०३

॥ अथ तृतीयोऽध्यायः॥
ॐ शुभेन कर्मणा स्वर्गं निरयं च विकर्मणा।
मिथ्याज्ञानेन च तमो ज्ञानेनैव परं पदम्‌॥ ३.१॥
याति तस्माद्विरक्तः सन्‌ ज्ञानमेव समाश्रयेत्‌।
सर्वावस्थाप्रेरकश्च सर्वरूपेष्वभेदवान्‌॥ ३.२॥
सर्वदेशेषु कालेषु स एकः परमेश्वरः।
तद्भक्तिस्तारतम्येन तारतम्यं विमुक्तिगम्‌॥ ३.३॥
सच्चिदानन्द आत्मेति मानुषैस्तु सुरेश्वरैः।
यथा क्रमं बहुगुणैर्ब्रह्मणत्त्वखिलैर्गुणैः॥ ३.४॥
उपास्यः सर्वदेवैश्च सर्वैरपि यथा बलम्‌।
ज्ञेयो विष्णुर्विशेषस्तु ज्ञाने स्यादुत्तरोत्तरं॥ ३.५॥
सर्वेऽपि पुरुषार्थास्युः ज्ञानादेव न संशयः।
न लिप्यते ज्ञानावंश्च सर्वदोषैरपि क्वचित्‌॥ ३.६॥
गुणदोषैः सुखस्यापि वृद्धि ह्रासौ विमुक्तिगौ।
नॄणां सुराणां मुक्तौ तु सुखं क्लृप्तं यथाक्रमम्‌॥ ३.७॥
॥ इति तृतीयोऽध्यायः॥