०३ यस्मात्परमितिश्रुतेः प्रपञ्चाभावपरत्वस्य राहित्योपपादनम्

यस्मात्परं नापरमस्ति किञ्चित्’ ..

यस्मात्परमितिश्रुतेः प्रपञ्चाभावपरत्वस्य राहित्योपपादनम्

मूलम्

- ‘यस्मात्परं नापरमस्ति किञ्चित्’ इत्यत्राप्यपरमस्तीत्येवार्थः । अन्यथा ‘तेनेदं पूर्णं ततो यदुत्तरतरं तदरूपमनामयम्’ इति वाक्यशेषविरोधात् । तेनेदमित्युक्तमेव तत इति परामृश्यते । अन्यथा ‘यस्मात्परं न’ इत्युक्तिविरोधात् ॥

तत्त्वमञ्जरी

अत्र परापरनिषेधात् कथं सर्वोत्तमत्वमित्यत आह- यस्मादिति ॥ यस्मात् परं विशिष्टं नास्ति । अपरं किञ्चिदस्ति । अधमं तदपेक्षयात्यल्पं जगदस्ति । अन्यथा ततोऽधमस्य विश्वस्या-भावे । ‘तेन इदं पूर्णं पुरुषेण सर्वम्’इत्यत्र इदमित्युक्तं जगदेव हि तत इति परामृश्यते । ननु पुरुषेण सर्वमिति पुरुषशब्दोक्तो विष्णुस्तत इति परामृश्यते । पुरुषस्य रूपवत्वाद् अरूपत्वोक्त्य- सम्भवादित्यत आह- अन्यथेति ॥ यस्मात्परं नेत्यन्योत्तमतया यच्छब्दोक्तः पुरुषो हि तेनेति परामृश्यते । अरूपं प्राकृतरूपरहितम् ।

टीका

ननु ‘यस्मात्परं नापरमस्ति किञ्चित् । यस्मान्नाणीयो न ज्यायोऽस्ति किञ्चित् । वृक्ष इव स्तब्धो दिवि तिष्ठत्येकस्तेनेदं पूर्णं पुरुषेण सर्वम्’ इत्यस्मिन्मन्त्रे परमात्मनोऽन्यस्य सर्वस्या-सत्त्वमुच्यते । तत्कथं तस्य सर्वोत्तमत्वमुपपद्यते, उत्तमत्वस्य प्रतियोगिसत्तासापेक्षत्वादित्यत आह- यस्मादिति ॥ अत्रापि श्रुतौ, यस्मात्परमात्मनः परम् उत्कृष्टं वस्तु नास्ति, अपरम् अपकृष्टं त्वस्ति, तच्च किञ्चिदल्पमित्येष एवार्थः प्रतिपाद्यते । न तु परापरयोरुभयोरपि प्रतिषेधः । ‘यस्मान्नाणीयो न ज्यायोऽस्ति’ इतिवदुभयनिषेधोऽर्थः किं न स्यादित्यत आह- अन्यथेति ॥ यदि परमपुरुषातिरिक्तं किमपि नास्तीत्यस्यार्थः स्यात्तदा तेनेदं पूर्णमिति वाक्यशेषो विरुद्ध्येत । वाक्यशेषे हीदमिति व्यतिरिक्तसद्भावोऽवगम्यते । इदंशब्दार्थस्यासत्त्वे किं तेन पूर्णं स्यात् । तथा, ‘ततः प्रपञ्चाद् यद् ब्रह्म उत्तरतरम् उत्कृष्टतरम्’ इति वाक्यशेषोऽपि विरुद्ध्येत । तत्र तत इति प्रपञ्चस्यावधित्वेनोक्तस्य सत्यताप्रतीतेः । यदि तदेव न स्यात्तदा कुतो ब्रह्मोत्तरतरं स्यात् । यस्मान्नाणीय इत्यत्र तु विरोधाभावान्नञो द्विः प्रयोगाच्चोभयनिषेधोऽङ्गीक्रियते ।

ननु ततो यदुत्तरतरमित्यत्र ततः पुरुषाद् यदन्यद् उत्तरतरमित्युच्यते । अतः प्रपञ्चमिथ्या-त्वाङ्गीकारेऽपि न वाक्यशेषविरोध इत्यत आह- तेनेदमिति ॥ इदंशब्देन उक्तं विश्वमेव तत इति परामृश्यते । नतु तेनेत्युक्तः परमपुरुषः । नन्वत्र प्रधानतया प्रकृतः परमपुरुष एव परामर्शमर्हति, नाप्रधानतया प्रकृतं विश्वमिति चेत्सत्यम् । तथाऽपि पूर्ववाक्यविरोधादेवमङ्गीकार्यमित्याह- अन्यथा यस्मादिति ॥ यस्मात्परं नेति पुरुषादुत्कृष्टं निषिद्ध्य ततः पुरुषादन्यदुत्कृष्टतरमिति वचने श्रुतेः पूर्वापरविरोधः स्यात् ।

एतेन ततो यदुत्तरतरमिति परमपुरुषादुत्कृष्टतरस्यान्यस्य श्रवणात् कथं तस्य सर्वोत्तमत्वमिति शङ्काऽपि निरस्ता ॥

भावबोधः

एतेनेति ॥ अनेन तेनेदमित्युक्तमेवेत्यादिवाक्यद्वयमुक्तार्थत्वेनैवाऽवर्तितमिति ज्ञातव्यम् ।

भावदीपः

अस्मिन्मन्त्र इति ॥ तैत्तिरीयशाखासमानशाखास्थमन्त्र इत्यर्थः । अन्यथा ततो यदुत्तरमिति वाक्यशेषोक्त्ययुक्तेः । एतेनेति ॥ तत इत्यस्य सोपपत्तिकं प्रपञ्चार्थत्वकथनेनेत्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

उभयनिषेध इति ॥ परमपरं च नेत्युभयनिषेध इत्यर्थः । इदंशब्दार्थस्यासत्त्व इति ॥ इदंशब्दार्थभूतस्य सर्वस्य जगतोऽसत्त्व इत्यर्थः । तदेव न स्यादिति ॥ तच्छब्दोक्तः प्रपञ्च एव न स्यादित्यर्थः । कुतःकस्मात् । यस्मान्नाणीय इति दृष्टान्तवाक्याद्वैषम्यं दर्शयति- विरोधाभावादिति ॥ वाक्यशेषविरोधाभावादित्यर्थः । ततः पुरुषादिति ॥ तथा च तत इत्यनेनावधितया प्रपञ्चो न परामृश्यत इति भावः । इदंशब्देनेति ॥ तेनेदं पूर्णमिति वाक्ये इदंशब्देनोक्तं विश्वमेवेत्यर्थः । प्रधानतया प्रकृत इति ॥ तेनेदमिति वाक्ये कर्तृवाचिना तेनेति पदेन प्रधानतया कर्तृत्वेन प्रकृत इत्यर्थः । अप्रधानतयेति ॥ भगवत्कर्तृकपूर्तिकर्मत्वेनाप्रधानतयेदंशब्देन प्रकृतं विश्वमित्यर्थः । एवमङ्गीकार्यमिति ॥ तेनेदमिति वाक्ये इदंशब्देनाप्रधानतया प्रकृतविश्वमेव ततो यदुत्तरतरमित्यत्र तत इत्यनेन परामृश्यते । न तु तेनेति प्रधानतया प्रकृतः परमात्मेत्यङ्गीकार्यमित्याहेत्यर्थः । एतेनेति ॥ तत इति तच्छब्दस्य प्रपञ्चपरत्वस्य परमपुरुषपरत्वे यस्मात्परं नेति पूर्वापरवाक्यविरोधस्य चोपपादनेनेत्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

उभयनिषेध इति ॥ काकाक्षिगोलकन्यायेन नञ उभयत्रान्वयादिति भावः । कथं वाक्यशेषविरोध इत्यतस्तमेवोपपादयति- वाक्यशेषे हीति ॥ प्रकारान्तरेण तमेवोपपादयति-तथेति ॥ विरोधाभावादिति ॥ वाक्यशेषविरोधाभावादित्यर्थः । काकाक्षिगोलकन्यायाश्रयणन्त्वगतिकागतित्वादयुक्तमेवेति भावः । द्वितीयं (पां.टि.) वाक्यशेषविरोधमाक्षिपति- नन्विति ॥ परामर्शमर्हतीति ॥ प्रकृतपरामर्शकेन तत इत्यनेनेति शेषः । पूर्ववाक्यविरोधादिति ॥ पूर्वापरविरोधादित्यर्थः । एवमङ्गीकार्यमितीति ॥ प्रधानतया प्रकृतपरमा-त्मनस् तत इति न परामर्शः, किन्त्विदंशब्देनाप्रधानतया प्रकृतविश्वस्यैवेत्यङ्गीकार्यमित्यर्थः । कथं पूर्वापरविरोधः परयोजनायामित्यतस् तमुपदर्शयति- यस्मादित्यादिना ॥ एतेनेति ॥ पूर्वापरवाक्यविरोधेन प्रधानतया प्रकृतपरमात्मपरामर्शनिरा-करणेनेदंशब्देनाप्रधानतया प्रकृतजगत्परामर्शसमर्थनेनेत्यर्थः ।

लघुप्रभा

(व्या.टि.)

तत्र विरोधितया प्रतीतश्रुतीर्यथावद्व्याचिख्यासुरुपक्षिपति- नन्वित्यादिना ॥ एष एवेति ॥ शेषवाक्यार्थस्तु वृक्ष इव वृक्षसदृशे जगति ‘ऊर्ध्वमूलम्’ इति स्मृतेरित्यर्थः । दिवि द्युनाम््नयां महालक्ष्म्यामि-त्यर्थः । ‘द्युनाम्नी च द्युसंस्थिता । प्रकाशश्च ततः श्रीस्तु’ इति छान्दोग्यभाष्यादित्यर्थः । स्तब्धोऽवष्टब्धो गूढ इति यावत् । एकोऽसहायः । तेन सर्वान्तर्यामिणा इदं सर्वं पूर्णमित्यर्थः । एवेति व्यवच्छिन्नानभिमतं दर्शयति- न त्विति ॥ सकृन्नञ्प्रयोगादित्यर्थः । अवगम्यत इति ॥ प्रत्यक्षनिर्देशादित्यर्थः । श्रौतार्थापत्त्येति वा । तां दर्शयति- किं तेनेति ॥ शेषान्तरविरोधं समुच्चिनोति- तथेति ॥ यद्यप्ययं शेषो न पूर्वशेषतया पठ्यते । तथाऽपि स्वस्य सर्वविद्यावैशारद्यं ग्रन्थस्याप्यस्य विश्वतोमुखत्वञ्च सूचयता शाखान्तराम्नातः पठित इति ज्ञातव्यम् । औदुम्बराधिकरणे ‘ऊर्जः पशूनान्यो यूज्यो वरूध्या’ इति उत्तरशेषवत् ‘तनू वर्षिष्ठ’ इति पूर्वमन्त्रशेषवच्च । उदाहरणान्तरस्य वैषम्यं दर्शयति- इत्यत्रेति ॥ द्वितीयवाक्यशेषविरोधं परिजिहीर्षति- नन्विति ॥ मूले तेनेदमित्यत्रेदमितीत्युभयस्योक्तिकरणतयाऽऽवृत्तिं मत्वा योजयति- इदंशब्देनेति ॥ ईप्सिततमतया प्रधानभूतकर्मवाचिनेत्यर्थः । अनभिमतं व्यवच्छिनत्ति- न त्विति ॥ तत्र हेतुमाह- तेनेत्युक्तमिति ॥ कर्मणि प्रयोगे कर्तुरप्राधान्यादित्यर्थः ।

अयं भावः । यथा ‘स तया वाचा तेनाऽत्मनेदं सर्वमसृजत’ इति पूर्ववाक्ये मृत्युसंवत्सरयोः प्रकृतत्वेऽपि आत्मनेति तृतीयानिर्दिष्टसंवत्सरपरित्यागेन स इति प्रथमानिर्दिष्टमृत्योरेव ‘स यद्यदेवासृजत तत्तदत्तुमध्रियत’ इत्यत्र स इति परामर्शः । तथाऽत्रापि इदमिति प्रथमानिर्दिष्टस्यैव जगतस्तत इति परामर्शो न तेनेति तृतीया-निर्दिष्टपुरुषस्य । अत एतावत्प्रदर्शनायैवेदमित्युक्तस्येत्येव वक्तव्ये तेनेदमित्युक्तस्येत्येवावादीदिति । न च वृक्ष इव स्तब्ध इति पुरुषस्यापि प्रथमान्तेन प्रकृतत्वात्तत्परामर्शः किं न स्यादिति वाच्यम् । व्यवहितपरामर्शापत्तेः। दूषणान्तरञ्चोक्तम् ।

मूले अन्यथेति व्यवहितपरामर्शं शङ्कते- नन्वत्रेति ॥ प्रधानतयेति ॥ तिष्ठत्येक इति स्थितिकर्तृत्वेन प्रधानतयेत्यर्थः । अप्रधानतयेति ॥ वृक्ष इवेत्यधिकरणतयेत्यर्थः । पूर्वापरेति विधिनिषेधानुवादयोरित्यर्थः । ननु तेनेत्युक्त इत्यतः परं नन्वत्रेति पाठं दृष्ट्वेत्थं व्याख्यातम् । क्वचित्तु न तु तेनेति वाक्यं नास्ति । ननु तेनेत्येव पाठः । तत्र प्राधान्यमर्थतोऽवगन्तव्यम् । आनुषङ्गिकार्थमाह- एतेनेति ॥ शङ्काऽपीति ॥ प्रधानार्थ-विरोधिशङ्काऽपीत्यर्थः ।