न द्वितीयः नियामकाभावात् ।
२,२११
किञ्च काचादयो ऽपि विपरीतज्ञानजनने सहकारिण एवाङ्गीक्रियन्ते ।
दोषत्वं त्विष्यकार्यविघातितामात्रेणोच्यते ।
कामुकस्य कामिनीविभ्रमेषु गुणत्वाभिमानात् ।
नचैवं भर्जिता(ताः)कुटजधाना वटाङ्कुरं कुतो न जनय(यं)तीति वाच्यम्, पदार्थशक्तिवैचितृयात् ।
केचिद्वस्त्वन्तरशक्तिमेव प्रतिबध्नन्ति, यथा भर्जनादयः ।
केचित्सहजशक्तिप्रतिबन्धेन विपरीतमपि शक्तिमादधति, यथा विषस्य मारकत्वशक्तिं प्रतिबद्धयारोग्यादि(जनन)शक्तिमादधानाः पदार्थाः ।
गुणा एव न ते दोषा इति चेत् काचादयो ऽपि गुणा एव न ते दोषा इत्युक्तमेव ।
ननु जनकस्यैव साक्षात्कारिप्रत्ययविषयत्वं दृष्टम् ।
नच रजतस्येदन्तादात्म्यस्य वासतो जनकत्वमस्ति ।
तत्कथं विषयत्वमिति ।
मैवम् ।
तथा सतीश्वरज्ञानस्य नित्यस्यार्थो विषयो न स्यात् ।
प्रत्यभिज्ञानस्य च तत्तांशो विषयो न भवेत् ।
तन्निरूपकत्वादिमात्रेण विषयत्वाङ्गीकारे रजतादेरपि ज्ञाननिरूपकत्वेन विषयत्वोपपत्तेः ।
कथमसतो निरूपकत्वमिति चेत् ।
(न) ।
गुरूणां टीका कुरूणां क्षेत्रमितिवदुपपत्तेः ।
अतीतादिविषयानुमित्यादिव्यावर्तकत्वं च प्रमेयस्य न स्यात् ।
तत्र व्यावर्तकं कदाचिदस्ति रजतादिकं कदापि नास्तीति वैषम्यमिति चेत् ।
तत्किं यदाकदाचित्सतः कारणत्वं पूर्वक्षणे सतो वा ।
नाद्यः ।
अतिप्रसङ्गात् ।
द्वितीये तु किमनेन ।
अथ नातीतादिरर्थः स्वसामर्थ्येनानुमित्यादिकं व्यावर्तयति येन तत्सत्तापेक्षा स्यात्, किन्तु स्वहेतुसामर्थ्यादर्थव्यावृत्तं ज्ञानमुत्पद्यत इति चेत् ।
समं प्रकृते ऽपि ।
किञ्च सत्यस्थले ऽपि न साक्षात्साक्षात्कारं प्रति कारणत्वमर्थस्य किन्त्विन्द्रियसन्निकर्षस्यैव ।
सच यत्रासता नोपपद्यते तत्रार्थसत्तामपेक्षत इति पारम्पर्येणैवार्थस्य कारणत्वम् ।
ननु तर्ह्यसता रजतादिना सन्निकर्षायोगात्कथमिन्द्रियेण तज्ज्ञानजन्मेति चेन्न, शुक्तिकासन्निकृष्टं दुष्यमिन्द्रियं
तामेवात्यन्तासद्रजतात्मनावगाहमानं ज्ञानं जनयतीत्यङ्गीकारात् ।
अत एव नासत्ख्यातिप्रसङ्गः ।
यावत्खलु विगीते प्रत्यये भासते तस्य सर्वस्यासत्त्वे ऽसत्ख्यातिः स्यात् ।
न चैवमित्युक्तम् ।
२,२१९
यच्चोक्तं विषयव्यभिचारे ज्ञानस्य सवर्त्रानाश्वास इति तत् औत्सर्गिकं ज्ञानानां प्रामाण्यमपवादाद्विपर्यय इति वदताऽचार्येणैव परिहरिष्यते ।
साक्षी खलु चैतन्यरूपो नियतयाथार्थ्यः कदाचिदपि संशयानास्कन्दितो ऽन्तःकरणवृत्तीनां याथार्थ्यं स्वयमेव गृह्णाति,
परीक्षासहकृतस्त्वयाथार्थ्यमिति बादरायणीयं मतम् ।
अत एवानाश्वासनिरसनोपायो न ज्ञानेषु कश्चिद्विशेषो ऽस्तीति निरस्तम् ।
अन्यथा परस्यापि कथं विषयव्यभिचारे व्यवहृतेर्व्यवहारान्तरे समाश्वासः स्यात् ।
तदभावे च कथं व्यवहारदर्शनेनान्वितार्थे व्युत्पत्तिः ।
क्वचिद्विवेकाग्रहे च कथमन्यत्र विशिष्टप्रत्यये विश्वासो भवेत् ।
तदभावे च कथं निःशङ्का प्रवृत्तिः ।
बाधकाभावादिना समाश्वासस्तु परोक्तरीत्यैव निरस्तः ।
किञ्च प्रवृत्त्युत्तरकालीनो बाधकाभावः कथं निःशङ्कप्रवृत्तावुपयुज्यते ।
बाधकाभावादिना विशिष्टज्ञानस्वरूपनिश्चयमङ्गीकुर्वाणः कथं स्वप्रकाशविज्ञानवादं न जह्यात् ।
औत्सर्गिकी प्रवृत्तिरपवादान्निवृत्तिरिति चेत् ।
समं प्रकृते ऽपि ।
यदप्युक्तं विपरीतख्यातिपक्षे ज्ञानं साकारमापतेदिति ।
तदनुपपन्नम् ।
अत्यन्तासत एवाकारस्य स्फुरणाङ्गीकारात् ।
अन्यथा व्यवह्रियमाणस्याकारस्य बहिरभावाद्वयवहारो ऽपि तदाकारः प्रसज्येत ।
या चैवं प्रक्रिया रजतमिदमित्यादिनोक्ता सा ज्ञानद्वित्वे रजतज्ञानस्य च स्मृतित्वे प्रमाणाभावादनुपपन्ना ।
विशिष्टज्ञानबाधकानां परिहृतत्वात् ।
अनुमानानां च दूष्टत्वात् ।
यस्तु रजतज्ञानस्य स्मृतित्वे परिशेषोपन्यासः सो ऽपि प्रत्युत्पन्नक(का)रणदुष्येन्द्रियादिजन्यतोपपादनात्परिशेषानुपपत्तेरयुक्तः ।
अनाकलितरजतस्यानुत्पद्यमानत्वं गगनादावनैकान्तिकम् ।
रजतज्ञानवत एवोत्पद्यमानत्वं विवक्षितमिति चेन्न तथापि रजतसंस्कारव्यवहारादौ व्यभिचारात् ।
ज्ञानत्वे सतीतिविशेषणाददोष इति चेन्न ।
रजतनिर्विकल्पकज्ञानवत एवोत्पद्यमाने रजतसविकल्पकानुभवे व्यभिचारतादवस्थ्यात् ।
रजतसविकल्पकज्ञानवत एवोत्पद्यमानत्वं विवक्षितमिति चेन्न हानादिबुद्धिष्वनैकान्तिकतानिस्तारात् ।
संस्कारमात्रसहकृतमनोजन्यत्वोपाधिग्रस्तं चानुमानम् ।
नचानेनैव हेतुनास्य पक्षे साधनम् व्यभिचारस्योक्तत्वात् ।
२,२२६
किञ्चेदं स्मरणत्वं साध्यं न तावत्सामान्यं गुणेषु प्राभाकरैरभ्युपगतम् ।
अननुभवत्वमिति चेत् ।
तदपि किमनुभवादन्यत्वमनुभवत्वानधिकरणत्वं वा ।
आद्ये ऽनुभवस्यापि तत्सम्भवेन सिद्धसाधनता स्यात् ।
द्वितीये ऽनुभवत्वं किमिति वाच्यम् ।
स्मृत्यन्यत्वमिति चेन्न ।
स्मृतावपि प्रसङ्गात् इतरेतराश्रयप्रसक्तेश्च ।
ज्ञानसंस्कारमात्रप्रभवत्वं स्मृतित्वमिति चेन्न ।
मानसप्रत्यक्षजा स्मृतिरित्यस्माभिरङ्गीकृतत्वेन पक्षस्याप्रसिद्धविशेषणत्वात् दृष्टान्तस्य साध्यवैकल्याच्च ।
किञ्चेन्द्रियव्यापारान्वयव्यतिरेकानुविधायीदं रजतज्ञानं तत्कायर्मित्यवसीयते ।
तथाच बाधितविषयत्वम् ।
अन्वयव्यतिरेकयोरन्यत्रोपयोगान्नैवमिति चेत् ।
तत्किमस्य स्मृतित्वे सिद्धे ऽन्यत्रोपक्षयः कल्प्यते उतैवमेव ।
नाद्यः ।
तदभावात् अस्मादेवानुमानात्तत्सिद्धावन्योन्याश्रयप्रसङ्गात् ।
न द्वितीयः ।
समीचीनरजतप्रत्यये ऽपि तथात्वप्रसङ्गात् ।
अन्यत्रोपक्षयः शङ्कित इति चेन्न तथापि सन्दिग्धकालातीततानिस्तारात् ।
समीचीनरजतानुभवे ऽपि कथमन्यत्रानुपक्षयो निश्चितो भवता ।
अनुभवत्वनिश्चयादिति चेन्न इन्द्रियव्यापारस्यान्यत्रोपयोगशङ्कयानुभवत्वस्यापि सन्दिग्धत्वात् ।
पुरोवर्तिव्यवहारसंवादादनुभवत्वनिश्चय इति चेन्न संवादानुभवस्याप्यनिश्चितत्वात् ।
असति बाधके न वृथान्यत्रोपक्षयः शङ्कयत इति चेत् समं प्रकृते ऽपीति ।
एतेनाप्रत्युत्पन्नकारणप्रभवत्वं स्मृतित्वमित्यपि चेन्न ।
द्वितीयादिभ्रमे सिद्धसाधनत्वात् साध्यविशिष्टताप्रसङ्गाच्च ।
तत्तांशोल्लेखित्वं स्मृतित्वमिति चेन्न ।
अनुभवबाधितत्वात् ।
एतेन ज्ञानसम्भिन्नार्थगोचरत्वमित्यपि परास्तम् ।
अनेनैव प्रतिपक्षानुमानद्वयमपि समाहितं वेदितव्यम् ।
नेदं स्मृतिरिति व्यवहर्तव्यं तत्तोल्लेखादिस्मृतिचिन्हविकलत्वादिति प्रथमप्रयोगे विवक्षितत्वात् ।
अत एव तिक्तगुडादिप्रत्ययप्रक्रियापि परास्ता ।
२,२३३
यदपि विपर्ययाभ्युपगमे कल्पनागौरवमुक्तं तत् विवेकाग्रहमात्रेण प्रवृत्त्यादेरुपपत्तौ तथास्तु ।
नचैवमिति वक्ष्यामः ।
किञ्चैवमन्त्यतन्तुसंयोगपर्यन्तं कारणकलापमुपादाय पटो ऽपि नाङ्गीकरणीयः तन्मात्रेण सर्वस्योपपत्तेः ।
पटो ऽपि प्रमितो न हातुं शक्यते ।
नच तेन विनैकत्वादिप्रत्ययोपपत्तिरिति चेत् विपर्यये ऽप्येवमिति कुतो गौरवम् ।
अन्यथाख्यातौ किं प्रमाणमिति चेत् ।
अनुभव एवेति ब्रूमः ।
(त) यथा हि पुरोवर्तिनि रजते रजतमिदमिति विशिष्टविषयमेकमेव विज्ञानं स्वप्रकाशतया वा मानसप्रत्यक्षतया वा साक्षिणा वावभासते
तथेदमपीति कुतो ऽस्य न विशिष्टविषयैकज्ञानत्वम् ।
न हि ततो ऽस्य मात्रयापि विशेषं पश्यामः ।
दर्शने वास्मत्प्रवृत्तिर्न स्यात् ।
केवलमेकं तादृग्विषयसद्भावाद्यथार्थं तदभावापरमयथार्थमविशिष्टविषयमनेकमपि तद्विशिष्टविषयैकत्वेन प्रतिभासत इति चेन्न ।
अन्यस्यापि विशिष्टविषयैकत्वे समाश्वासासम्भवप्रसङ्गात् विपर्ययाङ्गीकारप्रसक्तेश्च ।
नास्त्येव विशिष्टविषयैकत्वग्राहिप्रत्यय इति चेन्न अनुभवसिद्धज्ञानापलापे स्मृत्यनुभवस्वरूपापलापप्रसङ्गात् ।
किञ्च रजतार्थिनः शुक्तिकायां प्रवृत्तिरन्यथानुपपन्नान्यथाज्ञानमाक्षिपति ।
नन्वियं प्रवृत्तिः स्वरूपतो विषयतश्चागृहीतभेदाद्वेदनद्वयादुपपद्यत इति चेत् ।
को ऽयं भेदो नाम ।
किं स्वरूपम् उत पृथक्तवम् उतान्योन्याभावः अथवावैधर्म्यम् ।
न प्रथमः ।
स्वप्रकाशज्ञानज्ञेयप्रतिभासे तदनवभासानुपपत्तेः ।
न द्वितीयः ।
गुणे गुणानभ्युपगमात् ।
सर्वत्र भेदाग्रहसम्भवेनान्यार्थिनो ऽन्यत्र प्रवृत्तिप्रसङ्गात् ।
तृतीये वक्तव्यम् ।
किमिदं रजतत्वयोरन्योन्याभावो नावभासते उतेदं रजतयोरिति ।
नाद्यः ।
अपर्यायशब्दस्मारकयोर्जातिव्यक्तयोस्तदनवभासासम्भवात् ।
किञ्चान्योन्याभावो नामान्योन्यस्वरूपमेव परस्य ।
तच्चोपलब्धमिति कथं तदनुपलम्भः ।
अत एव न द्वितीयः ।
नापि चतुर्थः ।
रजतासम्भविनः पुरोवर्तिनीदन्त्वस्य पुरोवर्त्यसम्भविनश्च रजते रजतत्वस्य गृहीतत्वात् ।
इदं रजतत्वयोरसंसर्गाग्रहो विवक्षित इति चेन्न ।
असंसर्गो हि संसर्गस्याभावः ।
स चेदंरजतत्वयोः स्वरूपमेव परेषाम् इति कथं तदवभासे नावभासेत ।
विपर्ययाभ्युपगमवादिभिरपि भेदाग्रहो ऽभ्युपगमनीय एव ।
तत्रापि समानो दोष इति चेन्न ।
भेदस्य स्वरूपतावन्मात्रत्वानभ्युपगमात् ।
२,२४१
अथ मन्यसे पुरोवतिर्नो यः शुक्तित्वादिधर्मो रजतव्यावर्तको यश्च रजते व्यवहितदेशत्वादिधर्मः पुरोवर्तिव्यावर्तकस्तयोरग्रहणं प्रवर्तकमिति ।
तदसत् ।
पुरोवर्तिनो हि शुक्तित्वाग्रहे न शुक्तिकार्थी तत्र प्रवर्तेत ।
रजतस्य चासन्निहितत्वादिधर्माग्रहे रजतार्थी न तत्र प्रवर्तताम् ।
रजतार्थिनः पुरोवतिर्नि प्रवृत्तिस्तु कुतः ।
किञ्च भेदाग्रहादन्यार्थिनो ऽन्यत्र प्रवृत्तिमाचक्षाणः प्रष्टव्यः ।
किमयमेव व्यवहारो भेदाग्रहादन्यस्त्वभेदग्रहात्, उत सर्वो ऽपि भेदाग्रहादिति ।
नाद्यः ।
अनियतकारणतापातात् ।
ननु च सर्वत्राभेदग्रह एव प्रवर्तकः ।
तत्सारूप्याद्भेदाग्रहो ऽपि तथेष्यते ।
यथा हि ।
अस्ति तावत्प्रवर्तकत्वाभिमतप्रत्यये ऽप्यपेक्षितोपायपुरोवृत्त्यवगमांशयोः स्वरूपतो विषयतश्च भेदविरहादेव भेदाग्रहः ।
तथात्राप्यविवेचकं साधारणं रूपमवगम्यते ।
नावगम्यते च विवेचको ऽसाधारणधर्मो वेद्ययोर्वेदनयोश्च ।
ततश्चैकप्रवर्तकप्रत्ययसदृशवपुरुपजनयतीदं वेदनद्वयं प्रवृत्तिमिति ।
मैवम् ।
अनियतहेतुकत्वानिस्तारात् ।
किञ्च प्रवर्तकसादृश्यात्प्रवृत्तिरित्यत्रैव कल्प्यते उत यद्यत्सदृशं तत्तत्कार्यकारीति सर्वत्र नियमः ।
नाद्यः ।
अदृष्टकल्पनाप्रसङ्गात् ।
प्रवृत्तिलोभादित्थमास्थीयत इति चेन्न तस्या विपर्ययाङ्गीकारादेव सुव्यवस्थितेः ।
न द्वितीयः ।
कृशानुसदृशाद् गुञ्जापुञ्जच्छीतनिवृत्तेरदर्शनात् ।
नन्विदं रजतमिति यथा रजतसाध्या बुद्धी रजतसदृशाच्छुक्तिशकलाद्भवति भवताम् ।
तथा प्रवर्तकैकज्ञानसदृशाज्ज्ञानद्वयात्प्रवृत्तिरपि कुतो न स्यात् ।
मैवम् ।
अर्थस्य साक्षाज्ज्ञानकारणत्वानभ्युपगमात् ।
सादृश्यं तु काचादिवद्दोषतयोपयुज्यते ।
अपि चेदं ज्ञानद्वयं प्रवर्तकसादृश्यमात्राद्यदि प्रवृत्तिमुपजनयेन्निवृत्तिमपि कुता एन जनयेत् ।
अस्ति हि तत्र निवर्तकभेदग्रहसारूप्यमभेदाग्रहणम् ।
ननु च यथा भेदाग्रहो भवतामभेदग्रहं जनयति तथा प्रवृत्तिमपि किं न जनयेदिति ।
मैवम् ।
वैषम्यात् ।
ज्ञानजनने हि कारणानां स्वातन्तृयं न पुरुषस्य ।
तानि च यादृशसामग्रीमध्यपतितानि तादृशं ज्ञानमुपजनयन्ति ।
नतु पुरुषाकाङ्क्षामपेक्षन्ते हेयोपेक्षणीयज्ञानजननात् ।
प्रवृत्तौ तु पुरुष एव स्वतन्त्रो न ज्ञानम् ।
स हि सत्यपि ज्ञाने ऽपेक्षित एव प्रवर्तते ।
नतु ज्ञानं जातमित्येवोदासीनविपरीतयोरपि ।
तथाच भेदाग्रहदोषकलुषितानि नयनादीनि विपर्ययं जनयन्ति ।
नतु पुरुषः प्रवर्तकसादृश्यमात्रेण प्रवर्तितुमर्हति ।
तथात्वे वा निवर्तकसादृश्यात्प्रेक्षावान्निवर्तेतापीत्युक्तम् ।
किञ्च ज्ञानमर्थे प्रवृत्तिं किं साक्षादुपजनयति उतेच्छाप्रयत्नद्वारेण ।
नाद्यः ।
हेयोपेक्षणीययोरपि प्रवृत्तिप्रसङ्गात् ।
द्वितीये कथमगृहीतभेदाज्ज्ञानद्वयात्प्रवृत्तिः ।
पुरोवर्तिप्रवृत्तेर्हि साक्षात्कारणं प्रयत्नः, तस्य चेच्छा, तस्याश्च समीहितसाधनतानुमानम् ।
नच तत्सम्भवति ।
रजतत्वस्य पक्षधर्मत(आ)याप्रतिपन्नत्वात् ।
अथ रजते प्रतिपन्नेन रजतत्वेन तत्समीहितसाधनताज्ञानमुपजातं भेदाग्रह(भेदग्रहे ऽभेदग्रह)सारूप्यात्पुरोवर्तिनीच्छामुपजनयतीति चेन्न ।
तथा सति भेदग्रहसारूप्यादभेदाग्रहादुपेक्षया अप्यापातादिति ।
२,२५०
नन्वस्तु तर्हि द्वितीयः पक्षः ।
तथा हि ।
सत्यरजते तावदस्ति रजतव्यक्तिज्ञानं रजतत्वजातिबोधश्च ।
न चास्त्यसंसर्गज्ञानम् ।
एतावतैव तत्र तदर्थिनां प्रवृत्तिः ।
नहि तयोस्तादात्म्यं पश्यन्ति ।
जातिव्यक्तयोस्दतादात्म्याभावात् ।
नच तत्र संसर्गग्रहः प्रवर्तकः समवायो हि तयोः संसर्गः ।
न चासौ प्रत्यक्षः ।
इन्द्रियसन्निकर्षाभावात् ।
नाप्यनुमानस्तदा शक्यते ज्ञातुम् ।
लिङ्गाभावात् ।
अविसंवादिव्यवहारजनकत्वविशिष्टसाकाङ्क्षरूपरूपिसहोपलम्भो हि तल्लिङ्गम् न चाविसंवादित्वं प्राक् प्रवृत्तेः शक्याधिगमम् ।
अस्ति चेदं सकलमपि प्रवर्तकं विभ्रमे ऽपीति कुतो विपर्ययाभावे प्रवृत्त्यनुपपत्तिः ।
इदं रजतत्वाधारयोर्भेदग्रहो वा सत्यरजते प्रवृत्तिहेतुः ।
अस्ति चासौ प्रकृते ऽपि ।
नच पुरोवर्तिनि रजतत्वाप्रतीताविच्छानुपपत्तिरिति वाच्यम् ।
रजतत्वेन सहागृहीतासंसर्गतया वा रजतादगृहीतभेदतया वा समीहितसाधनतानुमानोपपत्तेरिति एतदप्ययुक्तम् ।
असंसर्गाग्रहभेदाग्रहयोः निरस्तत्वात् ।
किञ्चैवं सति सविकल्पकप्रत्यक्षोच्छेदप्रसङ्गः ।
वस्तुमात्रग्रहस्यासंसर्गाग्रहस्य च निर्विकल्पकसाम्यात् ।
रूपरूपिभावः सविकल्पके चकास्ति ।
निर्विकल्पके तु वस्तुस्वरूपमात्रमिति भेद इति चेत् ।
को ऽयं रूपरूपिभावः धर्मधर्मिणोः परस्पराकाङ्क्षाविषयत्वमिति चेत् ।
तत्किं तयोः स्वरूपमुतान्यत् ।
आद्ये तदपि निर्विकल्पके प्रकाशत एव ।
द्वितीये किं तदैन्द्रियकमुतातीन्द्रियम् ।
प्रथमे कथमविकल्पके न प्रकाशेत ।
द्वितीये कथं सविकल्पके प्रकाशेत ।
अत तद्वस्तुदर्शनसापेक्षदशर्नं निर्विकल्पके ऽचकासदपि सविकल्पके भातीति चेत् ।
तर्हि न तत्सर्ङ्गातिरिक्तमस्तीति संसर्गग्रहादेव सविकल्पकोपपत्तिः ।
नच निर्विकल्पकस्य प्रवर्तकत्वमस्ति ।
किञ्चासंसर्गाग्रहादेव सर्वत्र प्रवृत्त्यङ्गीकारे मध्यमवृद्धप्रवृत्तेरपि तथात्वेन बालस्य तदीयसंसर्गज्ञानानुमानोपायाभावात् पदानामन्वितार्थेषु
व्युत्पत्त्यनुपपत्तौ शाब्दप्रमाणोच्छेदप्रसङ्गः ।
२,२५५
अथैवं मन्येत ।
अस्त्येव व्यवहर्तुरन्वयज्ञानम् ।
किं नाम सदपि न प्रवृत्तावुपयुज्यते ।
अतो न कश्चिद्दोष इति ।
तत्र किं तदन्वयज्ञानं प्रवृत्तौ नियतमुतानियतमिति वाच्यम् ।
आद्ये ऽस्तु तत्प्रवृत्तावुपयोगि मा वा भूत्, अन्यथाख्यातिं विना न रजतार्थिनः पुरोवर्तिनि प्रवृत्तिरिति तावत्सिद्धम् ।
द्वितीये तु शब्दोच्छेदस्तदवस्थः ।
किञ्च नियतपूर्वभावि चाकारणं चेत्यनुपपन्नम् ।
प्रतिभासमानयोरसंसर्गाग्रहे सति संसर्गग्रहो ऽवर्जनीयसन्निधिरिति चेन्न विपर्ययस्यापि वक्तुं शक्यत्वात् ।
अवश्यं चैतदेवम् ।
व्यवहारो हि व्यवहर्तव्योपलम्भनिबन्धनो युक्तः, न तु व्यवहरणीयविपर्ययानुपलब्धिनिबन्धनः ।
नहि घटव्यवहारो व्यवहर्तव्यज्ञानपुरःसरो व्यवहारत्वाद्घटव्यवहारवत् ।
विवादपदं ज्ञानं पुरोवर्तिविषयं तद्विषयव्यवहारजनकत्वात्सम्मतवत् ।
पुरोवर्ति वा रजतज्ञानगोचरो रजतज्ञानगोचरो रजतानुपायत्वे सति तदर्थिप्रवृत्तिविषयत्वात्सम्यग्रजतवत् ।
विवादपदं रजतज्ञानमिदं ज्ञानान्न भिद्यते प्रकाशमानात्ततो ऽप्रकाशमानभेदत्वे सति प्रकाशमानत्वात्सम्प्रतिपन्नरजतज्ञानवदित्यादयः ।
किञ्च विपर्ययाभावे नेदं रजतमिति ज्ञानस्य बाधकत्वमनुपपद्यमानं तं गमयति ।
नहि तथात्वे बाधकत्वमस्ति ।
न तावदग्रहणनिवर्तकतया बाधकत्वम्, सर्वप्रत्ययानां तथात्वापातात् ।
नापि व्यवहारविच्छेदकत्वेन, अतदर्थिनां व्यवहारानुत्पत्तौ नेदं रजतमितिज्ञानस्याबाधकत्वप्रसङ्गात्, व्याघ्रचोरादिज्ञानस्यापि
प्रवृत्तिविच्छेदकत्वेन बाधकत्वप्रसक्तेश्च ।
नचार्थस्य व्यवहारयोग्यताविच्छेदकत्वेन, समयान्तरे ऽपि तत्र विभ्रमात्प्रवृत्त्यभावापत्तेः ।
नच व्यवहारप्रतिबन्धकत्वेन, अविवेकनिवृत्तौ कारणाभावादेव व्यवहारानुपपत्तेः प्रतिबन्धककल्पनायोगात्, व्याघ्रचोरादिज्ञानस्य
बाधकतापत्तेश्च ।
विमतमयथार्थं बाध्यत्वाद्वयवहारवदिति ।
अत एव भ्रान्तित्वप्रसिद्धयापि विपर्याससिद्धिः ।
एवञ्च सति प्रत्ययत्वानुमानं कालात्ययापदिष्यं वेदितव्यम् ।
अदुष्यकरणजन्यत्वोपाधिग्रस्तं च ।
एतेन रजतज्ञानत्वानुमानमपि निरस्तम् ।
अन्यथा विमतो व्यवहारो यथार्थो व्यवहारत्वात्, रजतविषयो वा रजतव्यवहारत्वादित्यपि स्यात् ।
२,२६३
यदपि ज्ञानत्वं च यथार्थमात्रवृत्तीत्यादि, तत्र किमिदं ज्ञानत्वं सामान्यं वा प्रतिनियतं वा ।
नाद्यः ।
वादिप्रतिवादिनोराश्रयासिद्धेः ।
द्वितीये यथार्थज्ञानवृत्तिज्ञानत्वे सिद्धसाधनता ।
विमतज्ञानवृत्तिज्ञानत्वपक्षीकारे ऽपि मात्रेति व्यर्थं स्यात् ।
तत्त्यागेन च प्रतिज्ञाने प्रथमानुमानदोष एव ।
किञ्च यथाथर्मात्रवृत्तीत्ययथार्थावृत्तित्वमात्रं विवक्षितम् उतायथाथर्ज्ञानावृत्तित्वम् ।
आद्ये सिद्धसाधनम् अयथार्थव्यवहारावृत्तित्वस्य सिद्धत्वात् ।
द्वितीये परस्याप्रसिद्धविशेषणता, अदुष्टसामग्रीजन्यमात्रवृत्तित्वमपाधिश्च ।
यच्च शुक्तिका रजतत्वेनाभासत इत्यादि, तदप्यसत् ।
मेरुः सर्षप इत्यादिवायान्मेरोरपि सर्षपत्वेन प्रतिभासाद्दृष्टान्तस्य साध्यवैकल्यात् ।
अन्यथा तथाविधवाक्याभासं श्रुतवता तत्प्रतिषेधो न क्रियेताप्रसक्तत्वात् ।
नहि पदार्थप्रतिषेधो युक्तः ।
अपि चैवं सत्यग्निरनुगुण इति बाधितविषयस्य वाक्यस्य घटः पचतीत्यपार्थकाद्भेदो न स्यात् ।
यदपीदं रजततादात्म्यमित्यादि ।
तच्चायुक्तम् ।
तदप्रतीतावाश्रयासिद्धेः, प्रतीतौ व्याघातात् दृष्टान्तस्य साध्यसमत्वाच्चेत्यास्तां विस्तरः १
२,२६९
$रामानुजाख्यात्यनुवादः$
कश्चित्पुनरेवमाह ।
तासां त्रिवृतं त्रिवृतमेकैकामकरोदित्यादिश्रुतेः, समेत्यान्योन्यसंयोगमित्यादिपुराणात्, त्र्यात्मकत्वादिसूत्राच्च
(लिने ६) …
__
गप् इन् थे सन्स्क्नेत् एतेxत्-
न्यायसुधा ओन् मध्वऽस् अनुव्याख्यान १,१.२७९८ मिस्सिन्ग् (इन्च्लुदिन्ग् ब्रह्मसूत्र १,१.२)
[= वोल्. २, प्प्. २६९८००, अन्द् वोल्. ३, प्प्. १३८ ओफ़् पन्दुरन्गिऽस् एदितिओन्]
__