०२

॥ अथ द्वितीयोऽध्यायः॥
ॐ श्रौतस्मृतिविरुद्धत्त्वात्‌ स्मृतयो न गुणान्हरेः।
निषेद्धुं शक्नुयुर्वेदानित्यत्वान्मानमुत्तमम्‌॥ २.१॥
असज्जीवप्रधानादिशब्दाब्रह्मैव नापरम्‌।
वदन्ति कारणत्वेन क्वापि पूर्णगुणो हरिः॥ २.२॥
स्वातन्त्र्यात्सर्वकर्तृत्त्वान्नायुक्तं तद्भवेच्छ्रुतिः।
भ्रान्तिमूलतया सर्व समयानामयुक्तितः॥ २.३॥
न तद्विरोधाद्वचनं वैदिकं शङ्क्यतां व्रजेत्‌।
आकाशादिसमस्तं च तज्जं तेनैव लीयते॥ २.४॥
सोऽनुत्पत्तिलयः कर्ता जीवः तद्वशगः सदा।
तदाभासो हरिः सर्व रूपेष्वपि समः सदा॥ २.५॥
मुख्यप्राणश्चेन्द्रियाणि देहश्चैव तदुद्भवाः।
मुख्यप्राणवशे सर्वं स विष्णोर्वशगः सदा॥ २.६॥
सर्व दोशोज्झितः तस्माद्‌ भगवान्‌ पुरुषोत्तमः।
उक्ता गुणाश्चाविरुद्धास्तस्य वेदेषु सर्वथा॥ २.७॥
॥ इति द्वितीयोऽध्यायः॥