न हि शकुनिसूत्रयोः ..
वृक्षरसनदीसमुद्रदृष्टान्तदान्तिकवाक्ययोर्भेदपरत्वे साधकोपवर्णनम्
मूलम्
- न हि शकुनिसूत्रयोर् नानावृक्षरसानां नदीसमुद्रयोर् जीववृक्षयोर् अणिम-धानयोर् लवणोदकयोर् गन्धारपुरुषयोर् ज्ञप्राणादिनियामकयोः स्तेनापहार्ययोश्चै-क्यम् । ‘सति सम्पद्य न विदुः सति सम्पत्स्यामह इति त इह व्याघ्रो वा सिंहो वा’ इति ‘सत आगम्य न विदुः सत आगच्छामह इति । त इह व्याघ्रो वा सिंहो वा’ इति भेदापरिज्ञानेनानर्थवचनाच्च । न हि गृहादागतस्य गृहे प्रविष्टस्य च तदैक्यम् ।
तत्त्वमञ्जरी
दृष्टान्तवचनानां दार्ष्टान्तिकवचनानां च भेदविषयत्वं प्रतिपादयति- न हि शकुनिसूत्र-योरित्यादिना ॥ ‘यथा सोम्य मधु मधुकृतो निस्तिष्ठन्ति नानात्ययानां वृक्षाणां रसानां समवहारमेकतां गमयन्ति ते यथा’ इत्यारभ्य भेदापरिज्ञानादनर्थ उच्यते । यथा नानावृक्षरसाः परस्परं विवेकं न लभन्ते एवं प्रजाः सुषुप्तौ सति सम्पद्य ब्रह्मणि सम्पद्यापि सत आत्मनां चाधाराधेय-भावलक्षणं विवेकं न विदुः । प्रबोधसमये सत आगम्यापि सत आगच्छाम इति सतोऽपादानत्वेन विवेकं न विदुः । यद्यद् भवन्ति तत्तदा भवन्ति यथा यथाऽज्ञानिनो भवन्ति तत्तदानु-कूल्येनानर्थभाजो भवन्ति ।
सत आगमनात् सति सम्पत्तेश्च तेनैक्यं किं न स्यादित्यत आह- न हि गृहादिति ॥
टीका
एवं स्थाननवकेऽपि भेद एव दृष्टान्ता अभिहिताः । न त्वेकोऽपि दृष्टान्तोऽभेदविषयोऽभि-हितः । ततो नायमभेदोपदेश इत्युक्तम् । तद्विवृणोति- नहीति ॥ ‘अल्पाच्तरम्’ इत्यस्या-नित्यत्वाच्छकुनिसूत्रयोरिति साधु । अ(ज्ञस्ये)ज्ञेति ज्ञस्याप्युपलक्षणम् । अपहार्यं द्रव्यं, तत्सम्बन्धाद्राजाऽपि । ऐक्यं न हि, किन्तु भेद एव । प्रसिद्ध इति शेषः ।
ननु नानावृक्षरसदृष्टान्ते नदीसमुद्रदृष्टान्ते च ते यथा तत्र विवेकं न लभन्ते, ता यथा तत्र न विदुरिति भेदापरिज्ञानमात्रमुच्यते न तु भेदस्य विद्यमानताऽपि । अतो यथा नानावृक्षरसा एकीभूय मधुभावमापन्ना न भेदं जानन्ति, यथा च नद्यः समुद्रेणैक्यमापन्नास् तथा जीवाः परमानन्देना-परिच्छिन्नेन ब्रह्मणैकतां सुप्तौ मुक्तौ चाऽपन्ना न भेदं पश्यन्तीति शक्यते व्याख्यातुम् । तत्कथमुच्यते नैकोऽपि दृष्टान्तोऽभेदविषयोऽस्तीति । तत्राऽह- सतीति ॥ नानावृक्षरसदृष्टान्तमुक्त्वा सति सम्पद्येति दार्ष्टान्तिकवाक्ये, नदीसमुद्रदृष्टान्तं चोक्त्वा सत आगम्येति दार्ष्टान्तिकवाक्ये जीवानां विद्यमानभेदापरिज्ञानेन व्याघ्रादित्वापत्तिरूपस्यानर्थस्योक्तत्वाद् दृष्टान्तवाक्ययोरपि विद्यमान-भेदापरिज्ञानमेव विवक्षितमिति ज्ञायते । उपपत्त्यन्तरसमुच्चयार्थश्चशब्दः । नानावृक्षरसा हि परस्परं भिन्ना एव स्वसमवेतं भिन्नमेव वा स्वपरिणामं भिन्नाभिन्नमेव वा प्रागसिद्धं मधूत्पादयन्ति न तु परस्परभेदपरित्यागेन प्राक् सिद्धेन मधुनैक्यमापद्यन्ते । नदीसमुद्रदृष्टान्ते तूपपत्तिं स्वयमेव वक्ष्यत्याचार्यः ।
ननु दार्ष्टान्तिकवाक्ययोरपि कथं भेदस्य विद्यमानता अवगम्यत इति चेद् जीवानां प्रवेशागमनक्रिये प्रति सतो ब्रह्मणोऽधिकरणत्वापादानत्वोक्तेः । ततोऽपि कथं भेदावगतिरिति चेत् कर्तुरधिकरणा-पादानाभ्यां भेदस्यैव लोके दृष्टत्वादित्याशयवानाह- न हीति ॥ क्रमस्याविवक्षितत्वादेवमुक्तम् । नदीसमुद्रदृष्टान्ते द्वयस्यापि विवक्षितत्वाच्च । विवक्षातः कारकाणि भवन्तीत्यतः कर्मणोऽधि-करणत्वविवक्षया श्रुतौ सति सम्पद्येत्युक्तम् । तदनुसारेण अत्रापि गृहे प्रविष्टस्येति । किञ्च भेदस्या-विद्यमानत्वे ब्रह्मणः काल्पनिकाधिकरणत्वाद्यज्ञानस्यानर्थहेतुत्वाभिधानमयुक्तं स्यात् । अधिकरण-त्वाद्युक्त्यैक्यमेव विवक्षितमित्यप्यनेन निरस्तम् । कर्तुरधिकरणादिनैक्यस्य क्वाप्यदर्शनात् ।
भावबोधः
ज्ञस्याप्युपलक्षणमिति ॥ ‘तावज्जानाति’ इत्यस्यापि श्रुतौ सद्भावादिति भावः । तत्सम्बन्धा-द्राजाऽपीति ॥ तथा च चोरराज्ञोरिव जीवेश्वरयोरपि भेदः सिद्ध्यतीति भावः । परमानन्देनापरिच्छिन्नेनेति ॥ मधुभावापन्ननानावृक्षरसदृष्टान्ताभिप्रायेण परमानन्द इति, नदीसमुद्रदृष्टान्ताभि-प्रायेणापरिच्छिन्नेनेत्युक्तमित्यवधेयम् । नदीसमुद्रदृष्टान्ते द्वयस्यापीति ॥ ‘ताः समुद्रात्समुद्रमेवापियन्ति’ इत्यत्र नदीकर्तृकागमनप्रवेशलक्षणक्रिये प्रति समुद्रस्यापादानत्वकर्मत्वयोरभिधानात्, ‘एवमेव खलु’ इति दार्ष्टान्तिकवाक्ये सतः प्रजाकर्तृकप्रवेशनक्रियां प्रति कर्मत्वमपि विवक्षितम् । अत एव पूर्वमेव परमेश्वरे स्थित्वाऽपि तमाश्रिताः स्म इति न विदुरित्युक्तम् । तत्र च दृष्टान्तवाक्यानुसारेण सतोऽपादानत्वकर्मत्वयोः पूर्वोत्तरभावो वक्तव्यः । तदपेक्षया गृहादागतस्य गृहं प्रविष्टस्य चेत्येवं क्रमेणोक्तमित्यर्थः ।
भावदीपः
स्थाननवकेऽपीत्यादिवाक्यं विवृण्वन्नेवोत्तरवाक्यमवतारयति- एवमित्यादिना ॥ एवकारार्थः- न त्वित्यादि ॥ ‘न चायमभेदोपदेशः’ इति प्रागुक्तसाध्येनास्यान्वयं दर्शयति- ततो नायमिति ॥ सूत्रपदस्या-ल्पाच्तरत्वात्सूत्रशकुन्योरिति भाव्यमित्यत आह- अल्पाच्तरमित्यस्यानित्यत्वादिति ॥ ‘अल्पाच्तरं पूर्वम्’ इति सूत्रे तरप् स्वार्थे, द्वन्द्वसमासे यदल्पाच्कं पदं तत्पूर्वं प्रयोज्यमिति पूर्वनिपातोक्तेरनियतत्वात्क्वचिदन्यथाऽपि निर्देशो युक्त इत्यर्थः । अनियतत्वं ‘नासिकास्तनयोर्ध्माधेटोः’ इत्यादिसौत्रनिर्देशादिति भावः । ज्ञस्याप्युप-लक्षणमिति ॥ तावज्जानातीत्युक्तबाधकज्ञानिनोऽपीत्यर्थः । तत्सम्बन्धाद्राजाऽपीति ॥ तथा च चोरस्य राज्ञश्चेत्यर्थः । ‘सन्ति च भेदे सर्वागमाः’ इति प्राक्तनप्रतिज्ञाऽनुगुण्यायाऽह-किन्तु भेद एव प्रसिद्ध इति शेष इति ॥ मधुभावमापन्ननानावृक्षरसदृष्टान्तोक्तिबलेन वा सति सम्पद्येति दार्ष्टान्तिके सुप्त्यादौ प्राप्त्युक्तिबलेन वा लब्धं विशेषणमाह- परमानन्देनेति ॥ सुप्तावुपाधिविलयेन जीवानां परमानन्देन ब्रह्मणा परैरेकीभावप्राप्तेरभ्यु-पेतत्वाद्भेदाज्ञानहेतुत्वेनैतदुक्तिः । अपारसमुद्रेणैकीभावदृष्टान्तोक्तिबलेन लब्धमाह- अपरिच्छिन्नेनेति ॥ उपपत्त्यन्तरेत्युक्तमाह- नानावृक्षरसा हीति ॥ न्यायमतरीत्याऽऽह- स्वसमवेतमिति ॥ वेदान्तरीत्याऽऽह- स्वपरिणाममिति ॥ वक्ष्यतीति ॥ न हि भिन्नानामित्यादिनेति भावः । ननु गृहे प्रविष्टस्य गृहादागतस्येति वाच्यम् । श्रौतक्रमात्, प्राक् तथैव निर्देशाच्चेत्यत आह- क्रमस्येति ॥ उपपादन एव तात्पर्यं न क्रम इति भावः। द्वयस्यापीति ॥ ‘समुद्रात्समुद्रमेवापियन्ति’ इति दृष्टान्तोक्त्यनुरोधात्सत आगम्येत्यादेरिव ‘सति सम्पद्य न विदुः सति सम्पत्स्यामहे’ इत्यस्यापि विवक्षितत्वात् तत्क्रमानुरोधेन चायं निर्देश इत्यर्थः । ननु गृहं प्रविष्टस्येति वाच्यम् । विशतेः सकर्मकत्वात् । यदि श्रुत्यनुसारादेवमुक्तिस्तर्हि श्रुतावप्येवमुक्तेः किं बीजमित्यत आह- विवक्षात इति ॥ गृहे प्रविश्व्स्येति ॥ उक्तमित्यनुषङ्गः । ननु श्रुतौ सति सम्पद्येति सच्छब्दोक्तब्रह्मणोऽधि-करणत्वं काल्पनिकं, न वास्तवं, येन तद्बलाद्भेदस्य विद्यमानत्वसिद्धिरित्यतो वा ‘परेऽव्यये सर्व एकीभवन्ति’ इत्यत्रेवाधिकरणोक्तिबलादेवेश्वरैक्यसिद्धेर् भेदस्यासत्यतेत्यतो वा भेदापरिज्ञानेनानर्थवचनाच्चेत्येतदपि योज्य-मिति भावेनाऽह- किञ्चेति ॥ अधिकरणत्वादीति ॥ अपादानत्वमादिपदार्थः । अनेनेति ॥ भेदाज्ञान-स्यानर्थहेतुत्वकथनायोगेनेत्यर्थः । दोषान्तरञ्चाह- कर्तुरिति ॥
वाक्यार्थदीपिका
(श्री.टि.)
ननु ‘अल्पाच्तरं पूर्वम्’ द्वन्द्वसमासे यदल्पाच्तरं तत्प्राक्प्रयोज्यमिति सूत्राद् धवखदिरावितिवत् सूत्रशकुन्योरिति वक्तव्यं शकुनिसूत्रयोरिति कथमुक्तमित्यत आह- अनित्यत्वादिति ॥ ‘आन्महतस्समा-नाधिकरणजातीययोः’, ‘समुद्राभ्राद्धः’ इत्यत्राल्पाच्तरस्यापि जातीयशब्दस्य अभ्रशब्दस्य च पश्चात्प्रयोगेणा-नित्यत्वं ज्ञायत इत्यर्थः । केचित्तु ‘अभ्यर्हितं पूर्वम्’ इत्यभ्यर्हितस्यापि पूर्वं प्रयोगोक्तेरल्पाच्तरमित्यस्यानित्यत्वं ज्ञायते । प्रकृते च सूत्रापेक्षया शकुनेश्चेतनत्वेनाभ्यर्हितत्वात् प्रथमप्रयोग इति भाव इत्याहुः । ननु, तावन्न जानातीतिवत् तावज्जानातीत्यपि श्रवणाद् ज्ञाज्ञप्राणादिनियामकयोरिति वक्तव्येऽज्ञेत्येकस्यैव ग्रहणं किमर्थमित्यत आह- ज्ञस्याप्युपलक्षणमिति ॥ तत्सम्बन्धादिति ॥ द्रव्यस्वामित्वरूपात् सम्बन्धादित्यर्थः । राजाऽ-पीति ॥ अपहार्यशब्देनोच्यत इत्यर्थः । तथा च चोरराज्ञोरिव जीवेश्वरयोरपि नैक्यं किन्तु भेद एवेति भावः । न तु भेदस्य विद्यमानताऽपीति ॥ तथा च भेदस्याभावादेव तदपरिज्ञानमुच्यत इति भावः । आपन्ना न भेदं जानन्तीति वर्तते । मधुभावापन्ननानावृक्षरसदृष्टान्ताभिप्रायेण परमानन्देनेत्युक्तम् । नदीसमुद्रदृष्टान्ताभि-प्रायेणापरिच्छिन्नेनेत्युक्तमिति द्रष्टव्यम् । ब्रह्मणो मधुवदानन्दरूपत्वात्समुद्रवदपरिच्छिन्नत्वाच्चेति भावः । भेदस्य विद्यमानतायां युक्त्यन्तरस्यानुक्तत्वाच् चशब्दस्य वैयर्थ्यमित्यत आह- उपपत्त्यन्तरेति ॥ तदेवोपपत्त्यन्तरं दर्शयति- नानावृक्षरसा हीत्यादिना ॥ अत्र रसशब्देन रसवन्तः पुष्पावयवा ग्राह्याः। अन्यथा केवलगुणानामेव रसानां ग्रहणे स्वसमवेतमित्युच्यमानं मधु प्रति समवायिकारणत्वमयुक्तं स्यात् । गुणानां समवायिकारणत्वा-भावात् । केवलं गुणानां परिणामाभावेन स्वपरिणाममित्युच्यमानपरिणामिकारणत्वायोगाच्चेति भावः । स्वसमवेतं भिन्नमिति तार्किकरीत्या, स्वपरिणाममित्यादि परिणामवादिरीत्येति द्रष्टव्यम् । ननु नदीसमुद्रदृष्टान्ते चशब्द-समुच्चितमुपपत्त्यन्तरं किमित्यत आह- नदीसमुद्रदृष्टान्ते त्विति ॥ वक्ष्यतीति ॥ न हि भिन्नानां नदीजल-परमाणूनामित्यादिनेत्यर्थः । तथा च नानावृक्षरसदृश्वन्त एवोपपत्त्यन्तरसमुच्चायकोऽयं चशब्दो न तु नदीसमुद्र-दृष्टान्तेऽपीति भावः । उक्तेरिति ॥ ‘सति सम्पद्य न विदुः’ ‘सत आगम्य न विदुः’ इति वाक्याभ्यामित्यर्थः। अपादानत्वोक्तेरिति ॥ विश्लेषावधिरपादानम् । यथोक्तम् ‘ध्रुवमपायेऽपादानम्’ इति । अपायो विश्लेषः । तस्मिन्सति यद् ध्रुवं तदपादनसञ्ज्ञं स्यात् । ‘अपादाने पञ्चमी’ ‘शृङ्गाच्छरो जायते’ ‘गोमयाद्वृश्चिको जायते’ इत्युदाहरणम् । अत्र च सत आगम्येत्यागमनक्रियां प्रति सतो ब्रह्मणोऽपादानत्वोक्तेरित्यर्थः । ततोऽपि उक्तेरपि।
ननु नानावृक्षरसदृष्टान्ते सति सम्पद्येति दार्ष्टान्तिकवाक्यानुसारेण गृहे प्रविष्टस्येत्यादौ वक्तव्यम् । नदी-समुद्रदृष्टान्ते सत आगम्येति दार्ष्टान्तिकवाक्यानुसारेण गृहादागतस्येति पश्चाद्वक्तव्यम् । एवं क्रमेण वक्तव्ये कथं तमुल्लङ्घ्य गृहादागतस्य गृहे प्रविष्टस्येति व्यत्यासेनोक्तमित्यत आह- क्रमस्येति ॥ एवमुक्तौ निमित्तान्तरं चाऽह- नदीसमुद्रदृष्टान्ते द्वयस्यापि विवक्षितत्वाच्चेति ॥ ‘तास्समुद्रात्समुद्रमेवापियन्ति’ इति दृष्टान्तवाक्ये नदीकर्तृकागमनक्रियां प्रति समुद्रस्यापादनत्वं समुद्रादित्यनेनोक्तम् । नदीकर्तृकप्रवेशलक्षणक्रियां प्रति कर्मत्वं समुद्रमेवेत्यनेनोक्तम् । तदनुसारेण एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्येति दार्ष्टान्तिकवाक्येऽपि (श्री.टि.) सतः प्रजाकर्तृकागमनक्रियां प्रत्यपादानत्वमुक्तम् । प्रजाकर्तृकप्रवेशक्रियां प्रति सतः कर्मत्वमपि तत्र विवक्षितमिति वक्तव्यम् । अत एव पूर्वं खण्डार्थकथनसमये ‘एवं परमेश्वरे स्थित्वाऽपि तमाश्रिताः स्म इति न विदुः’ इत्युक्तम् । तथा च तास्समुद्रात्समुद्रमेवेति दृष्टान्तवाक्यानुसारेण दार्ष्टान्तिके सतोऽपादानत्वं पूर्वं वक्तव्यम् । कर्मत्वं च पश्चाद्वक्तव्यम् । तदपेक्षया गृहादागतस्य गृहे प्रविष्टस्येत्युक्तमित्याशयः । ननु नाना-वृक्षरसदृश्वन्ते जीवप्रवेशक्रियां प्रति सतो ब्रह्मणः कर्मत्वेन सन्तं सम्पद्येति वक्तव्यं न तु सति सम्पद्येति । अतस्तदनुसारेण गृहं प्रविष्टस्येति वक्तव्यं न तु गृहे प्रविश्व्स्येति तत्राऽह- विवक्षात इति ॥ इत्यत इति वच-नात् । अनर्थेति ॥ व्याघ्रत्वापत्तिरूपेत्यर्थः । अभिधानं त इह व्याघ्रो वेत्यादिनोच्यमानम् । अधिकरणत्वा-द्युक्त्येत्यादिपदेनापादानत्वग्रहणम् । एतेनैवेत्युक्तं विशदयति- कर्तुरिति ॥ ऐक्यस्य ऐक्यव्यपदेशस्य ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
ननु ‘अल्पाच्तरं पूर्वम्’ इति सूत्रेण ‘द्वन्द्वे घि’ इति घ्यन्तशास्त्रापवादाद् अल्पाच्तरसूत्रशब्दस्यैव पूर्वनिपाते सूत्रशकुन्योरिति भवितव्यम् । शकुनिसूत्रयोरिति तु कथमित्यतः, ‘समुद्राभ्राद्धः’ ‘लक्षणहेत्वोः क्रियायाः’ ‘समानाधिकरणजातीययोः’ इत्यादौ तत्र तत्र व्यभिचारं कुर्वता सूत्रकारेण पूर्वनिपातप्रकरणस्या-नित्यताया ज्ञापितत्वेनानित्यत्वसिद्ध्या क्वचिदप्रवृत्त्युपपत्तेर्नानुपपत्तिरित्यभिप्रेत्याऽह- अनित्यत्वादिति ॥ ‘अल्पाच्तरमिति लक्षणस्य व्यभिचारं कुर्वाणेनाप्येतदेव सूचितम् । अन्यथा जयनिर्णीतिकारक इत्यवक्ष्यत्’ इति युक्तिपादीयसुधाग्रन्थस्तु तन्नित्यत्वाभ्युपगमवादेन प्रवृत्त इति न तद्विरोध इति द्रष्टव्यम् । यत्तु ‘अभ्यर्हितं च’ इत्यभ्यर्हितस्यापि पूर्वप्रयोगस्मरणादिति अनित्यत्वादित्यस्य भाववर्णनम्, तत्तु ‘आन्महतः समानाधिकरण-जातीययोः’ इति स्थान्यादेशोक्तिव्यत्ययेन द्वन्द्व अल्पाच्तरस्य परनिपातेन च ‘अल्पाच्तरम्’ इत्यस्यानित्य-त्वात्’ इत्यनित्यत्वोपपादकगीताभाष्यटीकाया अदर्शनमात्रमूलकत्वेनायुक्तत्वादुपेक्ष्यम् । उपलक्षणमिति ॥ तावन्न जानातीत्यादिनाज्ञस्येव तावज्जानातीति ज्ञस्यापि श्रुतावुक्तत्वादिति भावः । समुच्चयार्थमिति ॥ ततश्च समुच्चायकत्वान्न तदानर्थक्यमिति भावः । चशब्दसमुच्चितमुपपत्त्यन्तरमेवाह- नानावृक्षरसा इति ॥
ननु ‘गृहादागतस्य गृहे प्रविष्टस्य’ इति वचनमयुक्तम् । ‘सति सम्पद्य सत आगम्य’ इति दार्ष्टान्तिकवाक्या-नुसारेण गृहे प्रविष्टस्य गृहादागतस्येत्येव वक्तव्यत्वादित्यत आह- क्रमस्येति ॥ अत्र पक्षे क्रमस्याविवक्षाश्रयणं भवतीत्यपरितोषात् पक्षान्तरमाह- नदीसमुद्रदृष्टान्त इति ॥ ‘ताः समुद्रात्समुद्रमेवापियन्ति’ इति नदी-समुद्रदृष्टान्तवाक्येन नदीकर्तृकागमनप्रवेशलक्षणक्रिये प्रति समुद्रस्यापादानत्वकर्मत्वयोरभिधानेन ‘एवमेव खलु सोम्येमाः सर्वाः प्रजाः सत आगम्य न विदुः सत आगच्छामहे’ सति दार्ष्टान्तिकवाक्ये सच्छब्दाभिधेयस्य ब्रह्मणः प्रजाकर्तृकागमनक्रियां प्रत्यपादानत्वमात्रोक्तौ दृष्टान्तदार्ष्टान्तिकयोर्वैषम्यापत्त्या प्रजाकर्तृकप्रवेशनक्रियां प्रति कर्मत्वमपि सच्छब्दाभिधेयस्य ब्रह्मणोऽवश्यमभ्युपेयम् । अत एव पूर्वं नदीसमुद्रदृष्टान्तव्याख्यानपरे ‘एवं परमेश्वरे स्थित्वाऽपि तमाश्रिताः स्म इति न जानन्ति’ इति टीकाकारैर्व्याख्यातम् । तत्र च ‘ताः समुद्रात्समुद्र-मेवापियन्ति’ इत्यत्र समुद्रस्य नदीकर्तृकागमनप्रवेशनकियां प्रत्यपादनत्वकर्मत्वक्रमानुसारेण ‘एवं सत आगम्य (पां.टि.) न विदुः’ इति दार्ष्टान्तिकवाक्येऽपि ब्रह्मणः प्रजाकर्तृकप्रवेशनादिक्रियापादानत्वकर्मत्वयोः क्रमस्य वक्तव्यत्वात्तदनुसारेण गृहादागतस्य गृहे प्रविष्टस्येति वचनं सङ्गतमेवेति भावः ।
नन्वेवं गृहस्य प्रवेशं प्रति कर्मत्वाद् गृहं प्रविष्टस्येति कर्मणि द्वितीयया भवितव्यम् । गृहे प्रविष्टस्येति सप्तमी तु कथम् । न च ‘सति सम्पद्य’ इति श्रौतसप्तमीनिर्देशानुसारेणायं सप्तमीनिर्देश इति वाच्यम् । तत्रापि सच्छब्दा-भिधेयस्य ब्रह्मणः प्रवेशं प्रति कर्मत्वेन सन्तं सम्पद्येति द्वितीयाप्रयोगस्यैव कर्तव्यत्वेन सप्तमीप्रयोगस्यायुक्त-त्वादित्यतः, सतोऽपि कर्मत्वस्याविवक्षयाऽसतोऽप्यधिकरणत्वस्य विवक्षया सप्तमीप्रयोगोपपत्तेः श्रौतसप्तमी-प्रयोगानुसारेण गृहे प्रविष्टस्येति सप्तमीप्रयोगो युक्त एवेत्याशयेन श्रौतसप्तमीप्रयोगं नियामकोक्त्योपपादयन्नाह- विवक्षात इति ॥ अन्यथा वृक्षस्यापि शाखां प्रत्यधिकरणतया वृक्षे शाखेति सप्तम्या एव प्रसङ्गेन वृक्षस्य शाखेति षष्ठी न श्रूयेतेति भावः ।
लघुप्रभा
(व्या.टि.)
अनित्यत्वादिति ॥ तत्त्वं च समानाधिकरणजातीययोरिति व्यत्यस्तप्रयोगदर्शनादिति भावः । अज्ञस्येति ॥ यद्यपि षष्ठी न श्रूयते, ‘सुपो धातुप्रातिपदिकयोः’ इति तल्लोपात् । तथापि प्रथमान्तेन परिनिष्ठितविभक्त्या वा विग्रह इति शाब्दिकरीत्या विग्रहविभक्तिमाश्रित्योक्तमिति ध्येयम् । अज्ञेतीत्येव क्वचित् पाठः । तत्सम्बन्धादिति ॥ तदभिमानादित्यर्थः । परिशेषयति- किन्त्विति ॥ अपव्याख्याननिरासायोपक्षिपति- नन्विति ॥ व्याघ्रादीति तद्गुणसंविज्ञानः । इति ज्ञायत इति ॥ वाक्यशेषन्यायेनेत्यर्थः । तामेवोपपत्तिं दर्शयति- नानावृक्षरसा हीति ॥ भिन्नमेवेति न्यायनयानुवादः । भिन्नाभिन्नमिति वस्तुस्थितिः । अयं भावः । नाना-वृक्षरसानां मधुनैकीभावः किं साध्येनोत सिद्धेन । नाद्यः । साध्यस्योत्पाद्यत्वेन प्रागभावात् । भेदाभेदेऽपि रस-भावे मधुभावाभावात् । न द्वितीयः । सिद्धमधुनोऽभावात् । भावेऽपि भेदपरित्यागेनाभेदभावनाननुभवाच्चेति । तदेतदाह- न त्विति ॥ उपपत्तिमिति ॥ इहत्यचशब्दसूचितामित्यर्थः । जीवानामिति कर्तरि षष्ठी । अत्रैतौ प्रयोगौ विवक्षितौ । जीवाः सतो भिद्यन्ते तदधिकरणकप्रवेशनकर्तृत्वात् तदपादानकागमनकर्तृत्वाच्च । सद्वा जीवेभ्यो भिद्यते तत्कर्तृकप्रवेशनाधिकरणत्वात् तत्कर्तृकागमनापादानत्वाद् यदेवं तदेवमिति । तत्र हेत्वसिद्धि-परिजिहीर्षयोक्तेरित्युक्तम् । हेतूनामप्रयोजकतामशङ्कते- ततोऽपीति ॥ भेदस्यैवेति नियमोक्तिः। उक्तिक्रम-वैपरीत्ये हेतुमाह- क्रमस्येति ॥ द्वयस्येति ॥ समुद्रात्समुद्रमेवेति आगमनप्रवेशद्वयस्येत्यर्थः । ननु प्रविशतेः सकर्मकत्वाद्गृहमिति द्वितीयया भाव्यम् । गृह इति कथम् । न च श्रुत्यनुसारिणीयमुक्तिरिति वाच्यम् । श्रुतावपि सम्पद्यतेः सकर्मकत्वेन सदिति भाव्यत्वादित्यत आह- विवक्षात इति ॥ तदुक्तं महाभाष्ये ‘सतोऽप्यविवक्षा भवति । यथाऽनुदरा कन्येति । असतोऽपि विवक्षा भवति । यथा विन्ध्यो वर्धितकमिति’इति । अयुक्तमिति ॥ प्रत्युत मिथ्याभूतज्ञानस्यैवानर्थहेतुत्वेन विपरीतमेवोचितमिति भावः । स्वाभिमतकर्तृत्वाद्यनुमानस्य व्याप्तिप्रदर्शन-परतया मूलं व्याख्याय परोक्ताधिकरणत्वानुमाननिरासपरतयाऽपि व्याचष्टे- अधिकरणत्वादीति ॥ अनेन मूलेन । निरासप्रकारं दर्शयति- कर्तुरिति ॥ हेतुगर्भविशेषणम् । साध्याभावव्याप्ति(प्य)प्रदर्शनेन व्याप्त्यभाव-प्रदर्शनमिदम् ।