०२ ब्रह्मतर्कप्रमाणबलाद्गुणगुणिनोर्विशेषाङ्गीकारसमर्थनम्

अभिन्नत्वमभेदश्च..

ब्रह्मतर्कप्रमाणवलाहुणगुणिनोर्विशेषाङ्गीकारसमर्थनम्

मूलम्

  • ‘अभिन्नत्वमभेदश्च यथा भेदविवर्जितम् ।

***व्यवहार्यं पृथक् च स्यादेवं सर्वे गुणा हरेः । ***

***अभेदाभिन्नयोर्भेदो यदि वा भेदभिन्नयोः । ***

***अनवस्थितिरेव स्यान्न विशेषणतामतिः । ***

*मूलसम्बन्धमज्ञात्वा, तस्मादेकमनन्तधा । ***

***व्यवहार्यं विशेषेण दुस्तर्कबलतो हरेः । ***

विशेषोऽपि स्वरूपं स स्वनिर्वाहकताऽस्य च ॥’ इति ब्रह्मतर्के ॥

तत्त्वमञ्जरी

अभिन्नत्वम् अभेदश्च अभेदधर्मविशिश्व्ं वस्तु अभेदधर्मश्चेत्युक्तद्वयं यथा परस्परं भेदविवर्जितं, तथाऽपि विशेषमात्रेणैव धर्मधर्मिरूपेण पृथग्व्यवहार्यं च स्यात् । एवं हरेर्गुणाश्च भेदवर्जिता अपि पृथग्व्यवहार्याः स्युः । विपक्षे दोषमाह- अभेदेति ॥ अथवा अभिन्नत्वम् अभेदधर्मविशिष्टत्वम् । अभेदधर्मस्य यथा धर्मिणः परस्परं च भेदविवर्जितम् । अभेदाभिन्नयोरिति सर्वेषां धर्मिणां गुणगुणिनां चोपलक्षणम् । भेदभिन्नादीनां भेदश्चेत् सम्बन्धापेक्षा तस्य सम्बन्धस्य सम्बन्धान्तरापेक्षयाऽनवस्थितिः । यः सम्बन्धः स्वसन्धिद्वारेणैव सर्वसम्बन्धानामनुग्राहकस् तं मूलसम्बन्धमज्ञात्वा अयमनयोः सम्बन्ध इति विशेषणतामतिर्न ज्ञायते । किन्तु कयोश्चित्सम्बन्ध इति सामान्यबुद्धिरेव । अथवा यदि भेदभिन्नयोर्भेदस् तर्हि तस्य भेदस्यापि भिन्नाद्धर्मिणो भेदान्तरं, तस्यापि तस्यापीत्यनवस्था । मूलसम्बन्धं प्रथमयोर्भेदभिन्नयोरेव सम्बन्धमज्ञात्वा अनयोरयं भेद इति विशेषणतामतिर्न स्यात् । कथमेकमेवानेकधा व्यवहार्यमित्यत आह- दुस्तर्केति ॥ तर्कयितुमशक्यं दुस्तर्कम् । विशेषविशेषिणोर्विशेषान्तरं पुनरप्येवमित्यनवस्था युष्मत्पक्षेऽपि; विशेषविशेषिणोः सम्बन्धापेक्षया चेत्यत आह- विशेषोऽपीति ॥ स विशेषोऽपि वस्तुस्वरूपमेव न तु भिन्नः । येन सम्बन्धापेक्षया अनवस्थितिः । तस्यापि स्वयमेव विशेष इति स्वनिर्वाहकता च । अस्य विशेषस्य । तस्मान्न भिन्नविशेषान्तरापेक्षयाऽनवस्थितिः ।

टीका

एतदेव न्यायशास्त्रवाक्येन द्रढयति- अभिन्नत्वमिति ॥ यथाऽद्वैतवादिनां मते जीव-ब्रह्मणोरभिन्नत्वमभेद इति पर्यायशब्दवाच्यं वस्तु ब्रह्मणो भेदवर्जितम् । चशब्देन गुणगुणिभेद-वादिनां मते यथा स भेदो भेदिभ्यां भेदवर्जितः, तथा भेदाभेदवादिमते यथा भेदाभेदौ भेदाभेदि-नोर्भेदवर्जिताविति समुच्चिनोति । चतुर्थपक्षोऽप्यत्रैवान्तर्भूतः । पृथग्व्यवहार्यं च स्यादिति ॥ विशेषशक्त्येति शेषः । यथा जीवब्रह्मणोरभिन्नत्वमिति, जीवब्रह्मणी अभिन्ने इत्यादि, यथा गुणगुणिनोर्भेदो, गुणगुणिनौ भिन्नाविति वा तथा गुणगुणिनोर्भेदाभेदौ, गुणगुणिनौ भिन्नाभिन्नाविति वा । एवं सर्वे गुणा हरेस्तेनाभिन्ना अपि विशेषशक्त्या सम्बन्धित्वादिना व्यवहार्याः । ननु अभेदो भेदो भेदाभेदौ च ब्रह्मादिना नाभिन्नाः, ततो न दृष्टान्ताः संमता इत्यत आह- अभेदेति ॥ यद्यभेदस्य अभिन्नस्य ब्रह्मणश्च भेदोऽङ्गीक्रियते, वाशब्दश् चार्थे, भेदस्य भिन्नस्य गुणादेश्च यदि भेदोऽभ्युपगम्यते, एवं भेदाभेदयोर्गुणगुणिनोश्च यदि भेदः स्वीक्रियते तदा भेदपरम्पराऽपातेन अनवस्थितिः स्यात् । एवशब्देन अनवस्थाया अपरिहार्यत्वं सूचयति । विशिष्ट-प्रतीतिसिद्ध्यर्थं हि भेदोऽङ्गीकार्यः । नचाप्रतीतो भेदस् तद्धेतुर्भवतीति तत्प्रतीतिरप्यङ्गीकार्या । न चाविविक्ततया तत्प्रतीतिरप्युपयोगिनीति भेदस्यापि विशिष्टप्रतीत्यङ्गीकारे कथं नानवस्थेति । भेदाभेदपरम्पराश्रयणेऽप्येवमनवस्थैव ।

एतदुक्तं भवति- सर्वैरपि वादिभिर् अनवस्थापरिहारार्थमन्ततः सविशेषाभेदोऽङ्गीकार्यः । ततो वरं भगवतस्तद्गुणानाञ्च सोऽङ्गीकर्तुमिति । गुणगुणिनोरत्यन्तभेदपक्षे दूषणान्तरमाह- नेति ॥ यदि गुणो गुणिनोऽत्यन्तभिन्नः स्यात्तदा मेरुर्मन्दरस्येव गुणो गुणिनो विशेषणतया न ज्ञायेते-त्यर्थः । सम्बन्धसद्भावान्नैवमिति चेत्, स सम्बन्धः प्रतीतो विशेषणतामतेर्मूलमप्रतीतो वा । आद्येऽपि सम्बन्धिविशेषणतया प्रतीतो वा स्वातन्त्र्येण प्रतीतो वा । आद्ये तत्रापि सम्बन्धान्तर-प्रतीत्यपेक्षायामनवस्था । द्वितीयेऽतिप्रसङ्ग एव । तृतीये दोषमाह- मूलसम्बन्धमज्ञात्वेति ॥ विशेषणता न ज्ञायत इति । संयोगादीनां हि ज्ञातानामेव विशिष्टप्रत्ययहेतुत्वं दृष्टं न सत्तामात्रेणेति भावः । यत एवं सर्वेषु पक्षेषु दोषस्तस्माद्भगवद्गुणानामभेद एव । विशेषेण तु नानाविधो व्यवहार इत्येवाङ्गीकार्यमित्युपसंहरति- तस्मादिति ॥ एकं गुणाद्यभिन्नं भगवत्स्वरूपम् । न केवलेन विशे-षेण । किं तर्हीत्यत आह- दुस्तर्केति ॥ हरेस्तर्कागोचरया शक्त्या चेत्यर्थः । ननु स विशेषो विशेषितो भिन्नोऽभिन्नो वा । आद्ये भेदानवस्था । द्वितीये विशेषविशेषिभावानुपपत्तिरित्यत आह- विशेषोऽपीति ॥ स्वरूपं विशेषिणः । तथाऽपि विशेषशक्त्या विशेषविशेषिभावोपपत्तिरिति भावः । तर्हि विशेषपरम्परयाऽनवस्थेत्यत आह- स्वनिर्वाहकतेति ॥

भावबोधः

पर्यायशब्दवाच्यं वस्त्विति ॥ तथा चाभिन्नत्वमभेद इति पुनरुक्तिः । अभेदस्यान्तेऽभिहितत्वात् तदपेक्षया भेदविवर्जित इति पुंलिङ्गत्वं च भवेदिति शङ्का निराकृता भवतीति भावः । चतुर्थपक्षोऽपीति ॥ स्वरूपभूतानन्दादीनामैक्यसमानयोगक्षेमत्वादानन्दादिभेदस्य तार्किकाङ्गीकृतगुणगुणिभेदसमानयोगक्षेमत्वा-दिति भावः । अपरिहार्यत्वमेव ज्ञप्तिप्रतिबन्धकत्वोपपादनेनोपपादयति- विशिष्टप्रतीतिसिद्ध्यर्थं हीति ॥ न ज्ञायेतेत्यर्थ इति ॥ अनेन स्यादित्यस्यानुवृत्तिरित्युक्तं भवति ।

मतत्रये अभेदादेरभेदि प्रभृतिना भेदराहित्येऽपि पृथग्व्यवहर्तव्यतोक्ता । तथाऽऽनन्दादयो द्विविधा

भावदीपः

(रा.टि.)

इति चतुर्थपादे । तथा कुतो नोक्तमित्यत आह- चतुर्थपक्षोऽपीति ॥ स्वरूपभूता आनन्दादय इति पक्षे मायिमते । ऐक्यस्य वाऽऽनन्दिना भेदराहित्येऽपि पृथग्व्यवहर्तव्यता, भिन्नाश्चेति पक्षे भेदिभिस्सह भेदस्य भेदराहित्येऽपि पृथग्व्यवहर्तव्यतेत्येवं पूर्वोक्ताद्यपक्षद्वयेऽन्तर्भवतीति भेदाभेदरूपतृतीयपक्ष इवोपपादनं ध्येयमिति तृतीयपक्ष एवान्तर्भूत इति वार्थो ध्येयः । दृष्टान्तत्रये पृथग्व्यवहारप्रदर्शनपूर्वं दार्ष्टान्तिके तथा व्यवहारं व्यनक्ति- यथा जीवेत्यादिना ॥ अनवस्थाया अपरिहार्यत्वं व्यनक्ति- विशिष्टप्रतीतीति ॥ जीवब्रह्मणोरभिन्नत्वं जीवब्रह्मणी अभिन्ने इत्यादिप्राक्प्रदर्शितविशिष्टप्रतीतिसिद्ध्यर्थमित्यर्थः । भेदोऽङ्गीकार्य इति ॥ विशेषणविशेष्य-भूतयोरिति योज्यम् । तद्धेतुर् विशिष्टप्रतीतिहेतुः । न चाविविक्ततयेति ॥ निर्विकल्पकरूपं तज्ज्ञानमित्यर्थः। विशिष्टप्रतीत्यङ्गीकार इति ॥ विशेषणतया विशेष्यतया वा प्रतीत्यङ्गीकार इत्यर्थः । विपक्षे बाधकोक्त्या किं लब्धमित्यतो विपर्यये पर्यवसानमुखेनाभिमतसिद्धिमाह- एतदुक्तं भवतीति ॥ स्वातन्त्र्येणेति ॥ विशेषणत्वेन विशेष्यत्वेन वा सम्बन्धिस्पर्शमन्तरेणेत्यर्थः । अतिप्रसङ्ग एवेति ॥ घटरूपसम्बन्धा इति ज्ञानेनापि विशिष्टधी-प्रसङ्ग इत्यर्थः ॥

वाक्यार्थदीपिका

(श्री.टि)

न्यायशास्त्रवाक्येनेति ॥ ब्रह्मतर्कवाक्येनेत्यर्थः । ‘ब्रह्मतर्कस्तर्कशास्त्रं विष्णुना यत्समीरितम्’ इति वचनादिति द्रष्टव्यम् । ननु ‘परवल्लिङ्गं द्वन्द्वतत्पुरुषयोः’ इति सूत्रादभेदश्चेत्यन्तेऽभिहितत्वात्तदपेक्षया भेदवर्जित इति वक्तव्यत्वेन भेदवर्जितमिति नपुंसकलिङ्गानुपपत्तिरित्यतोऽध्याहारेण योजयति- इति पर्यायशब्दवाच्यं वस्त्विति ॥ भेदाभेदिनोरिति ॥ सकाशादित्यर्थः । चतुर्थपक्षोऽपीति ॥ स्वरूपभूतानन्दादीनामभेद-समानयोगक्षेमत्वाद् आनन्दादिभेदस्य च तार्किकाङ्गीकृतगुणगुणिभेदसमानयोगक्षेमत्वादिति भावः । ब्रह्मादि-नेति ॥ अभेदो ब्रह्मणा, भेदश्च भेदिनोः, भेदाभेदौ च भेदाभेदिनोर्नाभिन्नाः । किन्तु भिन्ना एवेत्यर्थः । चशब्द-समुच्चेयमेव दर्शयति- भेदस्येत्यादिना ॥ भेदपरम्पराऽऽपातेनेति ॥ स भेदः किं भेदिभ्यां भिन्नोऽभिन्नो वेत्यादिपरम्परयेत्यर्थः । अपरिहार्यत्वमेव ज्ञप्तिप्रतिबन्धकत्वोपपादनेनोपपादयति- विशिष्टप्रतीतिसिद्ध्यर्थ-मित्यादिना ॥ जीवब्रह्मणी अभिन्ने इत्यादिजीवब्रह्मादिविशेष्यकाभेदादिविशेषणकप्रतीतिसिद्ध्यर्थमित्यर्थः। भेदोऽङ्गीकार्य इति ॥ गुणगुणिनोरिति शेषः । अन्यथा स्वस्मिन्नपि स्वविशिष्टप्रत्ययप्रसङ्ग इति भावः । अप्रतीत इति ॥ स्वरूपसद्भेद इत्यर्थः । तद्धेतुरिति ॥ विशिष्टप्रत्ययहेतुरित्यर्थः । अन्यथा दण्डपुरुष-योरभेदभ्रमदशायामपि दण्डीति विशिष्टप्रत्ययप्रसङ्गः । स्वरूपसद्भेदस्य तत्रापि सत्त्वादिति भावः । तत्प्रतीतिर् भेदप्रतीतिः । नन्वङ्गीकृता भेदप्रतीतिः, किं तत इत्यत आह- न चेति ॥ अविविक्ततयेति ॥ इतरसङ्कीर्णतये-त्यर्थः । तत्प्रतीतिर् भेदप्रतीतिः । उपयोगिनीति ॥ जीवब्रह्मादिविशेष्यकाभेदादिविशेषणकविशिष्टप्रतीत्युप-योगिनीत्यर्थः । तथात्वे सर्वमिति सर्वत्वादिना रूपेण दण्डप्रतीतौ सत्यां दण्डीति विशिष्टप्रत्ययप्रसङ्गादिति भावः । भेदस्यापीत्यादि ॥ जीवब्रह्मादेरभेदादेश्च भेदाप्रतीतौ विशिष्टप्रत्ययायोगाद्भेदप्रतीतिरङ्गीकार्या । इतरसङ्कीर्णभेदप्रतीतेर्विशिष्टप्रत्ययजनकत्वायोगादितरासङ्कीर्णतया जीवब्रह्माभेदानां भेद इत्यादिजीवब्रह्मा-(श्री.टि.)भेदविशेषणकभेदविशेष्यकविशिष्टप्रतीतिरङ्गीकार्या । केवलं भेद इत्येव प्रतीतेरभावात् । इयं च विशिष्ट-प्रतीतिर्भेदस्य गुणगुणिनोश्च भेदाभावे न सम्भवतीति भेदोऽङ्गीकार्यः । न चाप्रतीतो भेदस्तद्धेतुर्भवतीति तस्यापि पुनर्विशिष्टप्रतीतिरङ्गीकार्येत्येवमादिरूपेणानवस्थेत्यर्थः । एवमनवस्थैवेति ॥ अभेदस्याभिन्नस्य भेदस्य भिन्नस्य गुणादेर्भेदाभेदयोर्गुणगुणिनोश्च यदि भेदाभेदावङ्गीक्रियेते तदा भेदाभेदयोर्भेदाभेदिभ्यां गुणगुणिभ्यां च पुनर्भेदा-भेदोऽङ्गीकार्यः । पुनस्तत्राप्येवमिति भेदाभेदपरम्परयाऽनवस्थैवेत्यर्थः । सविशेषाभेद इति ॥ भेदस्य गुणगुणिभ्यां भेदाभेदयोश्च भेदाभेदिभ्यामभेदमङ्गीकृत्य विशिष्टप्रत्ययरूपभेदकार्यनिर्वाहाय विशेषोऽङ्गीकार्य इत्यर्थः । न विशेषणतामतिरित्यत्र स्यादित्यनुवर्तत इत्यभिप्रेत्य तदभिप्राय उक्तः- न ज्ञायेतेति ॥ मेरुमन्दरयोः सम्बन्धा-भावाद् गुणगुणिनोश्च समवायरूपसम्बन्धसद्भावेन तत्साम्याभावाद्युक्तं गुणिनो विशेषणतया गुणस्य ज्ञान-मित्याशङ्कते- सम्बन्धेति ॥ स सम्बन्ध इति ॥ गुणस्य गुणिनं प्रति विशेषणतामतिमूलभूतः सम्बन्ध इत्यर्थः। सम्बन्धीति ॥ गुणगुणिरूपसम्बन्धीत्यर्थः । प्रतीतो वेत्यादौ विशेषणतामतेर्मूलमित्यनुवर्तते । स्वातन्त्र्ये-णेति ॥ गुणगुणिरूपसम्बन्ध्यविशेषणतयेत्यर्थः । तत्रापीति ॥ गुणगुणिरूपसम्बन्धिविशेषणतया प्रतीयमाने समवायरूपसम्बन्धेऽपीत्यर्थः । अनवस्थेति ॥ यदि गुणगुणिरूपसम्बन्धिविशेषणतया समवायरूपः सम्बन्धः प्रतीयत इत्युच्यते, तदा समवायसम्बन्धस्य गुणगुणिनोश्च पुनस्सम्बन्धान्तरं प्रतीयत इत्यङ्गीकार्यम् । अन्यथा मेरुमन्दरस्येव गुणगुणिनोस्समवाय इति गुणगुणिनौ प्रति समवायसम्बन्धस्य विशेषणतया प्रतीत्यनुपपत्तेः । अतो गुणगुणिनोस्समवायस्य च प्रतीयमानं सम्बन्धान्तरमपि गुणगुणिसमवायानां सम्बन्ध इति गुणगुणि-समवायरूपसम्बन्धिविशेषणत्वेनैव प्रतीयत इत्यङ्गीकार्यम् । तत्रापि मेरुमन्दरवद्विशेषणविशेष्यभावेन प्रतीत्यनुप-पत्तिपरिहाराय गुणगुणिसमवायानां सम्बन्धान्तरस्य च पुनः सम्बन्धान्तरप्रतीत्यपेक्षयाऽनवस्था स्यादित्यर्थः । अतिप्रसङ्ग एवेति ॥ गुणगुणिनोर्विशेषणविशेष्यभावप्रतीतिमूलभूतः सम्बन्धो यदि स्वातन्त्र्येण गुणगुणि-रूपसम्बन्धिविशेषणत्वेनाप्रतीत एव विशेषणतामतिमूलं स्यात् तदीयत्वेनाप्रतीतोऽपि तद्विशेषणतामतिमूलं स्यादिति यावत्, तथात्वे मेरुमन्दरसम्बन्धित्वेनाप्रतीतस्य घटस्यापि मेरोर्मन्दरं प्रत्यपि विशेषणतामतिमूलत्वं स्यादित्यतिप्रसङ्ग एवेत्यर्थः ।

तृतीय इति ॥ अप्रतीतस्यैव सम्बन्धस्य गुणस्य गुणिनं प्रति विशेषणतामतिमूलत्वपक्ष इत्यर्थः । मूलसम्बन्ध-मज्ञात्वेत्यनन्तरं न विशेषणतामतिरित्यनुवर्तत इति सूचयन्नेव प्रतीकं गृह्णाति- मूलसम्बन्धमित्यादिना ॥ विशेषणतामतिमूलभूतं सम्बन्धमित्यर्थः । अज्ञातस्य सम्बन्धस्य कुतो न विशेषणप्रत्ययहेतुत्वमित्यतस्त-दुपपादयति- संयोगादीनां हीति ॥ ज्ञातानामेवेत्येवकारव्यावर्त्यं दर्शयति- न सत्तामात्रेणेति ॥ तथात्वे पिहितदण्डेऽपि देवदत्ते दण्डीति विशिष्टप्रत्ययः स्यात् । स्वरूपसतो दण्डसंयोगस्य तत्रापि सत्त्वादिति भावः । तथा च विशिष्टप्रत्ययमूलभूतसम्बन्धज्ञानेऽङ्गीकार्ये उक्तरीत्याऽनवस्थेति हृदयम् । नानाविध इति ॥ आनन्दं ब्रह्मण इत्यादिसम्बन्धव्यवहारः, गुणेषु बहुवचनव्यवहारो, गुणिन्येकवचनव्यवहारः, शब्दानामपर्यायत्वमिति (श्री.टि) नानाविधो व्यवहार इत्यर्थः । मूले व्यवहार्यमित्यस्य नानाविधव्यवहारविषय इत्यर्थः । दुस्तर्केत्यत्र दुरित्युपसर्गार्थमाह- तर्कागोचरयेति ॥ बलवत इत्यस्यार्थः- शक्त्येति ॥ स विशेष इति ॥ येन नानाविध-व्यवहारो भवति स विशेष इत्यर्थः । विशेषितो गुण्यादेः । भेदानवस्थेति ॥ भेदः किं भेदिभ्यां भिन्नोऽभिन्नो वेत्येवं भेदपरम्परयाऽनवस्थेत्यर्थः । तर्हि विशेषविशेषिभावानुपपत्तिरित्यत आह- तथाऽपीति ॥ विशेष-परम्परयेति ॥ विशेषविशेषिणोर्विशेषविशेषिभावघटकविशेषान्तराङ्गीकारे तस्यापि विशेषितोऽभिन्नत्वे विशेषविशेषिभावानुपपत्तेस्तत्परिहाराय पुनर्विशेषान्तराङ्गीकारे विशेषपरम्परयाऽनस्थेत्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

न्यायशास्त्रवाक्येनेति ॥ ब्रह्मतर्कवाक्येनेत्यर्थः । चतुर्थपक्षोऽपीति ॥ स्वरूपभूतानन्दादीना-मैक्यसमानयोगक्षेमत्वादानन्दादिभेदस्य तार्किकाङ्गीकृतगुणगुणिभावसमानयोगक्षेमत्वादिति भावः । पृथग्व्यव-हार्यत्वमेव शृृङ्गिग्राहिकतयोपदर्शयति- यथेति ॥ सम्बन्धित्वादिनेत्यत्राप्यादिपदेन बहुत्वादेः परिग्रहः । ब्रह्मादिनेत्यादिपदेन भेदिनोर्भेदाभेदिनोः परिग्रहः । गुणादेश्चेत्यादिपदेन गुणिनः परिग्रहः । ननूत्पत्त्यप्रतिबन्ध-कत्वान्नेयमनवस्था दूषणमित्यत उत्पत्तिज्ञप्त्यन्यतरप्रतिबन्धकत्वेनैव तस्या दूषणत्वेनोत्पत्तिमात्रप्रतिबन्धकत्वेन दूषणत्वाभावात्प्रकृते उत्पत्त्यप्रतिबन्धकत्वेऽपि ज्ञप्तिप्रतिबन्धकत्वाद्दूषणत्वं स्यादेवेति भावेन कथं ज्ञप्तिप्रति-बन्धकत्वमपीत्यतस् तदुपपादयति- विशिष्टप्रतीतिसिद्ध्यर्थं हीति ॥ न विशेषणतामतिरिति न वस्तु-स्थितिकथनमात्रं किन्तु तर्कपरमेवेतिभावेनाऽह- न ज्ञायेतेत्यर्थ इति ॥ अनेन स्यादित्यस्यात्रानुवृत्तिरित्युक्तं भवति । नैवमिति ॥ मेरुमन्दरादिसाम्यमित्यर्थः । अतिप्रसङ्ग एवेति ॥ मेरुमन्दरयोरपि विशेषणविशेष्य-भावेन प्रतीतिप्रसङ्ग इत्यर्थः । साकाङ्क्षत्वप्रयुक्तवाक्याभासतापरिहारायापेक्षितं शेषं पूरयति- विशेषणता न ज्ञायत इति ॥ नन्वज्ञातस्यापि सम्बन्धस्य सत्तामात्रेण विशेषणताप्रत्ययनिर्वाहकत्वं किं न स्यादित्यतः विमतः सम्बन्धः न सत्तामात्रेण विशेषणतामतिनिर्वाहकः सम्बन्धत्वात्संयोगादिवदित्यनुमानमभिप्रेत्य दृष्टान्ते साध्यवैकल्यं परिहरति- संयोगादीनामिति ॥ विशेषण इति ॥ ततश्च न भेदपरम्परयाऽनवस्थेति भावः । ननु चैवमपि विशेषविशेषिभावानुपपत्तिरित्येतत्पक्षोक्तदोषः स्यादित्यतोऽत्रापि विशेषेणैव तदुपपत्तेर्न तत्प्रसङ्गोऽ-पीत्याह- तथाऽपीति ॥ तर्हीति ॥ विशेषेऽपि विशेषाङ्गीकार इत्यर्थः ।

लघुप्रभा

(व्या.टि.)

एतदेवेति ॥ सविशेषाभेदमतमित्यर्थः । द्रढयतीति ॥ परमते बाधकोपन्यासेनेति शेषः । विवर्जित-मिति नपुंसकलिङ्गानुगुण्याय विशेष्यं पूरयति- वस्त्विति ॥ भेदवादिनामिति ॥ नैयायिकानामित्यर्थः । भेदाभेदेति ॥ यादवप्रकाशीयेत्यर्थः । इतीति चशब्देनेति पूर्वेणान्वयः । चतुर्थेति ॥ आनन्दादिद्वैविध्यपक्ष इत्यर्थः । अत्रैवेति ॥ गुणगुणिभेदपक्ष इत्यर्थः । विशेषेति ॥ भेदप्रतिनिधिभूतेत्यर्थः । सम्बन्धित्वादि-नेति ॥ आदिपदेन विशेषणविशेष्यभावोऽपि ग्राह्यः । विपक्षे बाधकं वक्तुमुपक्षिपति- नन्विति ॥ पक्षत्रयं क्रमेणानुवदति- यद्यभेदस्येत्यादिना ॥ अपरिहार्यत्वमिति ॥ स्यादेवेति क्रियान्वितेनाप्येवकारेण धूमवान् वह्निमान् भवत्येवेत्यत्रेव नियमलाभादित्यर्थः । विशिष्टेति ॥ गुणगुणिनोरित्यर्थः । न चेति ॥ भिन्नतया (व्या.टि.) प्रतीतस्यैव विशेषणत्वादित्यर्थः । अविविक्ततयेति ॥ धर्मिप्रतियोग्यविशेषितत्वेन स्वरूपेणैवे-त्यर्थः । अत इति ॥ गुणादिषु भेदादेर्विशिष्टप्रतीत्यर्थमित्यर्थः । अत्यन्तभेदेति ॥ नैयायिकपक्ष इत्यर्थः । भगवद्गुणानां गुणिना सविशेषाभेदं सिषाधयिषुर्गुणमात्रेऽपि विपक्षे बाधकप्रसङ्गेन तं साधयति- यदीत्या-दिना ॥ विशेषणतयेति ॥ अपृथक्सिद्धधर्मतयेत्यर्थः । यथाश्रुतार्थत्वे दण्डादौ व्यभिचारप्रसङ्गात् । तर्कमूलव्याप्तौ सम्बन्धाभावमुपाधिमभिप्रेत्याऽशङ्कते- सम्बन्धेति ॥ समवाय इत्यर्थः । सम्बन्धिविशेषणतयेति ॥ गुणो गुणिनि समवेत इत्येवंरूपेणेत्यर्थः । स्वातन्त्र्येणेति ॥ प्रकृतसम्बन्ध्यसम्बद्धतयेत्यर्थः । तत्रापीति ॥ समवेत-मिति गुणादिविशेषणतया समवायप्रतीतावपीत्यर्थः । प्रतीत्यपेक्षायामिति ॥ एकसम्बन्धिविशेषणतया प्रतीत-स्यैव सम्बन्धस्य सम्बन्ध्यन्तरनिरूपितसम्बन्धिविशेषणताप्रतीतिहेतुत्वादिति भावः । अनवस्थेति ॥ सम्बन्ध-प्रतीतिविशेषणताप्रतीतिपरम्पराऽपर्यवसानमित्यर्थः । द्वितीय इति ॥ अन्यासम्बन्धितया प्रतीतस्यापि सम्बन्धत्व इत्यर्थः । अतिप्रसङ्ग इति ॥ संयोगस्यापि सम्बन्धत्वापत्तिरित्यर्थः । तृतीय इति ॥ गुणगुणिसम्बन्धोऽप्रतीत एव गुणविशेषणतामतेर्मूलमिति तृतीय इत्यर्थः । दोषमिति ॥ अनुमानविरोधमित्यर्थः । प्रयोगप्रकारस्तु गुणगुणिसम्बन्धः नाज्ञातहेतुः सम्बन्धत्वात्संयोगादिवद् इति । न च दृष्टान्तोऽसम्मत इत्यत आह- संयोगा-दीनामिति ॥ ज्ञातानामेवेति संसर्गज्ञानमात्रहेतुत्वं साधयति । आदिपदेन स्वस्वामिभावपरिग्रहः । तस्यापि धनीत्यादिविशिष्टबुद्धिनियामकत्वादिति हृदयम् ।

ननु ‘विशिष्टज्ञाने विशेषणज्ञानं कारणम् । विशेष्ये इन्द्रियसन्निकर्षः । तदुभयासंसर्गाग्रहः’ इति नैयायिकोक्त-कारणत्रितयादेव विशिष्टबुद्ध्युपपत्तौ किं संसर्गग्रहकारणतयेति चेत्, यदि दण्डादिज्ञाने सति दण्ड्यादिज्ञान-दर्शनात्तत्कारणत्वं मन्यसे तर्ह्युपनीतभानानुमित्यादौ च देवदत्तादिविशेष्यज्ञानपूर्वकतादर्शनात्संयुक्तत्वादिना दण्डादिज्ञाने सति दण्ड्यादिविशिष्टबुद्धेर्दर्शनात्, विशेष्यस्य संयोगादेश्च ज्ञानमपि विशिष्टबुद्धिकारणं किन्न स्यात् । न चादृष्टचरसन्निकर्षस्थले पूर्वाज्ञातस्यापि भानेन व्यभिचारान्न कारणत्वम् । तर्हि प्रामाण्यज्ञानादौ पूर्वाज्ञातस्यैव प्रामाण्यादेः प्रकारत्वाद्विशेषणज्ञानकारणत्वमपि त्यज्यताम् । वस्तुतो न विशिष्टप्रत्ययत्वावच्छेदेन संसर्गग्रहो हेतुः । पूर्वाज्ञातस्यैव संसर्गस्य वाक्यार्थत्वात् । अज्ञातस्यैवाध्यक्षीकरणाच्च । तथाऽपि विशेष्यताप्रत्यये तत्कारणत्वमानुभाविकम् । अत एव तलः प्रयोगः । विशिश्व्ेति ॥ विशेषणविशिश्व्ेत्यर्थः । न हि कुसमयेनानु-भवस्त्याज्य इत्याह-दृष्टमिति ॥ न च विशिष्टप्रत्यये विशेषणस्य स्वरूपेणैव भानं न विशेषणतयेति वाच्यम् । विशिष्टप्रतीतावपि विशेषणविशेष्ययोः स्वरूपेण भाने निर्विकल्पकाभेदप्रसङ्गः । दण्डी पुरुष इतिवत्पुरुषी दण्ड इति प्रत्ययप्रसङ्गश्च । दण्डीति विशिष्टबुद्धेर् दण्डपुरुषसम्बन्धा इति समूहालम्बनाभेदप्रसङ्गश्च स्यात् । त्रितयस्य तत्रापि विषयीकरणात् । न च समूहालम्बने सम्बन्धः स्वातन्त्र्येण प्रतीयते, विशिष्टमतौ तु दण्डादिनिरूपिततयेति वाच्यम् । तर्ह्यङ्गीकृतं त्वयैव विशिष्टबुद्धौ सम्बन्धनिरूपकतया विशेषणज्ञानमिति । सैव विशेषणतामतिरिति कृतं विवादेन ।

(व्या.टि.) एतेन विशिष्टबुद्धौ सम्बन्धस्य स्वरूपेण भानमिति प्राचीनमतमपास्तम् । अत एव नवीनाः ‘भासमानवैशिष्ट्यप्रतियोगित्वं प्रकारत्वम्, भासमानत्वं प्रतियोगित्वविशेषणम्’ इति चाऽहुः । शाब्दविशिष्टबुद्धौ शब्दशक्त्यैव भासनाच्च । मतुबादीनां तत्रैव व्युत्पत्तेः । तथैव हि पाणिनिरप्यभाणीत् ‘तदस्यास्त्यस्मिन्निति मतुप्’ इति इतिकरणेन । आचार्यसूर्योऽपि ‘स्वातन्त्र्यं तद्गतत्वञ्च शब्दवृत्तेर्हि कारणम्’ इति । ‘हरौ तद्गत्वबुद्ध्योक्ता दोषकारिणः’ इति च । एवं सामान्यतो गुणगुणिभेदनिरासेनाभेदं प्रसाध्य प्रकृतमुपसंहरति- तस्मादिति ॥ अभेद एवेत्यतः परमन्यत्र संहिते भेदाभेदौ । यावद्वस्तुन्यभेद एवेति बहिरेवोपस्कर्तव्यम् । यथोक्तमनुव्याख्याने ‘धर्मा उभयरूपकाः । भावे त एव चोच्छेदात्तदन्ये च समस्तशः’ इति । दुस्तर्केति खलन्तं बलविशेषणमित्याह- तर्कागोचरस्येति ॥ स्वनिर्वाहकतेति ॥ विशेषस्वरूपस्यैव गुणगुणिभावनिर्वाहकस्य स्वकीयविशेषिभाव-निर्वाहकतया विशेषान्तरानपेक्षणान्नानवस्थेति भावः ।