०३ हरेर्निर्गुणत्वाद्यङ्गीकारस्य श्रुतिविरोधकथनेन निरासः

एकमेवाद्वितीयं..

हरेर्निर्गुणत्वाद्यङ्गीकारस्य श्रुतिविरोधकथनेन निरासः

मूलम्

  • ‘एकमेवाद्वितीयं तन्नेह नानाऽस्ति किञ्चन ।

***मृत्योस्स मृत्युमाप्नोति य इह नानेव पश्यति ॥ ***

***यथोदकं दुर्गे वृष्टं पर्वतेषु विधावति । ***

***एवं धर्मान् पृथक्पश्यंस्तानेवानु विधावति ॥’ इत्यादिश्रुतेश्च । ***

***‘देशः सर्वत्र, पुरुषः स्वतन्त्रः, कालनित्यता । ***

***इत्यादिषु स्वसम्बन्धाद्यथैव गुणरूपिणः । ***

***गुणित्वं गुणभोक्तृत्वं स्याद्विष्णोस्तच्च स स्वयम् ॥’ इति ब्रह्मतर्के । ***

***‘विष्णुं सर्वगुणैः पूर्णं ज्ञात्वा संसारवर्जितः । ***

***निर्दुःखानन्दभुङ्नित्यं तत्समीपे स मोदते । ***

***मुक्तानां चाऽश्रयो विष्णुरधिकोऽधिपतिस्तथा । ***

तद्वशा एव ते सर्वे सर्वदैव स ईश्चरः ॥’ इति परमश्रुतिः ॥

तत्त्वमञ्जरी

एकमेव अन्तर्भेदरहितं स्वगुणावतारादीनां भेदाभावेन । अद्वितीयं समाधिकरहितम् । इह ब्रह्मणि किञ्चन गुणादिकं नाना नास्ति भिन्नत्वेन नास्तीत्यर्थः । य इह नाना भेदम् इव भेदाभेदं वा पश्यति, स मृत्योर्मृत्युमाप्नोति । मृत्युशब्दश्चाधिकं दुःखं लक्षयति । ‘इवोभये च सादृश्य इति वाक् शब्दनिर्णयः’ इति ह्यनुव्याख्यायाम् । तस्माद्भेदशब्दान्वितत्वेन प्रयुक्त इवशब्दो भेदाभेदाख्य उभयस्मिंश्च वर्तते । यथा पर्वतेषु दुर्गस्थाने शिलाशिखरादौ वृष्टमुदकं विधावति । एवं ब्रह्मधर्मान् ब्रह्मणः परस्परं वा पृथक् पश्यन् तान् दृष्टानन्वेव विधावति । अन्यथादर्शनानुकूल्येनैव सुखस्थितिविपरीतत्वेन धावति ।

ननु कथमेकत्वे ईश्वरस्य गुणाः सन्तीत्याधाराधेयभावसम्बन्धः । ईश्वरस्य रूपाणीत्यादि (स्व)स्वामिसम्बन्धः । भिन्नयोर्हि सम्बन्धोऽनुभूयते । नैकस्येत्यत आह- देश इति ॥ सर्वदेशेऽपि देशो वर्तते । महापुरुषः स्वस्यैव वशः न परवशः । कालः सर्वकालेऽप्यस्ति । अहं मां जानामि । एवं लोकव्यवहारे यथा स्वसम्बन्धः । एवं विष्णोरपि गुणरूपिणो गुणित्वं नाम स्वसम्बन्धः । नचेदं गुणित्वं नाम दण्डित्वादिवत्सम्बन्धमात्रम् । किन्त्वानन्दादिगुणभोक्तृत्वम् ।

ननु भोक्तृत्वस्य भोगोपाधिनिमित्तस्य निमित्ताभावे सति अभावात्, पाचकत्वाद्यौपाधिकधर्म-वद् भेदः स्यादित्यत आह- तच्च स स्वयमिति ॥ न हीश्वरस्य कदाचिद्गुणभोगाभावः । प्रय-काले सृष्ट्यभावात् कथमीश्वरस्य स्रष्टृत्वधर्मो नित्य इति चेत् तदापि सृष्टिक्रियायाः शक्तिरूपेण स्थितत्वादिति ब्रूमः । नहि तदी(दे)श्वरस्यापि प्रयकाले सृष्टिप्रयत्नो नष्टः । तस्य नित्यत्वाभ्युपग-मात् । नन्वीश्वरस्य प्रयत्नमात्रं नित्यमेव । सृष्ट्यादौ तत्तदुपाधिभेदात् सृष्ट्यादिप्रयत्नो जायत इति । मैवम् । प्रयत्नस्य बहुत्वादीश्वरस्याष्टगुणत्वप्रतिज्ञाहानेः । औपाधिकभेदस्यौपचारिकत्वान्नोक्तदोष इति चेत् । किमिदमौपचारिकं सत्यं मिथ्या वा । सत्यं चेत् कथं नोक्तदोषः । मिथ्या चेत् प्रयकालेऽपि सृष्टिप्रयत्नोऽस्तीति स्थितम् । तस्मादीश्वरस्य अनन्तगुणत्वाङ्गीकारेऽपि न किञ्चिदनुपपन्नमिति भवति सुन्दरम् ।

अत्र प्रतिपादितस्य ज्ञानस्य फलमाह- विष्णुमिति ॥ तेषामबद्धत्वात् स्वातन्त्र्यसम्भवाद् विष्णोरुक्तस्वातन्त्र्यगुणहीनत्वं स्यादित्यत आह- मुक्तानामिति ॥ ‘अथात आनन्दस्य मीमांसा भवति’ इत्यारभ्य ‘तस्येयं पृथिवी सर्वा वित्तेन पूर्णा स्यात्’ इत्यादिना चक्रवर्तिनां गन्धर्वादीनां च आनन्दतारतम्यमुक्त्वा ‘ते ये शतं प्रजापतेरानन्दाः स एको ब्रह्मण आनन्दः’ इति हि तैत्तिरीय-श्रुतिः ।

टीका

निर्गुणत्वादिपक्षचतुष्टये श्रुत्यन्तरविरोधमाह- एकमिति ॥ एकमेवेत्यवयवावयविभावेन भेदौ भेदाभेदौ च निवारितौ । इह ब्रह्मणि किञ्चन गुणादिकमपि नाना भिन्नं नास्ति । यस्तु इह ब्रह्मणि नानेव भिन्नाभिन्नं गुणादिकं पश्यति स मृत्योरनन्तरं मृत्युं नरकमाप्नोति । यथा पर्वतेषु दुर्गे स्थाने शिखरे वृष्टम् उदकं विधावति अधो विधावति एवं भगवतो धर्मांस्ततः परस्परं च पृथक् पश्यन् पुरुषस् तानन्वेव तद्दर्शनमन्वेव विधावति अधो गच्छतीत्यर्थः । यदि धर्मा एव न सन्ति तर्हि नेहास्ति किञ्चन, धर्मान्पश्यन् इत्येव वक्तव्यं स्यात् । नानेति पृथगिति च व्यर्थमेव । तेन सन्ति धर्माः, किन्तु न भिन्ना नापि भिन्नाभिन्ना इति श्रुत्यर्थः । अनयैव श्रुत्या विशेषोऽपि ज्ञायते । यथाऽऽहुः-

‘उक्त्वा धर्मान् पृथक्त्वस्य निषेधादेवमेव हि ।

विशेषो ज्ञायते श्रुत्या भेदादन्यश्च साक्षितः ॥’

इति । परमेश्वरगुणादीनां ततो भेदाभावेऽपि विशेषशक्त्या सम्बन्धित्वादिव्यवहारो युज्यत इत्येतत्सदृष्टान्तमुपपादयद्वाक्यान्तरमप्यत्र पठति- देश इति ॥ यथा पक्षी सर्वत्राऽकाशे पततीति पक्षिणः सर्वाकाशसम्बन्धः प्रतीयते । तथा देश आकाशोऽपि ‘सर्वत्राऽकाशोऽस्ति’ इति सर्वाकाश-सम्बन्ध आकाशस्य प्रतीयते । यथा ‘गुरुतन्त्रः शिष्यः’ इति शिष्यस्य गुरुणा सम्बन्धः प्रतीयते एवं ‘परमपुरुषः स्वतन्त्रः’ इति तस्य स्वसम्बन्धः प्रतीयते । यथा आकाशस्य नित्यता सर्वकाल-सम्बन्धितालक्षणा प्रतीयते तथा कालस्यापि नित्यता प्रतीयते । आदिपदेन पूर्वोक्ताभेदादीनां ग्रहणम् । इत्यादिषु स्थानेषु । गुणरूपिण इति कर्मधारयादिनिः । गुणभोक्तृत्वमानन्दभुगित्यादौ श्रुतम् । स्याद्विष्णोर् विशेषेण निमित्तेनेति शेषः । तच्च निमित्तं स विष्णुः स्वयमेव । देशः सर्वत्रेत्यस्य सर्वमूर्तद्रव्यसंयुक्त इति वा अपरिच्छिन्न इति वाऽर्थ इति चेन्न । सप्तम्यर्थस्यासमर्थित-त्वात् । बाधकाभावेनोपचाराश्रयणस्यायुक्तत्वात् । अत एव स्वतन्त्र इत्यस्य परतन्त्रताव्यावृत्तिरर्थ इत्ययुक्तम् । नित्योऽविनाशीति चेन्न । सदातनपर्यायत्वान्नित्यशब्दस्य । तस्य सर्वकालभावि-वाचकत्वात् ।

मायावादिनस्त्वाहुः- निर्गुण एव परमात्मा । गुणास्तु तस्य मायामयाः सन्ति । अतो नोदाहृत-श्रुत्यादिविरोध इति । तदसत् । तदीयसर्वगुणपूर्णताज्ञानस्य मोक्षसाधनताश्रवणात् । नहि मायामयार्थज्ञानं मोक्षसाधनम् । किन्तु तत्त्वज्ञानमेवेति भावेन तां श्रुतिं पठति- विष्णुमिति ॥ मुक्तस्यापि न तत्साम्यापत्तिर्येन निर्दोषाशेषसद्गुणत्वं स्यादिति भावेनाऽह- मुक्तानां चेति ॥ तस्मात् स एव सर्वदेश्वरो निर्दोषाशेषसद्गुण इति यावत् ।

भावबोधः

दृष्टान्तेष्वपि विप्रतिपत्तिं परिहर्तुं दृष्टान्तान्तरेण स्वसम्बन्धमुपपादयति- यथा पक्षी सर्वत्रेत्या-दिना ॥ कर्मधारयादिनिरिति ॥ अन्यथा गुणरूपस्येति भवेदिति भावः । सप्तम्यर्थस्येति ॥ आकाशस्य परेणावृत्तित्वाङ्गीकारेण सर्वमूर्तसंयोगेऽप्याधारत्वालाभादिति भावः ।

भावदीपः

निवारिताविति ॥ निवारित इत्यपि योज्यम् । अत्र धर्मधर्मिणोर्भेदो भेदाभेदौ वा नेत्युच्यते । न तु धर्मसद्भावः येन तद्विरोधो निर्गुणत्ववादस्येत्यत आह- यदि धर्मा एवेति ॥ यथाऽऽहुरिति ॥ ऋग्भाष्ये- ‘तं दुर्दर्शं गूढमनुप्रविष्टं गुहाहितम्’ इत्यादिना परमेश्वरस्यानेकान् धर्मानुक्त्वा ‘एकमेवाद्वितीयम्’ इत्येवं पुनः पृथक्त्वस्य निषेधाद्भेदादन्यो विशेषो भगवति श्रुत्यैव ज्ञायते । अखण्डत्वे धर्मोक्त्यनुपपत्तेः । भेदे च निषेधायो-गात् । किं च घटादौ भेदादन्यो विशेषः साक्षितश्च ज्ञायते इत्यर्थः । पूर्वोक्ताभेदादीनां ग्रहणमिति ॥ अभेद-भेदभेदाभेदानां स्वरूपत्वेऽपि तत्सम्बन्धित्वेन व्यवहारस्तथेति ग्राह्यमित्यर्थः । कर्मधारयादिनिरिति ॥ गुणश्च तद्रूपं च गुणरूपं तदस्यास्तीति मत्वर्थे ‘अत इनिठनौ’ इतीनिप्रत्यय इत्यर्थः । बहुव्रीहिपक्षे गुणरूपस्येति भाव्यत्वादिति भावः । आनन्दभुगित्यादाविति ॥ ‘आनन्दभुक्तया प्राज्ञः’ इति माण्डूक इत्यर्थः । न्याय-तन्त्रोक्तोदाहरणत्रयस्यान्यथावर्णनं क्रमेणाऽशङ्क्य निराह- देशस्सर्वत्रेत्यस्येत्यादिना ॥ अत एवेति ॥ बाधकाभावेनोपचारकल्पनायोगादेवेत्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

गुणादिकमपीति - किञ्चनेत्यत्रत्यचनशब्दार्थ इत्यवगन्तव्यम् । नानेवेत्यस्यार्थः- भिन्नाभिन्न-मिति ॥ इवशब्दः स्वयं यत्समभिव्याहृतस्तद्विरोधिद्वितीयसङ्ग्राहको भवति- यथोक्तम्- ‘इवोभये च सादृश्य इति वाक् शब्दनिर्णये’ इति । अत्र च नानोक्त्वा प्रयुक्त इवशब्दोऽनाना सङ्गृह्णातीत्यभिप्रेत्य भिन्नाभिन्न-मित्युक्तमिति द्रष्टव्यम् । ततो भगवतः । तद्दर्शनमन्वेवेति ॥ तद्दर्शनानन्तरमेवेत्यर्थः । अधो गच्छतीति ॥ नित्यनिरयं प्राप्नोतीत्यर्थः । ननु कथमनेन निर्गुणत्वादिपक्षनिरासलाभ इत्यत आह- यदीत्यादिना ॥ कथमनया श्रुत्या विशेषो ज्ञायत इत्यतोऽत्र ऋग्भाष्यस्थं भगवत्पादवाक्यं प्रमाणयति- यथाऽऽहुरिति ॥ ‘इन्द्रवायू इमे सुता’ इति ऋग्व्याख्यासमय इति शेषः । तदुदाहरति- उक्त्वेति ॥ तं दुर्दर्शं गूढमनुप्रविष्टमित्यादिना परमेश्वरस्यानेकान् धर्मानुक्त्वा एकमेवाद्वितीयमित्येवं पुनः पृथक्त्वस्य निषेधाद्भेदादन्यो विशेषो भगवति श्रुत्यैव ज्ञायते । अखण्डत्वे धर्मकथनानुपपत्तेः । गुणानां भगवता भेदे च पृथक्त्वनिषेधायोगात् । किञ्च घटादौ भेदादन्यो विशेषः साक्षितश्च ज्ञायत इति श्लोकार्थो द्रष्टव्यः । भिन्नस्थल इवाभिन्नस्थलेऽपि सम्बन्धः प्रतीयतेऽतो नात्र विप्रतिपत्तिः कार्येत्याशयेन मूलोक्तान् दृष्टान्तान् स्वयं दृष्टान्तैरुपपादयति- यथा पक्षीत्यादिना ॥ तत्र देशः सर्वत्रेत्येतद् दृष्टान्तेन विवृणोति- यथा पक्षीति ॥ अत्यन्तभेदस्थले यथा प्रतीयते तथेत्याशयः । पुरुषः स्वतन्त्र इत्येतद्दृष्टान्तेन विशदयति- यथा गुरुतन्त्र इति ॥ कालनित्यतेत्येतद्दृष्टान्तेन स्फुटयति- यथाऽऽकाश-स्येति ॥ नित्यता प्रतीयत इति ॥ कालः सर्वदाऽस्तीतिप्रतीतिबलादिति भावः । पूर्वोक्तेति ॥ ‘अभिन्नत्व-मभेदश्च’ इत्यादिना पूर्वोक्तेत्यर्थः । अभेदादीनामिति ॥ यथा अभेदभेदादेर्ब्रह्मादिना भेदेऽपि जीवब्रह्मणोरभेदः (श्री.टि.) गुणगुणिनोर्भेद इति सम्बन्धिता प्रतीयत इत्यर्थः । ननु गुणा रूपं यस्यासौ गुणरूपस्तस्य गुणरूपस्येति वक्तव्यम् । न तु गुणरूपिण इतीनेः प्रयोगः । ‘न बहुव्रीहिनिर्वाह्ये भवन्ति मतुबादयः’ इति वचनाद्, अत आह- कर्मधारयादिनिरिति ॥ तथा च गुणा एव रूपं गुणरूपं गुणरूपमस्यास्तीति गुणरूपी । तस्य गुणरूपिण इति विग्रहो द्रष्टव्यः । निमित्तमिति ॥ विशेषरूपं निमित्तमित्यर्थः । स्वयमेवेति ॥ तदभिन्न एवेत्यर्थः ।

ननु देशस्सर्वत्रेति दृष्टान्ते आकाशस्य सर्वाकाशसम्बन्धः प्रतीयत इत्युक्तं, तन्न मम सम्मतमित्याशङ्कते- देशः सर्वत्रेत्यस्येति ॥ सप्तम्यर्थस्येति ॥ आकाशस्य सर्वमूर्तद्रव्यसंगित्वसद्भावेऽपि सर्वत्रेति सप्तम्यर्थभूतं यद्देशशब्दोक्ताकाशं प्रत्याधारत्वं तन्न परमत उपपद्यते । आकाशस्य परेणावृत्तित्वाङ्गीकारादिति भावः । उपचरिता सप्तमीति चेत्तत्राऽह- बाधकेति ॥ उपचारे ॥ सप्तमीविभक्तेरिति शेषः । ननु पुरुषः स्वतन्त्र इति दृष्टान्ते पुरुषस्य स्वसम्बन्धः प्रतीयत इत्युक्तं, तदयुक्तम् । स्वतन्त्र इत्यस्य परतन्त्रताव्यावृत्तिरेवार्थ इति चेत्, तत्राऽह-अत एवेति ॥ स्वसम्बन्धाङ्गीकारे बाधकाभावादेवेत्यर्थः । ननु कालनित्यतेति दृष्टान्ते कालस्य सर्वकाल-सम्बन्धित्वं प्रतीयत इत्ययुक्तं नित्यशब्दस्याविनाशित्वार्थकत्वादित्याशङ्कते- नित्योऽविनाशीति ॥ सदात-नेति ॥ ‘सदातनं सत्यमिति नित्यमेवोच्यते बुधैः’ इति पर्यायत्वोक्तेरिति भावः । ननु नित्यशब्दस्य सदातन-पर्यायत्वेऽपि कालस्य सर्वकालसम्बन्धः कथं नित्यशब्देन लब्ध इत्यत आह- तस्येति ॥ सदातनशब्दस्येत्यर्थः। सर्वकालभाविवाचकत्वादिति ॥ सर्वकालभाविवस्तुवाचकत्वादित्यर्थः । तथा च तत्पर्यायस्य नित्यशब्दस्यापि सर्वकालभावित्वार्थकत्वमेवेति भावः । उदाहृतश्रुत्यादीति ॥ ‘गुणक्रियादयो विष्णोः स्वरूपम्’ इत्यादिनोदा-हृतश्रुत्यादीत्यर्थः । श्रुत्यादीनां मायाकल्पितगुणपरत्वादिति भावः । मुक्तानां चेत्युत्तरवाक्यस्य वैयर्थ्यमाशङ्क्य ‘परमं साम्यमुपैति’ इति श्रुतेर्मुक्तस्य भगवत्समानत्वावगमान्निर्दोषाशेषसद्गुणत्वलक्षणस्य मुक्तेऽतिव्याप्ति-रित्याशङ्कापरिहारार्थमित्याह- मुक्तस्यापीति ॥ किमुतामुक्तस्येत्याशयः । येन साम्यापातेन । साम्यवाक्यं च निर्दुःखत्वादिधर्मेण साम्यपरमित्याशयः । यथोक्तम्- ‘दुःखाभावः परानन्दो लिङ्गभेदः समा मताः’ इति ।

विषमपदवाक्यार्थविवृतिः

(पां.टि)

एकमेवेतीति ॥ एकमेवेत्यादिनेत्यर्थः । नानेव भिन्नाभिन्नमिति ॥ ‘इवोभये च सादृश्ये इति वाक्शब्दनिर्णये’ इति प्रमाणानुसारेण यदुक्तं पूर्वपदेन तत्प्रतियोगि द्वितीयं हि इवशब्दार्थः । अत्र च नानो-त्तरप्रयुक्त इवशब्दोऽनाना सङ्गृह्णातीति भेदाभेदाख्यमुभयं नानेवेत्येतच्छब्दार्थ इति ध्येयम् । मृत्योरनन्तर-मिति ॥ मरणानन्तरमित्यर्थः । ननु मरणानन्तरं मरणप्राप्तेर्बाधितत्वात्कथं तदुक्तिरित्यतो द्वितीयस्य मृत्यु-शब्दस्यार्थान्तरपरत्वेन प्रसिद्धमरणपरत्वाभावान्नानुपपत्तिरिति भावेनार्थान्तरपरतया तं व्याचश्व्े- मृत्युं नरक-मिति ॥ ‘पर्वतेषु दुर्गे शिखरे वृष्टमुदकं यथाऽधो विधावति’ इत्यादिकाठकभाष्यं मनसि निधाय यथोदक-मित्येतद्वाक्यं व्याख्याति- यथा पर्वतेष्वित्यादिना ॥ कथमेतत् श्रुतिविरोध उपन्यस्तः पक्षचतुष्टयस्येत्य-तस्तमुपपादयति-यदीति ॥ नेह नानाऽस्ति किञ्चनेति ॥ आद्ये वाक्ये नेहास्ति किञ्चनेत्येव वक्तव्यं स्यात् । द्वितीयवाक्ये च धर्मान् पश्यन्नित्येव वक्तव्यं स्यादिति योजना । व्यर्थमेवेति ॥ आद्ये वाक्ये नानेति व्यर्थं (पां.टि.) स्यात् । द्वितीये च पृथगिति च व्यर्थं स्यादिति सम्बन्धः । तावताऽपि कथं श्रुतिविरोध इत्यतोऽर्थ-तस्तद्विरोधमुपदर्शयति- तेनेति ॥ कथमनयैव श्रुत्या विशेषावगतिरित्यतस् तद्व्युत्पादकम् ऋग्भाष्यवाक्य-मेवोदाहरति- यथाऽऽहुरिति ॥ भेदं विना विशेषमात्रेणैव द्विवचनादिकं घटत इत्ययुक्तम् । भेदादन्यस्य विशेषस्यैवाप्रामाणिकत्वादित्याशङ्कापरिहारकस्य अस्य वाक्यस्यायमर्थः । काठके ‘तं दुर्दर्शम्’ इत्यादिना परमेश्वरस्यानेकान्धर्मानुक्त्वा एकमेवाद्वितीयमित्येवं पुनः पृथक्त्वस्य निषेधाद्भेदादन्यो विशेषो भगवति श्रुत्या ज्ञायते । अखण्डत्वे धर्मकथनानुपपत्तेः । भेदे च निषेधायोगात् । किञ्च घटादौ भेदादन्यो विशेषः साक्षितश्च ज्ञायत इति ।

अयमाशयः । तन्तुपटमृद्घटादिबुद्धीनां घटादिबुद्धितो वैलक्षण्यस्यानुभवसिद्धत्वात्सम्बद्धकुण्डबदरादिबुद्धितो वैलक्षण्यानुभवेन सम्बन्धविषयत्वस्य तत्र प्रयोजकत्वासम्भवात् । घटतद्धर्मिकान्योन्याभावादिबुद्धेर्घटपटादि-बुद्धितोऽपि वैलक्षण्याभावापातेन स्वरूपप्रत्यासत्तिसंयोगान्यसम्बन्धविषयकत्वस्यापि तत्राप्रयोजकत्वेनाऽश्रया-श्रयिभावनियमरूपायुतसिद्धौ आश्रयाश्रयिभावमात्रस्य कुण्डबदरादिप्रतीतावपि भावेन नियमस्य च तन्तुपटादि-प्रतीतावप्यभावेनायुतसिद्धविषयकत्वस्यापि तत्राप्रयोजकत्वेन सम्बन्धनित्यत्वस्य सम्बन्ध्ययुतत्वस्य वा तत्रानु-स्फुरणेन समवायविषयकत्वस्यापि तत्राप्रयोजकत्वादभेदविषयत्वेनैव वैलक्षण्ये वाच्ये तत्रापि केवलाभेदविषयकत्वे समानाधिकरणव्यवहारजनकत्वासम्भवेनाधिकविषयत्वे वाच्ये भेदरूपाधिकविषयत्वे च पटो न तन्तुर् घटो न मृदित्यपि व्यवहारापत्त्या भेदाभेदविरोधपरिहारकस्यान्यस्याऽवश्यकत्वाच्च विशेषरूपाधिकविषयत्वमेवाऽ-वश्यकमिति तन्तुपटादिबुद्धेर्घटपटादिबुद्धितः साक्षिरूपवैलक्षण्यानुभव एव विशेषे प्रमाणमिति । दृष्टान्तेष्वपि विप्रतिपत्तिं परिहर्तुम् उदाहरणान्तरेण स्वसम्बन्धमुपपादयति- यथा पक्षी सर्वत्रेत्यादिना ॥

ननु गुणः रूपं यस्येति बहुव्रीहिणैव मत्वर्थलाभादिनिप्रत्ययवैयर्थ्यमित्यतो बहुव्रीहिमाश्रित्य मतुबर्थप्रत्ययप्रयोगे वैयर्थ्यदोषेऽपि कर्मधारयमाश्रित्य मतुबर्थप्रयोगे शब्दान्तरत्वान्न दोष इत्याशयेनाऽह- गुणरूपिण इति ॥ ननु तथाऽपि कर्मधारयान्मत्वर्थीयाद् बहुव्रीहिरेवेष्टो लघुत्वादिति न्यायाच्छब्दान्तराश्रयणेऽपि बहुव्रीहिविवक्षयाऽल्पेन शब्देनाभिमतार्थप्रतिपादनसम्भवे बह्वलाश्रयणं दोषः स्यादिति चेन्न । बहुव्रीह्यपेक्षया कर्मधारयमत्वर्थीये शब्दगौरवस्थले बह्वलाश्रयणस्य दोषत्वेऽपि शब्दसाम्ये तददोषत्वस्य टीकाकृदभिप्रेतत्वात् । अत एव टीकायां यद्विकारीत्यत्र कर्मधारयान्मत्वर्थीयमभ्युपगम्यानादिमदित्यत्र तदनङ्गीकारः । बहुव्रीहौ कर्मधारयमत्वर्थीये चार्थगौरवाप्रसङ्गेन शब्दगौरवस्यैव लाघवन्यायविरुद्धत्वात् । प्रकृते तदभावेनादोषत्वात् । लाघवन्यायानादरेण शब्दगौरवेऽपि न्यासादिगतकर्मधारयान्मत्वर्थीयप्रयोगाणां ‘एकगोपूर्वाट्ठञ् नित्यम्’ इति सूत्रे दुर्घटवृत्तिकृता दर्शितत्वाच्चेति सकलमकलङ्कमिति सम्प्रदायः ।

वस्तुतस्तु यदा कर्मधारयान्मत्वर्थीयः क्रियते तदा स्वपदार्थप्राधान्यमाश्रित्य कर्मधारयः कर्तव्यः । तेषामेव (पां.टि) च पदार्थानामन्यत्र गुणभावमाश्रित्य मत्वर्थीय उत्पद्यत इति प्रतिपत्तिगौरवम् । यदा च पूर्वमेवान्य-पदार्थप्राधान्यविवक्षा तदा वर्तिपदार्थानां गुणभाव आश्रीयत इति प्रतिपत्तिलाघवम् । कर्मधारयो मत्वर्थीयसहित एवान्यपदार्थस्य प्रतिपादक इति शब्दगौरवम् । बहुव्रीहिस्तु अन्यानपेक्ष एव तत्प्रतिपादक इति शब्दलाघवं च भवतीति न कर्मधारयान्मत्वर्थीयाश्रयणं युक्तम् । तथाऽपि अन्यपदार्थप्राधान्यविवक्षायां बहुव्रीहेरेव प्रसङ्गेन सर्वधनी सर्वबीजी सर्वकोशी नट इत्याद्यभियुक्तप्रयोगानुपपत्तिप्रसङ्गात् । तदुपपादनार्थं प्रवृत्तात् ‘सर्वादेः कर्मधारयादिनिः’ इति भाष्यकारीयवचनाल्लाघवानाश्रयणेन वाचनिकः कर्मधारयादिनिरित्यत्र तात्पर्यमिति । देशः सर्वत्रेत्यादेरर्थान्तरपरत्वेन भवदुक्तार्थकत्वाभावान्न स्वस्य स्वसम्बन्धे इदमुदाहरणमित्यभिप्रेत्य तस्यार्थान्तर-माशङ्कते- देशः सर्वत्रेति सप्तम्यर्थस्येति । सर्वत्रेति सप्तम्यर्थो हि आधारत्वम् । तच्च परमते नोपपद्यते । ‘आश्रितत्वं चान्यत्र नित्यद्रव्येभ्यः’ इति प्रशस्तदेवाचार्योक्त्याऽकाशादेरवृत्तित्वसिद्धेरिति भावः । अत एवेति ॥ बाधकाभावादेवेत्यर्थः । नित्यशब्दस्येति ॥ ‘सदातनं सत्यमिति नित्यमेवोच्यते बुधैः’ इत्यनु-व्याख्यानोक्तेरिति भावः । नोदाहृतश्रुत्यादिविरोध इति ॥ अतत्त्वावेदकत्वेन तस्याप्रामाण्यान्न निर्गुणत्वपक्षस्य तद्विरोध इति भावः । न हि मायामयेति ॥ ‘अचेतनासत्यायोग्यान्यनुपास्यान्यफलत्वविपर्ययाभ्याम्’ इति साङ्कर्षणसूत्राद् इति भावः । न तत्साम्यापत्तिरिति ॥ न तत्सर्वसाम्यापत्तिरित्यर्थः । अतो न परमं साम्यमुपैती-त्यादिश्रुतिविरोध इति भावः । इति यावदिति ॥ निर्दोषाशेषसद्गुणत्वस्यैव साध्यतया प्रस्तुतत्वादिति भावः।

लघुप्रभा

श्रुत्यन्तरेति महोपनिषदपेक्षया । अवयवावयविभावेनेति ॥ यथाऽऽह परोऽपि

‘वृक्षस्य स्वगतो भेदः पत्रमूलफलादिभिः ।

वृक्षान्तरात्सजातीयो विजातीयः शिलादितः ।

तथा सद्वस्तुनो भेदत्रयं प्राप्तं निषिध्यते ।

ऐक्यावधारणद्वैतप्रतिषेधैस्त्रिभिः क्रमात्’ इति ।

भिन्नमिति ॥ ‘विनञ्भ्यां नानाञौ नसह’ इति विनार्थे नाञो विधानात् । भिन्नाभिन्नमिति ॥ ‘इवोभये च सादृश्ये इति वाक्शब्दनिर्णये’ इत्यनुभाष्योक्तेः । मृत्यनन्तरमिति ॥ अनेन मृत्युशब्दो भावसाधन इत्युक्तम्भवति । मृत्युं यमं तत्स्वातन्त्र्यात् ताच्छब्द्यम् । अध इति- दुर्गपदस्वारस्यात् । ‘यथाऽपः प्रवतायन्ति’ इति अपां नीचैःप्रवणतास्वाभाव्यात् । विधावतीति ॥ तीव्रगमने सर्तेर्धावादेशः । धर्मानिति सम्बन्धितया प्रकृतधर्मिपरामर्शकोऽयमित्याह- तत इति ॥ तानन्विति ॥ दृष्टानन्वित्यर्थः । सविशेषणे हीतिन्यायेन विशेषणपरं तदित्याह- दर्शनानन्तरमिति ॥ कथमनेन निर्गुणत्वादिपक्षचतुष्टयनिरास इत्यतस्तदुपपादयति- यदीत्या-दिना ॥ तेनेति ॥ सविशेषणे हीति न्यायेनेत्यर्थः । ननु गुणगुणिनोरत्यन्ताभेदे कथं तच्छब्दापर्यायत्वादि-कम् । विशेषबलादिति चेत्तत्र प्रमाणाभावादित्यत आह- अनयैवेति ॥ प्रकृतदृष्टान्ते विप्रतिपन्नं प्रति तं दृष्टान्तेनोपपादयति- यथेत्यादिना ॥ सर्वत्रेत्यत्र त्रलो देशे विधानादित्यर्थः । अभेदादीनामिति ॥ ब्रह्मणाऽभेद इति स्वरूपब्रह्माभेदः प्रतीयत इत्यर्थः । कर्मधारयादिनिरिति ॥ ‘न कर्मधारयान्मत्वर्थीयः’ इति त्वनित्यम् । नञा निर्दिष्टत्वादिति भावः । तत्पदपरामर्शं दर्शयितुं शेषमाह- विशेषणेति ॥ नैयायिकः शङ्कते- देशस्सर्वत्रेति ॥ उपचरिता सप्तमीत्यत आह- बाधकाभावेनेति ॥ अविनाशीति ॥ ‘त्यष्टार्ध्रुवः’ इति सूत्रादिति भावः । पर्यायत्वादिति ॥ यथोक्तमनुभाष्ये ‘सदातनं सत्यमिति नित्यमेवोच्यते बुधैः’ इति । तस्येति ॥ सदातनशब्दस्येत्यर्थः । सदाशब्दात्कालवाचकाद्भवार्थे ट्युलि तुडागमेन च तस्य निष्पाद्यतेति भावः । परमतं निरसितुमनुवदति- मायावादिन इति ॥ ननु गुणमायामयत्ववादनिरासाय तत्सत्यत्वश्रुतिरेवोदा-हर्तव्या विरोधित्वात् । न तु गुणज्ञानस्य मोक्षसाधनताश्रुतिरसङ्गतेरित्यतो भावमाह- न हीति ॥ ननु ‘परमं साम्यमुपैति’ इति मुक्तस्य परमसाम्योक्तेर्निर्दोषाशेषसद्गुणत्वमतिव्याप्तमित्यत आह- मुक्तस्यापीति ॥ सर्वदेवे-श्वर इति ॥ निर्णीतञ्च सूत्रकारेण ‘अत एव चानन्याधिपतिः’ इति । उपक्रमोपसंहारैकरूप्याय व्याचश्व्े- निर्दोषेति ॥