०४ चतुर्थोऽध्यायः

चतुर्थाध्यायस्य प्रथमः पादः

चतुर्थाध्यायस्य प्रथमः पादः

ब्रह्मसूत्राणुभाष्यम्

विष्णुर्ब्रह्म तथाऽदातेत्येवं नित्यमुपासनम्‌।

कार्यमापद्यपि ब्रह्म तेन यात्यपरोक्षताम्‌॥ १॥

प्रारब्धकर्मणोऽन्यस्य ज्ञानादेव परिक्षयः।

अनिष्टस्योभयस्यापि सर्वस्यान्यस्य भोगतः॥ २॥

तत्वमञ्जरी

१. अस्मिन्नध्याये आद्यसूत्रस्थातःपदोक्तकर्मक्षयोत्क्रान्तिमार्ग- भोगरूपमोक्षाख्यं फलं निरूप्यत इति श्रीमद्भाष्यादेव अत्रैवाग्रे प्रतिपादनदिशा वा अध्यायार्थः सुज्ञानः । तथैव पादार्था अपि । तत्रान्त्यनये कर्मक्षयाख्यं फलं वक्ष्यन् सप्तभिर्नयैर् अत्यावश्यकान्त-रङ्गसाधनं ज्ञानस्योच्यते । तदर्थं भापते - ‘विष्णुर्ब्रह्म तथा दातेत्येवं नित्यमुपासनम् । कार्यमापद्यपि ब्रह्म तेन यात्यपरोक्षताम्’ इति ।

२. तत्रायं विवेकः । सकृदनुष्ठिताग्निष्टोमादिना स्वर्गफलदर्शनात् श्रवणादिनाऽपि सकृदिनुष्ठितेनैव ज्ञानमस्त्वित्यतः प्राप्तस्य ‘आवृत्ति-रसकृदुपदेशात्’ इति नयस्याथों - नित्यमुपासनं कार्यमिति । श्रवणादिरूपमुपासंन नित्यं कार्यं न तु सकृदेवेत्यर्थः । व्रीह्यवघातादिवद् दृष्टार्थत्वेन यावज्ज्ञानोदयं श्रवणादेरावर्त्यत्वादिति भावः ॥ १ ॥

३. यत्तु हरेः स्वामित्वस्यातिप्रसिद्धत्वान् नित्यं तदुपासनं नावश्यकमित्यतः प्राप्तं ‘आत्मेति तूपगच्छन्ति ग्राहयन्ति च’ इति तदर्थः - आदातेत्येवं नित्यमुपासनम् । कार्यमापद्यपीति । विष्णुरित्यन्वेति । विष्णुरादाता स्वामीत्येवं प्रकारेण नित्यमुपासनं कार्यम् । नित्यमित्यस्य विवरणमापद्यपीति ।

‘आत्मेत्युपासनं कार्यं सर्वथैव मुमुक्षुभिः ।

नानाक्लेशसमायुक्तोऽप्येतावन्नैव विस्मरेत्’

इत्युक्तेरिति भावः ।

स्वामीति वाच्ये आदातेत्युक्तिर् आदत्ते भृत्यानित्यात्मा इत्यात्मशब्दो योगेन स्वामिवाचीति सौत्रात्मपदं व्याख्यातुम् । ‘आदानार्थत्वतश्चायमात्मशब्दः पतिं वदेत्’ इत्यनुव्याख्यानोक्तेः । आदातेतीत्येव पूर्तौ प्रकारवाच्येवंशब्दोक्तिर् आत्मत्वं विशेषण-मित्येवं रूपेणोपासनं कार्यं न तु जीवत्वेनेति वक्तुम् । ‘आत्मा विष्णुरिति ध्यानं विशेषणविशेष्यतः’ इत्यादेः । तेन विष्णुर् आत्मतया जीवत्वेनोपास्य इत्वेवं वदन्तो निरस्ताः ॥ २ ॥

४. एतेन ‘नाम ब्रह्मेत्युपासीत’ इत्यादौ नामाद्यभिमानिरूप-प्रतीकतादात्म्येन उपासनमपाकुर्वतो ‘न प्रतीके न हि सः’ इति नयस्याप्यर्थः सङ्गृहीतः । विष्णुरादातेत्यनन्तरं विष्णुर्नामादावित्य-स्याप्यभिप्रेतत्वेन विष्णुनामादावित्येवं नित्यमुपासनं कार्यं, न तु विष्णुर्नामेत्येवं रूपेणेति व्याख्यानसंभवात् ॥ ३ ॥

५. यत्तु विष्णोरतिप्रीतिहेतुत्वेन उत्कृष्टत्वरूपब्रह्मत्वोपासन-स्यावश्यकत्वं वक्तुं ‘ब्रह्मट्टष्टिर् उत्कर्षात्’ इति सूत्रं तदर्थं

भाषते - विष्णुर्ब्रह्मेत्येवं नित्यमुपासनं कार्यमापद्यपीति । पूर्ववदू्याख्यानम् ।

‘आधिव्याधिनिमित्तेन विक्षिप्तमनसोपि तु ।

गुणानां स्मरणाशक्त्तौ विष्णोर्ब्रह्मत्वमेव तु । स्मर्तव्यं’ इत्यादेः ।

अत्र विष्णुरादाता ब्रह्मेत्येवमिति सौत्रक्रमेऽनुसर्तव्येऽप्येवमुक्तिर् आत्मत्वोपासनमपि ब्रह्मत्वयुक्तमेव कार्यमिति सूचयितुम् । ‘आत्मेत्येव यदोपासा तदा ब्रह्मत्वसंयुता । कार्यैव सर्वथा’ इत्यादेः । अत एव द्वयोः समुच्चते तथाशब्दः ॥ ४ ॥

६. देवानां स्वाश्रयाङ्गकत्वगुणवच्वेन ईश्वरोपासनस्याङ्गेषु यथाऽश्रयभाव इत्युपासनापाद एवोक्तस्यात्र ‘आदित्यादिमतयश्च’ इत्यनेनावश्यकत्वमात्रोक्त्या ‘सुरेश्वरैर् यथाक्रमं बहुगुणैर्विष्णु-रुपास्यः’ इत्युपासनापादीयभाष्येणैव सङ्गृहीतप्रायत्वाद् अत्र तदर्थ-स्यानुक्तिः । यद्वा, आदातेत्यनन्तरमिति शब्दं प्रभृत्यर्थकमपि वा समुच्चयार्थं वा व्याख्याय स्वस्वोत्पत्त्यङ्गकश्च विष्णुरेवमित्यर्थमुक्त्वा ‘आदित्यादिमतयश्चङ्ग उपपत्तेः’ इत्येतदर्थसङ्ग्रहोऽपि ध्येयः ॥ ५ ॥

७. तथा स्मरणध्यानसाधारण्येन उपासनमात्रस्य नित्यं कार्यत्व-भाषणाद् ध्यानमात्राङ्गासीनादीत्थंभावोक्तिपरस्य ‘आसीनः संभवात्’ इति नयस्यार्थोऽत्र नोक्तः । यद्वा, एवमित्यनेनैव आसीनादीत्थं-भावमपि परामृश्यासीन इति नयार्थोऽपि सङ्ग्राह्यः । यद्वा, उपासनमित्यावर्त्यम् । एवं नित्यमुपासन कार्यम् । किं कृत्वा ? उपासनं, आसनस्योप उपासनम् । आसने उपविश्येत्यर्थः ॥ ६ ॥

८. यदपि मुक्तिपर्यन्तमुपासनस्य कार्यत्वोक्तिपरं ‘आप्राय-णात्तत्रापि हि दृष्टं’ इति सूत्रं तदर्थोऽपि नित्यं यावन्मुक्ति उपासनं कार्यमित्युक्त्यैव सङ्गृहीत इति ॥ ७ ॥

९. ननु साधनाध्याये वक्तव्यस्योपासनस्यात्र कर्मक्षयाख्य-फलोक्तिपरपादे निरूपणमसङ्गतमित्यतो ज्ञानस्यान्तरङ्गसाधनत्व-द्योतनायात्र निरूपणमिति भावेन तत्फलमाह - ब्रह्म तेन यात्य-परोक्षतामिति । तेन ब्रह्मत्वाद्युपासनेन ब्रह्म कर्तृ अधिकारिणाम-परोक्षविषयतां यातीत्यर्थः । एतेन यदुपासनापादे ‘तन्निर्धारणार्थ-नियमस्तद्दृष्टेः पृथग्ध्यप्रतिबन्धः फलम्’ इति श्रवणमनननिदिध्यास-नानां साक्षात्परंपरया साक्षात्कारहेतुत्वमुक्तं, यदपि ज्ञानपादे ‘ऐहिकमप्रस्तुतप्रतिबन्धे’ इत्यत्र व्यभिचारनिरासेन ज्ञानफलकत्व-मुक्तं तदत्र स्फुटीकृतं भवति ।

१०. यत्तु ज्ञानस्य मुक्तिहेतुत्वमयुक्तम् । येन तदर्थ-मुपासनमावश्यकं स्यात् । चिरकालीनचीर्णकर्मणां भूयसां भावेन तेषां भोगेन विना निवृच्ययोगात् कर्मणां चिरकालभोगे च

सति जीर्णबीजवज् ज्ञानस्याहेतुत्वापत्तेरित्त्यतः प्राप्तं ‘तदधिगमे’ इत्यादिसूत्रसप्तकम् । तदर्थं भाषते - प्रारब्धकर्मणोऽन्यस्य ज्ञाना- देव परिक्षयः । अरिष्टस्योभयस्यापि सर्वस्यान्यस्य भोगत इति ।

११. उभयस्यापि ज्ञानात्पूर्वोत्तरकालीनस्यापि सर्वस्य ज्ञानादेव परिक्षयो भवति । प्राचीनस्य नाशः । उदीचीनस्य चोत्तमानां सर्वात्मनाऽश्लेषः । अधमानां नृणां तु उत्तरारिष्टस्य परिक्षयो

नाम अशुचित्वास्पृश्यत्वासंभाष्यत्वाद्यनापादकत्वं तु प्रागुक्तरीत्या पापस्यास्त्येव । अतो न तेन विरोधः ।

नन्वेवं ‘नाभुक्तं क्षीयते’ इत्यादिवचनविरोध इत्यतः ‘अनारब्धकार्ये एव तु’ इति सूत्रोक्तं विशेषमाह - प्रारब्धकर्म-णोऽन्यस्यारिष्टस्येति । वचनं तु प्रारब्धपरमिति भावः । अत्र पुण्यपापसाधारण्येन कर्मण इति वाच्ये अरिष्टस्यैवेति पापस्यैवोक्तिस्तु प्राचीनपुण्यस्यानिष्टस्य त्याग इष्टस्य भोगः । उत्तरस्य चात्याग इति विशेषद्योतनाय । अन्यस्याप्रारब्धारिष्टादन्यस्य प्रारब्धपुण्यस्य च भोगतो भोगेन परिक्षय इत्यर्थः । प्रारब्धस्येति वाच्ये अन्यस्येत्युक्तिः प्रारब्धपुण्यपापोभयग्रहणाय । एतच्चोपलक्षणम् । मिथ्याज्ञानि-पुण्यस्याप्येवं ध्येयम् ॥ ८ ॥

**इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य ब्रह्मसूत्राणुभाष्यस्य **

**विवृतौ राघवेन्द्रयतिकृतायां तत्वमञ्जर्याख्यायां **

**चतुर्थाध्यायस्य प्रथमः पादः । **

**
**


चतुर्थाध्यायस्य द्वितीयः पादः

चतुर्थाध्यायस्य द्वितीयः पादः

ब्रह्मसूत्राणुभाष्यम्

उत्तरेषूत्तरेष्वेवं यावद्वायुं विमुक्तिगाः।

प्रविश्य भुञ्जते भोगांस्तदन्तर्बहिरेव वा॥ ३॥

वायुर्विष्णुं प्रविश्यैव भोगांश्चैवोत्तरोत्तरम्‌।

उत्क्रम्य मानुषा मुक्तिं यान्ति देहक्षयात् सुराः॥४॥

तत्वमञ्जरी

१२. एवं ज्ञानभोगाभ्यां क्षीणकर्मणामधिकारिणां कायत्यागप्रकारं वक्तुमयं द्वितीयः पादः प्रवृत्तः । तदर्थस्तु ‘उत्क्रम्य मानुषा मुक्तिं यान्ति देहक्षयात्सुराः’ इति वक्ष्यमाणार्धेनव्यक्तः । अधिकारि-भेदेनावान्तरभेदेऽपि देहत्यागरूपैकार्थ्यात् पादैक्यमिति भावः ।

१३. तत्र कथं सुराणां देहलय इत्यतस् तं प्रकारं वक्तुं ‘वाङ्मनसि दर्शनाच्छब्दाच्च’, ‘तन्मनः प्राण उत्तरात्’ ‘भूतेषु तच्छ्रुतेः’ ‘नैकस्मिन् दर्शयतो हि’ इति नयचतुष्टयम् । तत्र पूर्वपूर्वदेहानां स्वस्वजनकदेवेषु देहलय उच्यते । सत्वयुक्त इव । तथात्वे स्वोत्तमदेहान् प्रविष्टानां कूपपतितजन्त्नामिव क्लेशापत्ते-रित्यतस् तत्तात्पर्यमाह - ‘उत्तरेषूत्तरेष्वेवं यावद्वायुं विमुक्तिगाः । प्रविश्य भुञ्जते भोगान् तदन्तर्बहिरेव वा’ इति । पूर्वे पूर्वे इति योज्यम् । पूर्वे पूर्वे अवरा अवरा देवा उत्तरेषुत्तरेषु स्वस्वजनकोत्तमदेवेषु प्रविश्य भोगान् भुञ्जते । कुत्र ? ‘तदन्तर्बहिरेव वा’ सर्वे देवाः स्वस्वतारतम्यक्रमानुरोधेन उत्तमदेवेषु प्रविश्य तद्देहान्तर्बहिर्निर्गत्य च स्वयोग्यानेव भोगान् भुञ्जते । भोगानेव न तु क्लेशानिति वाऽवधारणान्वयः । तत्र हेतुः ‘विमुक्तिगाः’ इति । कर्मादिब्नधाद् विशेषेण मुक्तिं मोचनं प्राप्ता इत्यर्थः । उत्तरेषूत्तरेष्विति विप्सा स्वस्वोत्तमदेवेषु प्रवेश इति सूचनाय । कियत्पर्यन्तमवराणाम् उत्तमानुप्रवेशेन भोगा इत्यत उक्तम् -एवं यावद्वायुमिति । वायुशब्दितचतुर्मुखपर्यन्तमेवं प्रविश्य भोगान् भुज्जत इत्यर्थः । संज्ञापूर्वको विधिरनित्य इति स्वमोर्लुङ न कृतः । तेन यावद्वायुमित्यादि साध्वित्याहुः ॥ १ ॥ २ ॥ ४ ॥ ५ ॥

१४. यद्येवं तर्हि सर्वेषां मुक्तत्वं न स्यादीशप्राप्तेरेव मुक्तित्वात् । वायोरेव वा सर्वोत्तमत्वप्राप्तेश्चेत्यतः सोऽध्यक्षे तदुपगमादिभ्य इत्येतन्नयार्थमाह - वायुर्विष्णुं प्रविश्यैव इति । तदन्तर्बहिरेव वा भोगान् भुञ्जत इत्यन्वेति । एवेति शङ्काद्वयं निराह । किं सर्वेषां भोग एकप्रकार इत्यतो नेत्याह - भोगश्चैवोत्तरोत्तरमिति । चस्त्वर्थे । भोगस्तूत्तरोत्तरमेव । स्वस्व-तारतम्यानुरोधेनैवेति ॥ ३ ॥

१५. एतेन सपादश्लोकेन वायुद्वारा सर्वदेवानामीशे प्रवेशोक्ति-परस्य ‘तानि परे तथा ह्याह’ इत्येतन्नयस्याप्यर्थः सङ्गृहीतो

ध्येयः ॥ ७ ॥

१६. तथा वायुर्विष्णुं प्रविश्यैवेति वायोरपि ईशवशत्वोक्त्यैव मुक्तानाम् ईशाधीनत्वस्य कैमुत्यसिद्धतया मुक्तानामीशाधीनत्वोक्ति-परस्य ‘अविभागो वचनात्’ इत्येतन्नयस्याप्यर्थः सङ्गृहीतो

भवति ॥ ८ ॥

१७. तथा च वाय्वन्तानां विमुक्तिगानां प्रवेशितृत्वस्य विष्णोः प्रवेश्यत्वस्य चोक्त्या श्रीदेव्या द्वयोरप्यत्राभाषणेन तस्या लयाभाव-स्वातन्त्र्याभावयोः सूचनात् श्रियो लयाभावाद्युक्तिपरस्य ‘समना चासृत्युपक्रमादमृतत्वं चानुपोष्य’ इत्यादिसूत्राष्टकस्यापि तात्पर्यार्थंः सङ्क्षिप्तो ध्येयः ॥ ६ ॥

१८. यत्तु मनुष्याणां कायत्यागप्रकारं वक्तुं ‘तदोकोग्रज्वलनं’ इत्यादिसूत्रपञ्चकं तदर्थमाह - ‘उत्क्रम्य मानुषा मुक्तिं यान्ति’ इति । ज्ञानिमानुषा ब्रह्मानाड्या देहान्निर्गत्य मुक्तिं यान्तीत्यर्थः । उत्क्रामन्ति मानुषा इत्येव वाच्ये मुक्तिं यान्तीत्युक्तिर् मुक्तिगमन एवोत्क्रमणम् अन्यदा तु नैवम् । ‘तयोर्ध्वमायन्नमृतत्वमेति विष्वगन्या उत्क्रमणे भवन्ति’ इत्यादेरिति सूचयितुम् । अत्र मानुषा इति प्रायिकत्वभिप्रायम् । तेन ‘इहैव केचिन् मुच्यन्ते नोत्क्रामन्ति कदाचन’ इति वचनविरोधो नेति ध्येयम् । यद्वेदं वचनं मानुषजीवविषयमिति बोध्यम् ॥ ९ ॥

१९. अत्रोत्क्रम्य यान्ति मुक्तिमित्युक्त्यैव उत्क्रमणपूर्वक-गमनाङ्गस्य गत्यनुस्मरणस्यावश्यकत्वोक्तिपरस्य ‘योगिनः प्रतिस्मर्येते’ इति नयस्याप्यर्थः सङ्गृहीतो भवति ॥ १० ॥

२०. उत्क्रम्य मानुषा मुक्तिं यान्तीत्युक्त्या देवाः कथमित्या-काङ्क्षायां वाङ्मनसीत्याद्यधिकरणानां प्राक् तात्पर्यार्थमात्रोक्तावपि इह प्रस्तावात् प्रतिपाद्यमर्थमाह - देहक्षयात्सुरा इति । मुक्तिं यान्ती-त्यन्वेति । एतेन विमुक्तिगा इत्युक्तमुक्तिगतत्वप्रकारो विवृतः । तत्र सुरा लीनदेहा इत्येव वाच्ये मुक्तिं यान्तीत्युक्तिर् मुक्तिगमन एव सुराणां देहलयोऽन्यदा अवन्याम् अवतारदशायाम् उत्क्रमणमप्यस्तीति सूचयितुम् । अत एव देहक्षयात्सुरा उत्क्रम्य मानुषा इत्यनुक्त्वा उत्क्रम्येत्युत्क्रमणस्य पूर्वमुक्तिः । उक्तं चानुव्याख्याने ।

‘जातानां मानुषे लोके देवानां च कदाचन ।

उत्क्रान्तिमार्गौ भवतो न तदा मुक्तिरिष्यत’ इति ॥

इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य ब्रह्मसूत्राणुभाष्यस्य

**ववृतौ राघवेन्द्रयतिकृतायां तत्वमञ्जर्याख्यायां **

चतुर्थाध्यायस्य द्वितीयः पादः ॥ २ ॥