कविर्मनीषी..
विश्वसत्यत्वप्रतिपादकश्रुतिस्मृत्युदाहरणम्
मूलम्
***-‘कविर्मनीषी परिभूस्स्वयम्भूर्याथातथ्यतोऽर्थान् ***
व्यदधाच्छाश्वतीभ्यः समाभ्यः ।’
‘यच्चिकेत सत्यमित्तन्न मोघं वसु स्पार्हमुत जेतोत दाता ।’
‘विश्वं सत्यं मघवाना युवोरिदापश्चन प्रमिनन्ति व्रतं वाम् ।’
***‘प्र घा न्वस्य महतो महानि सत्या सत्यस्य करणानि वोचम्’ ***
***‘अनाद्यनन्तं जगदेतदीदृक्प्रवर्तते नात्र विचार्यमस्ति । ***
***न चान्यथा क्वापि च कस्य चेदमभूत्पुरा नापि तथा भविष्यत् । ***
***असत्यमाहुर्जगदेतदज्ञाः शक्तिं हरेर्ये न विदुः परां हि । ***
**यः सत्यरूपं जगदेतदीदृक् सृष्ट्वा त्वभूत् सत्यकर्मा महात्मा’,
***‘असत्यमप्रतिष्ठं ते जगदाहुरनीश्वरम् । ***
***अपरस्परसम्भूतं किमन्यत् कामहैतुकम् । ***
***एतां दृष्टिमवष्टभ्य नष्टात्मानोऽल्पबुद्धयः । ***
प्रभवन्त्युग्रकर्माणः क्षयाय जगतोऽहिताः’ इत्यादेश्च ।
तत्त्वमञ्जरी
कविर् वाग्मी । मनीषी मेधावी । अन्यान् परिभावयतीति परिभूः । यथार्थत्वेनार्थान् व्यदधात् । शाश्वतकालवर्तिसंवत्सरव्यवहारार्थम् ।
स भगवान् यच् चिकेत चकार । तन्न मोघं न मिथ्या । स्पृहाविषयं द्रव्यं तेजो वा भक्तेभ्यो दाता ।
इन्द्राब्रह्मणस्पती परमेश्वरमुख्यप्राणौ मघवाना यशस्विनौ । युवयोरिदं विश्वं सत्यमेव । आपो देवताश्च वां सत्यसृष्टिव्रतं प्रमिनन्ति प्रजानन्ति ।
अस्य महतः सत्यस्य महनीयानि सत्यानि करणानि कर्माणि प्रवोचं घ नु ब्रुवाणि हि किम्?
अप्रतिष्ठं कालत्रयेऽपि स्थितिबाध्यमिति यावत् । अपरस्परसम्भूतं परतः परतस्तार-तम्येनानुत्पन्नम् । किमन्यत्? कथमन्यथेत्याकाङ्क्षायां कामहैतुकमाहुः । ‘अज्ञानहेतवः कामाः काममूलाः प्रवृत्तयः । प्रवृत्तिनिर्मितं सर्वं जगदेतच्चराचरम्’ इति हि तन्मतम् ।
टीका
न केवलं जगतो मिथ्यात्वं क्वापि नोच्यत इत्येव, किन्तु श्रुत्यादिवाक्यसमुदायात् सत्यत्वं च गम्यत इत्याह- कविरिति ॥ कविः सर्वज्ञः । मनीषी मनसामीशिता । परिभवति सर्वानिति परिभूः सर्वतो वरः । स्वयं भूराश्रयो यस्यासौ स्वयम्भूः स्वतन्त्रः परमेश्वरोऽर्थान् महदादीन् शाश्वतीभ्यः समाभ्यः सर्वेष्वपि कालेषु याथातथ्यतो याथार्थ्येनैव सत्यानेव व्यदधान् निर्मित-वान् । निर्माणे शक्तिप्रदर्शनार्थं कविरित्यादि ।
स्पार्हं स्पृहणीयं हविरादिकं वसु भक्तेभ्यो जेतोत प्राप्ताऽपि तथा तेभ्यः स्पार्हं वसुफल दातोत दाताऽपि परमेश्वरो यद् विश्वं चिकेत चकार तत् सत्यमित् सत्यमेव । कुतः? न मोघम् अर्थक्रियास्वनुपयुक्तं न भवति ।
हे मघवानौ धनवन्तौ इन्द्राबृहस्पती युवोर्युवयोरधीनं विश्वं सत्यमित् सत्यमेव । एवं कुतः, वां युवयोः सत्यजगत्पालनादिकं व्रतं कर्म आपश्चन सर्वा देवता अपि प्रमिनन्ति जानन्ति, न केवलमहमेव ।
अस्य महतः सर्वोत्कृष्टस्य सत्यस्य परमेश्वरस्य महानि महान्ति सत्या सत्यानि करणानि कर्माणि नु इदानीं घ एव प्रवोचम् प्रावोचम् । विषयस्यासत्यत्वे कर्मणां सत्यत्वमयुक्तम् ।
ईदृक् नानाविधम् । अन्यथा बाधितम् । तामेव शक्तिं दर्शयति- यः सत्यरूपमिति ॥ सत्यकर्मा सत्यकर्मनामा ।
अप्रतिष्ठं बाधितत्वात् । ते असुराः । अपरस्परसम्भूतं परमेश्वराधिष्ठितायाः प्रकृतेर्महान्, महतोऽहङ्कार इत्यादिक्रमेण परस्परसम्भूतं न भवति । सत्यं न चेत् किं तर्हि ? अन्यत् सदस-द्भ्याम् । परस्परसम्भूतं न चेत् किं तर्हि ? कामहैतुकम् । काम इति कार्येण कारणं मिथ्याज्ञानमुप-लक्ष्यते । नष्टात्मानो दुष्टचित्ताः । अल्पबुद्धयोऽल्पज्ञानाः । प्रभवन्ति कलियुगादौ । क्षयाय अनिष्टप्राप्तये ।
भावबोधः
कविरित्यनेनैकार्थतापरिहारायाह- मनसामीशितेति ॥ ‘अच्छेन्द्राब्रह्मणस्पती’ इत्युत्तरवाक्यानुसारेण विशेष्यमाह- इन्द्राबृहस्पती इति ॥ अनाद्यनन्तमिति वाक्यं जगतोऽनाद्यनन्तत्वप्रतिपादकमपि साक्षात्कथं तत्सत्यत्वप्रतिपादकमित्यतोऽन्यथेतिपदं व्याचश्व्े- बाधितमिति ॥ अत एव कस्य चेदमित्याद्यपि साधकम् । अन्यथेत्यस्य प्रकारवैचित्र्यादिपरत्वे तु तदलग्नकमिति भावः । परस्परसम्भूतत्वस्यान्योन्याश्रयग्रस्तत्वेन तथाऽङ्गी-कार एव निन्दाहेतुर्न तु तद्विपरीताङ्गीकार इत्यतो व्याचश्व्े- परमेश्वराधिष्ठिताया इति ॥
भावदीपः
कविरित्यनेनापौनरुक्त्यायाह- मनसामीशितेति ॥ पृषोदरादित्वात्साधुरिति भावः । परिभू-रिति ॥ भवतेः क्विप् । भूरित्यस्यार्थ आश्रय इति । जेतोतेत्यस्यार्थः प्राप्तापीति । उतशब्दोऽप्यर्थ इति भावः । पद्मनाभतीर्थीये तु ‘बल्यादिदैत्यराज्याख्यं स्पार्हं वसु जेता इन्द्रादिभ्यो दाता च’ इत्युक्तम् । अनुपयुक्तं न भवतीत्यनन्तरमत इति योज्यम् । मघशब्दस्य कर्मनिर्णये धनवाचित्वोक्तेराह- धनवन्ताविति ॥ ‘अच्छेन्द्रा-ब्रह्मणस्पती’ इत्युत्तरार्धे श्रवणादाह- इन्द्राबृहस्पती इति ॥ स्वस्वामिसम्बन्धे षष्ठी इति भावेनोक्तम्- युवयो-रधीनमिति ॥ चनशब्दार्थस्यापीत्युक्तस्यार्थमाह- न केवलमहमेवेति ॥ प्रमिनोमीत्यन्वयः । अत इति योज्यम् । प्रघान्विति श्रुत्यर्थमाह- अस्येति ॥ इन्द्र पवित्रमिति प्रकृतेन्द्रपरामर्शी अस्येति शब्दः । अडभावश्छान्दस इति भावेनाह- प्रावोचमिति ॥ प्रावोचमेवेति वा सत्यान्येवेति वा एवकारान्वयः । ननु सृष्टिपालनादिकर्मणां सत्यत्वोक्त्या विश्वसत्यत्वे किमायातमित्यत आह- विषयस्येति ॥ अनादीति वचनार्थमाह- ईदृगिति ॥ अन्यथेत्यनूद्यार्थमाह- अन्यथा बाधितमिति ॥ अभूत्पुरेत्यादिनाऽन्वयः । क्वापि देशे कस्यापि पुरुषस्य ज्ञानं बाधितं नाभूदित्यर्थ इति भावः । तामेवेति ॥ ‘शक्तिं हरेर्ये न विदुः’ इत्युक्तामित्यर्थः । एकार्थत्वाद्धेतु-हेतुमद्भावानुपपत्तेराह- सत्यकर्मनामेति ॥ किमित्यस्यार्थः- सत्यं न चेत्किं तर्हीति ॥ अन्यदित्युत्तरम् । प्रतियोगिनमाह- सदसद्भ्यामिति ॥ सदसद्विलक्षणमित्यर्थः । लक्षणायां सम्बन्धप्रदर्शनायोक्तम्- कार्येण कारणमिति ॥ मिथ्याऽज्ञानमिति ॥ मिथ्याभूतमज्ञानमित्यर्थः । ‘अविद्याक्षेत्रमुत्तरेषाम्’ इत्युक्तेरज्ञानकार्यत्वात्कामादेः । दुष्टेषु नष्टशब्दप्रयोगादात्मनाशायोगाच्चाह- नष्टात्मान इति ॥ बुद्धिर्मन इति भ्रमनिरासायाह- अल्पज्ञाना इति ॥
वाक्यार्थदीपिका
(श्री.टि.)
कविरित्यनेन पुनरुक्तिपरिहाराय व्याचश्व्े- मनसामीशितेति ॥ प्रेरक इत्यर्थः । ‘परिभूः सर्वतो वरः’ इति प्रमाणोक्तं व्याख्यानमुपपादयितुं विग्रहं दर्शयति- परिभवतीति ॥ सर्वान् प्रति परि परितः, समन्तात् स्वमेव भवति वशीकरोतीत्यर्थः । तल्लब्धार्थमाह- सर्वतो वर इति ॥ स्वयं स्वयमेव । भूरित्यस्यार्थ आश्रय इति । विभक्तिव्यत्ययमभिप्रेत्याह- सर्वेष्वपीति ॥ स्पृहणीयम् अपेक्षणीयम् । वसु द्रव्यम् । अनुपयुक्तं न भवतीति ॥ तथा चार्थक्रियाकारित्वात्सत्यत्वमिति भावः । धनवन्ताविति ॥ ‘धनं वाव मघम्’ इति श्रुतेरिति भावः । ‘अच्छेन्द्राब्रह्मणस्पती’ इत्युत्तरवाक्यानुसारेण आह- इन्द्राबृहस्पती इति ॥ षष्ठ्यर्थसम्बन्धं दर्शयति- अधीनमिति ॥ सर्वदेवताप्रत्यक्षमेव तत्र प्रमाणमित्याह- वां युवयोरिति ॥ व्रतं कर्मेति ॥ ‘व्रतं विष्टीः कर्म’ इति तन्नामसु पाठादित्यर्थः । आप इत्यस्यार्थः- सर्वा देवता इति ॥ ‘आपा इत्याप इति’ इति खण्डे अप्शब्दस्य सर्वदेवतावाचकत्वोक्तेः । ‘आपो वै सर्वा देवताः’ इति श्रुतेश्चेति भावः । चनेत्यस्यार्थः- अपीति ॥ जानन्ती-ति ॥ तथा च प्रमाणदृष्टत्वात्सत्यत्वमिति भावः । घ एवेत्यादि ॥ तथा च प्रावोचं घ प्रावोचमेवेत्यर्थः । नन्वत्र परमेश्वरकर्मणामेव सत्यत्वं प्राप्तं न तु जगत इत्यत आह- विषयस्येति ॥ कर्मविषयीभूतस्य जगत इत्यर्थः । नन्वनाद्यनन्तमिति वाक्ये जगतोऽनाद्यनन्तत्वमेवोच्यते न सत्यत्वमित्यतस्तल्लाभायान्यथेत्येतद्व्याचश्व्े- बाधितमिति ॥ तथा च क्वापि देशे काले च कस्यापि पुंसोऽन्यथा बाधितं नैवेत्यर्थः । अत्राबाधितत्वोक्त्या सत्यत्वमवगम्यते यतस्तदेव सत्यत्वमिति भावः । प्रकर्षेण बहुकालमिति यावत्, न तिष्ठतीत्यप्रतिष्ठमिति पदार्थमभिप्रेत्य तत्र हेतुमाह- बाधितत्वादिति ॥ न हि बाधितं शुक्तिरजतादिकं बहुकालं तिष्ठतीति भावः । त आसुरा इति ॥ तथा चात्र असत्यत्ववादिनां निन्दया सत्यत्वमवगम्यत इति भावः । नन्वपरस्परसम्भूतत्वोक्त्या कथं तेषां निन्द्यत्वम्, अन्योन्याश्रयग्रस्तत्वेन परस्परसम्भूतत्वोक्तेरेव निन्दाहेतुत्वादित्यतोऽपरस्परसम्भूतत्वं यथा निन्दाहेतुः स्यात्तथा व्याचश्व्े- परमेश्वराधिष्ठिताया इत्यादिना ॥ सदसद्भ्यामिति ॥ सदसद्विलक्षण-त्वेनानिर्वाच्यमित्यर्थः । आत्मशब्देन जीवग्रहणे तस्य नाशासम्भवादाह- १नष्टचित्ता इति ॥ अल्पज्ञाना अल्पसम्यग्ज्ञानाः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
‘सार्वज्ञ्यात्कविरित्येव कथ्यते’ इत्यादि ईशावास्यभाष्यं मनसि निधाय कविरित्यादिश्रुतिं व्याचश्व्े- कविस्सर्वज्ञ इत्यादिना ॥ सर्वेषु कालेष्विति ॥ ‘व्यत्ययो बहुलम्’ इति स्मरणात् श्रुतौ पञ्चमी सप्तम्यर्थेति भावः । याथातथ्यत इति तृतीयान्तात्तसिरिति भावेनाह- याथार्थ्येनैवेति ॥ श्रुतौ औकारविभक्तेः ‘सुपां (पां.टि.) सुलुग्’ इति आकारादेश इति भावेनाह- मघवानाविति ॥ ‘मघ इति धनम्’ इति कर्मनिर्णयं मनसि निधायाह- धनवन्ताविति ॥ विशेष्याकाङ्क्षायामुत्तरश्रुत्युक्तेन्द्राबृहस्पत्योः सम्बन्ध इति भावेनाह- इन्द्राबृहस्पती इति ॥ ‘आपो वै सर्वा देवताः’ इति श्रुतिं मनसि निधायाह- सर्वा देवता इति ॥ ‘बहुलं छन्दसि’ इति स्मरणादडभावश्छान्दस इति भावेनाह- प्रावोचमिति ॥ जगत्सत्यत्वस्य श्रुतावश्रुतत्वेऽपि अर्थतस्तदवगमकत्वाद्युक्तं तत्र प्रमाणीकरणमिति भावेनार्थतस्तदवगतिं दर्शयति- विषयस्येति ॥ मूले सृष्ट्वा त्वभूत्सत्यकर्मेत्येव पाठः । आत्मभूरिति तु लेखकदोषपतित इति द्रष्टव्यम् । उपलक्षणहेतुभूतशक्यसम्बन्ध-मुपदर्शयति- कार्येणेति ॥ आत्मस्वरूपस्य नित्यत्वेन नाशायोगादन्तःकरणपरत्वेऽपि संसारदशायां नाशा-भावाद्व्याचश्व्े- दुष्टचित्ता इति ॥
लघुप्रभा
(व्या.टि.)
ननु मिथ्यात्वानुक्तावपि तत्कथं तत्सत्यत्वं लभ्यते । क्वापि तदनुक्तेः । न हि मिथ्यात्वानुक्तिमात्रेण तत्सत्यत्वोक्तिलाभः । मिथ्यात्वसत्यत्वयोः परस्परविरहरूपत्वेऽपि मिथ्यात्वानुक्तिसत्यत्वोक्त्योः परस्परविरह-रूपत्वाभावादित्यत आह- न केवलमित्यादिना ॥ अत्र श्रुतिस्मृत्युदाहरणान्तिमवाक्यस्यापेक्षितप्रतिज्ञांशं पूरयित्वा व्याचश्व्े- श्रुत्यादीति ॥ ज्ञानार्थात्कौतेः ‘अच इः’ इत्यौणादिकेकारप्रत्यये गुणावादेशयोः कविरिति ज्ञ इति लब्धावपि कर्मविशेषानुपादानात्सर्वज्ञ इति व्याख्यातम् । मनसामिति ॥ ईशेर्णिनिप्रत्यये ईशी ईशिता । व्यत्ययेन शकारस्य षकारः । शकन्ध्वादित्वात्पररूपत्वमिति भावः । परिभवतीति ॥ सर्वानिति योग्यतया सम्बन्धः । परिपूर्वाद्भवतेः क्विबिति भावः । भावं प्रकाशयति- सर्वत इति ॥ भूरिति गौणी वृत्तिः । तद्गुणमाह- आश्रय इति ॥ विभक्तिव्यत्यय इत्याह- सर्वेष्वपीति ॥ विपूर्वस्य दधातेरर्थमाह- निर्मितवा-निति ॥ स्पृहणीयमिति ॥ स्पृहाशब्दात् ‘विचित्रा हि तद्धितगतिः’ इति विषय इत्यर्थे तद्धितः । वसुपदार्थमाह- हविरादिकमिति ॥ प्राप्तापीति ॥ दातापीति च ॥ संवदति चेममर्थं यजुर्वेदः - ‘देहि मे ददामि ते नि मे देहि नि ते दधे’ इति । चिकेतेति ॥ किते रोगापनयनार्थकत्वाभावात् ‘गुप्तिज्किद्भ्यः सन्’ इति सनोऽभावः । मघवानाविति ॥ मघशब्दो वैदिकनिघण्टुषु धननामसु पठितः । तदनुरोधेन व्याचश्व्े- धनवन्ताविति ॥ रूपन्तु ‘छन्दसीवनिपौ वक्तव्यौ’ इति वनिपि ‘सुपां सुलुग्’ इत्याकारादेशे वनिपो वकारस्य दीर्घे च भवति । ‘अच्छेन्द्राब्रह्मणस्पती हविर्नोऽलं युजेव वाजिना जिगातम्’ इत्युत्तरार्धानुरोधेन विशेष्यं द्विरूपं निरूपयति- इन्द्राबृहस्पती इति ॥ ‘देवताद्वन्द्वे च’ इत्यानङ् । युवोरिति ॥ ‘ओसि च’ इत्येत्वे प्राप्ते पररूपमिति भावः । श्रुतौ चनेत्येकं पदं समुच्चयार्थमिति व्याचश्व्े- देवता अपीति ॥ ‘आपो वै सर्वा देवताः’ इति श्रुतेरिति भावः । ‘मीञ् हिंसायाम्’ इति धातोरुपसर्गोन्नीतमर्थमाह- प्रमिनन्ति जानन्तीति ॥ अत एव न ‘हिनुमीना’ इति (व्या.टि.) णत्वम् । प्वादिषूपसङ्ख्यानाद्धातोर्ह्रस्वः । परमेश्वरस्येति ॥ सत्यमिति सूर्यान्तर्गतनाम । ‘सत्यस्यापिहितं मुखम्’ इति, ‘सत्यं चित्रश्रवस्तमम्’ ‘सत्यं परं धीमहि’ ‘सैव हि सत्यादयः’ इति श्रुतिस्मृतिसूत्रेषु प्रयोगादिति भावः । ‘सदिति प्राणस् तीत्यन्नं यमित्यसावादित्यः’ इति अन्नप्राणादिनियामकत्वेन तत्रैव तच्छब्दनिर्वचनाच्च । महानीति शौ तलोपश्छान्दसः । ऋचि सत्येत्यत्र ‘छन्दसि बहुलम्’ इति शेर्लोपः । ‘घोऽव-धारणे’ इति ऋग्भाष्यमनुसन्धायाह- एवेति ॥ मन्त्रे दीर्घस्तु ‘ऋचि तुनुघमक्षुतङ्कुत्रोरुष्वाणाम्’ इति छान्दसः। ऋचि प्रवोचमित्यत्र ‘छन्दसि व्यवहिताश्च’ इत्युपसर्गव्यवधानम्, ‘छन्दस्यमाङ्योगेऽपि’ इत्यडभावं च मत्वा व्याचश्व्े- प्रावोचमिति ॥ स्वप्रतिज्ञासिद्धये श्रौतार्थापत्तिमाह- विषयस्यासत्त्व इति ॥ ईदृगिति ॥ ‘त्यदादिषु दृशोऽनालोचने कञ्च’ इति इदम्युपपदे दृशेश्चकारात् क्विनि ‘इदंकिमोरीश्की’ इति इदम ईशादेश इति भावः । बाधितमिति ॥ बाधायां निरवधिकत्वाभावात् । अवधिरेव सत्य इति बाधितमन्यथाभवतीति भावः । सत्य-कर्मनामेति ॥ ‘सत्यः सत्यपराक्रमः’ इति सहस्रनामसु पाठात्, ‘अथैनमाहुः सत्यकर्मेति सत्यं ह्येवेदं विश्वमसौ सृजते’ इति श्रुतेश्चान्वर्थकं नामेति भावः । अप्रतिष्ठमिति हेतुगर्भविशेषणमित्याह- बाधितत्वादिति ॥ असुरा इति ॥ असुराणां प्रकृतत्वादित्यर्थः । अन्यदिति ॥ तत्प्रतियोगिनमाह- सदसद्भ्यामिति ॥ दुष्टचित्ता इति ॥ दुश्व्े नष्टपदप्रयोगादिति भावः । कलियुगादाविति ॥ ‘मणिमत्पूर्वका दुष्टा दैत्या आसन्कलौ युगे । ते कुशास्त्रे प्रवर्तन्ते हरिवायुविरोधिनः’ इति स्कान्दवचनादित्यर्थः । इष्टप्राप्तौ हर्षः । अनिष्टप्राप्तौ हर्षक्षयः सुप्रसिद्ध इति भावः । अथ वा मिथ्योपदेशेन तमोगतयो भवन्ति । ‘क्षि निवासगत्योः’ इति धातोः ।
‘यावत्प्रयोजको ज्ञाने त•वत्तावच्छुभाधिकः ।
तथैव विपरीतेऽपि स्मृतौ ज्ञाने च तत्समम् ।
तमः…………………………. ॥’ इत्यादि ऋग्भाष्योक्तेरित्यर्थः ।