०४ तत्वसामान्यलक्षणपरीक्षा

यथार्थज्ञानं प्रमा । तद्विषयः प्रमेयम्

तत्वसामान्यलक्षणपरीक्षा

टीका

यथार्थज्ञानं प्रमा । तद्विषयः प्रमेयम् । नन्वीश्वरज्ञानं तावत्प्रमा । तत्र शुक्तिरजतादिकं तद्विषयो न वा । न चेत्तस्यासार्वज्ञ्यप्रसङ्गः । तद्विषयत्वे तदपि तत्वं स्यादिति । मैवम् । परमार्थाशेषार्थज्ञत्वमेव सार्वज्ञ्यमित्यङ्गीकारात् । तथाप्यस्मदादीनां शुक्तिरजतादिविभ्रममीश्वरो वेत्ति न वा । वेत्तीति ब्रूमः । विषयविशेषितज्ञानस्यावगमे विषयस्यापि प्रमेयत्वं स्यादिति चेन्न । यत् प्रमया अस्तीति विधीयते तत् प्रमेयमित्यङ्गीकारात् । न चेश्वरादिप्रमा शुक्तिरजतादिविधिरूपा । किं तु भ्रान्तोऽयं शुक्तिकाशकलं कलधौतया कल्पयतीत्यनुवादरूपैव । ननु भ्रमेऽपि इदमिति ज्ञानं तावत्प्रमा । किं तावताऽपि । न हि तद्विषयः शुक्तिकायां रजतत्वं येन तत् प्रमेयं स्यात् । ननु इदं रजतमित्येकमेव ज्ञानम् । सत्यम् । अत एव विशिष्टोल्लेखीदमप्रमैवेति उल्लिखितं विशिष्टमतत्वमेवेति ।

मन्दारमञ्जरी

ननु प्रमेयं चेतत्वं तर्हि तत्वानुभूतेः प्रमात्वादन्योन्याश्रय स्स्यादित्याशङ्क्याह ॥ यथार्थज्ञानं प्रमेति ॥ तत्र शुक्तिरजतादिकमिति ग्रन्थे तत्रेत्यस्य तथा सतीत्यर्थः ॥ परमार्थाशेषार्थेति ॥ अर्यते इति व्युत्पत्त्या अर्थशब्दोक्तस्य ज्ञेयत्वस्य शुक्तिरूप्यादावपि भावात्तद्व्यावृत्त्यर्थमबाधितवाचकस्य परमार्थपदस्य प्रयोगः ॥ वेत्ति न वेति ॥ वेत्ति चेद्विषयाविशेषितस्य ज्ञानस्य बुद्धावनारोहात्तद्विषयविशेषितस्यावगमे विषयस्यापि प्रमेयत्वं स्यात् । न वेत्ति चेज्ज्ञानस्य परमार्थत्वात्परमार्थाशेषार्थज्ञत्वरूपमपि सर्वज्ञत्वं न स्यादिति वाक्यशेषः । वेत्तीति पक्षे पूर्वोक्तदोषं स्मारयति पूर्वपक्षी ॥ विषयविशेषितज्ञानस्यावगम इति ॥ यत्प्रमयाऽस्तीति विधीयत इति ॥ अस्तीत्यनेन प्रकारेण यत्प्रमया विधीयते सत्ताविशिष्टतया बोध्यते न तु नास्तीति निषिध्यते न वा अन्येनैवं ज्ञातमित्यनूद्यते तत्प्रमेयम् । न चेश्वरप्रमा शुक्तिरजतस्य स्वयमस्तित्वग्रहणरूपा । शुक्तिरजतमस्तीत्यग्रहणात् । किं तु ‘भ्रन्तोऽयं शुक्तिं रजतत्वेन जानाति’ इत्यनुवादरूपा । तेन भ्रान्तनिष्ठज्ञानविषयतया ईश्वरप्रमया विषयीक्रियमाणस्यापि शुक्तिरूप्यस्य ज्ञानान्तरप्रणाडीमन्तरा अस्तीति प्रमीयमाणत्वरूपं प्रमेयत्वं नास्तीति नातिव्याप्तिरित्यर्थः ।

एतेन ‘भ्रमो ममासीत्’ इत्यस्मदादिनिष्ठस्यानुव्यवसायस्य प्रमात्वात् तस्य चार्थावच्छिन्नभ्रमविषयकत्वाद् भ्रमविषयस्य वैशिष्ट्यस्यापि प्रमेयत्वापात इति निरस्तम् । अत एव शुक्तिरूप्यस्य शशशृृङ्गादेश्च असत्वाकारेण प्रमाविषयत्वादतिव्याप्तिस्स्यादिति निरस्तम् । अस्तीति प्रमागोचरत्वाभावात् । न चैवमव्याप्तिर् अभावस्यापि ‘अभावोऽस्ति’ इति कदाचित्प्रमया ग्रहणात् । अतीतादावपि वर्तमानदशायाम् अस्तीति ग्रहणादिति द्रष्टव्यम् । ननु इदं रूप्यमिति विशिष्टविषयकभ्रमे इदमिति धर्म्यंशे ज्ञानं तावत्प्रमा । तच्च इदं रूप्यमित्येवमाकारकमेकं विशिष्टज्ञानं शुक्तिरूप्यमस्तित्वाकारेण गृह्णातीति लक्षणस्य तत्रातिव्याप्तिरिति गूढाभिसन्धिः शङ्कते ॥

ननु भ्रमेऽपीति ॥ यथा एकस्यैव चैत्रस्य पितृत्वपुत्रत्वे पुत्रपितृरूपप्रतिसम्बन्धिभेदेन व्यवस्थिते यथा च चैत्रपुत्रस्य मैत्रस्य न पुत्रजन्यत्वं मैत्रं प्रति चैत्रस्य पितृत्वेन पुत्रत्वाभावात् तथा इदं रजतमिति विशिष्टज्ञानस्यैकत्वेऽपि शुक्तिरजतवैशिष्ट्यविषयकत्वेऽपि प्रमात्वाप्रमात्वे इदमंशवैशिष्ट्यांशरूपप्रतिसम्बन्धिभेदेन व्यवस्थिते वाच्ये । अन्यथा विरोधात् । इदमंशस्याबाधो रजतांशस्य बाध इति व्यवस्थानुपपत्तेश्च । तथा च न वैशिष्ट्यस्य प्रमाविषयत्वम् । वैशिष्ट्यं प्रति इदं रूप्यमिति ज्ञानस्य प्रमात्वाभावात् । एवं च नातिव्याप्तिरिति गूढाभिसन्धिः परिहरति ॥ किं तावतापीति ॥ यथा शुक्तिरजतादिभ्रममीश्वरो वेत्तीत्येतावता किम् । न किमपि । तत्प्रयुक्तदोषस्योद्धृतत्वात् । तथा भ्रमस्य धर्म्यंशे प्रमात्वमित्येतावताऽपि किम् । न किमपि । तत्प्रयुक्तदोषस्याप्युद्धर्तुं शक्यत्वादित्यपिशब्दार्थः । अज्ञातसिद्धान्त्याशयः पूर्वपक्षी स्वाभिप्रायमाविष्करोति ॥ नन्विदं रजतमितीति । सिद्धान्ती तु ज्ञानस्यैकत्वादेव विशिष्टोल्लेखित्वेन अप्रमारूपतया तदुल्लिखितं तत्वमेव स्यात् । अन्यथा ज्ञानद्वयाङ्गीकारे अख्यातिपक्ष इव विशिष्टोल्लेखित्वाभावेन प्रमैव स्यादिति तदुल्लिखितं तत्वमेव स्यात् । ततश्च ज्ञानैकत्वमतिव्याप्तिप्रतिकूलमेव न त्वनुकूलम् । भ्रमस्य धर्म्यंशे प्रमात्वेऽपि वैशिष्ट्यांशे प्रमात्वाभावेनातिव्याप्तेः परिहृतत्वादिति भावेन परिहरति ॥ सत्यमित्यादिना ॥

तत्वविवेकटीकाविवरणं

एकार्थत्वमुपपादयति ॥ यथार्थेति । शुक्तिरजतादिकमीश्वरप्रमाविषयो भवति न वेति विकल्प्य द्वितीयं तावदनूद्य दूषयति ॥ शुक्तिरजतादिकमिति ॥ असार्वज्ञेति । शुक्तिरजतविषयकज्ञानाभावादिति भावः। आद्यमनूद्य दूषयति ॥ तद्विषयत्वमिति । ईश्वरप्रमायाः शुक्तिरजतविषयकत्व इत्यर्थः । तदपि शुक्तिरजतमपि ॥ तत्वं स्यादिति । प्रमितिविषयत्वादिति भावः । द्वितीयपक्षमेवाङ्गीकृत्य तत्रोक्तदोषं परिहरति ॥ परमार्थेति । तथा चेश्वरप्रमायाः शुक्तिरजतविषयकत्वाभावेऽपीश्वरस्य न सर्वज्ञत्वहानिः । परमार्थाशेषार्थविषयकज्ञानवत्त्वस्यैव सर्वज्ञशब्दार्थत्वात् । शुक्तिरजतादेरबाधितत्वापरपर्यायपरमार्थत्वाभावादिति भावः । गूढाभिसन्धिः पूर्वपक्षी विकल्पयति ॥ तथापीति । अस्मदादीनां जायमानो यश्शुक्तिरजतादिभ्रमस्तमीश्वरो वेत्ति न वेत्यर्थः । विदितपूर्वपक्ष्यभिप्रायः सिद्धान्ती न वेत्तीति पक्षे शुक्तिरजतादिज्ञानस्वरूपस्य स्वमते परमार्थत्वेन परमार्थाशेषार्थज्ञत्वरूपमपि सार्वज्ञ्यं न स्यादिति दोषभयात्तं पक्षं परित्यज्य द्वितीयपक्षं प्रतिगृह्णाति ॥ वेत्तीति ब्रूम इति । पूर्वपक्षी स्वाशयोद्घाटनेन तत्र दूषणमाह ॥ विषयविशेषितेति । विषयाविशेषितज्ञानमात्रस्य बुद्धावनारोहाच्छुक्तिरजतादिविषयावच्छिन्नस्य शुक्तिरजतादिज्ञानस्येश्वरप्रमया विषयीकरणे शुक्तिरजता(दावीश्व)देरपीश्वरप्रमाविषयत्वप्राप्त्या प्रमेयत्वं प्राप्तमित्यतिव्याप्तिरित्यर्थः ॥ यत्प्रमयेति । अस्तीत्यनेन प्रकारेण यत्प्रमया विधीयते सत्ताविशिष्टतया बोध्यत इति यावत् । न तु नास्तीति निषिध्यते न वाऽनेनैवं ज्ञातमित्यनूद्यते तत्प्रमेयम् । न चेश्वरप्रमा शुक्तिरजतस्य स्वयमस्तित्वविधिरूपा । शुक्तिरजतमस्तीत्यग्रहणात् । किं तु भ्रान्तोऽयं शुक्तिकाशकलमेव रजततया जानातीत्यनुवादरूपैव । तथा च भ्रान्तनिष्ठज्ञानविषयतयेश्वरप्रमया विषयीक्रियमाणस्यापि शुक्तिरजतस्य ज्ञानान्तरद्वारमन्तरेण साक्षादस्तीति प्रतीयमानत्वरूपं प्रमेयत्वं नास्तीति नातिव्याप्तिरित्यर्थः । कलधौततया रजततया । ‘‘कलधौतं सितं गौरं रजतं रूप्यमश्रुजमित्यभिधानम्’’ ।

गूढाभिसन्धिश्शङ्कते ॥ ननु भ्रमेऽपीति । इदं रूप्यमिति भ्रमस्यापीदमिति धर्म्यंशे प्रमात्वं तावदस्तीत्यर्थः । सिद्धान्ती अविदिताशय इव पृच्छति ॥ किं तावतापीति । भ्रमस्य धर्म्यंशे प्रमात्वमस्तीत्येतावतापि किं दूषणं त्वया दत्तमित्यर्थः । ननु भ्रमस्य धर्म्यंशे प्रमात्वेन रजतत्वरूपे प्रकारांशेऽतिव्याप्तिरिति ममाभिप्राय इति पूर्वपक्षिणोक्ते विदिततदभिप्रायः सिद्धान्ती परिहरति ॥ न हीति । तद्विषय इदमिति धर्म्यंशप्रमाविषयः । शुक्तिकायां प्रकारत्वेन प्रतीयमानं रजतत्वमित्यर्थः । तथाच यदंशे ज्ञानस्य प्रमितत्वं तदंशविषयत्वमेव विवक्षितम् । भ्रमप्रकारे च रजतत्वैतदंशविषयत्वाभावान्नातिव्याप्तिरिति भावः । ज्ञानद्वयाङ्गीकारेण परिहृतमिति मत्वा पूर्वपक्षी शङ्कते ॥ नन्विति । तथा च ज्ञानद्वयाङ्गीकारे भवतामख्यातिपक्षपातः स्यादिति भावः । नास्माभिर्ज्ञाने द्वित्वमङ्गीकृत्य परिहृतम् । येनाख्यातिपक्षपातः शङ्केत । किं नामेदंपदार्थविशेष्यकं रजतत्वप्रकारकं विशिष्टज्ञानमेकमेवेत्यङ्गीकृत्यांशभेदेन परिहार उक्त इत्याशयेनाह ॥ सत्यमिति । अंशभेदाविवक्षायां तु तत्रातिव्याप्तिरेव नास्तीत्याह ॥ अत एवेति । ज्ञानस्यैकत्वादेवेत्यर्थः । अंशभेदाविवक्षयेति शेषः ॥ विशिष्टोल्लेखीति । पुरोवर्तिनि रजतवैशिष्ट्योल्लेखीत्यर्थः ॥ उल्लिखितमिति । अप्रमाभूतेदं रजतमिति ज्ञानविषयीभूतमित्यर्थः ॥ अतत्वमेवेति । तथाच वैशिष्ट्ये प्रमाविषयत्वप्रसक्तेरेवाभावान्नातिव्याप्तिरिति भावः ॥