‘यं कामये तं तमुग्रं ..
विष्णोलक्ष्म्याद्युत्तमत्वे विशेषश्रुतीनामुदाहरणम्
मूलम्
- ‘यं कामये तं तमुग्रं कृणोमि तं ब्रह्माणं तमृषिं तं सुमेधाम् ।
***अहं रुद्राय धनुरातनोमि ब्रह्मद्विषे शरवे हन्तवा उ । ***
***अहं जनाय समदं कृणोम्यहं द्यावापृथिवी आविवेश । ***
अहं सुवे पितरमस्य मूर्धन् मम योनिरप्स्वन्तः समुद्रे’
***‘यमन्तः समुद्रे कवयोऽवयन्ति तदक्षरे परमे प्रजाः । ***
***यतः प्रसूता जगतः प्रसूती तोयेन जीवान् व्यससर्ज भूम्याम् । ***
***यदोषधीभिः पुरुषान् पशूंश्च विवेश भूतानि चराचराणि । ***
***अतः परं नान्यदणीयसं हि परात्परं यन्महतो महान्तम् । ***
***यदेकमव्यक्तमनन्तरूपं विश्वं पुराणं तमसः परस्तात् । ***
***तदेवर्तं तदु सत्यमाहुस्तदेव ब्रह्म परमं कवीनाम्’ ***
‘अस्य देवस्य मी्ढुषो वया विष्णोरेषस्य प्रभृथे हविर्मिः । विदे हि रुद्रो रुद्रियं महित्वं यासिश्व्ं वर्तिरश्विनाविरावत्’, ‘चन्द्रमा मनसो जातश्चक्षोः सूर्यो अजायत । मुखा-दिन्द्रश्चाग्निश्च प्राणाद्वायुरजायत’, ‘एको नारायण आसीन्न ब्रह्मा नेशानो नाग्नीषोमौ नेमे द्यावापृथिवी’, ‘एको नारायण आसीन्न ब्रह्मा न च शङ्करः । स मुनिर्भूत्वा समचिन्तयत् तत एते व्यजायन्त । विश्वो हिरण्यगर्भोऽग्निर्यमो वरुणरुद्रेन्द्राः’ इति ‘वासुदेवो वा इदमग्र आसीन्न ब्रह्मा न च शङ्करः । नेन्द्रसूर्यौ न च गुहो न सोमो न विनायकः’ इत्यादिश्रुतिभ्यश्च ।
तत्त्वमञ्जरी
यं कामय इत्यादिना त्वक्षरस्य सर्वेश्वरत्वं हरेर्महिम्ना तदाधिक्येन तदत्ययं सर्वक्षरात्ययं च साधयति । एतदर्थस् तत्वदीपिकायां गुरुभिरभिहितः । यंयम् उग्रं कर्तुं कामये तन्तमुग्रं कृणोमि । यंयं ब्रह्माणं कामये तन्तं ब्रह्माणं करोमि इति । इह च तात्पर्यमधिकमवगम्यते । ‘अहमेव स्वयमिदं वदामि जुश्व्ं देवेभिरुत मानुषेभिः’ इत्यादरणीयत्वकथनात् । रुद्राय हन्तवै धनुरातनोमि रुद्रं हन्तुमित्यर्थः । अहये हन्तवा उ इतिवत् । शरुः संहारशीलः । शृङ् हिंसायामिति धातोः । उ एव । समदं सततप्रमदं मोक्षसुखम् । अहम् अस्य पितरं ब्रह्माणं मूधर्ि्न सुषुम्नया सुषुवे ।
अवयन्ति अवगच्छन्ति । तदक्षरे तस्मिन्नक्षरे । यतः पराधीनविशेषं प्राप्ता श्रीः । तोयेन कर्मणा जीवान् । भूम्यां प्रकृत्याम् । व्यससर्ज व्यासृजत् । छन्दोभङ्गपरिहारार्थं ह्रस्वत्वम् । ‘इन्द्रावरुण वामहम्’ इतिवत् । यत् परमाक्षरं नियमनार्थं चराचराणि भूतानि विवेश । पुरुषान् पशूंश्च ओषधीभिर् व्रीह्याद्योषध्यन्तर्यामिरूपैश्च विवेश । अतस्तत्र विशेषसन्निधानम् । अतोऽन्यत् परं विशिष्टं नास्ति । अथवा अन्यज् जगद् अतः परं विशिष्टं न । किन्तु एतत्परात् परम् अक्षरं प्रति यद् गच्छत् । प्रये मुक्तौ च यदव्यक्तं सूक्ष्मं ब्रह्मैकमपि विशेषेणानन्तरूपम् । विश्वं पूर्णम् । तमसः परस्तात् प्रकृतेर्बहिः। प्रकृतिकार्येभ्यो जन्मादिभ्यो बाह्यमित्यर्थः । ऋतं शश्वदेकप्रकारम् । सत्यं साधुगुणपूर्णम् ।
अस्य विष्णोरेषस्य मी•ढुषो देवस्य हविर्भिर् मनसि प्रभरणे हि । वयाः सन् रुद्रो रुद्रियं महित्वं विदे हि । अश्विनौ युवामप्यन्नवती वृत्तिं हविर्भिः प्रभरणे च विष्णोः सकाशादेव अया-सिष्टम् । मीढ्वान् समर्थः । वया बन्धकः । वय बन्धने इति धातोः । विदे लेभे । विद लाभ इति धातोः । हविर्भिः प्रभरणे कर्मणा ध्यानेन प्रभृथं प्रभरणमिति ।
विश्वो वायुः ।
इदमग्रे अस्मादग्रे ।
टीका
एवं क्षराक्षरशब्दार्थकथनपूर्वकं सामान्यतस्तत्परत्वं विष्णोः श्रुतिपुराणवाक्याभ्यां प्रदर्शि-तम् । सम्प्रति ताभ्य एव तत्तद्दर्शनाधिकृताभ्यः शक्त्यादिदेवताभ्यो विष्णोः परत्वं विशेषतः श्रुतिभिरुपपादयति- यं कामय इति ॥ महालक्ष्मीवाक्यमेतत् । अहं यं यमुग्रं रुद्रं कर्तुं कामये तं तमुग्रं कृणोमि करोमि । ‘व्यत्ययो बहुलम्’ इति विकरणव्यत्ययः । तथा तं ब्रह्माणम्, तमृषिं, तं सुमेधां सुमेधसं करोमि । अहं शरवे हिंसकाय । पञ्चममुखच्छेदाद् ब्रह्मद्विषे रुद्राय द्वितीयार्थे चतुर्थी । एवम्भूतं रुद्रम् । हन्तवा उ हन्तुमेव न तु भीषयितुम् । धनुरातनोमि विस्तारयामि । अहं जनाय जनस्य समदं सम्मदं हर्षं करोमि । अहं द्यावापृथिव्युपलक्षितान् सर्वानूर्ध्वाधोलोकान्धार-णायाऽविवेश । विशेः ‘छन्दसि लुङ्लङ्लिटः’ इत्यपरोक्षेऽपि लिट् । अहम् अस्य जगतः पितरं ब्रह्माणं मूर्धन् मूर्धनि सर्वोत्कृष्टतया सुवे जनयामि । न केवलं पदे स्थापयामि । एवम्भूताया मम योनिः कारणभूतः समुद्रे अप्स्वपामन्तस्तिष्ठति । स्त्रीणां पतिनामग्रहणमनुचितमिति शिक्षणाय नारायण इत्यनुक्त्वा ‘आपो नाराः’ इत्यादिनोक्तं तदर्थमेवाऽह । अत्र श्रिया ब्रह्मादीनां सर्वेषा-मात्माधीनत्वमभिधाय स्वात्मनोऽपि नारायणाधीनत्वमुक्तम् ।
यमन्तस्समुद्रे समुद्रस्यान्तः स्थितम् । कवयो ज्ञानिनोऽपि अवयन्ति ईषदेव जानन्ति । यस्मिन् तदक्षरे तस्मिन्नविनाशिनि परमे प्रजा अधीनाः । जगतः प्रसूती प्रसूतिर्ज(नित्री)नयित्री लक्ष्मीर् यतो यस्मात् प्रसूता उत्पन्ना । यच्च वस्तु तोयेन तत्तत्कर्मणा स्ववीर्येण वा तोयोपलक्षितैर्भूतैर्वा भूम्यां पृथिव्यां पृथिव्यादिषु लोकेषु जीवान् व्यससर्ज विससर्ज विविधं ससर्ज । यच्चौषधीभिस्सहितान् पुरुषान् पशूंश्च चराचराणि भूतानि प्रेरणाय विवेश । चराचराणि भूतानीत्यनेनैव सिद्धे यज्ञाङ्गत्वादिना विशिष्टानामोषध्यादीनां ग्रहणाय पुनर्वचनम् । अतो यस्मात् परम् अतिशयेनान्यद्वस्तु अणीयसम् अणीयो नास्ति । यच्च परात्परम् उत्कृष्टादुत्कृष्टम् । महतो महापरिमाणादपि महान्तं महत् । यद् एकं केवलम् । अव्यक्तम् अतीन्द्रियम् । विश्वं पूर्णम् । तमसः प्रकृतेरज्ञानाद्वा परस्तात् तदतिक्रम्य स्थितम् । तदेव ऋतं यथार्थज्ञानरूपम् । तदु तदेव सत्यं ज्ञानपूर्वक्रियावत् । तदेव कवीनां मते परमं ब्रह्मेति । अत्रापि स्फुटमभिमतार्थः प्रतीयते ।
अस्य प्रसिद्धस्य देवस्य द्योतनादिगुणवतः । मी•ढुषो भक्ताभिलषितवर्षितुः । एषस्य इच्छारूपस्य सत्यकामस्येति यावत् । विष्णोः प्रभृथे प्रभरणे पूजने कृते तत्प्रसादात्, वया वय बन्धने असुन्, अहङ्काराभिमानित्वेन जीवानां बन्धको रुद्रः, रुद्रियं महित्वं रौद्रं महिमानम्, विदे विविदे लब्धवान् । हि प्रसिद्धमेतत् । हे अश्विनौ, युवामपि विष्णोः प्रसादादेव इरावद्वर्तिर् अन्नवद्वर्तनं, समस्तभोगवत्पदम्, यासिष्टम् अयासिश्व्ं लब्धवन्तौ स्थ इति रुद्रादीनां भगवत्प्रसा-दाधीना पदप्राप्तिरुच्यते ।
मनसः परमपुरुषस्य । चक्षोश् चक्षुषः । ‘प्रकृत्यान्तःपादमव्यपरे’ इति प्रकृतिभावः ।
आसीन् महाप्रलये । मुनिर् मौनी । ततस् तस्य चिन्तनात् । एते वक्ष्यमाणाः । विश्वो वायुः ।
इदमग्रेऽस्य जगतोऽग्रे । इत्यादिश्रुतिभ्यश्च विष्णोः समतीतक्षराक्षरत्वं सिद्धम् ।
भावबोधः
अवेत्युपसर्गार्थमाह- ईषदेवेति ॥ यस्मिंस्तदक्षर इति, यच्च वस्त्वित्यत्र चानुवादत्वनिर्वाहार्थं यच्छब्दोऽ-ध्याहृत इति बोद्धव्यम् । अतो यस्मादिति ॥ यस्मिंस्तदक्षरवद्यच्छब्दाध्याहारेणात इत्येतद् ब्रह्मवाचकत्वेन योजितमिति द्रष्टव्यम् । परशब्दस्योत्तमार्थत्वे तन्निषेधस्य परात्परमित्यनेनार्थतो गतार्थत्वाद्भिन्नार्थत्वे चान्यदि-त्यनेन पुनरुक्तिप्रसङ्गात्तस्यार्थान्तरमाह- अतिशयेनेति ॥ इच्छारूपत्वस्येतरचेतनसाधारणतया तस्यैवैष इतिशब्दवाच्यत्वं कथमित्यत आह- सत्यकामस्येतीति ॥
भावदीपः
अस्मच्छब्दार्थव्यक्त्यर्थमाह- लक्ष्मीवाक्यमिति ॥ ‘अहमष्टौ वागम्भ्रणी तुष्टावाऽत्मानम्’ इत्यनु-क्रमणिकोक्तेरम्भ्रण्याश्च ‘श्रीर्भूर्दुर्गाम्भ्रणी ह्रीश्च महालक्ष्मीश्च दक्षिणा’ इति श्रुत्या लक्ष्मीत्वादिति भावः । उग्रं रुद्रम् । ‘उग्रः कपर्दी श्रीकण्ठः’ इत्यमरोक्तेः । विकरणव्यत्यय उविकरणस्य श्नुविकरणमित्यर्थः । हिंस-कायेति ॥ ‘शॄ हिंसायाम्’ इत्यत उप्रत्ययो गुणश्चेति भावः । ब्रह्मद्विषां दैत्यानां शत्रव इत्यन्यत्र व्याख्या । हन्तुमेवेति ॥ ‘तुमर्थे सेसेनसे’ इत्यादिना तुमर्थे तवैप्रत्ययः । उ एवेत्यर्थः । इत्यादिनेति ॥
‘आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥’
इति भाष्योक्तस्मृत्येत्यर्थः । अवेत्यस्यापकर्षवाचित्वादवज्ञानार्थत्वनिरासाय हरेरुत्कर्षोक्तिपरत्वलाभाय चाऽह- ईषदेव जानन्तीति ॥ अन्यथा तदंशोक्तिर्व्यर्था स्यादिति भावः । फलितार्थमाह- अधीना इति ॥ तद् ब्रह्मेति विध्यन्वयायानुवादत्वसिद्धये यत्पदमाकृष्यार्थमाह- यच्च वस्त्विति ॥ परमित्यस्यार्थः- अतिशयेनेति ॥ अभिमतार्थ इति ॥ क्षराक्षरातीतत्वार्थः । देवपदार्थो द्योतनादिगुणवत इति । वर्षितुरिति ॥ ‘मिह सेचने’ इति धातोर् योग्यतया भक्तेत्याद्युक्तिः । तृन्नन्तयोगाद् द्वितीया । इच्छारूपस्येति ॥ ‘इषु इच्छायाम्’ भावे घञिति भावः । कोऽतिशयोऽनेनेत्यत आह- सत्यकामस्येति ॥ यासिष्टमिति ॥ ‘या प्रापणे’ लुङ् द्विवचनं, अडभावश्छान्दसो ऽमाङ्योगेऽपीत्युक्तेरिति भावेनाऽह- लब्धवन्तौ स्थ इति ॥ ननु सूर्यो अजायतेति कथम्? ‘एङः पदान्तादति’ इति पूर्वरूपेण भाव्यत्वादित्यत आह- प्रकृत्येति ॥ ऋक्पादमध्यस्थ एङ् प्रकृत्या भवति अति परे । नतु वकारयकारपराति परे एङ् प्रकृत्या भवतीत्यर्थः । असाधारण्यलाभाय वा न ब्रह्मेत्यादिघटनाय वाऽऽह- आसीन्म-हाप्रलय इति ॥ मननशीलार्थत्वभ्रमनिरासायाऽह- मुनिर्मौनीति ॥ साकाङ्क्षत्वादाह- विष्णोरित्यादि ॥
वाक्यार्थदीपिका
(श्री.टि.)
सम्प्रति इदानीम् । तत्तद्दर्शनाधिकृताभ्य इति ॥ शाक्तादितत्तद्दर्शनप्रतिपाद्याभ्य इत्यर्थः । महालक्ष्मीवाक्यमेतदिति ॥ ‘अम्भ्रणी वागात्मानं तुष्टाव’ इत्यनुक्रमणिकावचनादिति भावः । अम्भ्रणी महालक्ष्मीः । ननु कृणोमीति कथम् । ‘डु कृञ् करणे’ ञकारोऽनुबन्धार्थः । कृ इत्येव धातुः । अस्माल्लटि तस्योत्तमपुरुषे मिप् इत्यादेशे पकारलोपे उविकरणे, तस्मिन् परत ऋवर्णस्य गुणे रपरत्वे कर उ मि इति जाते उकारस्य ओकाररूपे गुणे करोमीति वक्तव्यत्वादित्यत आह- व्यत्ययो बहुलमितीति ॥ इतिसूत्रेणेत्यर्थः । विकरणव्यत्यय इति ॥ उविकरणस्य श्नुविकरणत्वेन व्यत्यय इत्यर्थः । तथा च कृधातोर्लटि तस्य मिपि श्नुविकरणे ‘लशक्वतद्धिते’ इति शकारलोपे कृ नु इति स्थिते नस्य णत्वे उकारस्य ओकाररूपे गुणे कृणोमीति (श्री.टि.) रूपमिति भावः । हिंसकायेति ॥ शॄ हिंसायामिति धातोरिति भावः । कथं हिंसकत्वमित्यत आह- पञ्चममुखच्छेदादिति ॥ ब्रह्मणः पञ्चममुखच्छेदादित्यर्थः । अत एव ब्रह्मद्विष इति योज्यम् । द्यावापृथिव्युपलक्षितानिति ॥ द्युशब्देनोपलक्षिता ऊर्ध्वलोकाः । पृथिवीशब्देनोपलक्षिताः पातालाद्या अधोलोका इति द्रष्टव्यम् । ननु ‘परोक्षे लिट्’ इति सूत्रेण परोक्षार्थ एव लिटो विधानात्स राजा तदा बभूवेत्यादिप्रयोगदर्शनात् प्रकृते चाहमिति स्वकर्तृकावेशनस्यापरोक्षत्वेन परोक्षत्वाभावादाविशामीति वक्तव्यं न त्वाविवेशेति तत्राऽह- छन्दसीति ॥ परोक्षार्था लुङादयस्त्रयश् छन्दस्यपरोक्षेऽपि भवन्तीति सूत्रार्थः ।
तथा च च्छन्दस्त्वादत्रापरोक्षेऽप्याविवेशेति लिडुपपत्तिरिति भावः । समुद्रे अप्स्विति ॥ अत्र समुद्रशब्दो ऽपाङ्खातपर इत्यवधेयम् । अनुचितमिति ॥ ‘गुरोर्नाम न गृह्णीयाच्छिष्यो भार्या पतेरपि’ इति वचनादिति भावः । आपो नारा इत्यादिनेति ॥
‘आपो नारा इति प्रोक्ता आपो वै नरसूनवः ।
अयनं तस्य ताः पूर्वं तेन नारायणः स्मृतः ॥’
इति प्रमाणेनेत्यर्थः । ‘नरोऽनाशात्परो हरिः’ इति द्वितीयस्कन्धतात्पर्योक्तेर्नरो भगवान् तत्सूनवस्तत्पुत्रा इत्यर्थो द्रष्टव्यः । अवेत्युपसर्गार्थमाह- ईषदेवेति ॥ यस्मिंस्तदक्षर इत्यत्र यच्च वस्त्वित्यत्र चानुवादत्वसिद्ध्यर्थं यस्मिन् यच्चेति यच्छब्दो अध्याहृत इत्यवधेयम् । तोयशब्दस्य ‘तोयमापः कर्माणि’ इति कर्मनामसु पाठादाह- कर्मणेति ॥ स्ववीर्येण वेति ॥ स्वसामर्थ्येन वेत्यर्थः । तोयशब्दस्य वीर्यनामस्वपि पाठादिति भावः । विविधमिति वीत्यस्यार्थः । अससर्जेति लिट्यप्यडागमश् छन्दस्त्वादित्यवधेयम् । सिद्धेरिति ॥ ओषधीनां पुरुषाणां पशूनां च चराचरान्तर्गतत्वादोषधीभिरित्यादिपुनर्वचनं व्यर्थमित्यर्थः । ओषध्यादीनां सोमलतादीनाम् । आदिपदेन गवादीनां ग्रहणम् । तेषां विशिष्टत्वोपपादनाय यज्ञाङ्गत्वादिनेत्युक्तम् । आदिपदेन गवादीनां क्षीरद्वारेण देवता-पूजाङ्गत्वं ग्राह्यम् । ‘यस्मिंस्तदक्षरे’ इतिवदनुवादत्वसिद्ध्यर्थं यच्छब्दाध्याहारेणात इत्येतद्ब्रह्मवाचकत्वेन योजयति- अतो यस्मादिति ॥ अतः परं नान्यदित्यत्र परशब्दस्योत्तमार्थत्वे तन्निषेधस्य परात्परमित्यनेनार्थतो गतार्थत्वा-दन्यार्थत्वेऽन्यदित्यनेन पुनरुक्तिप्रसङ्गादाह- परमतिशयेनेति ॥ उत्कृष्टादिति ॥ उत्तमाद् ब्रह्मादेरित्यर्थः । ‘विश्वं समस्तं पूर्णञ्च’ इत्यभिधानादाह- विश्वं पूर्णमिति ॥ ‘ऋतं यथार्थविज्ञानं सत्यं तत्पूर्विका कृतिः’ इति प्रमाणानुसारेण ऋतसत्यशब्दार्थावाह-यथार्थज्ञानरूपमित्यादिना ॥ ज्ञानपूर्वक्रियावदिति ॥ ज्ञानपूर्वकं कर्तेत्यर्थः । अभिप्रेतार्थ इति ॥ रमादिदेवताभ्यो विष्णोः परमत्वरूपोऽर्थ इत्यर्थः ।
‘इषु इच्छायाम्’ इति धातोरकारप्रत्यये इकारस्य एकाररूपे गुणे च सति निष्पन्न एषशब्द इच्छावाची-त्यभिप्रेत्याऽह-एषस्येच्छारूपस्येति ॥ इच्छारूपत्वस्य सकलचेतनसाधारणत्वादाह- सत्यकामस्येतीति ॥ असुन्निति ॥ तथा च वय अस्मादसुन्प्रत्यये उन् इत्यस्य लोपे वयस् इति सकारान्तप्रातिपदिकसिद्धिः । पश्चात् सुप्रत्यये तस्य लोपे ‘अत्वसन्तस्य चाधातोः’ इति सूत्रेणासन्तत्वाद्दीर्घे वयास् इति स्थिते सस्य रुत्वे विसर्गे च (श्री.टि.) वया इति भवतीति द्रष्टव्यम् । लब्धवन्तौ स्थ इति ॥ इदानी प्राप्तवन्तौ स्थ इत्यर्थः । मनसो जात इत्यत्र कर्त्रप्रतीतेराह- परमपुरुषस्येति ॥ परमपुरुषस्य यन्मनस्तस्मादित्यर्थः । चक्षोरित्येतद् व्यत्ययेनोका-रान्तमित्यभिप्रेत्याऽह- चक्षोश् चक्षुष इति ॥ ननु ‘चक्षोः सूर्यो अजायत’ इति सन्ध्यभावः कथम्? सूर्यो अजायतेत्यत्र ‘एङः पदान्तादति’ पदान्तादेङोऽति परे पूर्वरूपमेकादेशः स्यादिति सूत्रेण अकारस्य पूर्वरूपे सूर्योऽजायतेति सन्धिस्स्यादित्यत आह- प्रकृत्यान्तःपादमिति ॥ पादस्यान्तरन्तःपादम् ऋक्पादमध्यस्थ एङ् प्रकृत्या स्यान् न सन्धिं यातीति यावत् । अति अकारे परे न तु वकारयकारपरे अतीत्यर्थः । ‘सुजाते अश्व-सूनृते । उपप्रयन्तो अध्वरम्’ इत्युदाहरणम् । तथा चात्र वकारयकारपरस्याकारस्य परतोऽभावेन केवलस्याकारस्यैव विद्यमानत्वात्तस्मिन् परे ओकाररूपस्य एङः प्रकृतिभावे सति पूर्वरूपाप्राप्त्या सूर्यो अजायतेति युक्तमिति भावः । मूले समचिन्तयदिति ॥ एते जायन्ताम् इत्यैच्छदित्यर्थः । चिन्तनादिति ॥ इच्छाविशेषादित्यर्थः । इदमित्येतद्व्यत्ययेन षष्ठ्यर्थमित्यभिप्रेत्याऽह- अस्य जगतोऽग्र इति ॥
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
तत्तद्दर्शनाधिकृताभ्य इति ॥ शैवादिदर्शने सर्वोत्तमतया प्रतिपादितशिवादिदेवताभ्य इत्यर्थः । महालक्ष्मीवाक्यमेतदिति ॥ ‘अम्भ्रणी वागात्मानं तुष्टाव’ इति वचनानुसारेण ‘यं कामये’ इत्यादिवाक्य-स्याम्भ्रणीवाक्यत्वात्तस्याश्च लक्ष्मीमूर्तित्वाद् ‘यम्’ इत्यादिवाक्यस्य लक्ष्मीवाक्यत्वमिति भावः । ननु कृञ्धातोर् उविकरणतया ‘तनादिकृञ्भ्य उः’ इति सति तस्मिन् तत्परतो धातोर्गुणे रपरत्वे निष्पन्नकरुशब्दस्य मिपि परतो गुणे सति करोमीत्येव भवितव्यम् । तत्कथं श्रुतौ कृणोमीति निर्देश इत्यत आह- व्यत्यय इति ॥ व्याख्यातमेतदधस्तात् । ततश्च कृञ उविकरणस्यापि व्यत्ययेन श्नुविकरणतया सति तस्मिन् परतः श्नोर् ङिन्निमित्तकगुणनिषेधकत्वप्राप्त्या निष्पन्नकृणुशब्दस्य मिपि परतो गुणे सति कृणोमीति रूपसिद्धिरकलङ्केति भावः । हिंसकायेति ॥ ‘शॄ हिंसायाम्’ इति स्मरणादिति भावः । रुद्रस्य ब्रह्मद्विट्त्वं कथमित्यतः निमित्तकथनेन तदुपपादयति- पञ्चमेति ॥ द्वितीयार्थ इति ॥ ‘सुपां सुलुक्’ इति स्मरणादिति भावः । एवशब्दव्यावर्त्यं दर्शयति- न त्विति ॥ जनायेति षष्ठ्यर्थे चतुर्थीति भावेनाऽह- जनस्येति ॥ हर्षमिति ॥ ‘मदी हर्ष’ इति स्मरणादिति भावः । ननु ‘परोक्षे लिट्’ इति परोक्षे लिड्विधानात्प्रकृते कथमहमाविवेशेति अपरोक्षे लिडित्यतः ‘छन्दसि लुङ्लङ्लिटः’ इत्यपरोक्षेऽपि लुङादीनां विधानादपरोक्षेऽपि तदुपपत्तिरित्याह- छन्दसीति ॥ अनु-चितमिति ॥ ‘गुरोर्नाम न गृह्णीयाच्छिष्यो भार्या पतेरपि’ इति स्मरणादिति भावः । अवयन्तीत्यत्रावेत्युप-सर्गार्थकथनम्- ईषदेवेति ॥ अनुवादत्वसिद्ध्यर्थं यच्छब्दमध्याहृत्य व्याचश्व्े- यस्मिंस्तदक्षर इति ॥ एवमुत्तरत्रापि यच्छब्दाध्याहारस्य प्रयोजनं द्रष्टव्यम् । व्यससर्जेति ॥ ‘बहुलं च्छन्दस्यमाङ्योगेऽपि इति वचनाल्लिट्यपि अडागम इति भावः । परशब्दस्योत्तमार्थत्वे तन्निषेधस्य परात्परमित्यनेनार्थतो गतार्थत्वाद्भिन्नार्थत्वे चान्यदित्यनेन पुनरुक्तिप्रसङ्गात्तस्यार्थान्तरमाह- अतिशयेनेति ॥ अभिमतोऽर्थ इति ॥ क्षराक्षरविलक्षणत्वरूपोऽर्थ इत्यर्थः। इच्छारूपस्येति ॥ ‘इषु इच्छायाम्’ इति स्मरणादिति भावः । नन्विच्छारूपत्वस्य सर्वजीवसाधारण्यात्कथमनेन (पां.टि.) निमित्तेनास्य शब्दस्य परमात्मन्येव प्रवृत्तिरित्यतस्तात्पर्यमाह- सत्यकामस्येति यावदिति ॥ परमपुरुषस्येति ॥ ‘सहस्रशीर्षा पुरुषः’ इति तस्यैव प्रकृतत्वादिति भावः । ननु ‘चक्षोः सूर्यो अजायत’ इति कथम् । ‘एङः पदान्तादति’ इति पूर्वरूपे सति ‘सूर्योऽजायत’ इत्येव भवितव्यत्वादित्यत आह- प्रकृत्येति ॥ अत्र च ‘एङः पदान्तादति’ इत्यतोऽनुवर्तमानम् एङ इति पञ्चम्यन्तमर्थात्प्रथमया विपरिणम्यते । अन्यस्य कार्यिणोऽसम्भवात् । अयमर्थः-पादस्यान्तो ऽन्तःपादम् । ऋक्पादमध्यस्य एङ् प्रकृत्या स्यात्सन्धिरूपं विकारं न याति अतिपरे । न तु वकारयकारपरेऽति परतः । तथा चात्रावकारयकारपरस्यातः परस्य सत्त्वादेडः प्रकृतिभावान्न सन्धिरिति भावः । इदमिति नपुंसकस्य कथं पुंलिङ्गवासुदेवशब्देन सामानाधिकरण्येनान्वय इत्यतः नेदंशब्दस्य वासुदेवशब्देनान्वय इत्यतो नानुपपत्तिरिति योजयति- इदमग्र इति ॥ इदं चैकपदम् । तस्यार्थमाह- अस्य जगतोऽग्र इति ॥
लघुप्रभा
(व्या.टि.)
महालक्ष्मीवाक्यमिति ॥ यद्यपि ‘अहमष्टौ वागम्भ्रणी तुष्टावाऽत्मानं द्वितीया जगती’ इत्यनुक्रम-णिकातो वागम्भ्रणी ऋषिरिति प्रतीयते । तथाऽपि ‘श्रीर्भूर्दुर्गाऽम्भ्रणी ह्रीश्च महालक्ष्मीश्च दक्षिणा’ इति प्रथम-बृहद्भाष्योदाहृतपैङ्गिश्रुत्याऽम्भ्रण्या महालक्ष्मीत्वस्योक्तत्वान्महालक्ष्मीत्युक्तमित्यवधेयम् । ‘श्रियः स्वदृश्व्े सूक्तन्तु’ इति तन्त्रसारोक्तेश्चेति । यं यमिति ॥ ‘क्रियासमभिहारे द्वे वाच्ये’ इति सर्वोपसंहाराय द्विर्भावावश्य-कत्वात्तत्पदे दर्शनाच्च तथा व्याचश्व्े । रुद्रमिति ॥ ‘उग्रो रुद्रः प्रसिद्धत्वात्सूचितत्वाच्चास्यार्थस्य’ इति भाष्ये स्पष्टम् । ननु ‘तनादिकृञ्भ्य उः’ इत्युविकरणस्य भाव्यत्वेन कथं कृणोमीत्यत आह- व्यत्यय इति ॥ सुमेधस-मिति ॥ ‘नित्यमसिच्प्रजामेधयोः’ इत्यसिजागमाभावश् छान्दस इति भावः । शरवे हिंसकायेति ॥ शृणातेरु-प्रत्ययो गुणश्चेति भावः । पञ्चममुखच्छेदादिति ॥ नन्वेतदयुक्तम् । ब्रह्मणश्चतुर्मुखत्वप्रसिद्धिविरोधेन पञ्चम-मुखाभावात् । तत्सत्त्वेऽपि देवोत्तमस्य रुद्रस्य पितृद्रोहबुद्ध्यसम्भवात् । ‘अहिंसा सत्यमक्रोधः’ इति गीताया-महिंसाद्रोहादीनां देवसम्पदत्वावेदनात् । अनभिभवसूत्रे तदनभिभवोक्तेश्च । पितृद्रोहस्य महापापत्वाच्च । ‘प्रायः सतां न मनः पापमार्गे’ इति ‘धर्मस्वरूपचित्तत्वात्’ इति च सज्जनमात्रस्य पापे मनोऽभावोक्तेः । ‘कथं न ज्ञेयमस्माभिः पापादस्मान्निवर्तितुम्’ इति ततोऽवराणामप्यर्जुनादीनां पापभीरुत्वोक्त्या तस्य कैमुतिकन्याय-सिद्धत्वेन जिघांसाभावनाया अप्यभावादिति चेदुच्यते । अस्त्येव ब्रह्मणः पञ्चमुखत्वम् ।
‘हयमुखसमरे तु पञ्चमं वेधसो मुखम् ।
दुःशब्दमकरोत्तेन लक्ष्मीरुद्वेगमाप्य तु ।
धनुर्दत्त्वाऽथ बाणञ्च रुद्रमाज्ञापयत्तदा ।
छिन्धि शीर्षमिदं धातुः स तदैव तथाऽकरोत् ।
ज्वलत्कालानलसमं तन्मुखं रुद्रमाद्रवत् ।
भीतोऽथ शरणं प्राप लक्ष्मी रुद्रोऽतिविह्वलः ।
(व्या.टि.) सा तत्करे कपालं तद्दत्वा विष्णुपदाम्बुधिः ।
शमयामास तत्पापं धौतपाप्मा ततोऽभवत् ॥’
इति विष्णुरहस्ये रुद्रस्य ब्राह्मपञ्चममुखच्छेदोक्तेः । न च पाप-मनःक्षोभाभावः । ‘मुह्यन्ति यं सूरयः’ इति सामान्यतः, विशिष्याष्टमभागवते ‘नाहं परायुः’ इत्यारभ्य ‘यन्मायया मुषितचेतसः’ इति रुद्रेणैव सात्त्विका-नामपि भगवदिच्छानियन्त्रितत्वोक्तेः । तत्रैव विष्णुपादोदकेनैव तच्छमनोक्तेश्च । भागवते च
‘यच्छौचनिस्सृतसरित्प्रवरोदकेन तीर्थेन मूधर्ि्न विधृतेन शिवः शिवोऽभूत् ।’
इति विष्णुशौचोदकेन शुचित्वोक्तेश्च । न च देवानां पापासम्भवः, ‘पुण्यमेवामूनुपगच्छति न ह वै देवान् पापमुपगच्छति’ इति श्रुतेरिति वाच्यम् । तस्याः स्वनियम्यपरकीयपापाभावविषयत्वात् । आरब्धपाप-मस्त्येवेत्यनुव्याख्याने, परशुक्लत्रयं स्मृतमित्यन्यत्र च परशुक्लत्रयेतरेषां पापसम्बन्धोक्तेश्च । लोकेऽपि ब्रह्म-शिरःकपालभृत्त्वादेव ‘शितिकण्ठः कपालभृत्’ इति प्रसिद्धिः । अन्तकत्वप्रसिद्धेश्च । ‘रोदेर्णिलुक्च’ इति व्याकरणस्मृतेश्च । द्वितीयार्थ इति ॥ ‘सुप्तिङुपग्रह’ इति महाव्याकरणादिति भावः । हन्तुमेवेति ॥ अनेन ‘तुमर्थे सेसेनसेअसेन्क्सेकसेनध्यैअध्यैन्कध्यैकध्यैन्शध्यैशध्यैन्तवैतवेङ्तवेनः’ इति सूत्राद्धातोस्तवैप्रत्यय इत्युक्तं भवति । भीषयितुमिति ॥ ‘भियो हेतुभये’ षुगन्तम् । समदमिति ॥ ‘समोवाहितततयोः’ इति परनिमित्तव्यभिचारश् छान्दस इत्युक्तं भवति । छन्दसीति ॥ अनेनापरोक्षे लिड्विधानादहमाविवेशेति युज्यते । मूर्धनीति ॥ अनेन ‘सुपां सुलुग्’ इति ङेर्लुगिति सूचितम् । तिष्ठतीति ॥ अतःशब्दबलादेतदध्या-हृतम् । अनुचितमिति ॥ ‘गुरोर्नाम न गृह्णीयाच्छिष्यो भार्या पतेरपि’ इति स्मृतेरिति भावः । आदिनेति ॥ ‘महोदधिशयोऽन्तकः’ इत्यादेः सङ्ग्रहः । कथमनेन शक्त्यादिभ्यो हरेरुत्तमत्वमित्यतस्तद्भावमाह-अत्रेत्या-दिना । ईषदेवेति ॥ ‘ब्रह्मापि तन्न जानाति ईषत्सर्वोऽपि जानति’ इति स्मृतेरिति भावः । जानन्तीति ॥ इणो गत्यर्थत्वेन ज्ञानार्थत्वादिति भावः । प्रकृष्टा सूतिर्यस्या इति विगृह्य छान्दसं ङीपं प्रपूर्वात्षूङः कर्तरि क्तिचि औणादिके तिककि ‘कृदिकाराद्’ इति ङीषं वाऽभिप्रेत्य प्रसूतीपदं व्याचश्व्े- जनित्रीति ॥ अन्तर्णीतणि-जयम् । परित्यागबुद्धिं वारयति- विविधमिति ॥ विशिष्टानामिति ॥ प्रशस्तानामित्यर्थः । यज्ञाङ्गत्वं त्वोषधीनां व्रीह्यादित्वेन हविष्ट्वात् । पुरुषाणामपि ‘अबध्नन्पुरुषं पशुम्’ इत्यादौ हविष्ट्वादन्यत्र कर्तृत्वाच्च बोध्यम् । एवं पशूनामपि वायव्यादीनां हिंस्यानां हविष्ट्वेन, अहिंस्यानां गवादीनां पयोघृतादिहविराधारत्वेन बोध्यम् । तच्च ‘वरं वृणै मय्येव’ इत्यारभ्य ‘तस्मादविसतो भयेन भुञ्जते’ इत्यन्तेन प्रसिद्धम् । प्रकृतेरिति ॥ तमोरूपत्वात्तस्या इति भावः । अज्ञानादिति ॥ आवरकत्वसाम्यादिति भावः । ‘ऋतं यथार्थविज्ञानं सत्यं तत्पूर्विका क्रिया’इति तैत्तिरीयभाष्यमनुसन्दधानो ऋतसत्यपदे व्याचश्व्े-यथार्थेति ॥ क्रियावदिति ॥ मत्वर्थीयोऽजिति भावः । वर्षितुरिति ॥ ‘मिह सेचने’ इत्यस्मात् ‘दाश्वान्साह्वान्मीढ्वांश्च’ इसि क्वसुप्रत्ययान्तो निपात इति भावः । इच्छारूपस्येति ॥ अनेनेषेरचि लघूपधलक्षणो गुण इति सूचयति । ‘अविद्येच्छारूपः’ इति छान्दोग्यभाष्यम् । (व्या.टि.) प्रभृथ इति ‘उणादयो बहुलम्’ इति थक्प्रत्यय इत्युपेत्य व्याचश्व्े- प्रभरण इति ॥ रुद्रियमिति ॥ अनेन ‘यज्ञर्त्विग्भ्यां घखञौ’ इति प्रकृतिनियमो नेति सूचितम् । विद इत्यत्र अभ्यासलोपश् छान्दस इति भावेनाऽह- विविद इति ॥ इरावद्वर्तिरन्नवदिति ॥ इरंमदबृहदुक्थमित्यत्र इरया माद्यतीति व्याख्यानात् । अयासिष्ट-मिति ॥ ‘छन्दस्यमाङ्योगेऽपि’ इत्यडभाव इति भावः । ननु ‘एङः पदान्तादति’ इति पूर्वरूपं स्यादित्यत आह- प्रकृत्येति ॥ चिन्तनादिति ॥ प्रकृत्यर्थपरामर्शोऽयमिति भावः । इदमित्यव्ययं प्रथमा वेत्युपेत्याऽह- अस्येति ॥ श्रुतिभ्य इति पञ्चम्युक्तहेत्वपेक्षितसाध्यांशं पूरयति- विष्णोरिति ॥