१७ अमुक्तविभागः

अमुक्तास्त्रिविधास्तत्र नीचमध्योच्चभेदतः

अमुक्तविभागः

टीका

अमुक्तानां विभागमाह– अमुक्ता इति ॥

तत्वविवेकः

अमुक्तास्त्रिविधास्तत्र नीचमध्योच्चभेदतः ॥ ६ ॥

तत्र मुक्तामुक्तयोः । तान् विविच्य दर्शयति– मुक्तियोग्या इति ॥

तत्वविवेकः

मुक्तियोग्यास्तत्र चोच्चा नित्यावर्तास्तु मध्यमाः ।

नीचा नित्यतमोयोग्याः … …. … ।

मन्दारमञ्जरी

विविच्य दर्शयतीति ॥ लक्षणकथनेनेतरेभ्यो व्यावृत्ततया बोधयतीत्यर्थः । न तु विभज्य इत्यर्थो ग्राह्यः । अमुक्तास्त्रिविधा इत्यनेनैव विभागस्य उक्तत्वात् ॥

तत्वविवेकटीकाविवरणं

तान्विविच्य दर्शयतीति । लक्षणकथनेन तान्नीचादीन्विविच्येतरेभ्यो व्यावृत्ततया बोधयतीत्येवार्थः । न तु विभज्य दर्शयतीति । अमुक्तास्त्रिविधा इत्यनेनैव विभागस्योक्तत्वादित्यवधेयम् । नित्यावर्तास्त्विति मूलस्य चोष्कूयते विश इन्द्रो मनुष्यान् पुनः पुनर्मनुष्यांस्तु सृतावावर्तयत्यज इत्यादिनोक्तप्रकारेण त्रिदिवनिरयभूगोचरा नित्यबद्धा एते मध्यमा इत्यर्थो द्रष्टव्यः ॥


तुशब्दोऽवधारणे

टीका

तुशब्दोऽवधारणे । तेन यः साधनमनुतिष्ठति स सर्वोऽपि मुच्यत इति मतमपाकृतं भवति ।

मन्दारमञ्जरी

तेनेति ॥ मुक्तियोग्या उच्चा एवेत्यवधारणेनेत्यर्थः ।

तत्वविवेकटीकाविवरणं

तेनेति । चशब्दस्यावधारणार्थत्वेन ये उच्चा ब्रह्माद्या मनुष्योत्तमपर्यन्तास्त एव मुक्तियोग्या नान्य इति पृथक्कथनेनेत्यर्थः ।