१२ चेतनविभागः

नित्यमुक्तश्च सृतियुक् परतन्त्रोऽपि चेतनः । द्विधैव..

चेतनविभागः

टीका

चेतनविभागमाह– नित्येति ॥

तत्वविवेकः

नित्यमुक्तश्च सृतियुक् परतन्त्रोऽपि चेतनः ।

द्विधैव……… ……… ……… ……॥

नित्यमुक्त इति कदापि संसारसम्बन्धो यस्य नास्त्यसावुच्यते । कदाचित्संसारसम्बन्धवान्सृतियुक् ।

ननु नित्यमुक्तो विष्णुरेव स्वातन्त्र्यात् । अयं तु परतन्त्रविभागोऽभिधीयते । तत्कथं तदन्तर्गतोऽपि चेतनो नित्यमुक्त इति । अत उक्तं परतन्त्रोऽपीति । तथा प्रमाणादिति भावः । अथ वा नित्यमुक्तश्चेत्परतन्त्रो न स्यादित्यत इदमुक्तम् । एवकारेण संसारस्य मिथ्यात्वान्नित्यमुक्त एव चेतन इति मतमपाकरोति ॥