१५ रमाया ब्रह्मादिमुक्तसाम्याभावः

रमा तेभ्योऽखिलैर्गुणैर् नित्यं बहुगुणोद्रिक्ता

रमाया ब्रह्मादिमुक्तसाम्याभावः

टीका

सृतियुग्भ्यो ब्रह्मादिभ्यः श्रीर्नित्यमुक्ता व्यावृत्तेत्युक्तम् । यदा तु ब्रह्मादयो विमुच्यन्ते तदा साम्यप्राप्तावाह– रमेति ॥

तत्वविवेकः

…… … रमा तेभ्योऽखिलैर्गुणैः ॥ ५ ॥

नित्यं बहुगुणोद्रिक्ता … … … ।

बहुगुणेति गुणशब्दो गणनार्थः ।