०३ तृतीयाध्यायः

प्रथमः पादः

प्रथमः पादः

स्वाभाविकान्यथानामसहभावान्ययोक्तयः ।

अविशेषविशेषौ च सहभाIो विमिश्रता ॥1॥

विरुद्धोक्तिः सहस्थानं वैयर्थ्यं चान्यथागतिः ।

युक्तयः पूर्वपक्षस्य गुणाधिक्यर्थतो भवौ ॥2॥

उपपत्तिद्विरूपत्वमाधिक्यमनुरूपता ।

योग्यता बलवत्त्वं च विभागः कारणाभवः ।

क्लृप्तिरन्या गतिश्चैव सिद्धान्तस्यैव साधकाः ॥3॥

बीजपूरुषयोनीनां सङ्गातिनियमोज्झितिम् ।

अथशब्देन भगवानाह कारणतश्च ताम् ॥4॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य प्रथमः पादः ॥


द्वितीयः पादः

द्वितीयः पादः

पश्चाददृष्ट्यविज्ञानकालदुःखपृथग्भवाः ।

स्थानभेदो विरुद्धत्वं न्यायसाम्यं स्वतो भवः ॥1॥

गुणसाम्यमयोगश्च तर्कबाधो वलिमता ।

नानाभावः प्रलोभश्च युक्तयः पूर्वपक्षगाः ॥2॥

अशक्यकर्तृताशक्तिः स्वतोबोधस्तदेव च ।

अमानक्लृप्तिसन्मानव्यवस्थात्यल्पताभवाः ॥3॥

विशेषदृष्टिवाक्ये च पुंशक्तिः सुनिर्दशनम् ।

अलौकिकत्वमाधिक्यं स्वातन्त्र्यं निर्णयप्रमाः ॥4॥

सन्ध्याधिकरणं

वासनाः सर्ववस्तूनामनाद्यनुभवागताः ।

सन्त्येवाशेषजीवानामनादिमनसि स्थिताः ॥5॥

त्रिगुणात्मकं मनोस्त्येव यावन्मुक्तिः सदातनम् ।

तत्रैवाशेषसंस्काराः सञ्चीयन्ते सदैव च ॥6॥

सूक्ष्मत्वेन लये सच्च प्राकृतैरुपचीयते ।

सृष्टिकाले यदा तन्न कुतः संसारसंस्थितिः ॥7॥

संस्कारैर्भगवानेव सृष्ट्वा नानाविधं जगत् ।

स्वप्नकाले दर्शयति भ्रान्तिर्जाग्रत्वमेव हि ॥8॥

अदृष्टे चाश्रुते भावे न भाव उपजायते ।

अदृष्टादश्रुताद्भावान्न भाव उपजायते ॥9॥

इति श्रुतिपुराणोक्तिरनादित्वात्तु युज्यते ।

कदाचिद्दर्शनायोग्यं यत्तत्रापि विभागतः ॥10॥

दृष्टं सामानाधिकरणं दृश्यतेत्र स च भ्रमः ।

वासनामात्रमूलत्वाज्जाग्रद्वत् स्पष्टता न च ॥11॥

भेदोभेदोथवा द्वन्द्वमिति प्रश्नो न युज्यते ।

द्रष्टुः स्वप्नस्य दृष्टत्वाद्भेदस्यैवाखिलैर्जनैः ॥12॥

प्रश्नदोषा हि चत्वारः स्वव्याहतिरसङ्गतिः ।

सिद्धार्थता च वैफल्यं न तैः स्यात् तत्त्वनिर्णयः ॥13॥

तत्त्वनिर्णयवैलोम्यं तु कथावसितिकारणम् ।

परिहारेपि सिद्धत्वं दूषणं प्रतिवादिनः ॥14॥

प्रतिज्ञायां तदन्यस्य सिद्धतैव हि साधिका ।

आश्रयव्याश्रयासिद्धी साध्यासिद्धिश्च दूषणम् ॥15॥

केषाञ्चिन्न च ते दोषा व्याप्तौ सत्यां कथञ्चन ।

दोषो व्याहतिरेवास्ति नृशृङ्गस्तित्वसाधने ॥16॥

यत्र व्याहतता नास्ति कोतिसङ्गोस्य साधने ।

प्रत्यक्षागममूलास्तु न्यायाः सर्वे भवन्ति हि ॥17॥

न्यायाभासा अमूलाः स्युर् न्यायस्यान्यस्य तौ पुनः ।

अदृष्टे व्यभिचारे तु साधकं तदिति स्फुटम् ॥18॥

ज्ञायते साक्षिणैवाद्धा मानबाधे तु तद्भवेत् ।

यत्साक्षिणैव मानत्वं मानानामवसीयते ॥20॥

अमानस्य तु मानत्वं मानसत्वाचलं भवेत् ।

उत्सर्गतोपि यत्प्राप्तमपवादविवर्जितम् ॥21॥

व्यभिचार्यपवादेन मानमेव भविष्यति ।

अतो हि भोजनादीनामिष्टसाधनतानुमा ॥22॥

मानं व्यवहृतौ नित्यं व्यभिचारो हि तत्र च ।

व्याप्तत्वे व्याश्रयत्वं तु कथमेव हि दूषणम् ॥23॥

रोहिण्युदय आसन्नः कृत्तिकाभ्युदिता यतः ।

इत्युक्ते साधनं नो किं न ह्याज्ञैवात्र साधिका ॥24॥

अन्यत् सदसतोर्विश्वमिति च व्याहतेरमा ।

असिद्धसाधने दोषः को व्याप्तिर्यदि विद्यते ॥25॥

व्याप्तिश्च व्यतिरेकेण तत्र तैश्चावगम्यते ।

अप्रसिद्धस्य साध्यस्य साधकत्वं यदेष्यते ॥26॥

लिङ्गस्योक्तौ विशेषोयं केन मानेन गम्यते ।

साधनं परमाण्वादेर्यदासिद्धस्य चेष्यते ॥27॥

यथानुभवमेवैतन्नाङ्गीकार्यं कुतस्तदा ।

यत्र नातिप्रसङ्गोस्ति मानं न च विपर्यये ॥28॥

क्लिष्टकल्पनयैवात्र साध्यमित्यतिदुर्वचः ।

परिशेषो मिथःसिद्धिचक्रकास्वाश्रयादयः ॥29॥

असिद्धसाधकत्वेन पञ्चावयवता विना ।

अङ्गीकार्या समस्तैस्तन्नियमः किं निबन्धनः ॥30॥

सिद्धसाधनता च न कथावसितिर्भवेत् ।

व्यभिचारो हेत्वसिद्धिरेकपक्षेपि दूषणम् ॥31॥

साध्यसाधनवैकल्यं दृष्टान्तस्य विशेषणे ।

वैय्यर्थ्यमेकासिद्धौ च विशिष्टासिद्धिरेव हि ॥32॥

अप्रयोजनता तत्र प्रथमप्रश्नदूषणम् ।

सिद्धप्रश्नादिकं यत् तदाधिक्यान्तर्गतं भवेत् ॥33॥

अर्थापत्त्युपमाभावा अनुमानान्तर्गताः क्वचित् ।

प्रत्यक्षान्तर्गतोभावः सुखादेर्नियमेन च ॥34॥

अन्यत्र झटिति प्राप्ताः प्रारम्भाद्याश्च युक्तयः ।

आगमार्थावसित्यर्था नियतव्याप्तयोखिलाः ॥35॥

वाक्यं प्रकरणं स्थानं समाख्या च तथाविधाः ।

कुरुपाण्डववत् तेषामुपपत्तेः पृथग्वचः ॥36॥

स्वन्यायैः साधनं कार्यं परन्यायैस्तु दूषणम् ।

स्वन्यायैर्दूषणं च स्यात् साधितैः प्रतिवादिनः ॥37॥

प्रसङ्गार्थतया प्रोक्ता न सिद्धान्तस्य दूषकाः ।

छलं जातिरिति द्वेधा व्याहत्यन्तरमिष्यते ॥38॥

जातिः स्वव्याहतिर्ज्ञेया छलमर्थान्तरोत्तरम् ।

एवं संशोधितन्यायसदागमविरोधतः ॥39॥

नानिर्वाच्यमिह प्रोक्तं मायामात्रपदेन हि ।

वलिक्षणं सदसतोरिति हि व्याहतं स्वतः ॥40॥

प्रतियोगित्वमप्यस्य ब्रह्मणोङ्गीकृतं भवेत् ।

मिथ्या चेत् प्रतियोगित्वं वैलक्ष्ण्यं ततो न हि ॥41॥

अवलिक्षणत्वं सत्यं स्यान्मिथ्यात्वं ब्रह्मणस्ततः ।

अनिर्वाच्यस्य सत्त्वं वा यदि धर्मा न केचन ॥42॥

ब्रह्मणो नैव जिज्ञास्यं जिज्ञासा धर्मनिर्णयः ।

इदमित्थमिति ज्ञानं जिज्ञासायाः प्रयोजनम् ॥43॥

इत्थम्भावो हि धर्मोस्य न चेन्न प्रतियोगिता ।

इत्थम्भावात्मकान् धर्मानाहुश्च श्रुतयोखिलाः ॥44॥

अदृश्यत्वादयोप्यस्य गुणा हि प्रभुणोदिताः ।

यदि स्युस्तादृशा धर्माः सर्वज्ञत्वादयो न किम् ॥45॥

अन्यापेक्षा यदि स्युष्टे सत्तैवं देशकालगा ।

देशकालानपेक्षा हि न सत्ता क्वापि दृश्यते ॥46॥

सर्वधर्मोज्झितस्यास्य किं शास्त्रेणाधिगम्यते ।

मिथ्याधर्मविधातुश्च वेदस्यैवाप्रमाणता ॥47॥

अप्राप्तां भ्रान्तिमापाद्य किं वेदो मानतां व्रजेत् ।

न हि वेदं विना ब्रह्म वेद्यं धर्माश्च तद्गताः ॥48॥

वेदवेद्यस्य मिथ्यात्वं यदि नैक्यस्य तत्कथम् ।

धर्मारोपोपि सामान्यधर्मादीनां हि दर्शने ॥49॥

इदन्तदादिधर्मित्वे धर्मोन्यः कल्प्यतेत्र हि ।

सर्वधर्मविहीनस्य धर्मारोपः क्व दृश्यते ॥50॥

तदर्थं यदि धर्माणामारोपः सानवस्थितिः ।

ईशतज्ज्ञानवेदाक्षजानुमामातृपूर्विणः ॥51॥

भ्रान्तिर्विश्वस्य येनैव मानाभासेन कल्प्यते ।

तन्मात्रस्यान्यथाभावे किं न स्याद्विश्वसत्यता ॥52॥

येनेदं कल्प्यते भ्रान्तं भ्रान्तिस्तस्येव किं न सा ।

भ्रान्तत्वे तस्य विश्वादेरीशाद्यभ्रान्तमेव हि ॥53॥

भवेयुभर्‌रान्तयो नॄणां नैवेशादेः कथञ्चन ।

सत्यत्वमक्षजप्राप्तं यदि भ्रान्तमितीर्यते ॥54॥

प्रामाण्यमागमस्यापि प्रत्यक्षादन्यतः कुतः ।

साक्षिप्रत्यक्षतो ह्येव मानानां मानतेयते ॥55॥

साक्षिणः स्वप्रकाशत्वमनवस्था ततो न हि ।

तात्कालिकं प्रमाणत्वमक्षजस्य यदा भवेत् ॥56॥

ऐक्यागमस्य किं न स्यात् तस्याप्येतादृशं यदि ।

ऐक्यप्रमाणमिथ्यात्वं यदा विश्वस्य सत्यता ॥57॥

ऐक्यवाक्यस्य मानत्वं यद्यबाध्यमितीष्यते ।

अक्षजस्यापि मानत्वं नाबाध्यं किमितीष्यते ॥58॥

अद्वैतहानिसामान्यान्न विशेषश्च कश्चन ।

यदि स्वतस्त्वं प्रामाण्ये विश्वसत्ता कथं न ते ॥59॥

प्रामाण्यस्य च मर्यादा कालतो व्याहता भवेत् ।

कालान्तरेप्यमानं चेदिदानीं मानता कुतः ॥60॥

मिथ्यात्वमानं मोक्षेपि मानं किं नेति भण्यताम् ।

मानत्वेद्वैतहानिः स्यादमानत्वेप्यमोक्षता ॥61॥

विश्वस्य पुनरापत्तिर्मिथ्यामानं यदा न मा ।

अस्ति चेन्मुक्त्यवस्था च द्वैतपत्तिरतोन्यथा ॥62॥

अमुक्तत्वं तथा काले कालाधीना हि मुक्तता ।

काल एवागमोप्याह मुक्तिं कालनिवर्तने ॥63॥

मुक्तेरपि निवृत्तिः स्यात् संसारित्वमतो भवेत् ।

क्व च प्रत्यक्षतः प्राप्तमनुमागमबाधितम् ॥64॥

देहात्मत्वं यदि न तत्प्राप्तं प्रत्यक्षतः क्वचित् ।

मम देह इति ह्येव न देहोहमिति प्रमा ॥65॥

उपचारश्च कृष्णोहमिति कर्दमलेपने ।

वस्त्रस्य यद्वदेवं स्याद् यद्युपाधिकृतं तदा ॥66॥

स्वतः शुक्लत्ववत् कार्ष्ण्यं न ममेति प्रतीयते ।

कथं च भेदो देहादेरात्मनो न प्रतीयते ॥67॥

जातमात्रा मृगा गावो हस्तिनो पक्षिणो झषाः ।

भयाभयस्वभोगादौ कारणानि विजातने ॥68॥

अस्मृतौ पूर्वदेहस्य विज्ञानं तत्कथं भवेत् ।

अन्वयव्यतिरेकादेरनुसन्धानविस्मृतौ ॥69॥

यदा देहान्तरज्ञानं देहैक्यावसितिः कुतः ।

व्याप्तत्वादात्मनो देहे व्यवहारेष्वपाटवात् ॥70॥

भेदज्ञानेपि चाङ्गारवह्निवत् स्वाविविक्तवत् ।

भवन्ति व्यवहाराश्च न हि प्रत्यक्षगानपि ॥71॥

अर्थान्यथानुभवतः प्रतिपादयितुं क्षमाः ।

लोकास् ततो हि प्रत्यक्षसिद्धं नान्येन केनचित् ॥72॥

शक्यं वारयितुं क्वापि तच्चेन्नोत्तरगोचरम् ।

कथमेवोत्तरः कालस्तद्गो मोक्षश्च गम्यते ॥73॥

आगमोपि हि सामान्ये सिद्धे प्रत्यक्षतः पुनः ।

विशेषं ज्ञापयेदेव कथं शक्तिग्रहोन्यथा ॥74॥

अतीतानागतार्थेषु जाते शक्तिग्रहेखलिम् ।

विशेषं गमयेद्वाक्यं न तदज्ञानशक्तिके ॥75॥

शक्तिश्चेद्वर्तमाने स्यान्नतीतानागतं वदेत् ।

यदि शक्तिग्रहोन्यत्र कथं स स्यात् तदग्रहे ॥76॥

सामान्यं दृष्टमेवासावन्यत्र गमयेद्यदि ।

सामान्यवर्जितं वस्तु स्वरूपं गमयेत् कथम् ॥77॥

न स्वरूपत्वसामान्यं केनाप्यङ्गीकृतं क्वचित् ।

स्वरूपं चेदनुगतं व्यावृत्तं तत्र किं भवेत् ॥78॥

सर्वानुगतधर्माणामन्ते हि स्वत्वमिष्यते ।

किं व्यावृत्तमिति प्रश्ने स्वरूपमिति केवलम् ॥79॥

स्यादुत्तरं ततोन्यच्चेत् तदेव स्वयमेव नः ।

एवं व्यावृत्तरूपेपि यदा शक्तिग्रहो भवेत् ॥80॥

तस्य सामान्यतो ज्ञानं विना स च भवेत् कुतः ।

अतो विशेषसामान्यरूपं सर्वमपीष्यते ॥81॥

व्यावृत्तं यच्च सामान्यं तदेव स्याद्विशेषतः ।

न चैकधर्मता तेन पदार्थानां परस्परम् ॥82॥

धर्माणां भेददृष्ट्यैव तत्सादृश्यस्य दर्शनात् ।

अतः सर्वपदार्थाश्च सामान्यात् साक्षिगोचराः ॥83॥

सर्वमित्येव विज्ञानं सर्वेषां कथमन्यथा ।

किञ्चित् सादृश्यविज्ञानादखलिस्यापि वस्तुनः ॥84॥

शब्दशक्तिग्रहश्च स्यात् तत्तत्सादृश्यमानतः ।

प्रत्यक्षं मानसं चैव यदातीतार्थगोचरम् ॥85॥

तदा स्मृतिप्रमाणत्वमतीतत्वविशेषितम् ।

आधिक्यमनुभूतात् तु यदातीतत्वमिष्यते ॥86॥

मानता च कथं न स्यात् स्मृतेर्बाधश्च नात्र हि ।

मानत्वं प्रत्यभिज्ञाया अपि सर्वानुभूतिगम् ॥87॥

अतीतवर्तमानत्वधर्मिणी सा च दृश्यते ।

न च सा स्मृतिमात्रार्धा तदितन्त्वग्रहैकतः ॥88॥

अतो न वर्तमानैकनियमः स्याद्ग्रहेक्षजे ।

न च प्रमाणतोन्या स्यात् प्रमितिर्नाम कुत्रचित् ॥89॥

मानाभावाद् गौरवाच्च कल्पनायाः किमेतया ।

मयैतज्ज्ञातमिति तु साक्षिगं ज्ञानगोचरम् ॥90॥

ज्ञानमेव ततोन्या न प्रमितिर्नाम दृश्यते ।

मानमातृप्रमेयाणां तदुच्छित्तिर्न हि क्वचित् ॥91॥

स्वाप्नानामपि चैतेषां न बाधो दृश्यते क्वचित् ।

जाग्रत्वमात्रमत्रैकमन्यथा दृश्यते स्फुटम् ॥92॥

अतो मिथ्या न च स्वप्नो जाग्रद्वज्जाग्रदेव च ।

आत्मवत् क्वचिदात्मा च स्यादेव भ्रमगोचरः ॥93॥

एतावता न मिथ्यासौ स्वप्ने जागरिते तथा ।

यद्यात्मन्यन्यथा दृश्यं भ्रान्तमत्रापि तद्भवेत् ॥94॥

अबाधितानुवृत्तेस्तु स्वप्नादेभर्‌रान्तता कुतः ।

न च काचित् प्रमा विश्वभ्रान्तत्वे सर्वमेव च ॥95॥

अभ्रान्तत्वे प्रमाणं तु कथं तद्भ्रान्तिता भवेत् ।

किञ्च भ्रान्तत्ववादी स भ्रान्तत्वं स्वमतस्य च ॥96॥

अङ्गीकरोति नियतं तत्र सम्प्रतिपन्नता ।

वादिनोस्तेन चाभ्रान्तं विश्वमेव भविष्यति ॥97॥

भ्रान्तत्वभ्रान्तता चेत् स्यात् कथं नाभ्रान्तिसत्यता ।

अशेषदोषदूरं तन्मतं हेयं बुभूषुभिः ॥98॥

येन स्वमतहेयत्वं स्वयमङ्गीकृतं सदा ।

भ्रान्तित्वाद् दुर्घटत्वस्य भूषणत्वाच्च केवलम् ॥99॥

उन्मत्तोपि कथं तस्य मतं स्वीकर्तुमिच्छति ।

ईशशक्तेरचिन्त्यत्वान् महोन्मत्तैः प्रवर्तितम् ॥100॥

अतः प्रज्ञात्र मायोक्ता जैव्युपादानमेव सा ।

निमित्तमैश्वरी मुख्या निर्मितं त्रातमेव च ॥101॥

ताभ्यां सह पृथक् चैव मायामात्रमितीर्यते ।

उभाभ्यां मातमैश्वर्या त्रातं सह पृथक् ततः ॥102॥

प्रज्ञात्मकं मनो येन मनोरूपाश्च वासनाः ।

धीर्भीरिति मनस्त्वेवेत्याह च श्रुतिरञ्जसा ॥103॥

चिदचिन्मिश्रमेवैतन्मनो यावच्च संसृतिः ।

तेनावस्था इमाः सर्वा जीवः पश्यति सर्वदा ॥104॥

मनोविकारा विषयाः स्वाप्ना यद्बाह्यवन्न ते ।

स्थूला भवन्त्यतस्तेषां स्पष्टता न तथा क्वचित् ॥105॥

क्वचित् स्पष्टा स्युष्टे वासना मानसी च सा ।

ईशेच्छयान्तर्दधाति व्यज्यते च पुनस्तया ॥106॥

देहयोगाधिकरणं

सृष्ट्वैव वासनाभिश्च प्रपञ्चं स्वाप्नमीश्वरः ।

वासनामात्रतां तस्य नीत्वान्तर्धापयत्यजः ॥107॥

सम्पत्त्यधिकरणं

सुषुप्तिबोधमोहांश्च स्ववशस्तद्वशं सदा ।

जीवं नयति देवेशः नान्यः कर्तास्य कश्चन ॥108॥

नस्थानतोप्यधिकरणं

न स्थानतोभेदतोप्यस्य भेदः कश्चित् परेशितुः ।

सर्वत्राशेषदोषोज्झपूर्णकल्याणचिद्गुणः ॥109॥

तद्विरुद्धं तु यत्तत्र मानं नैव क्वचिद्भवेत् ।

महातात्पर्यरोधेन कथं तन्मानमत्र तु ॥110॥

दुःखाप्ययसुखावाप्तिहेतुत्वेनैव वेदवाक् ।

भवेन्मानं तदीशानात् प्रसन्नादेव नान्यथा ॥111॥

प्रसन्नता गुणोत्कर्षज्ञानादेव हि केवलम् ।

निर्दोषतापरिज्ञानादपि नान्येन केनचित् ॥112॥

यो मामशेषदोषोज्झं गुणसर्वस्य बृंहितम् ।

जानात्यस्मै प्रसन्नोहं दद्यां मुक्तिं न चान्यथा ॥113॥

यो मामशेषाभ्यधिकं विजानाति स एव माम् ।

विजानात्यखिलांस्तस्य दद्यां कामान् परं पदम् ॥114॥

यो मामेवमसम्मूढः किं मां निन्दन्ति शत्रवः ।

इत्यादिवेदस्मृतिगवाक्यैरेवावसीयते ॥115॥

लोकतश्च प्रसादेन मुक्तिः सगुणवेदनात् ।

महातात्पर्यमुख्यस्य विरोधादत एव हि ॥116॥

दोषित्वनिर्गुणत्वाल्पगुणत्वादि कथञ्चन ।

नार्थः श्रुतिपुराणादेस् तद्विरुद्धोखलिस्य च ॥117॥

अर्थः स्वयं विनिर्णीतो वासुदेवेन सादरम् ।

इति गुह्यतमं शास्त्रमिदमुक्तं मयानघ ॥118॥

एतद् बुद्ध्वा बुद्धिमान् स्यात् कृतकृत्यश्च भारत ।

इत्यतोखलिसच्छास्त्रविरुद्धत्वेन नानुमा ॥119॥

वर्तते तत्र तेनेशो निर्णीतोखलिसद्गुणः ।

न च चित्त्वादभिन्नत्वं जीवस्येशवदाप्यते ॥120॥

उपमाधिकरणं

यत आभासतामेव श्रुतिरस्य वदत्यलम् ।

यथैषा पुरुषे छाया एतस्मिन्नेतदाततम् ॥121॥

छाया यथा पुंसदृशा पुमधीना च दृश्यते ।

एवमेवात्मकाः सर्वे ब्रह्माद्याः परमात्मनः ॥122॥

सत्ताप्रतीतिकार्येषु पुमधीनो यथेयते ।

आभास एवं पुरुषा मुक्ताश्च परमात्मनः ॥123॥

छाया विष्णो रमा तस्याश्छाया धाता विशेषकौ ।

तस्येन्द्रकामौ च तयोस्तयोरन्येखिला अपि ॥124॥

हरेबर्‌रह्मास्य गीस्तस्या विशेषाविन्द्र एतयोः ।

मारश्चाभासकाः सर्व एतयोस्तदधीनतः ॥125॥

सर्वेल्पशक्तयश्चैव पूर्णशक्तिः परो हरिः ।

चेतनत्वेपि भिन्नास्ते तस्मादेतेन सर्वदा ॥126॥

इत्यादिश्रुतिवाक्येभ्यो ज्ञायते भेद एव हि ।

आभासत्वं हि निर्णीतं जीवस्य परमात्मनः ॥127॥

तन्न युक्तं यदाभास उपाध्यायत्त ईयते ।

उपाध्यायत्तताभावादाभासत्वविरोधतः ॥128॥

चेतनत्वेन चांशत्वात् समुदायैक्यमापतेत् ।

अतः पृथक्त्वमुदितं समुदायांशयोर्भवेत् ॥129॥

ईशाख्या समुदाये स्यादीशरूपेष्विवोदिता ।

अतो देहाद्युपाधीनामपाये समता भवेत् ॥130॥

ईशरूपैरथाभासा मुख्यतः सूर्यकादिवत् ।

यदा तदोपाध्यायत्तरूपाणां नांशिता भवेत् ॥131॥

इत्याशङ्कानिवृत्त्यर्थमाह वेदाधिपः प्रभुः ।

अत एवोपमेत्येव चान्याभासविशेषिताम् ॥132॥

यदुक्तं तदधीनत्वं सर्वावस्थास्वशेषतः ।

जीवस्य सदृशत्वं च चित्त्वमात्रं न चापरम् ॥133॥

तावन्मात्रेण चाभासो रूपमेषां चिदात्मनाम् ।

नोपाध्यधीनताद्यैश्च नातिसाम्यं निदर्शने ॥134॥

किञ्चित् सुखादिसादृश्यमपीशेनासुरानृते ।

तत आभासते नित्यं तद्वदाभासतेपि च ॥135॥

भानमस्तित्वमपि चैवासमन्ताद् यतस्ततः ।

जीव आभास उद्दिष्टः सदैव परमात्मनः ॥136॥

न जलायत्तसूर्यादिप्रतिबिम्बोपमत्वतः ।

तदधीनत्वमेवेति किञ्चिद् सादृश्यमेव च ॥137॥

सम्प्रकाशयतः सूत्रगतावखलिमानतः ।

जीवेशभेददृष्ट्यैव समुदायैकता कुतः ॥138॥

अशेषदोषराहित्यं सर्वशक्तित्वतो हरेः ।

सर्वोपेतेति कथितमत ऐक्यं क्व दोषिणा ॥139॥

अशेषशक्तियुक्तश्चेत् स्वातन्त्र्याद्दोषवान् कथम् ।

अनुसन्धानरहितमैक्यं चेदेकता न तत् ॥140॥

चेतनैक्येनुसन्धानं प्रमाणं नैव चापरम् ।

अनुसन्धानरहितं समुदायैक्यमेव चेत् ॥141॥

चेतनेष्वस्तु तन्नाममात्रमेव यतस्ततः ।

मुक्तौ स्यादनुसन्धानमित्यपि स्यात् सुदुष्करम् ॥142॥

सर्वज्ञ एकतां नानुसन्धत्ते नैव सा यतः ।

पञ्चात् स्यादनुसन्धानं चेन्मिथ्याज्ञानिनां भवेत् ॥143॥

विद्यमानानुसन्धानंं न चेदज्ञत्वमापतेत् ।

असदैक्यं भवेत् पश्चाद्यदि स्यात् सप्तमो रसः ॥144॥

समुदायैक्यमेतस्माद् दूरतोपाकृतं सदा ।

अतोशेषगुणोन्नद्धं निर्दोषं यावदेव हि ॥145॥

तावदेवेश्वरो नाम तत्र भेदोपि न क्वचित् ।

नेह नानास्ति किमपि हरयोयमयं हि सः ॥146॥

इत्यादिश्रुतिमानेन जीवांशः सर्व एव च ।

नियमेनानुसन्धानवन्तो यद्येकता स्वतः ॥147॥

अंशिनोशेषसन्धानमत्यल्पस्यापि विद्यते ।

भुवि जातेन चांशेन सुखदुःखादि तद्गतम् ॥148॥

अनुभूयते विशेषस्तु कश्चिदीशकृतो भवेत् ।

ईशस्याचिन्त्यशक्तित्वान्नाशक्यं क्वापि विद्यते ॥149॥

सेशतानुपपन्नैव यदि जीवैकतास्य हि ।

अनीशस्येशतेत्येव विरुद्धं सर्वमानतः ॥150॥

ईशत्वेनैव विज्ञातमनीशत्वेन चेच्छ्रुतिः ।

अनीशत्वेन विज्ञातमीशत्वेनाथवादिशेत् ॥151॥

उपजीव्यविरोधेन नैव मानत्वमेष्यति ।

अत एवेशतासिद्धेर्न किञ्चिच्छक्यमस्य च ॥152॥

ईशत्वेनीशभेदेन श्रुत्या सम्यक्प्रकाशिते ।

अयुक्तमपि चान्यत्र युक्तं भवति तद्बलात् ॥153॥

अतोन्यत्रापि यद्दृष्टं तदीशेनैव कल्प्यते ।

श्रुत्याभासाप्तमपि न हीशत्वपरिपन्थि यत् ॥154॥

ईशोनीशो जगन्मिथ्या दुःखी मुक्तो भिदा न हि ।

इति प्रतिज्ञाव्याघातः सर्वदोषाधिकाधिकः ॥155॥

इति हि ब्रह्मतर्कोक्तिरतिहेयमतोखिलैः ।

बुभूषुभिर्मतमिदं जीवेशाभेदवादिनः ॥156॥

नायुक्तमीशितुः किञ्चिदीशत्वस्याविरोधि यत् ।

यदीशत्वविरोधि स्यात् तदेवायुक्तमञ्जसा ॥157॥

ईशत्वस्याविरोधेन योजयित्वाखिलाः प्रमाः ।

सिद्धेशत्वेन चायुक्तमपि हीशेन योजयेत् ॥158॥

मानतः प्राप्तमखिलं नामानं योजयेत् क्वचित् ।

इति हि ब्रह्मतर्कोक्तिरतो युक्तमिहोदितम् ॥ 159॥

स चाप्राकृतरूपत्वादरूपः स्वगुणात्मकम् ।

रूपमस्य शिरःपाणिपादाद्यात्मकमिष्यते ॥160॥

अतो नानित्यता नैव श्रुतिद्वयविरोधिता ।

यथा हि तैजसस्यैव प्रकाशस्योज्झितावपि ॥161॥

आत्मैव ज्योतिरित्याह जीवस्येशं श्रुतिस्तथा ।

तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम् ॥162॥

ब्रह्मादीनां च सर्वेषामानन्दादेर्यथाक्रमम् ।

स्थानविशेषाधिकरणम्

प्रतिबिम्बवदप्येषामानन्दोन्यगुणा यथा ॥163॥

नारायणगुणाधीनश्चात्यल्पस्तदपेक्षया ।

तस्माद्भिन्नस्य सततम् अन्यज्ज्ञानं परस्य च ॥164॥

अन्यज्ज्ञानं च जीवानामन्य आनन्द ईशता ।

मुख्येशता परेशस्य गौणी जीवस्य सा यतः ॥165॥

इति श्रुतेः ……. ।

॥ पालकत्वाधिकरणम् ॥ ….. सृष्टिनाशौ तदधीनावितीरिते ।

स्वभावत्वात् स्थितेर्नैतदपेक्षेति न युज्यते ॥166॥

यतः स्वभावोप्यखलि ईशायत्तोखलिस्य च ।

॥ अव्यक्ताधिकरणम् ॥ अव्यक्तोपि स्वशक्यैव भक्तानां दृश्यते हरिः ॥167॥

॥ उभयव्यपदेशाधिकरणम् (अहिकुण्डलाधिकरणम्) ॥ तदभिन्ना गुणा नित्यमपि सर्वे विशेषतः ।

गुणत्वेन गुणित्वेन भोक्तृभोग्यतया स्थिताः ॥168॥

विशेषात्मतया तेषां नित्यशक्त्यात्मना तथा ।

नित्यं स्थितेर्न धर्माणां क्रियादीनामनित्यता ॥169॥

न विशेषात्मता चेयमनित्या शक्तिरूपता ।

सैव यत्सविशेषा स्याद् विशेषोन्यो न चाप्ययम् ॥170॥

स्वनिर्वाहकताहेतोस्तथापि स्याद्विशेषता ।

विशेषत्वेन विज्ञातेः प्रमाणैरखिलैरपि ॥171॥

ससर्ज सञ्जहारेति विशेषो ह्यवगम्यते ।

श्रुत्यैव स स एवेति तदभेदश्च गम्यते ॥172॥

भेदो यदि विशेषस्य स भेदो भेदिना कथम् ।

भिन्नश्चेदनवस्था स्यादभिन्नश्चेत् पुरा न किम् ॥173॥

विशेषोभिन्न एवेति तेन नाभ्युपगम्यते ।

अभिन्नो निर्विशेषश्चेद्भेदस्तद्भेदता कुतः ॥174॥

अनेनानेन भिन्नोयमिति यत्सविशेषतः ।

भेद एवैष बहुधा दृश्यते तत्किमुत्तरम् ॥175॥

अभेदभेदयोश्चैव स्वरूपत्वं हि भेदिनः ।

तयोरप्यविशेषत्वे पर्यायत्वं हि शब्दयोः ॥176॥

अभेदभेदशब्दौ च पर्यायाविति को वदेत् ।

भेदोन्योन्यमभेदश्च भेदिना चेद्विशेषिता ॥177॥

अविशेषे कथं भेदो भेदिनैकस्तथा भिदा ।

पुनस्तयोर्विभेदश्च भेदिमात्रत्वतो भवेत् ॥178॥

भेदिनश्चैव भेदस्य विशेषो यदि गम्यते ।

अभेदाभेदिनोश्चैव किं भेदोभेदभेदयोः ॥179॥

विशेषेणैव सर्वत्र यदि व्यवहृतिभवेत् ।

कल्पनागौरवायैव किं भेदः कल्प्यते तदा ॥180॥

ऐक्यप्रतीत्यभावेन भेद एव गवाश्वयोः ।

स एवेति प्रतीतौ हि विशेषो नाम भण्यते ॥181॥

सच्चिदादेरपर्यायसिद्ध्यर्थं मायिनापि हि ।

अङ्गीकार्यो विशेषोयं यद्यसत्यविशेषणम् ॥182॥

पृथक्पृथग्वारयितुं शब्दान्तरमितीष्यते ।

मायाविशेषराहित्यविशेषणविशेषिता ॥183॥

सत्यस्यापि भवेत् सा च तथा चेदनवस्थितिः ।

यदि सत्ये विशेषो न न तदुक्तिर्भवेत् तदा ॥184॥

लक्ष्यते चेत् तेन लक्ष्यमित्यपि स्याद्विशेषिता ।

पुनः पुनर्लक्षणायामपि स्यादनवस्थितिः ॥185॥

यद्यभावविशेषित्वं स्यादङ्गीकृतमेव ते ।

असार्वज्ञादिराहित्यमप्येवं ते भविष्यति ॥186॥

तदा सार्वज्ञमेव स्याद्भावार्थत्वान्नञोर्द्वयोः ।

यदि नैतादृशं ग्राह्यमसुखत्वानिवर्तनात् ॥187॥

असत्त्वाज्ञानतादेश्च स्यादसत्त्वादिकं तदा ।

अनृतादिविरोधित्वं यद्यस्याभ्युपगम्यते ॥188॥

अनैश्वर्यविरोधित्वमप्येवं किं निवार्यते ।

अखण्डखण्डनादेवं विशेषोखण्डवादिना ॥189॥

खण्डितेनापि मनसा स्वीकार्योनन्यथागतेः ।

अखण्डखण्डवादिभ्यां खण्डाखण्डेन चैव तत् ॥190॥

महादरेण शिरसि विशेषो धार्य एव हि ।

निदर्शनत्रयेणातो भगवानत्यभिन्नताम् ॥191॥

गुणानामादरेणाह तच्च नाभिहितान्वयः ।

यदाशेषविशेषाणामुक्तिः सामान्यतो भवेत् ॥192॥

पदैकेनाप्युत्तरेण विशेषावगतिर्भवेत् ।

यतोशेषविशेषाणां वस्तुनास्त्येव चैकता ॥193॥

अतः सामान्यतो ज्ञातः पदान्तरबलात् पुनः ।

भवेद् विशेषतो ज्ञातस्तेन स्यादन्वितोक्तिता ॥194॥

स्वार्थ एवान्वितो यस्मात् केनचित् तद्विशेषतः ।

अनेनेति तदुक्त्यैव ज्ञायतेनुभवेन हि ॥195॥

यद्यनन्वितमेवैतत्पदं स्वार्थं वदेदिह ।

तथान्यान्यपि सर्वाणि कः कुर्यादन्वयं पुनः ॥196॥

व्यापारो न हि शब्दस्य परः स्वार्थप्रकाशनात्‌।

पुमानप्येकवारोक्त्या कृतकृत्यो यदा भवेत् ॥197॥

अन्वयस्य कथं ज्ञानं शब्दार्थत्वं यदास्य च ।

यदैवानन्वितार्थस्य वचनं तैः पदैर्भवेत् ॥198॥

अनन्वितः स्याच्छब्दार्थो न तदर्थो हि सोन्वयः ।

निराकाङ्क्षपदान्येव वाक्यमित्युच्यते बुधैः ॥199॥

तत्तदर्थाभिधानेन स्यान्निराकाङ्क्षता च सा ।

अपूर्तेस्तावदर्थानामकाङ्क्षा पूर्वमिष्यते ॥200॥

कर्मकर्तृक्रियाणां तु पूर्वो कोन्योन्वयो भवेत् ।

अपूर्तिश्चेत् पदैरुक्तैः किं नृशृङ्गेण पूर्यते ॥201॥

व्यापारश्चेत् पुनस्तेषामनुक्तावपि किं न सः ।

उक्ते बुद्धिस्थताहेतोर्यदि व्यापार इष्यते ॥202॥

बुद्धिस्थत्वाय यत्नं न कथं कुर्युः पुरैव च ।

पुरुषाधीनता तेषां यदि पश्चाच्च सा समा ॥203॥

पुमानेवान्वयायैषां यदि पश्चाद्विचेष्टते ।

अनन्विताभिधानानां स एवार्थान्तरोक्तिषु ॥204॥

यततां शब्दशक्तिश्चेत् तत्र नैवान्वये कथम् ।

तत्कल्पनागुरुत्वादिदोषेतोभिहितान्वयः ॥205॥

अनुभूतिविरुद्धश्च त्याज्य एव मनीषिभिः ।

कर्तृशब्दे ह्यभिहिते धर्मसामान्यवेदनात् ॥206॥

विशेषधर्ममन्विच्छन् किमित्येव हि पृच्छति ।

गुणक्रियादिधर्माणां विशेषे कथिते पुनः ॥207॥

निराकाङ्क्षो भवेद्यस्माच्छब्दा अन्वितवाचकाः ।

अतोनन्तगुणात्मैको भगवानेक एव तु ॥208॥

उच्यते सर्ववेदैश्च …….. ।

॥ परानन्दाधिकरणम् ॥ …. ते चाखलिवलिक्षणाः ।

सर्वे सर्वगुणात्मानः सर्वकर्तार एव तु ॥209॥

तथापि सविशेषाश्च विद्वद्य्वुत्पत्तितोपि च ।

तैस्तैः शब्दैश्च भण्यन्ते युज्यते चोपदेशतः ॥210॥

अन्यानन्दादिसादृश्यमानुकूल्यादि नापरम् ।

पूर्णत्वादि महत्तेषां वैलक्षण्यं श्रुतौ श्रुतम् ॥211॥

पूर्णोशेषनियन्ता च सुस्वादुतम एकलः ।

गुणोरुसमुदायोयं वासुदेवः सुनिष्कलः ॥212॥

वासुदेवश्रुतिः सैषा गुणान् वक्ति हरेः परान् ।

स्थानविशेषाधिकरणं

स एवाशेषजीवस्थनिःसङ्ख्यानादिकालिकान् ॥213॥

धर्माधर्मान् सदा पश्यन् स्वेच्छया बोधयत्यजः ।

कांश्चित् तेषां फलं चैव ददाति स्वयमच्युतः ॥214॥

न ते विशेषं कमपि प्रेरणादिकमुच्यते ।

कुर्युः कदापि तेनायं स्वतन्त्रोनुपचारतः ॥215॥

कर्माणि तानि च पृथक् चेतनान्येव सर्वशः ।

अचेतनशरीराणि स्वकर्मफलभाञ्जि च ॥216॥

प्रत्येकं तेषु चानन्तकर्माण्येवंविधानि च ।

तानि चैवमितीशस्य निःसीमा शक्तिरुत्तमा ॥217॥

एकैव ब्रह्महत्या हि वराहहरिणोदिता ।

ब्रह्मपारस्तवेनैव निष्क्रान्ता राजदेहतः ॥218॥

स्तोत्रस्य तस्य माहात्म्याद् व्याधत्वं गमिता पुनः ।

प्राप्य ज्ञानं परं चाप तथान्यान्यपि सर्वशः ॥219॥

अनन्तान्युदितान्येवं प्रभुणा कपलिन हि ।

संसारे पच्मानानि कर्माण्यपि पृथक् पृथक् ॥220॥

तस्मादनन्तमाहात्म्यगुणपूर्णो जनार्दनः ।

भक्त्या परमयाराध्य इति पादार्थ ईयते ॥221॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचिते ब्रह्मसूत्रानुव्याख्याने तृतीयाध्यायस्य द्वितीयः पादः ॥