०३ तृतीयोऽध्यायः

तृतीयाध्यायस्य प्रथमः पादः

तृतीयाध्यायस्य प्रथमः पादः

ब्रह्मसूत्राणुभाष्यम्

शुभेन कर्मणा स्वर्गं निरयं च विकर्मणा।

मिथ्याज्ञानेन च तमो ज्ञानेनैव परं पदम्‌॥ १॥

याति तस्माद्विरक्तः सन्‌ ज्ञानमेव समाश्रयेत्‌।

सर्वावस्थाप्रेरकश्च सर्वरूपेष्वभेदवान्‌॥ २॥

तत्वमञ्जरी

१. एवमुक्तदिश निर्दोषानन्तगुणो विष्णुश्चेत् किं मया कार्यमित्यधिकारिणः शङ्कायां मुक्तिहेतुभगवत्प्रीत्यर्थं साधनमनुष्ठेय-मितिभावेन साधनविचारार्थोऽयमध्याय इति भाष्याव्द्यक्तम् ।

२. तत्राद्यपादे गत्यागतिस्वर्गनरकगर्भवासादिस्वरूपस्यैवोक्त्या मुक्तिहेत्वीशप्रीतिसाधनस्यानुक्तेः कथमस्य पादस्य एतदध्यायेऽ-न्तर्गतिरिति चोद्यनिरासाय फलतोऽन्तर्भावोक्तिपरतया तस्मा-द्विरक्तः सन् ज्ञानमेव समाश्रयेद् इत्यन्तिमभाष्यमादावाकृष्य योज्यम् ।

३. तथा हि । जीव इत्यनुवृत्तिः शेषो वा । तस्मादिति ल्यब्लोपे इति पञ्चमी । तदनुसन्धायेति । एतत्पादप्रतिपाद्यमनु-सन्धाय जीवो विरक्तो भवन्निति ज्ञानान्यसाधने तज्जन्यफले च वैराग्याय स्वर्गादिस्वरूपनिरूपणमत्र क्रियत इत्यर्थः ।

४. ननु कथं वैराग्यमपि मुक्तिहेतुगतिजनकम् । येन साधनाध्यायान्तर्भावोऽस्य पादस्य स्यादित्यतोऽपि - तस्माद्विरक्तः सन्निति । तस्माद्वैराग्यात् । विशब्दवाच्ये परमात्मनि, ‘विः पक्षिपरमात्मनोर् इत्यभिधानात्, विशेषेण स्वतः स्नेहयुक्तः भक्त इति यावत् । भवन्निति । अन्यत्र वैराग्याद् भगवति भक्तिदार्ढ्यं भवतीत्यर्थः ।

५. ननु तावताऽपि कथमीश्वरप्रीतिः । ‘प्रियो ह ज्ञानिनोऽत्यर्थम् अहं स च मम प्रिय इति ज्ञानस्यैव मुक्तिहेतु-प्रीतिजनकत्वोक्तेरित्यत उक्तम् - ज्ञानमेव समाश्रयेदिति । अन्यत्र वैराग्याद्भगवति दृढभक्तिमान् सन्, संशब्दोक्तैः श्रवणमनननिदिध्यासनरूपसाधनैर् ईश्वरज्ञानमेवाश्रयेदित्यर्थः । एवं परंपरया वैराग्यस्य मुक्तिहेतुज्ञानोपायत्वोक्त्या वैराग्यभक्त्युपासन-ज्ञानपादानां चतुर्णां क्रमबीजमपि सूचितम् । तदुक्तमनुभाष्ये

‘वैराग्यतो भक्तिदार्ढ्यं तेनोपासा यदा भवेत् ।

आपरोक्ष्यं भवेद्विष्णोरिति पादक्रमो भवेत्’ ।

६. ननु भूतबन्धस्तु संसारो मुक्तिस्तेभ्यो विमोचनम्’, ‘भूतानां विनिवृत्तिस्तु मरणं’ इति स्मृतिम्यां मृतिमात्रेण मुक्त्यवगमात् किं वैराग्यादिसाधनेनेत्यतः शुभादिकृतः मृत्वा लोकान्तरं गच्छतो जीवस्य भूतैरविनाभावसमर्थनार्थं सूत्रम् - तदन्तरप्रतिपत्तौ रंहतीत्यादि । तत्र विशेषाशंकासमाधानाभ्यां तदर्थस्यैव समर्थनार्थं त्र्यात्मकत्वादित्यादीनि पञ्चाधिकरणानि । तेषां सूत्राणां तात्पर्यार्थं भाषते शुभेन कर्मणा स्वर्गमिति ।

७. जीव इत्यन्वेति । यातीत्याकृष्यते । इह मृत्वा गच्छन् जीवः शुभेन पुण्येन कर्मणा स्वर्गं याति । न तु शुभकर्मकृन् मुक्त्याख्यं परं पदं यातीत्यर्थः । तथा च मरणमात्रेण पुनरावृत्तिमल्लोकस्यैव प्राप्त्या मोक्षाभावात्, भूतनिवृत्तेर् मुक्तिहेतु-त्वेऽपि मृतौ निःशेषभूतनिवृत्तेरभावात्, तदर्थं काम्यशुभकर्मणि वैराग्यं विधेयमिति भावः ॥ १ ॥ २ ॥ ॥ ३ ॥ ४ ॥ ५ ॥ ६॥

८. ननु तथापि ‘अपाम सोमममृता अभूम’ इत्यादिना शुभकृतोऽपि मुक्तिप्रतीतेर् न पुण्ये वैराग्यं युक्तमित्यतः प्राप्तम् - भाक्तं वाऽनात्मवित्वात्तथा हि दर्शयतीति । तस्याप्यर्थः शुभेन कर्मणा स्वर्गमिति ।

९. ‘ज्ञानेनैव परं पदं याति’ इत्येतदप्याकृष्यते । काम्यकर्मकृच्चेत् तदा सोमयागादिरूपशुभकर्मणा स्वर्गं याति । न तु मोक्षं नापि ज्ञानमित्यर्थः । ‘अपाम’ इति श्रुतौ श्रुतममृतं किञ्चित्कालीनं स्वर्गाख्यमेव । न तु मुख्यमिति भावः ।

अकाम्यकृच्चेत् तदा सोमयागाद्यकाम्यशुभकर्मणा, जातेनेति शेषः, ज्ञानेनैव परं याति न तु साक्षादित्यर्थः । साक्षादेव कुतो नेत्यतोऽपि - ज्ञानेनेति । यतो ज्ञानेनैव परं पदं यति नत्वन्येनात इति योज्यम् । ‘तमेवं विद्वानमृत इह भवति नान्यः पन्था अयनाय’ इति श्रुतेरिति भावः । ‘ज्ञानेनैव परं पदं’ इत्यस्यात्रैव वाच्यत्वेऽपि ज्ञानफलयोः सर्वातिशयद्योतनायान्ते भाषणम् ॥ ७ ॥

१०. नन्वथापि कृतस्य कर्मणः स्वर्गादौ भोगेन निःशेषकरणात्, ‘कर्मणा बध्यते जन्तुः’ इत्यादेः कर्मनिबन्धनस्य बन्धस्य कर्माभावे स्थित्ययोगात् किं वैराग्येणेत्यतः प्राप्तम् - कृतात्ययेऽनुशयवान् दृष्टस्मृतिभ्यागिति । तस्याप्यर्थः - शुभेन कर्मणा स्वर्गमिति ।

११. विकर्मणेति यातीति चान्वेति । कर्मणेत्यादितृतीया सहयोगे । ‘सहयुक्तेऽप्रधाने’ इति पाणिनीयस्मृतौ विनाऽपि तद्योगं तृतीया भवतीति तदभियुक्तव्याख्यानात् । वृद्धो यूना तल्लक्षणश्चेदेव विशेषः’ इत्यत्रेव । अस्वर्गमिति च पदच्छेदः । तच्च स्वर्गादन्यमस्वर्गमिति भूलोकपरः । ‘नञ्युक्तमिवयुक्तमन्यस्मिन् सदृशादिकरणे प्रतिपत्तिं गमयति’ इति शाब्दिकन्यायात् । ‘इमं चामुं चोभौ लोकावनु-सञ्चरति’ इत्यादौ द्यावाभूम्योः प्रतिद्वन्द्वितया प्रसिद्धेश्च । तथा च कर्मणा विकर्मणा च सह तद्युक्त एव अस्वर्गं भूलोकं यातीत्यर्थः । स्वर्गाल्लोकाद्भुलोकं पुण्यादिकर्मशेषयुक्त एव प्राप्नोति । तथा हि । स्वर्गादौ भोगेन कर्मणो निःशेषनाशाभावात् तत्र वैराग्यं कार्यमिति युक्तमिति भावः ॥ ८ ॥

१२. नन्वथापि कर्मी येन मार्गेण स्वर्गादिलोकं गतस् तेनैव मार्गेण भूलोकं प्रत्यागच्छति । अपरिचितमार्गान्तरकृतक्लेशाभावाच्च अतीव कर्मादौ वैराग्यं न विधेयमित्यतः प्राप्तम् - यथेतमनेवं चेति । तस्याप्यर्थः - शुभेन कर्मणा स्वर्गं यातीति ।

१३. स्वर्गमस्वर्गमिति च द्वेधा च पदच्छेदः । आङोऽप्यत्रो-पश्लेषः । यथा तथेति शेषः । तथा च शुभेन कर्मणा स्वर्गं यथा येन मार्गेण याति अस्वर्गं भूलोकं च ईषत् तथा यातीत्यर्थः । येन मार्गेण स्वर्गं प्राप्तस् तेनैव मार्गेण किञ्चिद्द्रमागत्य ततोऽर्वाङ् मार्गान्तरेण भूलोकं यातीत्यर्थः । ‘धूमादभ्रं’ इत्यादिभाष्योक्तश्रुतेरिति भावः ।

‘ईषदर्थे क्रियायोगे मर्यादाऽभिविधौ च यः ।

एतमातङितं विद्याद्वाक्यस्मरणयोरङित् ॥’

इति शाब्दिकोक्तेर् ईषदर्थत्वम् आङो बोध्यम् ॥ ९ ॥

१४. नन्वथापि न कर्मणि वैराग्यम् । ‘रमणीयचरणा रमणीयां योनिमापद्यन्ते’ इति गमनागमनादेः कर्माङ्गभूताचारफलत्वश्रवणोन कर्मफलत्वाभावादित्यतः प्राप्तम् - चरणादिति चेन्न तदुप-लक्षणार्थेत्यादिसूत्रत्रयम् । तस्याप्यर्थः - शुभेन कर्मणा स्वर्गं यातीति ।

१५. स्वर्गमस्वर्गं भूम्यादिकं वा यज्ञादिकर्मणा यति, न

तु तदन्येन आचारेणेत्यर्थः । श्रुतौ चरणशब्दस्य यज्ञादिकर्मोप-लक्षणार्थत्वस्य वा यज्ञादिकाम्यार्थत्वस्य वोपपत्तेरिति भावः ॥१०॥

१६. ननु नर्हि अस्तु काम्ये यज्ञादिकर्मणि वैराग्यं, आगमनादेर् यज्ञादिशुभकर्मफलत्वात् । न तु विकर्मणि वैराग्यम् । पापकृतः प्रत्यवायभयाभावेन पतनाभावात् । बिम्यत्पतति न्यायादित्यतः प्राप्तं - अनिष्टादिकारिणामपि चेत्यादिसूत्रत्रयम् । तदर्थमाह - निरयं च विकर्मणा । मिथ्याज्ञानेन च तम इति ।

१७. यातीत्यन्वेति । वीत्यभाववाची विरुद्धवाची च । ‘नाम-रूपाद्विमुक्तः’ इत्यत्रापि नामरूपाविमुक्तत्वमुच्यते विप्रिय इत्यादि-वदिति षद्प्रश्नभाष्ये वीत्यस्याभावार्थत्वोक्तेः । अनिष्टादिकारी हि द्विविधः । अज्ञो मिथ्याज्ञानी चेति । तत्र द्वयोः फलमुच्यते । विकर्मणा स्वोचितकर्माननुष्ठानेन विरुद्धकर्मणा पापकर्मणा च निरयं याति । नरकं च प्रतिपद्यते, न केवलं शुभफलाप्राप्तिमात्रमिति चार्थः । मिथ्याज्ञानिनोऽधिकं चाह । मिथ्याज्ञानेन तमश्च यातीति । नरकमनुभूय पश्चान्नित्यनरकं तमश्च प्राप्नोति । मिथ्याज्ञानार्हविकर्मणि मिथ्याज्ञाने च वैराग्यं विधेयमिति भावः ॥ ११ ॥

१८. ननु नित्यनरको नाम नास्त्येव । ‘यावदिन्द्राश्चतुर्दश’ इति नरकभोगस्यानित्यत्वोक्तेरित्यतः प्राप्तम् - अपि सप्तेति । तस्याप्यर्थः निरयं तम इति च नरकभेदोक्त्या सूचितः ।

१९. ‘रौरवोऽथ महाश्च’ इति स्मृतौ नित्यानित्यनरक-विभागोक्त्या ‘यावदिन्द्राः’ इत्यादेरनित्यनरकविषयत्वेन नित्य-नरकस्य तमसो भावादिति भावः ॥ १२ ॥

२०. नन्वथापि नरकस्य दुःखानात्मकत्वान्नरके तत्साधने वा न वैराग्यं कार्यम् । न च तस्य दुःखरूपताऽङ्गीकर्तुं शक्या । तस्य दुःखात्मकत्वे तद्भोक्तृजीवाप्रेरकत्वे हरेः ‘सर्वं प्रवर्तयति’ इति सर्वप्रेरकत्वश्रुतिविरोधेन तत्प्रेरकत्वे वाच्ये दुःखभोक्तृनरकस्य-प्रेरकस्य हरेरपि दुःखभोगप्रसङ्गादित्यतो दुःखाभोगेनैव तत्प्रेरकत्वं हरेर्वक्तुं सूत्रम् - तत्रापि च तद्व्यापारादविरोध इति । तस्याप्यर्थमाह - निरयं च विकर्मणेति ।

२१. वेर् विशब्दवाच्यस्य परमात्मनः कर्मणा प्रेरणरूपव्यापारेण जीवो निरयं च यातीति योज्यम् । न केवलमितरावस्या, नरक-दुःखमपि तत्प्रेरणयैवानुभवति जीव इति चार्थः । दुःखरूपनरकानु-भवितृप्रेरकत्वेऽपि ईश्वरस्य ईश्वरत्वादेव दुःखसाक्षात्कारकृतनीचो-च्चतारूपभोगाभावोपपत्तेरिति भावः ॥ १३ ॥

२२. यत्तु यत्र दुःखं तत्र सुखमिति व्याप्तेस् तमस्यपि सुखमस्तीत्यतस् तस्य दुःखैकरूत्वं वक्तुं - न तृतीये तथोप-लब्धेरित्यादिसूत्रपञ्चकम् ।

२३. तस्याप्यर्थः विकर्मफलदुःखरूपनिरयादपि मिथ्याज्ञान-फलत्वेन तमसो विशिष्योक्त्या सङ्गृहीतो बोध्यः । ‘तिर्यक्षु करके चैव सुखलेशो विधीयते’ इत्यादेः सुखलेशसत्वेऽपि तमसि तदभाव-सूचनात् ॥ १४ ॥

२४. नन्वथापि ‘अथैतयोः पथोर्नैकतरेण च तानीमानि च क्षुद्रमिश्राण्यसकृदावर्तीनि भूतानि भवन्ति’ इति श्रुतौ एतयोर्देव-यानपितृयानयोर्मध्ये यान्येकेनापि पथा न गच्छन्ति तानीमानि अल्पानि सुखदुःखमिश्राणि सदा गत्यादिमन्तीति देवयानपितृयान-रूपफल एव जीवानां स्वातन्त्र्यं प्रतीयते । न हि पुरुषप्रयत्नाविषये न गच्छन्तीति प्रयोगो युज्यते । अतो ‘मूले लब्धफलो नैव शाखाग्रं गन्तुमिच्छति’ इति न्यायेन फल एव स्वातन्त्र्यात् किं वैराग्यसाधने-नेत्यतः प्राप्तम् - विद्याकर्मणोरिति तु प्रकृतत्वादिति । तदर्थमाह - ज्ञानेनैव परं पदं यातीति ।

२५. शुभेन कर्मणा स्वर्गमित्यनुवर्त्यम् । कर्मणैवेत्येवकारान्वयः । शुभकर्मणैव स्वर्गं याति । भगवज्ज्ञानेनैव परमं पदं याति । न तु स्वर्गं परमं पदं वा स्वातन्त्र्येण यातीत्येवकारार्थः । तथा च फलरूपयोः परपदयानस्वर्गयानरूपदेवयानपितृयानयोर् ज्ञानकर्मरूपसाधकायत्त-त्वेन जीवानां तत्र फले स्वातन्त्र्याभावादीशाधीनमपि स्वातन्त्र्यं कर्मादिरूपसाधन एवेति काम्यकर्मणि वैराग्यं कार्यमेवेति भावः ॥१५॥

२६. नन्वथापि न कर्मणि वैराग्यं युक्तम् । ‘धूमो भूत्वाभ्रं भवति’ इति श्रुतौ कर्मकृतो महासुखहेतुदेवताभावस्योक्तेरित्यतः प्राप्तम् - तत्स्वाभाव्यापत्तिरुपपत्तेरिति । तस्याप्यर्थमाह - ज्ञानेनैव परं पदं यातीति ॥

२७. शुभेनेत्याकृष्यान्वेति । स्वर्गमेवेत्येवकारान्वयः । शुभेन कर्मणा जीवः स्वर्गमेव याति । न तु देवतात्वादिकम् । कुतः, यतो ज्ञानेनैव स्वयोग्यज्ञानेनैव परम् उत्तमं पदं स्वर्गरूपं देवत्वं देवतापदवीं वा याति । न तु कर्मणा विद्यागम्यं पदं यस्मादि-त्युक्तेरित्यर्थः । धूमो भूत्वेति श्रुतिस्तु ‘धूमादिभावप्राप्तिश्च तद्भतौ गतिरेव च’ इत्यादिस्मृतेर् देवतासायुज्यपरेति भावः ॥ १६ ॥

२८. यत्तु स्वर्गादवरूढस्य कर्मिणः ‘यथेतमाकाशमाकाशा-द्वायुर् वायुर्भूत्वा धूमो भवति धूमो भूत्वाभ्रं भवति अभ्रं भूत्वा मेघो भवति’ इत्यादौ बहुस्थानप्राप्त्युक्तेः, अनेकस्थानेषु कल्पान्तं तत्तद्देवतासायुज्येन महासुखहेतुत्वात् किं कर्मणि वैराग्येणेत्यतः प्राप्तं नातिचिरेण विशेषादिति सूत्रम् ।

२९. तदर्थस्य ‘शुभेन कमेणा स्वर्गं’ इति प्राचीनभाष्येणैव भोगावशिष्टशुभकर्मादिसहितो जीव ईषद् अल्पकालेनैव अस्वर्गं स्वर्गादन्यद् भूम्यादिकं याति, न तु चिरेणेति योजनया सङ्ग्रहसंभवान्न पृथगुक्तिः ।

‘स्वर्गाल्लोकादवाक् प्राप्तो वत्सरात्पूर्वमेव तु ।

मातुः शरीरमाप्नोति’ इत्यादेरिति ॥ १७ ॥

३०. ननु ‘त इह व्रीहियवा ओषधिवनस्यपतयस्तिला माषा इति जायन्ते’ इति श्रुतौ कर्मिणो व्रीह्यादिभावश्रवणात् सुखसाधनतया वेदोपदिष्टकर्मवतां व्रीह्यादिभावेन दुःखित्वे ‘ब्राह्मणो विर्वेदमायात्’ इत्यादिवेदविहितवैराग्यादावपि तच्छङ्का स्यात् । यज्ञानां हिंसायुतत्वेन ततः पापस्य संभवेन दुःखहेतुत्वस्य न्याय्यत्वेन सुखहेतुत्वेन विधानायोगाच्चेत्यतः प्राप्तम् - अन्याधिष्ठिते पूर्ववदभिलापादि-त्यादियोगद्वयम् ।

३१. तदर्थस्यापि शुभेनैवेति भाष्येणैव शुभेन कर्मणा स्वर्गं यातीति यज्ञादिकर्मणः शुभत्वस्वर्गरूपसुखहेतुत्वयोरुक्त्या, तथा शुभेन कर्मणा अस्वर्गं स्वर्गादन्यत्, पदमित्यन्वेति, व्रीह्यादिस्थानमेव याति, न तु तद्भावं प्राप्नोतीत्युक्त्या च सङ्ग्रहो बोध्यः । यागीयहिंसाया ब्रह्महिंसावन् निषिद्धत्वाभावात्, प्रत्युत ‘वायव्यं श्वेतमालभेत’ इति विहितत्वाच्च पापाहेतुत्वेन शुभत्वात् पापाहेतुत्वेनैव दुःखानापादकत्वात् तद्युक्तयज्ञानां सुखसाधनत्वं दुःखाहेतुत्वं च युक्तमेव । ‘व्रीहियवाः’ इति श्रुतिस्तु व्रीह्याद्यभिमानिजीवेन स्थानैक्यपरेति भावः ॥ १८ ॥

३२. यत्तु ‘स्वर्गादवाग्गतश्चापि मातुरेवोदरं व्रजेत्’ इत्युक्तेः स्वर्गादवरूढस्यापि पितृप्रवेशं विनैव मातृप्रवेश इत्याशङ्क्य पितृक्रमेण मातृप्रवेशं वक्तुं सूत्रम् - रेतःसिग्योगोथेति ।

यच्च ‘देहं गर्भस्थितं क्कापि प्रविशेत्स्वर्गतो गतः’ इत्युक्तेः पितृप्रवेशं विनैव मातृप्रवेशोऽस्तु । आस्तीकादौ दर्शनात् । द्रुपद-मान्धातृशुकादौ दर्शनान्मातृप्रवेशोऽपि व्यर्थ एवेत्याशङ्क्य कर्मिणां पितृक्रमेण योनिद्वारा मातृप्रवेशोक्त्यर्थं सूत्रम् - योनेः शरीर-मिति ।

तत्र पित्रादिक्रमेणैव जननमौत्सर्गिकम् । क्कचिदन्यथाभावो बलवत्कारणकृत इति भावेन प्रसिद्धत्वात् पित्रादिक्रममुक्त्वा अन्यथाभावेऽपि हेतुमाह - ज्ञानेनैव परं पदं यातीति ।

३३. शुकादिजीवा यत्परम् अन्यत्पदं स्थानं प्रसिद्धं मातापित्रादि-स्थानं विना यत्स्थानान्तरपुरुषमातृप्रभृति यान्ति तज्ज्ञानेनैव भगवज्ज्ञानप्रभावेणैवेत्यर्थः । तेषां ज्ञनित्वेन ज्ञानप्रभावात् क्कचिदन्य-थात्वेऽपि कर्मी पितृप्रवेशक्रमेणैव शरीरं प्रतिपद्यत इति नियमाद् विधेयमेव कर्मणि वैराग्यमिति । तदुक्तमनुभाष्ये - ‘जीवपुरुषयोनीनां सङ्गातिनियमोज्ज्ञितिम् । अथशब्देन भगवानाह कारणतश्च ताम्’ इति । उक्तं च न्यायविवरणे-

‘विशेषकारणादेव विशेषाज्जनिरिष्यते ।

सामान्यजननं चैव नृणां सामान्यहेतुतः ॥’

इति । उक्तं च सुधायां - ‘जन्मकारणादृष्टाकृष्टो जन्तुर् बीजादिसंबन्धेन शरीरमापद्यत इत्युत्सर्गः । स च क्कचिज्ज्ञान-तपोयोगादिलक्षणेन कारणविशेषेणापाद्यते’ इत्यादि ।

३४. एवं सक्षेपतो निरूपितस्य एतत्पादीयाशेपनयार्थस्य परम्परया मुक्तिहेतौ वैराग्ये उपयोगं वदन्नुपसंहरति - तस्मादिति । ज्ञानादन्यस्य अस्थिरानर्थफलसाधनत्वात्, ज्ञानस्यैव स्थिरमहा-फलसाधनत्वाद् अन्यत्र विरक्तः सन् भगवज्झानमेव सम्पदोक्त-भक्तिश्रवणादिसाधनैर् आश्रयेत्, सम्पादयेदित्यर्थः ॥ १९ ॥ २० ॥

**इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य ब्रह्मसूत्राणुभाष्यस्य विवृतौ राघवेन्द्रयतिकृतायां तत्वमञ्जर्याख्यायां **

तृतीयाध्यायस्य प्रथमः पादः ।


तृतीयाध्यायस्य द्वितीयः पादः

तृतीयाध्यायस्य द्वितीयः पादः

ब्रह्मसूत्राणुभाष्यम्

सर्वदेशेषु कालेषु स एकः परमेश्वरः।

तद्भक्तितारतम्येन तारतम्यं विमुक्तिगम्‌॥ ३॥

सच्चिदानन्द आत्मेति मानुषैस्तु सुरेश्वरैः।

यथाक्रमं बहुगुणैर्ब्रह्मणा त्वखिलैर्गुणैः॥ ४॥

तत्वमञ्जरी

३५. एवमुक्तदिशा उक्तार्थमनुसन्दधतोऽधिकारिणो वैराग्यो-त्पत्तिसंभवेऽपि ‘अनुबन्धादिभ्यः’ इति वक्ष्यमाणदिशा भक्तिमत एव श्रवणादिभिर् ईश्वरापरोक्षज्ञानोदयाद् भक्तिनिरूपणार्थोऽयं द्वितीयः पाद इति ‘भक्तिरस्मिन् पाद उच्यते’ इति विस्तरभाष्यात्स्पष्टम् ।

३६. ननु तत्र भक्तिरुच्यत इति कोऽर्थः ? किं सा कर्तव्येति विधीयते किं वा तत्स्वरूपमुच्यते । नाद्यः । प्रयत्नागोचरत्वेन

विधेयत्वाभावात् । नान्त्यः । भगवन्माहात्म्यस्यैव निरूपणेन

भक्तिस्वरूपानिरूपणात् । भक्त्यर्थं भगवन्महिमोच्यत इति श्रीमद्भाष्योक्तेश्च । न हि महिमोक्तेर् भक्तावुपयोगोऽस्तीत्याशङ्का-निवृच्यर्थं ‘विरक्तः सन् ज्ञानमेव समाश्रयेत्’ इति पूर्वभाष्यमत्रानुवर्त्य योज्यम् । तथाहि । सन्निति श्येनेनाभिचरन् यजेत, अर्जयन् वसतीत्यादाविव लक्षणहेत्वोः क्रियाया इति शतृप्रत्ययान्तं पदम् । नीति तन्त्रम् । विशब्दवाच्ये परमात्मनि विशेषेण रक्तः सन् रक्तो भवितुं, भक्तो भवितुमिति यावत्, भगवन्माहात्म्यज्ञानमेव समाश्रयेत् सम्पादयेदित्यर्थः ।

३७. ‘महात्म्यज्ञानपूर्वस्त् सुदृढः सर्वतोऽधिकः । त्नेहो भाक्तिः’ इत्युक्त्या माहात्म्यज्ञानपूर्वकस्नेहस्यैव भक्तित्वान् माहात्म्यानुक्तौ

च तज्झानवत् स्नेहस्य चानुदयात् तयोरुत्पत्यर्थम् अत्र पादे भगवन्माहात्म्योक्तिरिति भावः । अत्रैवकारेण एतच्चोद्यं प्रत्युक्तम् । विनाऽपि माहात्म्यज्ञानं पुत्रादौ स्नेहदृष्टेः । क्वचिन्माहात्म्यज्ञानेऽपि स्नेहादृष्टेर् अन्वयव्यतिरेकव्यभिचारान् माहात्म्यज्ञानं स्नेहाहेतुरिति । हेत्वन्तरेण फलसिद्धावप्यस्य हेतुत्वाविरोधात् । कारीरीं विना वृष्टिर्दृष्टेति कारीर्या वृष्ट्यहेतुत्वाभावात् । ज्ञातमाहात्म्यस्यापि पुंसः स्नेहानुत्पत्तेर् मात्सर्यादिनिरुद्धत्वेन अकारणत्वानापादकत्वादिति भावः ।

३८. ननु यदुक्तं प्रथमाध्याये सर्वमीशाधीनमिति तदसाध्विव । स्वाप्नपदार्थानामसत्यत्वेन तत्प्रतीतेर् बाह्यपदार्थाज्ञानाधीनत्वेन तेषां तत्प्रतीतेश्च ईशाधीनत्वाभावात् । तथा स्वाप्नतिरोधानमपि नेशाधीनम् । स्वाप्नप्रतीतेर् बाह्यार्थाज्ञानाधीनत्वेन तदप्रतीतेर् ब्राह्मर्थज्ञानाधी-नत्वौचित्यात् । जाग्रत्सुषुप्तयवस्थयोरपि नेशाधीनत्वम् । तयोः कालाद्यधीनत्वानुभवात् । सुषुप्तौ जीवस्य ‘सता सोम्य तदा सम्पन्नः’ इति श्रुत्या ईशप्राप्त्युक्त्या तदधीनत्वोपगमे ‘तदा नाडीषु सुप्तो भवति’ इति श्रुतिविरोधः । तथा सुप्तप्रबोधस्य मूर्छायाश्च नेशाधीन-त्वम् । तयोर् भेरीताडनाद्यधीनत्वानुभवात् । मूर्छायामीशादन्यत्र चक्षुरादौ जीवस्यावस्थाने जाग्रदाद्यवस्थाऽनुप्रवेशेन, भगवत्यवस्थाने सुप्तिसाङ्कर्येण तस्याः पृथगवस्थात्वायोगाच्चेति चोद्यानां निरासाय प्राप्तानि - सन्ध्ये सृष्टिराह हीति, पराभिध्यानादिति, देह-योगाद्वासोपीति, तदभावो नाडीष्विति, अतः प्रबोधोस्मादिति, मुग्धेऽर्धसम्पत्तिरिति षडधिकरणानि । तेषु को महिमा विष्णोरुक्त इत्यतस्तेषां भावार्थमाह - सर्वावस्थाप्रेरकश्चेति ।

३९. सर्वासामवस्थानां स्वप्नतत्तिरोधानजाग्रत्सुषुप्तिसुप्तबोध-मोहरूपावस्थानां प्रेरको नियन्ता । ‘स एकः परमेश्वरः’ इत्यग्रेतनं वाक्यमत्राकृष्य योज्यम् । वक्ष्यमाणेन समुच्चयार्थश्चशब्दः । योऽध्यायद्वयेन निर्दोषगुणपूर्णो निर्णीतः स इति तच्छब्दार्थः । स्वप्नतिरोधानसुप्तप्रबोधयोः पृथगवस्थात्वभावेऽपि प्रसिद्धजाग्रदाद्य-वस्थैकदेशत्वादेवावस्थात्वोक्तिः । यद्वाऽवस्थानामिति स्वप्नजाग्र-त्सुषुप्तिमोहावस्थानामेव ग्रहणं तत्तिरोधायको बोधकश्चेति चशब्दार्थः । यद्वाऽवस्था अवस्थितयः जीवानामवस्थानानि । तेषां प्रेरक इत्यर्थः । सूर्यादिभासक इतिवदयं निर्देशो बोध्यः । अत्र स इत्युक्त्या प्रथमाध्यायोक्तमहिम्न एवात्र विशेषशङ्कानिगसेन प्रपञ्चनमिति सूचितम् । तत्र परमेश्वर इत्युक्त्या ‘मनोगतांश्च संस्कारान् स्वेच्छया परमेश्वरः । प्रदर्शयति जीवाय’ इत्यादि-वाक्यसूचनेन स्वाप्नानां मानसवासनोपादानेन ईश्वरजन्यतया सत्यत्वात्, बन्धमोक्षादिसर्वेश्वरत्वात् स्वप्नाद्यवस्थाप्रेरकत्वं तस्य युक्तमिति दर्शितम् ॥ १ ॥ २ ॥ ३ ॥ ४ ॥ ५ ॥ ७ ॥

४०. ननु लोके राजादेः खण्डेशत्वदर्शनेन ईश्वरस्यापि केषाञ्चित् किञ्चिदवस्थायाः प्रेरकत्वमस्तु, न सर्वेषां सर्वावस्थानामित्यतः प्राप्तं - स एव च कर्मानुस्मृतिशब्दविधिभ्य इति षष्ठमधि-करणम् । तस्याप्यर्थः - सर्वेत्यादि ।

४१. सर्वेति तन्त्रम् । सर्वासां प्रजानां सर्वासामवस्थानां प्रेरकः सः य एकदेशपे्ररकत्वेनाङ्गीकृतः स एकः परमेश्वरः नत्वनेक इत्यर्थः । तत्रैकपरमपदाभ्यां ‘प्रदर्शकस्तु सर्वेषां स्वप्नादेरेक एव तु । परमः पुरुषो विष्णुः’ इत्यादिवाक्यसूचनेन परमेश्वरत्वहेतुरुक्तो भवति । अन्यथा ईश्वरत्वमेव स्यान्न परमेश्वरत्वम् । तच्च वचनसिद्धमिति भावः ।

४२. अत्र यद्यपि तदभावो नाडीष्विति नये जीवस्य नाडीस्थित-परमात्मनि सुप्तिरित्युच्यते न तु सुप्त्यवस्थायामीशाधीनत्वम् । तथा मुग्धेऽर्धसम्पत्तिरिति नयेऽपि मोहावस्थायां जीवस्य भगवति न समग्रप्राप्तिः, सुखानुसन्धानात् । नाप्यप्राप्तिरेव । अन्यार्थादर्शनात् । अतः परिशेषादर्धप्राप्तिरिति मोहावस्थानमेवोक्तम् । न तु सुप्ति-मोहावस्थायोरीशाधीनत्वमुच्यते । तथाऽपि तयोरवस्थयोरीशाधीन-त्वस्य ‘स एव च कर्मानुस्मृति’ इत्येतन्नयेनैव सिद्धत्वं द्योतयितुं तदर्थोक्तिपरभाष्येण सर्वावस्थाप्रेरक इत्यनेनैव सहेतरषडधिकारण-भावार्थोऽपि भाषितः । यथोक्तं श्रीमद्भाष्ये मोहनये ‘सोऽपि तत एवेति सिद्धं’ इति । नन्वेवं सुप्त्याद्यवस्थापे्ररकत्वस्यापि स एव चेति नयेनैव सिद्धेस् तदुक्त्यर्थं सन्ध्ये सृष्टिराह हीत्यादि व्यर्थमिति चेन्न । सामान्यतोऽवस्थाप्रेरकत्वसिद्धावेव किमेकदेशप्रवर्तकोऽथ सर्वप्रवर्तक इति चिन्ताऽवसरात् ।

अत्र सूत्रेषु जीवसंबन्धिसुप्त्याद्यवस्थाप्रेरकत्वोक्त्या कैमुत्य-न्यायसिद्धनानादेशकालस्थितनानाजडगतवृद्धिह्रासाद्यवस्थाप्रेरकत्व-मित्यपि सूचयितुं सर्वावस्थेति सामान्योक्तिरिति ॥ ६ ॥

४३. नन्वेवं सर्वेषां सर्वावस्थाप्रेरकत्वे अधिष्ठानभूतप्रेर्यजीवानां सुरनरतिर्यगादिभेदेन भेदात्तत्प्रेरकोऽपि भिन्नाधिष्ठानगतघटादिवद् भेदवान् स्यात् । तथा

‘दक्षिणाक्षिमुखे विश्वो मनस्यन्तस्तु तैजसः ।

आकाशे च हृदि प्राज्ञस् त्रिधा देहे व्यवस्थितः’

इति दक्षिणाक्ष्यादिदेशभेदेन, ‘विश्वो हि स्थूलभुङ्नित्यं’ इति जाग्रदादिकालभेदेन च तथा ‘कार्यकारणबद्धौ ताविष्येते विश्वतै-जसौ । प्राज्ञः कारणबद्धस्तु’ इत्यादिरूपभेदवचनाच्च स्वरूपेषु भेदवान् स्यादित्यतः प्राप्तं - न स्थानतोऽपीत्यादिसूत्रत्रयम् । तदर्थमाह - सर्वरूपेष्वभेदवान् । सर्वदेशेषु कालेषु स एकः परमेश्वर इति ।

४४. सुरनरादिशरीरदक्षिणाक्ष्यादिसर्वदेशेषु जाग्रादिसर्वकालेषु स्थिरेपु विश्वादिसर्वरूपेष्वभेदवान् स परमेश्वर इत्यर्थः । कुत इत्यत एकः परमेश्वर इति । ‘यतो नैवेश्वरद्वयं’ इति चक्षुरादिवच्चित्यत्र भाष्योक्तक्त्या एको हि परमेश्वरो न त्वनेकः । रूपाणां भेदेऽने-केश्वरापातादिति भावः ।

ननु च रूपाणां भेदेप्येकस्मिन्नेव रूपे भगवान् परमैश्वर्यवान् । अन्यानि रूपाणि तदनुग्राहकाणि सन्त्वतो न दोष इत्यतोऽपि -सर्वेति । स प्रागुक्तो भगवान् परमेश्वरः सर्वदेशकालस्थितरूपेष्व-भेदवान् । अविशेपवानित्यर्थः ।

नन्वेवं सर्वदेशकालस्थितरूपाणामभेदे व्योमवत्पादाद्येकदेशेनैव तत्र तत्रावस्थानम् ईश्वरस्येति स्यात् । तच्च ‘सप्ताङ्ग एकोनविंशति मुखः’ इत्यादि श्रुतिविरुद्धमित्यतोऽपि - सर्वेत्यादि । सर्वशब्दः समग्रवाची । सर्वदेशेषु सर्वकालेषु सर्वभूतेषु पाणिपादाद्यवयवैः समग्ररूपेषु सत्सु अभेदवान् स परमेश्वर इत्यर्थः ।

ननु समग्ररूपेण सर्वदेशाद्यवस्थानं कथं हरेरुपपद्यते । अन्यत्रादृष्टत्वादित्यतः स एकः परमेश्वर इति हेतुगर्भम् । स एकोऽपि परमेश्वरत्वात् तादृशरूपेणाभेदवानिति । ‘ऐश्वर्याद्रूपमेकं च सूर्यवद्बहुधेयते ’ इति स्मृतेरिति भावः । परमेश्वर इत्युक्त्यैव ‘बद्धो बन्धादिसाक्षित्वात्’ इति स्मृतिसूचनेन भेदोक्तेर्गतिरपि सूचितेति ॥ ८ ॥

४५. नन्वेवं सर्वदेशादौ हरेः पाणिपादादिसमग्ररूपाणाम् अवस्थितिमुपेत्य तेषामभेदोक्तौ रूपवत्त्वाद् यज्ञदत्तवदनित्यत्व-प्रसङ्गः । ‘अरूपमव्ययं’, ‘तदरूपमनामयं’ इत्यादिश्रुत्यप्रामाण्यं च स्यादित्यतो हरेरप्राकृतं रूपं वक्तुम् अरूपवदेवेत्यादिसूत्रचतुष्टयम् । तस्याप्यर्थः - सर्वेत्यादि ।

४६. स परमात्मा सर्वरूपेष्वभेदवान् । सर्वस्वात्मीयकरचरणादि-मद्विग्रहेष्वभेदवान् । न तु यज्ञदत्तादिजीवसंबंधिप्राकृतशरीरेषु यज्ञ-दत्तादिरिव भेदवानित्यर्थः । तथा च ‘ऐकात्म्यप्रत्ययसारं’, ‘आनन्दरूपममृतं’ इत्यादिश्रुतिस्मृतिभ्यो ज्ञानानन्दाद्यात्मकेश्वर-तादात्म्येन रूपस्य प्राकृतदेहवैलक्षण्याद् गृहान्तः नयनादिप्रकाशे सत्यपि चक्षुषादिप्रकाशस्य लौकिकप्रकाशवैलक्षण्येन नास्ति प्रकाश इत्यादिव्यवहारवद् अरूपमित्यादिश्रौतव्यवहारस्य, अप्राकृतरूप-वत्वेन अनित्यत्वाप्रसङ्गस्य चोपपरिति भावः । कुत एतादृशरूपवत्वं हरेः ? लोके सर्वरूपाणां प्रकृत्याद्यात्मकत्वनियमादित्यतः - सर्व-देशेष्वित्यादि । सर्वदेशेषु कालेषु स एकः परमेश्वरः । प्रकृत्यादिसर्वस्वामीत्यर्थः । सर्वरूपाणां लोके प्रकृत्याद्यात्मकत्वेऽपि हरेः प्रकृतिभूतादिसर्वेश्वरत्वान् न तत्र प्राकृतादिरूपं युक्तम् । स्वाधीनेन स्वात्मबन्धनाभावादिति भावः । क्कापि कदाऽपि किञ्चिदपि रूपं स्वात्मना भिन्नं नेति वक्तुं देशकालसर्वपदानामुक्तिः । विवृतमेतद् द्वितीयगीताभाष्यादौ तत्र तत्रैवेति ॥ १ ॥

४७. नन्वीश्वररूपाणां मत्स्यादीनामीश्वरेणाभेदे मत्स्यादी-नामिव जीवादीनामपि ईश्वरांशत्वेनेश्वरेणाभेदोऽस्तु । न च पृथगुपदेशादिति जीवेश्वरभेदोक्तिविरोधः । सर्वजीवसमुदायस्येशत्वेन एकैकजीवस्य ईश्वरेण भेदाभेदाद् अभेदेऽपि भेदाविरोधादित्यतः प्राप्तम् - अत एव चोपमा सूर्यकादिवदिति । तस्य तात्पर्यार्थमाह - स एकः परमेश्वर इति ।

४८. स विष्णुरेकः परमेश्वरः । न जीवोऽपीश्वरकोटौ निवेश्यत इत्यर्थः । अंशत्वं तु भेदेनैव ‘अंशो नानाव्यपदेशात्’ इत्यत्र द्वितीये व्याख्यातमिति भावः ॥ १० ॥

४९. ननु यदुक्तं जन्मादिसूत्रे सर्वकर्तेति, सृष्टिस्थित्याद्यष्टव्यापार-कर्तेति तदयुक्तम् । सृष्टौ सत्यां यावत्संहारं जगत्स्थितेः स्वत एव सिद्धेः, संहर्तुः संहारातिरिक्तव्यापारस्य पालनरूपस्यायोगादित्यतः पृथग्व्यापारं वक्तुं प्राप्तम् - प्रकृतैतावत्वं हि प्रतिषेधतीत्यादि-सूत्रम् ।

तथा भक्तिं विना स्तंभादेरिव पुरुषप्रयत्नेनैव ईश्वरापरोक्ष्य संभवाच्च भक्तिर्व्यर्था । तस्याव्यक्तैकस्वभावत्वेन स्तंभादिवैलक्ष्ण्ये तु सुतरां व्यर्था । साधनशतेनापि तादृशस्यादृष्टस्येव आपरोक्ष्या-संभवादित्यतोऽनन्तशक्तिकेन प्रसन्नेनेश्वरेणैव आपरोक्ष्यं भवतीति वक्तुं प्राप्तम् - तदव्यक्तमाह हीत्यादिसूत्रपञ्चकम् ।

तथा पूर्वं वैशेषिकनये समवायापाकरणेन ज्ञानानन्दादिगुणानां वस्तुस्वरूपत्वोपगमेन ईश्वरस्य ज्ञानादिगुणवत्वं न स्यात् । गुणवच्वाङ्गीकारे च स्वरूपत्वं न स्यादित्यतो भगवतो गुणात्मकत्वं विशेषबलाद्गुणित्वं चेति वक्तुम् उभयव्पदेशादित्यादिसूत्रचतुष्टयम् ।

तेषामर्थमाह - परमेश्वर इति । एक इति च । परश्चासौ मेश्वरश्चेति विग्रहः । स विष्णुः परः पालक इत्यर्थः । पृ पालनपूरणयोः पचाद्यच । धारणपोषणादिरूपव्यापारस्य रक्षादिरूपस्य भाष्योक्तश्रुत्यादिसिद्धत्वादिति भावः । मेश्वरः परेत्यन्वेति । परस्य लोकविलक्षणस्य अव्यक्तैकस्वभावस्येति यावत् । परमात्मनः संबंधिन्या इति वा, पराया उत्तमाया इति वा, मायाः प्रमाया ईश्वरापरोक्षज्ञप्तेर् ईश्वरः स्वामीत्यर्थः । ‘नित्याव्यक्तोऽपि भगवान् ईक्ष्यते निजशक्तितः’ इत्यादेः। अव्यक्तस्वभावोऽपि प्रसन्नः सन् स्वात्मापरोक्षज्ञानं भक्तेभ्यो ददातीति भावः ।

तथा एकः गुणादिभिरमिन्न इत्यर्थः । तर्हि कथं गुणित्वमित्यतो वस्तुसामर्थ्यापरपर्यायविशेषबलाद् गुणित्वं स्यादिति भावेन परमेश्वर इति । यथाश्रुत एवार्थः ॥ १३ ॥ १४ ॥ १५ ॥

५०. यत्तु ईश्वरज्ञानादिकं लौकिकज्ञानादिवदेव ‘विज्ञानमानंदं-ब्रह्म’ इत्यादिना ज्ञानानन्दादिपदवाच्यत्वाद् अलौकिकं नेत्यतस्तस्य अलौकिकत्वं वक्तुं - परमतः सेतून्मानसम्बन्धभेदव्यपदेशेभ्य इति सूत्रत्रयम् । तस्याप्यर्थः - स एकः परमेश्वर इति ।

५१. स एको विष्णुरेव परमेश्वरः । परम् अलौकिकं मा प्रमा, आनन्दादेरुपलक्षणं, ज्ञानानन्दादिगुणजातं यस्य स परमः । स चासावीश्वीर इत्यर्थः । अलौकिकज्ञानादिमत्वे हेतुत्वेनेश्वर इति । ‘एष सेतुर्विधृतिर् य एष आनन्दः परस्य’ इति, ‘एतस्यैवानन्दस्य अन्यानि भूतानि मात्रामुपजीवन्ति’ इत्यादिनोक्तसेतुत्वोपजीव्यत्व-बिम्बत्वादिना स्वामी यत इत्यर्थः । अलौकिकेऽपि ज्ञानानन्दादौ ज्ञानादिशब्दप्रयोगस्तु तस्य अर्थप्रकाशत्वानुकूलवेद्यत्वादिज्ञापनार्थ इति भावः ॥ १६ ॥

५२. नन्वेवम् ईश्वरज्ञानानन्दादेर् ब्रह्मादिज्ञानानन्दादिकं प्रति

बिंबत्वे ब्रह्मादिज्ञानानन्दादौ तारतम्यवदीश्वरज्ञानानन्दादिगुणेषु तारतम्यं स्यादित्यतः प्राप्तम्-स्थानविशेषादित्यादियोगद्वयम् । तस्याप्यर्थः - स एकः परमेश्वर इति ।

५३. स विष्णुरेकः ज्ञानानन्दादिभिर् एकप्रकार एव न तु तारतम्यवानित्यर्थः । बिंबानन्दद्यवैचित्र्येऽपि प्रतिबिंबवैचित्र्यस्य बिंबभूतभगवदैश्वर्यवशादुपपत्तेरिति भावेनोक्तम् - परमेश्वर इति । स्थानगुणस्याप्युपलक्षणम् ।

‘ऐश्वर्यात्परमाद्विष्णोर् भक्त्यादीनामनादितः ।

ब्रह्मादीनां सूपपन्ना ह्माननदादेर्विचित्रता ।’

इति स्मृतेरिति भावः ॥ १७ ॥

५४. नन्वेवम् ईश्वरस्य बिंबत्वे सूपपन्ने सति तत्प्रतीत्यर्थं न भक्त्यादिसाधनापेक्षा । ध्यानकाले पुरुषप्रयत्नेन प्रतीतस्यैव बिंबभूत-विष्णुरूपत्वात् । यत्किंचिध्द्यानेन ईश्वरस्य फलदानायोगादित्यतो ध्यानकाले प्रतीतस्याविष्णुत्वं वक्तुं सूत्रं - तथान्यत्प्रतिषेधादिति । तस्याप्यर्थः - स एकः परमेश्वर इति ।

५५. स विष्णुरेकः परमेश्वरश्चेत्यर्थः । ध्यानप्रतीस्य तु ध्यातृपुरुषबहुत्वेन अनेकदुर्लक्षणत्वादिना अनीश्वरत्वमिति कथं तस्य विष्णुत्वमित्यर्थः । ध्यानकाले प्रतीतस्याब्रह्मत्वेऽपि ब्रह्माधिष्ठानत्वात् तद्ध्यानस्य ब्रह्मध्यानत्वेनैतावतैव ईश्वरस्य फलदानोपपत्तेः । ‘ब्रह्मैव-प्रतिबिंवे यदतस्तेषां फलप्रदं’ इत्यादिस्मृतेरिति भावः । विष्णोर् ध्यानप्रतीतादन्यत्वयुक्तिसूचनाय ततोऽन्य इत्याद्यनुक्त्वा एवं विन्यासः कृतः ॥ १८ ॥

५६. नन्वेवं ध्यातृभ्यः फलदानवद् देशान्तरे कालान्तरेऽन्यस्य स्वातन्त्र्यमपि दत्वा ततः सृष्ट्यादिकमपि कुर्यात् । लोके

राजादौ देशादिभेदेन अनेकस्वातन्त्र्स्य दर्शनात् । हरेरप्यवतारेषु विविधलीलादर्शनाच्च । अतो न तस्यैव सर्वकर्तृत्वमित्यतः प्राप्तम् - अनेन सर्वगतत्वमायामयशब्दादिभ्य इति । तस्याप्यर्थमाह सर्वदेशेषु कालेषु स एकः परमेश्वर इति ।

५७. सर्वत्र सर्वदा एक एव स्वतन्त्रः सन् सृष्ट्यादिकर्ता, नत्वनेक इत्यर्थः । ‘स्वातन्त्र्यात्क्रीडते विष्णुर् न हि स्वातन्त्र्य-मन्यमन्यगम् । करोति’ इत्यादेरिति भावः ॥ १९ ॥

५८. नन्वेवमपि नेश्वरस्य फलदातृत्वं प्रागुक्तं युक्तम् । तस्य कर्म विना कृतस्य फलदातृत्वे कर्मणां वैय्यर्थ्यापातेन तद्विधायकवेदा-प्रामाण्यापातात् । तस्य वैषम्यादिदोषानुषङ्गाच्च । अकृतकर्मणां पुंसां फलादर्शनाच्च फलस्य कर्मान्वयव्यतिरेकित्वेन कर्मैव फलप्रदं नेश्वर इत्यतः - फलमत उपपत्तेरित्यादियोगचतुष्टयम् । तस्याप्यर्थः - स एकः परमेश्वर इति ।

५९. स एको विष्णुरेव परः फलदानादिसमर्थः । न तु कर्म, तस्याचेतनत्वेन फलदानानुपपत्तेः । ‘रातिर्दातुः परायणं’, ‘पुण्येन पुण्यं लोकं नयति’ इत्यादेः कर्म निमित्तीकृत्य ईश्वर एव फलदातेति भावः ॥ ३० ॥

६०. नन्वेवम् अष्टादशभिर् नयैर् भगवतो यन्माहात्म्यवर्णनं तदयुक्तमिव । तस्य भक्त्यर्थत्वेन भक्तेरेवानुपयोगादित्यानन्द-ज्ञानादिमत्वस्य मोक्षत्वेन नित्यसिद्धत्वान् नित्यसिद्धस्य तस्याभि-व्यक्तेरपि सुप्ताविव कदाचित् स्वयमेव संभवादित्यतः प्राप्तम् - अंबुवदग्रहणात्तु न तथात्वमिति सूत्रम् ।

तथा भक्तेरावश्यकत्वेऽपि केषाञ्चित् सम्यङ्मुक्तिः, केषाञ्चिद् असम्यङ्मुक्तिरित्यस्यायोगेन सर्वेषां मुक्तेरेकरूपत्वेन तद्धेतोर् भक्तेरपि ब्रह्मादिष्वन्येषु चैकप्रकारत्वमेवोपेयम् । तद्वैषम्यं

तु निर्बीजमित्यतः प्राप्तम् - वृद्धिह्रासभाक्त्वमन्तर्भावादुभय-सामञ्जस्यादित्यादियोगद्वयम् । तयोरप्येकादशद्वादशाधिकरणयोर् अर्थं श्रुत्यर्थाभ्यां भाषते - तद्भक्तितारतम्येन तारतम्यं विमुक्तिगमिति ।

६१. विमुक्तिगं विशेषेण सम्यङ्मुक्तिस् तत्र विद्यमानमानन्दादि तारतम्यं तद्भक्तितारतम्येन प्रकृतपरमेश्वरभक्तितारतम्येन हेतुना भवति नान्येनेति श्रौतोऽर्थः । मुक्तौ सर्वेषाम् अविद्यानिवृत्त्यादेर् निश्शेषतो भावेन सम्यङ्मुक्तिभावेन तत्र स्वरूपानन्दादितारतम्यस्य ‘अथात आनन्दस्य मीमांसा भवति’ इत्यादिश्रुत्यादिसिद्धत्वात्, फलवैषम्यस्य साधनवैषम्यैकाधीनत्वात् श्रुतिसिद्धमुक्तिगतब्रह्माद्या-नन्दतारतम्यस्य अन्यथाऽनुपपच्या भाक्तितारतम्यमुपेयमिति भावः ।

६२. तथा सुप्तौ आनन्दादेरीषदभिव्यक्तावपि सम्यगभिव्यक्ते-रेव मुक्तित्वात्, तस्याश्च भक्तिं विनाऽयोगात्, भक्तेर्मुक्तिफलत्व-समर्थनात्सिद्धमिति मुक्त्यर्थं भक्तिरावश्यकीत्यार्थिकोऽर्थः ।

६३. सामान्यासिद्धौ विशेषचिन्ताया अनवसरदुःस्थत्वेन विशेषोक्त्या सामान्यस्याक्षेपादिति भक्तिविचारपराधिकरणद्वस्य सूत्रकृता अत एव चोपमेति पूर्वसूत्रे ज्ञानानन्दादिमत्त्वरूपस्य भगवत्सादृश्यस्य जीवे प्रकृतसुप्ताविव भक्तिं विनाऽप्यभिव्यक्ति-संभवाद् भक्तिर्व्यर्था इत्यादिशङ्कानिरासार्थतया अवान्तरसङ्गतिवशेन मध्ये निवेशितत्वेऽपि तदर्थस्यान्ते भाषणं त्वेतत्पादीयसर्वाधिकरणेषु विष्णुमाहात्म्यनिरूपणस्य भक्तावुपयोग इति सूचयितुम् ॥११॥१२॥

**इति श्रीमदानन्दतीर्थभगवत्पादाचार्यविरचितस्य ब्रह्मसूत्राणुभाष्यस्य विवृतौ राघवेन्द्रयतिकृतायां तत्वमञ्जर्याख्यायां **

तृतीयाध्यायस्य द्वितीयः पादः ।