आत्मन्यनात्मकल्पना..
भ्रमस्याधिष्ठानादित्रयपूर्वकत्वं दृढीकृत्य मिथ्योपाधिकल्पनाया निरासः
मूलम्
- आत्मन्यनात्मकल्पनारूपत्वान्मिथ्योपाधिरेव न युज्यते । मायामयी सृष्टिरपि तत्सदृशस्यान्यस्य विद्यमानत्व एव दृष्टा । द्रव्यत्वादिसादृश्ययुतं किञ्चिदधिष्ठान-माश्रित्यैव च ।
***‘अधिष्ठानं च सदृशं तथ्यवस्तुद्वयं विना । ***
***न भ्रान्तिर्भवति क्वापि स्वप्नमायादिकेष्वपि । ***
***मानस्यां वासनायां तु बहिर्वस्तुत्वकल्पनम् । ***
***स्वाप्नो भ्रमश्च मायायां कर्तृदेहादिवस्तुषु । ***
***चतुरङ्गबलत्वादिकल्पनं भ्रम इष्यते । ***
न भ्रान्तिकल्पितं विश्वमतो विष्णुबलाश्रयम् ॥’ इति ब्रह्मवैवर्ते ॥
तत्त्वमञ्जरी
इन्द्रजालवत् सदृशान्तरानपेक्षत्वं सम्भवतीत्यत आह- मायामयीति ॥
टीका
-‘न च मिथ्योपाधिकृतो भेदः क्वापि दृष्टः’ इत्यनेन असम्भावनोक्ता । सा स्याद्यदि भेदः सत्यः स्यात् । मिथ्योपाधिरिति च निरुपाख्यः स्यात् । न चैवम् । किन्तु आरोपितेनैव उपाधिना भेदारोपः । तेन च आरोपिताशेषव्यवस्थासिद्धिरिति कुतोऽसम्भावना । उच्यते । भवेदेवं कथञ्चिद् यदि मिथ्योपाधिर्युज्येत । न चासौ युज्यत इत्याह- आत्मनीति ॥ अध्यासस्याध्यस्यमान-सदृशाधिष्ठानप्रधानपूर्वकत्वनियमान् मिथ्योपाधिं वदताऽवश्यं तदध्यासाधिष्ठानं वाच्यम् । न चाऽत्मनोऽन्यदधिष्ठानं सम्भवति । उपाधिश्चाज्ञानमेव । तच्चाहमज्ञ इत्यनात्मतया प्रतीयते । ततश्च आत्मन्यनात्मकल्पनारूपत्वान् मिथ्योपाधेर् आत्मन्यनात्मकल्पनायाश्च पूर्वमेव निराकृतत्वान् मिथ्योपाधिरेव न युज्यते, दूरे ततो भेदकल्पनादीति ।
नन्वैन्द्रजालिकनिर्मितायां मायामय्यां सृष्टावधिष्ठनाभावान् नास्त्यारोपस्याधिष्ठानपूर्वकतानियम इत्यत आह- मायामयीति ॥ अत्र अधिष्ठानमात्रं प्रदर्शनीयं तस्यैव विप्रतिपन्नत्वात् । तथाऽपि शिष्याणां व्युत्पादनार्थं त्रितयमपि प्रदर्शितम् ।
नन्वेतदपि किमिति पूर्वमेवाऽशङ्क्य न परिहृतम् । उच्यते- जीवब्रह्मभेदेन द्विस्कन्धमेव चैतन्य-मिति मन्यमानैर् एकजीववादिभिर् जीवाश्रिताविद्याकल्पित एवाऽभ्यन्तरो बाह्यश्च प्रपञ्चः । जीवस्यैकत्वान् न साधारणासाधारणभेदोऽस्तीत्यङ्गीकृतम् । बहुजीववादिभिस्तु जीवेश्वरब्रह्मभेदेन त्रिस्कन्धचैतन्यमङ्गीकुर्वाणैः स्वाप्नादिवद् आध्यात्मिक एव प्रपञ्चो जीवाश्रिताज्ञानकल्पितः । अत एवासावसाधारणः । बाह्यस्त्वीश्वराश्रितमायाकल्पितः। तस्मादसौ साधारणः । यथैन्द्रजालिक-पुरुषाश्रितमायामयी सृष्टिः सर्वैरुपलभ्यत इत्यभ्युपगतम् । तत्र न केवलमान्तरस्य जीवाविद्या-कल्पितत्वं न युज्यते । अधिष्ठानप्रधानाभावात् । किन्तु ब्राह्यप्रपञ्चस्यापि ईश्वरमायाकल्पितत्व-मपि तत एव हेतोर्न युज्यते । मायामयसृष्टावप्यधिष्ठानाद्यव्यभिचारादितीदं प्रदर्शयितुमस्यात्रोप-न्यासः ।
आन्तरो बाह्यश्च प्रपञ्चो न भ्रान्तिकल्पितो निरधिष्ठानत्वान् निष्प्रधानत्वाद् इत्यनुमानद्वयस्य व्याप्तिपक्षधर्मतादिसद्भावेन न काऽपि शङ्का कार्येत्यभिप्रायेण तत्र पुराणवाक्यसम्मतिमाह-अधिष्ठानं चेति ॥ चशब्देन प्रधानं समुच्चिनोति । सदृशमिति तदुभयविशेषणम् । आरोप्येणेति शेषः । एवं तथ्यवस्तुद्वयं विना । क्वापि अन्तर्बहिश्च । आन्तरासाधारणे व्यतिरेकव्याप्तिं दर्शयितुं स्वप्नादि-केष्वित्युक्तम् । बाह्ये साधारणेऽपि तत्प्रदर्शनाय मायादिकेष्विति । अपिरभिव्याप्तौ । तदुभयं क्रमेण प्रपञ्चयति- मानस्यामिति ॥ पूर्ववद् दूषणपरिहाराय मानस्यामित्युक्तम् । मानस-वासनापरिणामे गजादावित्यर्थः । तुशब्दो मिथ्यात्वाद् व्यावर्तयति । मायायाञ्चेति सम्बन्धः । कर्तैन्द्रजालिकः । आदिपदेन मूलचीरादिग्रहणम् । चत्वारि हस्त्यश्वरथपदातिसञ्ज्ञानि अङ्गानि अवयवा यस्य तच्चतुरङ्गम् । तच्च तद् बलं सैन्यं च तस्य भावस्तत्त्वम् । आदिशब्देन व्याघ्रत्वादेर्ग्रह-णम् । अन्वयव्याप्तिस्त्वात्मनि स्फुटैवेति न प्रदर्शिता । ‘न च विश्वस्याधिष्ठानं प्रधानं चास्ति’ इति पक्षधर्मता च वक्तव्या । इदानी साधनत्वाभिव्यक्तिपूर्वकं प्रतिज्ञामाह- न भ्रान्तीति ॥ यतो भ्रान्तेरधिष्ठानादिपूर्वकत्वं व्यापकं यतश्चेह तन्नास्ति अत इत्यर्थः । यदि विश्वमीश्वरवत्सत्यं स्यत्तदा तद्वदेव स्वतन्त्रमपि स्यादित्यत उक्तम्- विष्ण्विति ॥
भावबोधः
निरुपाख्यः स्यादिति ॥ तथात्वे हि सकलसामर्थ्यविधुरत्वेनाऽरोपजनकत्वं न स्यादिति भावः । एवं तथ्यवस्तुद्वयमिति ॥ अनेन सदृशमधिष्ठानं प्रधानं चेति सत्यवस्तुद्वयं विनेतीतिशब्दाध्याहारेण मूलं योजितं भवति । अपिरभिव्याप्ताविति ॥ भ्रमान्तरस्याऽदिपदेन सङ्गृहीतत्वान्न समुच्चयार्थत्वं सम्भवतीति भावः ।
भावदीपः
इयता ग्रन्थेन मिथ्येत्यस्यासदित्यर्थमुपेत्यासता सत्यो भेदो नेत्युक्तम् । अधुना नासत्त्वं मिथ्याशब्दार्थो, नापि भेदस्सत्य इत्युपेयत इत्याशङ्कते- न च मिथ्योपाधिकृत इति ॥ तेन चेति ॥ आरोपितभेदेनेत्यर्थः । अन्यदधिष्ठानमिति ॥ सर्वस्य मिथ्यात्वादिति भावः । आत्मनीति ॥ व्याप्ते ब्रह्मणीति भ्रमनिरासा-यान्तःकरणावच्छिन्नं परिच्छिन्नचैतन्यमेवाऽत्मशब्दार्थ इति द्योतनायाहमज्ञ इत्यनात्मतयेत्युक्तम् । अहमर्थाधि-करण इति योज्यम् । निराकृतत्वादिति ॥ ‘न चाऽत्मन्यनात्मभ्रमः क्वापि दृष्टः’ इत्यादिग्रन्थेनेति भावः । कल्पनादीति ॥ आदिपदेन व्यवस्थाग्रहः । नन्वेतदपीति ॥ मायामयी सृष्टिरपीत्यादिकम् । ‘अतो न कुत्रापि’इत्युपसंहारग्रन्थात्पूर्वमेवाऽरोपस्याधिष्ठानादिनियमोक्तिप्रस्ताव एवेत्यर्थः । साधारणेति ॥ अनेकजीवसाधरणो बाह्यः । तत्तज्जीवमात्रासाधारण आभ्यन्तर इति भेद इत्यर्थः । ईश्वरेति ॥ मायाशबलं सगुणम् । ब्रह्मेति ॥ निर्गुणं चैतन्यम् । स्वप्नादिवदिति पररीत्योक्तिः । आध्यात्मिक इति ॥ सुखदुःखादिरूपः। असाधारणस्तत्तज्जीवमात्रदृश्यः । साधारण इति ॥ सर्वजीवदृश्यः । सृष्टिरपीत्यपिपदसूचितमर्थमाह- न केवल-मिति ॥ मायेत्यादिमूलार्थमाह- मायामयेति ॥ अधिष्ठानादितोऽन्यत्तथ्यं वस्तुद्वयमिति भ्रमनिरासाय शेषोक्त्या योजयति- एवं तथ्यवस्तुद्वयमिति ॥ सदृशमित्यनन्तरमितिशब्दो योज्य इति भावः । व्यतिरेकेति ॥ विश्वं न भ्रान्तिकल्पितम् अधिष्ठानादिसदृशतथ्यवस्तुद्वयपूर्वकत्वाभावादात्मवदिति प्रयोगे ‘तथ्यवस्तुद्वयं विना न भ्रान्तिः’ इत्युक्तस्य यो यो भ्रमस्स सर्वोऽपि सदृशवस्तुद्वयपूर्वक इत्येवंरूपव्यतिरेकव्याप्तिमित्यर्थः । आदिपदं पूर्वत्रापि योज्यमिति भावेनोक्तम्- स्वप्नादिकेष्विति ॥ आदिपदेन सुखदुःखादिग्रहः । अपिरभिव्याप्ता-विति ॥ आदिपदेन भ्रमान्तरग्रहणेऽप्यशेषभ्रमग्रहणायाभिव्याप्त्यर्थकोऽपिशब्द इत्यर्थः । तदुभयं स्वप्नादौ बाह्ये च व्याप्तिरस्तीत्येदुभयमित्यर्थः । पूर्ववद्दूषणेति ॥ ‘स्वप्नेऽपि वासनारूपं सत्यमेव जगन्मनसि स्थितं बहिःष्ठत्वेन’ इत्येतदवतारिकायामुक्तानां स्वाप्नार्थानां सत्यत्वे पार्श्वस्थानामुपलम्भप्रसङ्ग इत्यादिदूषणानां परिहारायेत्यर्थः। वासनाया अतीन्द्रियत्वात्तत्र बहिःष्ठत्वाऽरोपायोग इत्यत आह- मानसेत्यादि ॥ मूलेति ॥ मूलिकेत्यर्थः । चीरो वस्त्रखण्डः । अन्वयव्याप्तिरिति ॥ यदधिष्ठानादिहीनं तन्न कल्पितमित्येवंरूपेत्यर्थः। न प्रदर्शितेति ॥ पुराणवाक्य इति योज्यम् ।
वाक्यार्थदीपिका
(श्री.टि.)
निरुपाख्यः स्यादिति ॥ तथात्वे हि सकलसामर्थ्यविधुरत्वेनाऽरोपजनकत्वं न स्यादिति भावः । अशेषव्यवस्थेति ॥ गुरुशिष्यादिव्यवस्थेत्यर्थः । अनात्मतयेति ॥ अहमर्थरूपात्माश्रितत्वेनाऽत्मभिन्नतये-त्यर्थः । कल्पनादीत्यादिपदेनोक्तव्यवस्थाग्रहणम् । ऐन्द्रजालिकः पुरुषः । पूर्वमिति ॥ ‘सादृश्यं च द्रव्यत्वादिकं किञ्चिच्छङ्खादीनां पीतादीनां चास्त्येव’ इति ग्रन्थानन्तरमेवेत्यर्थः । स्कन्धः प्रभेदः । आभ्यन्तरो दुःखादिः । बाह्यो घटादिः । भेदोऽस्तीति ॥ सर्वोऽपि प्रपञ्चोऽसाधारण एवेति भावः । आध्यात्मिको दुःखादिः । असा-धारणस् तन्मात्रवेद्यः । साधारणः सर्ववेद्यः । न युज्यते द्विस्कन्धचैतन्यवादिमते । बाह्येति ॥ त्रिस्कन्धचैतन्य-वादिमत इत्यर्थः । तत एवेति ॥ अधिष्ठानप्रधानयोरभावादेवेत्यर्थः । नन्वैन्द्रजालिकपुरुषनिर्मितायां मायामय्यां सृष्टावधिष्ठानाद्यभावात्तद्दृष्टान्तेन मायामय्यामीश्वरसृष्टावपि तदभावः किन्न स्यादित्यतो दृष्टान्त एवासम्मत इति वक्तुं प्रवृत्तस्य मायामयी सृष्टिरपीति वाक्यस्य तात्पर्यमाह- मायामयसृष्टावपीति ॥ ऐन्द्रजालिक-सृष्टावपीत्यर्थः । अत्रेति ॥ बहुजीववादिमतनिराकरणावसर इत्यर्थः । एवं तथ्यवस्तुद्वयं विनेति ॥ अनेनाऽरोप्येण सदृशमधिष्ठानं चशब्देन सूचितं सदृशं प्रधानञ्चेति तथ्यवस्तुद्वयं विनेति इतिशब्दाध्याहारेण मूलयोजना सूचिता भवतीति द्रष्टव्यम् । आन्तरं यदसाधारणं तस्मिन् । तत्प्रदर्शयितुं तां व्यतिरेकव्याप्तिं दर्शयितुम् । अपिरभिव्याप्ताविति ॥ भ्रमान्तरस्याऽदिपदेन गृहीतत्वान्न समुच्चयार्थत्वं सम्भवतीत्यर्थः । तथाच (श्री.टि.) स्वप्नमायादीत्यादिपदोक्तस्यासङ्कोचव्यञ्जनमपिशब्दार्थ इति भावः । उभयं स्वप्नमायेत्युक्तमुभ-यम् । उभयत्राप्यधिष्ठानसद्भावमिति यावत् । पूर्ववदिति ॥ सत्यत्वे प्रागूर्ध्वमुपलम्भप्रसङ्ग इति दूषणपरिहाराये-त्यर्थः । इत्युक्तमिति ॥ मानसवासनामयत्वोक्त्या पूर्ववत्परिहारो ज्ञातव्यः । मूलं मूलिका । चीरं वस्त्र-खण्डः । अवयवा एकदेशाः । व्याघ्रत्वादेरित्यादिपदेन बिडालत्वादिग्रहणम् ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
भेदस्य सत्यत्वं स्यादित्युपलक्षणम् । व्यवस्था सत्या स्यादित्यपि द्रष्टव्यम् । मिथ्योपाधिरिति च निरुपाख्यः स्यादित्युपलक्षणम् । भेदोऽपि न सत्य इति निरुपाख्यः स्यादित्यपि द्रष्टव्यम् । निरुपाख्यस्योपाधेः सकलसामर्थ्यरहितत्वेन भेदजनकत्वासम्भववन्निरुपाख्यस्य भेदस्यापि व्यवस्थाजनकत्वासम्भवस्याविशिष्ट-त्वात् । अत एव त्रयाणामप्यारोपितत्ववर्णनमसङ्गतम् । अन्यथोपाधिभेदयोरेव तदवक्ष्यदिति ज्ञेयम् । न चाऽत्मन इति ॥ तदन्यस्य मिथ्यात्वादिति भावः । अस्तु तर्ह्यात्मनः सत्यत्वादुपाध्यध्यासाधिष्ठानत्वमित्यतो विरुद्धरूपेण प्रतीयमानयोरात्मोपाध्योर्नाधिष्ठानाध्यस्तभावः । अन्यथाऽध्यासानिवृत्तिप्रसङ्गादिति भावेनोपाधेर्विरुद्धतया प्रतीतिमुपदर्शयितुं तन्निर्दिशति- उपाधिश्चेति ॥ भेदकल्पनादीत्यादिशब्देन व्यवस्थाकल्पनपरिग्रहः । विप्रतिपन्न-त्वादिति ॥ तदभावस्यैव पूर्वमाशङ्कितत्वेन तस्यैव विप्रतिपन्नत्वादित्यर्थः । नन्वेतदपि पूर्वमेवेति ॥ तत्र तत्र शङ्कितव्यभिचारपरिहारेणोक्तव्याप्तिव्यवस्थापकस्वप्नेऽपि वासनारूपमेवेत्यादिपूर्वग्रन्थ एवेत्यर्थः । प्रतिपत्ति-सौकर्यादिति भावः । अत एवेति ॥ जीवाश्रिताज्ञानकल्पितत्वेन जीवेनैव दृश्यमानत्वादन्येनादृश्यमानत्वादे-वेत्यर्थः । तस्मादिति ॥ मायाकल्पितत्वादेवेत्यर्थः । मायाकल्पितस्य साधारणत्वं दृष्टान्तोपदर्शनेनोपपादयति-यथेति ॥ उपलभ्यत इत्यतः परं तथेश्वराश्रितमायाकल्पितं घटादिकमपि सर्वैरुपलभ्यमानत्वात्साधारणमिति शेषः । तत एवेति ॥ निरधिष्ठानत्वादित एवेत्यर्थः । तदुभयेति ॥ सदृशमधिष्ठानं सदृशं प्रधानमित्यधिष्ठानप्रधान-योर्विशेषणमित्यर्थः ।
अधिष्ठानप्रधानयोः परस्परं सादृश्यमिति भ्रान्तिनिवारणायापेक्षितं शेषं पूरयति - आरोप्येणेति शेष इति ॥ तच्चैकपदवाच्यत्वेन बोध्यम् । एवं तथ्यवस्तुद्वयं विनेति ॥ अनेन सदृशमधिष्ठानं प्रधानं चेति सत्यवस्तुद्वयं विनेतीति शब्दाध्याहारेण योजितं भवति । भ्रमान्तरस्याऽदिशब्दसङ्गृहीतत्वेन तत्समुच्चायकत्वासम्भवेन तदानर्थक्यमित्यत आह- अपिरभिव्याप्ताविति ॥ ‘सर्वकर्माण्यपि सदा’ इत्यादाविवेति शेषः । एतद्व्युत्पादनं च तद्ग्रन्थोक्तं तत एवावधेयम् । पूर्ववदिति ॥ तात्कालिकोत्पत्तिविनाशत्वे प्राङ्मृदादीनामूर्ध्वं च कपालादीनां चोपलम्भप्रसङ्गादिवारणाय वासनारूपं मनसि स्थितमिति पूर्वग्रन्थ इवात्रापि ‘मानस्यां वासनायाम्’ इत्युक्तमित्यर्थः । ततश्च भावनाऽपरनामकमानसवासनोपादानकत्वात्स्वाप्नार्थानां बाह्यमृदाद्युपादानकत्वा-भावान्न तेषामुपलब्धिप्रसङ्गः । नापि स्वशिरश्छेदादेरनुपलम्भप्रसङ्ग इति भावः । मानसवासनाया अतीन्द्रियत्वे-नाधिष्ठानत्वायोगात्तत्र बहिर्वस्तुत्वकल्पनमनुपपन्नमित्यतः मानसवासनाशब्देन मानसवासनापरिणामरूप-गजादीनामेव विवक्षितत्वादतीन्द्रियद्व्यणुकोपादानकत्र्यणुकवदतीन्द्रियवासनोपादानकानामपि गजादीना-(पां.टि.) मैन्द्रियकतयाऽधिष्ठानत्वोपपत्तेर्युक्तं तत्र बहिर्वस्तुत्वकल्पनमिति भावेन ‘मानस्यां वासनायाम्’ इत्येतद् व्याचश्व्े- मानसेति ॥ मानसवासनायां बहिर्वस्तुत्वकल्पनं स्वप्नो भ्रम इत्येतावतैव विवक्षितपूर्तेर् मूले चशब्दानर्थक्यमाशङ्क्य भिन्नक्रमतया तस्यार्थवत्तामाह- मायायां चेति सम्बन्ध इति ॥ अनुमानापेक्षित-व्याप्तेरप्रदर्शनान्मूले न्यूनतामाशङ्क्य परिहरति- अन्वयव्याप्तिरिति ॥ तथापि तदपेक्षितपक्षधर्मताया अप्रदर्शनान्न्यूनत्वमेवेत्यतस्तस्या अनावश्यकत्वात्तदप्रदर्शनं न दोषायेति सत्यपि परिहारेऽङ्गीकृत्य तदावश्यकत्वं परिहारान्तरमाह- न चेत्यादि ॥ अत इत्यस्य यत इत्येतत्सापेक्षत्वेन तदुपदर्शनपूर्वकमत इत्येतद्योजयति- यत इति ॥
लघुप्रभा
(व्या.टि.)
पुनः प्रत्यवतिष्ठते- न चेति ॥ असम्भावनेति ॥‘नासतो दृष्टत्वात्’ इति सूत्रोक्तासतः सदुत्पत्त्य-सम्भावना अत्रानूदितेत्यर्थः । स्याद्यदीति ॥ कार्यकारणवैरूप्यमिति शेषः । तदुपपादयति- भेदः सत्यः स्यादित्यादिना ॥ मिथ्योपाधिरितीति ॥ अत्रेति शब्दः पदार्थविपर्यासे वर्तते ‘नवेति विभाषा’ इतिवत् । तथा च मिथ्योपाधिशब्देनेत्यर्थः । स्यादित्यतः पूर्वमभिहित इति शेषः । कारणकार्यसारूप्यमाह- आरोपितेनै-वेति ॥ भेदारोप इति च ॥ समाधत्ते- उच्यत इति ॥ कथञ्चिदित्यनेनाऽरोपाणां सत्यानां परम्परयोत्पादेऽपि नाऽरोपितानामसत्यानामिति सूचयति । आत्मनीति परिशेषसिद्धानुवाद इत्याह- अध्यासस्येति ॥ उपाधिमपि परिशिनष्टि- अज्ञानमेवेति ॥ अनात्मतयेति ॥ प्रत्यगाधेयतया पराक्त्वेनाज्ञानज्ञानतदाधारतया प्रतीचः प्रतीतिविरुद्धतया प्रतीयमानत्वान्न तत्रारोप इति भावः । अनात्मकल्पनाया इति ॥ अहमज्ञानमिति भ्रान्तेर-निरूप्यत्वादित्यर्थः । पूर्वमिति ॥ ‘न हि कश्चिदहमहं न भवामीति भ्रान्तो दृश्यते’ इति ग्रन्थ इत्यर्थः । अध्यासस्याध्यस्यमानसदृशाधिष्ठानप्रधानपूर्वकत्वनियमेऽनैकान्त्यं शङ्कते- नन्वित्यादिना ॥ आधिक्यमाशङ्क्य निराह- अत्रेति ॥ त्रितयमपीति ॥ ‘प्रसङ्गे वस्तुस्थितिः कथनीया’ इति न्यायादिति भावः । प्रकरणविच्छेदहेतुं पृच्छति- नन्वेतदपीति ॥ निरस्यमतभेदेन निरासप्रकारभेद इत्याशयेनाऽह- उच्यत इति ॥ मन्यमानैरिति दैवादिकः । इदं प्रदर्शयितुमिति ॥ बाह्यप्रपञ्चो न मायाकल्पितो निरधिष्ठानत्वान्निष्प्रधानत्वादिति प्रयोगं सूचयितुमित्यर्थः । अस्य व्यभिचारस्य । अत्र बहुजीववादिनो निरासावसर इत्यर्थः ।
पुराणसम्मतिमाहेति ॥ व्याप्तिपक्षधर्मतयोः पुराणोक्तत्वान्नासिद्धिशङ्केति भावः । समुच्चेयमन्तरा समुच्च-यानुपपत्तेस्तं दर्शयति- चशब्देनेति ॥ तदुभयेति ॥ अधिष्ठानप्रधानोभयेत्यर्थः । तत्प्रतियोगिविशेषं विशेषेण पोषयति- आरोप्येणेति ॥ विवृतमेतन्निपुणतरमधस्तात् । साधारणासाधारणयोः पृथग्व्याप्तिप्रदर्शनाय द्विपदं पृथगभिसम्बध्य वाक्यभेदेन योजयति- उक्तमिति ॥ उक्त्यभिसंहितमित्यर्थः । अभिव्याप्ताविति ॥ सर्वस्मिन् आन्तरे बाह्ये चेत्यर्थः । उभयमिति ॥ भ्रममिति शेषः । पूर्वेति ॥ किं ते अनादिनित्या उतोत्पत्तिविनाशवन्त इति विकल्प्य दूषणेत्यर्थः। पदद्वयतात्पर्यमाह- मानसेति ॥ व्यावर्तयतीति ॥ वासनापरिणाममिति शेषः । (व्या.टि.) चीवरं वस्त्रम् । ननु ‘सङ्ख्यापूर्वो द्विगुः’ इति द्विगुसञ्ज्ञायाम् ‘द्विगोर् इति ङीपि चतुरङ्गीबलेति वक्तव्यम् । कथं चतुरङ्गेतीत्यतो विशेषणपूर्वपदबहुव्रीहिरयं न द्विगुरित्याह-चत्वारीति ॥ आदिशब्देनेति ॥ आदिशब्दार्थादित्वनिरूपकत्वेनेत्यर्थः । व्यतिरेक-व्याप्तेः पक्षधर्मताव्यधिकरणत्वादृजुरन्वयव्याप्तिः कुतो न दर्शितेत्यत आह- अन्वयव्याप्तिस्त्विति ॥ उपनयं दर्शयति- न च विश्वस्येति ॥ साधनत्वेति ॥ साधनत्वं च अत इति पञ्चम्या व्यज्यते । विष्णुबलेति ॥ अनेन श्रौतमायामयत्वोक्तिरपि ‘अनेन सर्वगतत्वमाया-मयशब्दादिभ्यः’ इति सूत्रदिशा ‘शक्त्या मायाख्यया’ इति भागवते प्रयोगात्, ‘तान् यज्ञस्य मायया सर्वानवयजामहे’ इति शक्तौ वैदिकप्रयोगाच्च, बलाश्रितत्वपरतया व्याख्यातेति वेदितव्यम् ।