नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम्
नारायणं गुणैः सर्वैरुदीर्णं दोषवर्जितम्।
ज्ञेयं गम्यं गुरूंश्चापि नत्वा सूत्रार्थ उच्यते ॥1॥
विष्णुरेव विजिज्ञास्यः सर्वकर्ताऽगमोदितः।
समन्वयादीक्षतेश्च पूर्णानन्दोऽन्तरः खवत्॥ १॥
प्रणेता ज्योतिरित्याद्यैः प्रसिद्धैरन्यवस्तुषु।
उच्यते विष्णुरेवैकः सर्वैः सर्वगुणत्वतः॥ २॥
सर्वगोऽत्ता नियन्ता च दृश्यत्वाद्युज्झितः सदा।
विश्वजीवान्तरत्वाद्यैर्लिङ्गैः सर्वैर्युतः स हि॥ ३॥
सर्वाश्रयः पूर्णगुणः सोऽक्षरः सन् हृदब्जगः।
सूर्यादिभासकः प्राणप्रेरको दैवतैरपि॥ ४॥
ज्ञेयो न वेदैः शूद्रादैः कम्पकोऽन्यश्च जीवतः।
पतित्वादिगुणैर्युक्तस् तदन्यत्र च वाचकैः॥ ५॥
मुख्यतः सर्वशब्दैश्च वाच्य एको जनार्दनः।
अव्यक्तः कर्मवाच्यैश्च वाच्य एकोऽमितात्मकः॥ ६॥
अवान्तरं कारणं च प्रकृतिः शून्यमेव च।
इत्याद्यन्यत्र नियतैरपि मुख्यतयोदितः।
शब्दैरतोऽनन्तगुणो यच्छब्दा योगवृत्तयः॥ ७॥
॥ इति ॥
समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम्
॥ श्रीः ॥
श्रीराघवेन्द्रतीर्थविरचिता
ब्रह्मसूत्राणुभाष्यविवृतिः
मङ्गलमाचरणम् तत्वमञ्जरी
ॐ समस्तगुणसम्पूर्णं सर्वदोषविवर्जितम् ।
लक्ष्मीनारायणं वन्दे भक्ताभीष्टफलप्रदम् ॥ १ ॥
संसारक्लेशसंश्रान्तसज्जनावनत्पराः ।
दयालवो महान्तस्तान् गुरून्नत्वा गिरंभजे ॥ २ ॥
ग्रन्थोऽयमपि बहर्थो भाष्यं चात्यर्थविस्तरम् ।
इत्युक्तिसाम्यात्सङ्क्षेपभाष्यं चात्यर्थविस्तरम् ॥ ३ ॥
अनन्तोऽर्थः प्रकटितस्त्वयाणौ भाष्यसङ्ग्रहे ।
इत्याहुः श्रीमदानन्दतीर्थार्यौपसदा अपि ॥ ४ ॥
अतोऽनेकार्थयुक्तस्य नैतद्भाष्यस्य विस्तृतौ ।
शक्तोस्म्यथापि लेशेन व्यारव्यां कुर्यां यथामति ॥ ५ ॥
सूत्रार्थं हृदि कृत्वैव भाष्यार्थं सम्प्रकाशये ।
अविक्षेपेण बोधार्थं बुध्यन्तां तद्विवेकिनः ॥ ६ ॥