०५ भेदश्रुतीनामयथार्थवाचकत्वस्याङ्गीकारेऽनिष्टापादनम्

कथं च श्रुतिसिद्धो ..

भेदश्रुतीनामयथार्थवाचकत्वस्याङ्गीकारेऽनिष्टापादनम्

मूलम्

  • कथं च श्रुतिसिद्धो जीवपरमात्मभेदो निराक्रियते । मिथ्यावादित्वे च श्रुतेः कथमैक्यस्य सत्यत्वम् । कथं चैवंवादिनां वेदवादित्वम् । वेदोक्तस्य मिथ्यात्वाङ्गी-कारादेव ह्यवेदवादित्वं बौद्धादीनामपि । अतो विष्णोः सर्वोत्तमत्व एव महातात्पर्यं सर्वागमानाम् ।

तत्त्वमञ्जरी

एवंवादिनां वेदोक्तस्य भेदस्य मिथ्यात्ववादिनाम् ।

टीका

यदैवं प्रत्यक्षानुमानसिद्धभेदबाधनमप्यनुमानैर् न शक्यं किमु वाच्यं तदाऽपौरुषेय-त्वेनानाशङ्कितदोषया श्रुत्या सिद्धस्य जीवपरमात्मभेदस्येत्याशयवानाह- कथं चेति ॥ भेदश्रुतीना-मतत्त्वावेदकत्वाद्युक्तं तद्बाधनमिति चेन्न । परिशेषप्रमाणेन निराकृतत्वात् । अधिकं च दोषमाह- मिथ्यावादित्वे चेति ॥ जीवेश्वरैक्यमपि हि श्रुतिसिद्धमित्येव परेणाङ्गीक्रियते । तत्र भेदश्रुतेर् मिथ्यावादित्वे श्रुतित्वाविशेषादैक्यश्रुतेरपि तथात्वप्राप्तेः कथं तत्प्रतिपादितस्यैक्यस्य सत्यत्वमङ्गीक्रियते । बाधकानामत्रापि सत्त्वात् । दोषान्तरमप्याह- कथं चैवमिति ॥ एवंवादिनां वेदोक्तस्यापि मिथ्यात्वमङ्गीकुर्वताम् । वेदोक्तस्य मिथ्यात्वाङ्गीकारेऽपि कुतो न वेदवादित्वमित्यतो व्याप्तिं दर्शयति- वेदोक्तस्येति ॥

ननु वेदोक्तस्य मिथ्यात्वाङ्गीकारादधिकमवेदवादित्वं नास्ति । तत्कथं व्याप्यव्यापक-भावा(द्यमि)दिकमिति चेन्न । व्यवहारस्यात्र विवक्षितत्वात् । विमतो वैदिकत्वेन न व्यवहर्तव्यः, अवैदिकत्वेन व्यवहर्तव्यो वा वेदोक्तस्य मिथ्यात्वाङ्गीकारित्वाद् बौद्धादिवदिति ।

ननु मया वेदैकदेशस्य तत्त्वावेदकत्वमङ्गीक्रियत इति चेन्न । बौद्धादीनामपि तत्साम्यात् । न हि तेऽपि वेदोक्तं स्वदर्शनानुगुणमपि मिथ्येत्याहुः । न वयं बौद्धादिवद् वेदस्य सर्वथाऽप्रामाण्यं ब्रूमः । किन्तु मन्दाधिकारिणः प्रति वेदो भेदाश्रयं कर्मादिकं प्रतिपादयतीति वदाम इति चेत् । सत्यम् । तथाऽपि उच्यमानस्य मिथ्यात्वाङ्गीकारात् किमनेन वल्गितेन । ऐक्यज्ञानस्य मिथ्याभूतमपि कर्मादिकमङ्गमिति चेन्न । भेदवासनापरिपाकस्य तद्विरोधित्वेनाङ्गत्वानुपपत्तेः । अनुवादपरोऽसौ वेदभाग इति चेन्न । अनुवादे प्रयोजनाभावात् । ‘नेह नाना’ इति प्रतिषेधार्थमिति चेन्न । स्वर्गापूर्वादीनां वेदमन्तरेण प्राप्त्यभावात् । वेदप्राप्तप्रतिषेधे पुनरप्रामाण्यतादवस्थ्यात् ।

किञ्च तत्त्वस्यावेद्यत्वेन नैकदेशस्यापि तत्त्वावेदकत्वमङ्गीकर्तुं शक्यते । तथाऽपि प्रयोजन-हेतुत्वमस्तीति चेन्न । प्रयोजनवत्त्वस्य प्रामाण्यपदार्थत्वाभावात् । अन्यथा मणिप्रभाविषयमणि-विभ्रमस्यापि प्रामाण्यप्रसङ्गात् । लोकसिद्धार्था(न्ता)ङ्गीकारेण तत्त्वविचारो हि परीक्षकाणामुचितो न तु स्वसङ्केतेनेति । एवं बाधकपरिहारेण यत्सिद्धं तदुपसंहरति- अत इति ॥ सिद्धमिति वाक्य-शेषः ।

भावबोधः

अधिकं चेति ॥ अनेन ‘मिथ्यावादित्वे च’ इति चशब्द उक्तयुक्तिसमुच्चयार्थ इत्युक्तं भवति । ऐक्यज्ञानस्येति ॥ वाक्यस्यैवमादेर्मिथ्यात्वेऽपि तात्पर्यार्थभूतैक्यस्य सत्यत्वान्न वेदाप्रामाण्यमिति भावः । अप्रामाण्यतादवस्थ्यादिति ॥ नित्यातीन्द्रियप्रतिपादकवेदस्यानुवादकत्वाभावादिति भावः । प्रयोजनहेतुत्व-मिति ॥ ‘सिद्धन्तु निवर्तकत्वात्’ इत्युक्तप्रकारेणाज्ञाननिवृत्तिरूपप्रयोजनहेतुत्वमित्यर्थः । ननु मणिप्रभायां मणिभ्रमस्यापि प्रयोजनवत्त्वलक्षणप्रामाण्यमङ्गीक्रियत एवेति इष्टापत्तिरित्यत आह- लोकसिद्धार्थेति ॥

भावदीपः

परिशेषेति ॥ अनिर्वचनीयविषयकत्वासद्विषयकत्वसद्विषयकत्वानां मध्य आद्यद्वयस्य निरसनेनान्त्य-पक्षस्य साधितत्वेनातत्त्वावेदकत्वस्य निरस्तत्वादित्यर्थः । बाधकानामत्रापीति ॥ भेदश्रुतावनुवादित्वादि-बाधकत्वसूचनवत्प्रत्यक्षविरुद्धत्वादिबाधकानामद्वैतश्रुतावपि सत्त्वादित्यर्थः । तथा चोभयत्र बाधकतौल्ये कथमेकत्र पक्षपात इति भावः । साध्याविशेषं हेतोराशङ्कते- ननु वेदोक्तेति ॥ व्यवहारस्येति ॥ अवेदवादित्व-मित्यस्यावेदवादित्वव्यवहार इत्यर्थः । वेदोक्तमिति ॥ अहिंसावाक्याद्युक्तमित्यर्थः । शङ्कते-न वयमिति ॥ ऐक्यज्ञानस्येति ॥ यजेतेत्यादिकर्मपरवाक्यानामैक्य एव तात्पर्यान्नाप्रामाण्यमिति भावः । भेदेति ॥ भेदवासनायाः परिपाको यस्मात्तस्य कर्मण इति शेषः । जीवेशादिभेदवासनादार्ढ्यहेतुभूतकर्मण इत्यर्थः । असाविति ॥ कर्मादिपरो वेदभाग इत्यर्थः । अनुवादतया स्वार्थे तात्पर्याभावान्नाप्रामाण्यमिति भावः । अवेद्यत्वेनेति ॥ अवेद्यत्वे सत्यपरोक्षव्यवहारयोग्यत्वं स्वप्रकाशत्वमिति परैरङ्गीकारादिति भावः । नन्ववेद्यत्वं नाम चिदविषयत्वं न तु वृत्तिज्ञानाविषयत्वमिति चेत्तर्हि दृश्यत्वहेतोरनैकान्त्यापत्तिः । दृश्यत्वमपि चिद्विषयत्व-मिति चेत्तर्हि धर्माद्यतीन्द्रिये भागासिद्धिरिति भावः । ननु वेदैकदेशस्य तत्त्वकर्मकज्ञानाजनकत्वेऽपि तदाकारवृत्ति-जनकत्वेन तदितराविषयकज्ञानजनकत्वेन वा तत्त्वव्यवहारहेतुज्ञानजनकत्वेन वा तत्त्वावरकाज्ञाननिवृत्तिरूप-प्रयोजनहेतुत्वमस्तीति शङ्कते- तथाऽपीति ॥ प्रामाण्यप्रसङ्गादिति ॥ कुड्याद्यन्तःस्थित- मणेर्बहिर्निस्सृतप्रभायां मणिरियमिति बुद्ध्या प्रवृत्तस्य मणिलाभेन प्रयोजनहेतुत्वस्य सत्त्वात् । न च तत्रापि मणिज्ञानमेव पुमर्थहेतुरिति शङ्क्यम् । दृष्टहान्यदृष्टकल्पनयोरापत्तेरिति भावः । नन्वस्तु प्रयोजनहेतुत्वमेव प्रामा-ण्यम् । प्रभायां मणिबुद्धेरपि प्रामाण्यस्वीकारे दोषाभावादित्यत आह- लोकसिद्धार्थेति ॥ बाधकेति ॥ भेदभेदिप्रपञ्चमिथ्यात्वरूपबाधकस्य ‘यच्च प्रमाणदृश्वनामपि पदार्थानां मिथ्यात्वकल्पनम्’ इत्यादिना कृतेन परिहारेणेत्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

अनुमानैर् दृश्यत्वाद्यनुमानैः । तद्बाधनमिति ॥ तैरनुमानैस्तासां श्रुतीनां बाधनमित्यर्थः । ‘मिथ्यावादित्वे च’ इति चशब्दसमुच्चेयं दोषमाह- परिशेषेति ॥ भेदस्यानिर्वचनीयत्वादेरयोगेन परिशेषात् सत्यत्वसिद्धेर्भेदश्रुतीनां तत्त्वावेदकत्वान्नानुमानादिबाध्यत्वमिति भावः । तथात्वेति ॥ मिथ्यावादित्वेत्यर्थः। ननु श्रुतित्वाविशेषेऽप्यन्योन्याश्रयादिबाधकेन भेदस्य सत्यत्वायोगात्तच्छ्रतीनां मिथ्यावादित्वं, बाधकाभावे-नैक्यस्य सत्यत्वात्तच्छ्रुतीनां तत्त्वावेदकत्वमङ्गीक्रियत इत्यत आह- बाधकानामिति ॥ उपजीव्यप्रत्यक्षादिविरोध-रूपाणामित्यर्थः । अत्रापि ऐक्येऽपि । विमतो मायावादी अवेदवादी भवितुमर्हति वेदोक्तमिथ्यात्वाङ्गीकर्तृत्वा-दित्यत्र साध्यावैशिष्ट्यमाशङ्कते- नन्विति ॥ व्याप्यव्यापकभावादिकमित्यत्राऽदिपदेन निश्चितत्वसन्दिग्ध-त्वादिग्रहणम् । विवक्षितत्वादिति ॥ साध्यतयेति शेषः । हेतोः स्वरूपासिद्धिमाशङ्कते- ननु मयेति ॥ वेदैकदेशस्य वेदान्तभागस्य । तथा च वेदैकदेशवेदान्तभागोक्तस्य सत्यत्वाङ्गीकारान्न समस्तवेदोक्तमिथ्या-त्वाङ्गीकारित्वं ममेति स्वरूपासिद्धिरिति भावः । तत्साम्यादिति ॥ वेदैकदेशस्य तत्त्वावेदकत्वाङ्गीकारित्वसाम्येन त्वयोच्यमानं तेषामवेदवादित्वं न स्यादिति भावः । तदुपपादयति- न हीति ॥ स्वदर्शनेति ॥ बौद्धदर्शने ‘अहिंसा परमो धर्मः’ इति प्रतिपादितम्, वेदेऽपि ‘न हिंस्यात्सर्वा भूतानि’ इत्युच्यते । एवं च स्वदर्शनानुगुणस्य भूताहिंस्यत्वस्य सत्यत्वं तैरङ्गीकृतमित्यर्थः । भेदाश्रयं भेदसापेक्षम् । उच्यमानस्य कर्मादेः । मिथ्यात्वाङ्गी-कारादिति ॥ तथा च बौद्धादिवत्सर्वथाऽप्रामाण्याङ्गीकारस्यैव प्राप्तत्वादिति भावः । किमनेनेति ॥ मन्दाधिकारिणः प्रति वेदो भेदाश्रयं कर्मादिकं प्रतिपादयतीति जल्पितेन किमित्यर्थः । ऐक्यज्ञानस्येति ॥ तथा चाग्निहोत्रादिवाक्यानामैक्यज्ञानोपयुक्तबुद्धिशुद्ध्यर्थं कर्मादिप्रतिपादकत्वादैक्य एव महातात्पर्यमङ्गी-कृतम् । तथा च वाच्यस्य कर्मादेर्मिथ्यात्वेऽपि तात्पर्यार्थभूतैक्यस्य सत्यत्वान्न वेदाप्रामाण्यमिति भावः । बौद्धैश्च नैवमङ्गीकृतमिति हृदयम् । भेदवासनेति ॥ भेदाश्रयस्य कर्मादेरैक्यज्ञानविरोधित्वेन भेदवासनादार्ढ्य-हेतुतयोप(कार)पादकत्वाभावेनाङ्गत्वानुपपत्तेरित्यर्थः । तथा चाग्निहोत्रादिवाक्यानामैक्ये महातात्पर्यानुप-पत्तेर्वाच्यस्य च कर्मादेर्मिथ्यात्वादप्रामाण्यमेवेति भावः । असौ वेदभागः कर्मादिप्रतिपादको वेदभाग इत्यर्थः। नैवं बौद्धा आहुरिति भावः । अनुवादो भवन् विधानाय वा स्यान्निषेधाय वा । नाऽद्य इत्याह- अनुवाद इति ॥ विधानरूपप्रयोजनाभावादिति भावः ।

द्वितीयं शङ्कते- नेह नानेति ॥ इह ब्रह्मण्यारोपितं नाना नानाविधं कर्मादिकं जगत्किमपि नास्तीत्यर्थः । (श्री.टि.) प्राप्त्यभावादिति ॥ तथा च नित्यातीन्द्रियप्रतिपादकवेदभागस्य नानुवादकत्वं सम्भवतीति भावः। ननु स्वर्गापूर्वादेरतीन्द्रियत्वेन वेदातिरिक्तप्रमाणेन प्राप्त्यभावेऽपि वेदेनैव प्राप्तं धर्मादिकं वेदेन प्रतिषिध्यत इति चेत्तर्ह्युन्मत्तवाक्यवत्सुतरामप्रामाण्यतादवस्थ्यमित्याह- वेदप्राप्तेति ॥ वेदप्राप्तस्य वेदेनैव प्रतिषेध इत्यर्थः । तत्त्वस्य ब्रह्मणः । अवेद्यत्वेन त्वन्मत इति शेषः । एकदेशस्यापि वेदैकदेशस्य वेदान्तभागस्यापि । तथा च न प्रामाण्यमिति भावः । तथा च बौद्धसाम्यं तदवस्थमिति हृदयम् । ननु तत्त्वस्यावेद्यत्वेन वेदान्तभागस्य तत्त्वावेदकत्वलक्षणप्रामाण्यासम्भवेऽपि ‘सिद्धन्तु निवर्तकत्वात्’ इत्युक्तत्वेनाज्ञाननिवृत्तिरूपप्रयोजनहेतुत्वेन प्रामाण्यमुपपद्यत इत्याशङ्कते- तथाऽपीति ॥ अन्यथेति ॥ प्रयोजनहेतुत्वेन प्रामाण्यं चेदित्यर्थः । मणिप्रभा-विषयेति ॥ मणिप्रभाधर्मिकेत्यर्थः । तथा च मणिप्रभायां मणिभ्रमेण प्रवृत्तस्य मणिलाभो भवति । तथा च मणिभ्रमस्य मणिलाभरूपप्रयोजनहेतुत्वसद्भावेन प्रामाण्यं स्यादिति भावः । इदमुपलक्षणम् । ‘तृणादिदर्शने किञ्च फलवत्त्वं निगद्यते’ इत्यनुव्याख्यानोक्तरीत्या तृणादिदर्शनस्य प्रामाण्यं न स्यादित्यपि द्रष्टव्यम् । ननु मणिप्रभायां मणिभ्रमस्यापि प्रयोजनवत्त्वलक्षणं प्रामाण्यं मयाऽङ्गीक्रियत एवेतीष्टापत्तिरित्यत आह- लोक-सिद्धार्थेति ॥ मणिभ्रमस्य प्रामाण्यरूपोऽर्थो न लोकसिद्ध इति भावः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

‘न च परमार्थतो भेदाभावो व्यावहारिकः सोऽस्तीति वाच्यम्’ इत्यादिना प्रमाणदृष्टस्य भेदस्य मिथ्यात्वमाशङ्क्य निराकृतत्वान्मिथ्यावादित्वेति पुनस्तदाशङ्का न युक्तेत्यतो दूषणान्तरदानार्थत्वान्नानुपपत्ति-रित्यभिप्रेत्य मिथ्यात्वशङ्कानिरासकतया प्रागुक्तदोषं स्मारयित्वा दूषणान्तरपरतया ‘मिथ्यात्वे च’ इत्यादिग्रन्थं योजयति- परिशेषप्रमाणेनेति ॥ भेदस्य सदसद्वैलक्षण्ये प्रमाणाभावेन भेदप्रतिपादकश्रुतेः सदसद्वैलक्षण्य-विषयकत्वस्य, परेणासत्प्रतीतेरनङ्गीकारेणासद्विषयकत्वस्य चानुपपत्त्या परिशेषेण परमार्थसद्विषयकत्वस्यैव समर्थितत्वेनातत्त्वावेदकत्वस्य निरस्तत्वादित्यर्थः । ननु भेदस्यैक्यस्य च श्रुतिसिद्धत्वाविशेषेऽपि तर्कबाधितत्वा-बाधितत्वाभ्यां विशेषेणाविशेषासिद्धेर्मूलशैथिल्यात्तर्कस्याभासत्वमित्याशङ्क्य निरपेक्षत्वाद्यापत्त्या धर्मि-स्वरूपताया अनवस्थाद्यापत्त्या तद्धर्मतायाश्चानुपपत्त्या भेदस्य तर्कबाधितत्ववन्निरपेक्षत्वाद्यापत्त्यैवैक्यस्य ब्रह्म-स्वरूपताया अनवस्थाद्यापत्त्यैव तद्धर्मतायाश्चानुपपत्त्यैक्यस्यापि तर्कबाधितत्वेन नोक्तरीत्याऽपि विशेष-सिद्धिरिति नोक्तदोष इत्याशयेनाऽह- बाधकानामिति ॥ तत्साम्यादिति ॥ वेदैकदेशस्य तत्त्वावेदक-त्वाङ्गीकारसाम्यादित्यर्थः । स्वदर्शनानुगुणमिति ॥ अहिंसायां धर्मत्वमित्यर्थः । मन्दाधिकारिण इति ॥ अविद्वदधिकारिण इत्यर्थः । किमनेनेति ॥ अतत्त्वावेदकत्वस्याप्रामाण्यशब्दार्थत्वादिति भावः । ऐक्यज्ञान-स्येति ॥ तथा चाग्निहोत्रादिवाक्यानामैक्य एव महातात्पर्यात्तस्य च तात्त्विकत्वान्नाप्रामाण्यमिति भावः । भेदवासनापरिपाकस्येति ॥ ततश्चाङ्गाङ्गिभावस्यैवासिद्ध्या ऐक्ये तात्पर्यायोगेन कर्मण्येव तात्पर्यस्य वक्तव्यत्वेन तात्पर्यविषयीभूतस्याप्यर्थस्यातात्त्विकत्वादप्रामाण्यतादवस्थ्यमिति भावः । अनुवादपर इति ॥ ततश्च कर्मादावतात्पर्यान्नातत्त्वावेदकत्वमिति भावः । अनुवादो विधानार्थो वा प्रतिषेधार्थो वेति विकल्पौ मनसि निधाय विधेयार्थस्याश्रवणान्नाद्य इत्याशयेनाऽह- अनुवाद इति ॥

(पां.टि.) द्वितीयमाशङ्कते- नेह नानेति ॥ निषेधार्थमिति ॥ अप्राप्तत्वान्नानुवाद इत्यभिप्रेत्य तत्प्राप्तिः किं प्रत्यक्षादिना वा अभिमता वेदेनैव वेति विकल्पं मनसि निधाय आद्यं दूषयति- स्वर्गापूर्वादीनामिति ॥ वेदमन्तरेणेति ॥ रूपादिरहिततया प्रत्यक्षेण, उपाधिप्रतिपक्षग्रस्ततया अनुमानेन च तत्सिद्धेरसम्भवादित्यर्थः। अस्तु तर्हि वेदेनैव प्राप्तिरिति द्वितीयो निरवद्यत्वादित्यत आह- वेदप्राप्तेति ॥ स्वेनैवास्तितया प्रतिपादितस्य स्वेनैव नास्तित्वप्रतिपादनात्, अन्यथा परस्परविरुद्धोन्मत्तवाक्यस्यापि प्रामाण्यप्रसङ्गादिति भावः । अङ्गीकृत्य चैकदेशस्य तत्त्वावेदकत्वं बौद्धानामपि तत्साम्याद् अवेदवादित्वानुपपत्तिरभिहिता । वस्तुतस्तु नैकदेशस्यापि तत्त्वावेदकत्वमित्याह- किञ्चेति ॥ अवेद्यत्वेनेति ॥ परेणावेद्यतयाऽङ्गीकृतत्वेनेत्यर्थः । न च फलाव्याप्यत्वेऽपि वृत्तिव्याप्यत्वान् नैकदेशस्य तत्त्वावेदकत्वहानिरिति वाच्यम् । वृत्त्यतिरिक्तस्य फलस्य प्रामाणिकताया उत्तरत्र निराकरिष्यमाणत्वेन वृत्त्यविषयताया एव तदर्थत्वेन वक्तव्यत्वेनोक्तदोषतादवस्थ्यादिति भावः । फलवत्त्वं प्रामाण्यं न तत्त्वावेदकत्वम् । ततश्चैकदेशस्य तत्त्वावेदकत्वाभावेऽप्यविद्यानिवर्तकत्वेन प्रयोजनवत्त्वात्प्रामाण्यं सम्भवतीति शङ्कते- तथाऽपीति ॥ फलवत्त्वं न प्रामाण्यपदार्थः । तथा सति तृणादिदर्शनस्य फलवत्त्वा-भावेनाप्रामाण्यप्रसङ्गात् । न चेष्टापत्तिः । लौकिकव्यवहारविरोधादित्याशयेनाऽह- प्रयोजनवत्त्वस्येति ॥ फलवत्त्वस्यैव प्रामाण्यपदार्थत्वेऽतिव्याप्तिं चाऽह- अन्यथेति ॥ इष्टापत्तिं परिहरति- न त्विति ॥ तथा सत्यपरीक्षितत्वप्रसङ्गादिति भावः ।

लघुप्रभा

(व्या.टि.)

बाधकानामिति ॥ नाहं सर्वेश्वरो नाहं सर्वज्ञ इति प्रत्यक्षादीनामित्यर्थः । एवंशब्दनिर्दिष्टप्रकारं दर्शयति- वेदोक्तस्यापीति ॥ हेतोरप्रयोजकत्वं शङ्कते- वेदोक्तस्येति ॥ वेदवादित्वमिति ॥ ‘सुप्यजातौ णिनिस्ताच्छील्ये’ इति णिनिप्रत्यये ‘ब्रह्मणि वदः’ इत्यस्योपलक्षणत्वाभिप्रायेणास्य साधुता ज्ञेया । साध्यावैशिष्ट्यं शङ्कते- नन्विति ॥ तत्कथमिति ॥ व्याप्यव्यापकयोः कर्मकर्तृप्रत्ययान्तत्वेनाभेदे कर्मकर्तृत्वभावासम्भव इत्याक्षेपार्थः । आद्यपदेन साध्यसाधनभावोऽपि ग्राह्यः । विवक्षितत्वादिति ॥ साध्यतयेति शेषः । तत्प्रकारं दर्शयति- विमत इति ॥ वेदमात्राप्रामाण्यवादित्वमवेदवादित्वं वेदैकदेशप्रामाण्यवादिनि मयि तन्नास्तीति बाधितमनुमानमित्याशयेनाऽशङ्कते- नन्विति ॥ साम्यादिति ॥ वैदिकत्वं स्यादिति शेषः । तथा च बौद्धधिक्कारविरोध इति भावः । तत्साम्यमुपपादयति- न हीति ॥ मन्दाधिकारिण इति ॥ यथोक्तम्-

‘निर्विशेषं परं ब्रह्म साक्षात्कर्तुमनीश्वराः ।

ये मन्दास्तेऽनुकम्प्यन्ते सविशेषनिरूपणैः ॥’

इति । पर्यायेणाप्रामाण्यमेवाङ्गीकृतमित्याह- उच्यमानस्येति ॥ अनेनेति ॥ असङ्गतेनेत्यर्थः । अधिकारि-विशेषस्य प्रामाण्याप्रयोजकत्वादिति भावः । यथा मीमांसकमते ‘अश्विनोर्बाहुभ्यां पूष्णो हस्ताभ्याम्’ इत्यादावसमवेतस्यापि समवेतविशेषणस्याभिधानमभ्युदयकारि तथा मम मतेऽपि मिथ्याभूतस्यापि सत्य-ज्ञानाङ्गतया कर्मादिप्रतिपादनं नासङ्गतमित्याशयेन शङ्कते- ऐक्यज्ञानस्येति ॥ अङ्गं हि द्विविधं फलोपकारि (व्या.टि.) स्वरूपोपकारि इति, तत्र वेदैकदेशबोधितभिन्नकर्मादिकमैक्यज्ञानजन्यतद्वासनारूपफलोपकार्यङ्गम्, उत स्वरूपोपकारि । नाऽद्य इत्याह- भेदेति ॥ भिन्नबोधजन्यस्येति शेषः । वासनापरिपाकस्य भेदप्रत्यक्षादि-जन्यसंस्कारदार्ढ्यस्येत्यर्थः । तद्विरोधित्वेनेति ॥ एवमज्ञानजन्यफलविरोधित्वेनेत्यर्थः । द्वितीयेऽप्येतदेवोत्त-रम् । भेदेति ॥ बहुव्रीहिणा बोध्यं भिन्नं कर्म उच्यते । तद्विरोधित्वेनेति ॥ ऐक्यज्ञानविरोधित्वेनेत्यर्थः । तदुत्पत्तिप्रतिबन्धकत्वेनेति यावत् ।

ननु स्वप्रापितार्थमिथ्यात्वमेवाप्रामाण्यं नानुवाद्यमिथ्यात्वम् । तस्य तत्तात्पर्याविषयत्वात् । अतात्पर्य-विषयमिथ्यात्वे न प्रामाण्यहानिः । अन्यथा वैदिकतममीमांसकमतेऽप्यात्मवपोत्खननाद्यर्थवादप्रामाण्यस्य दुःसाधुत्वापत्तेरित्याशयेन शङ्कते- अनुवादपर इति ॥ प्रापकतां व्यवस्थापयितुमनुवादकत्वं दूषयति- अनुवाद इति ॥ प्रयोजनेति ॥ प्रयोजनं भवदधिकविधानं प्रतिषेधो वा । नाऽद्य इत्याह- प्रयोजनेति ॥ ‘दध्ना जुहोति’ इत्यादिवद्विध्येकवाक्यत्वाभावादित्यर्थः । द्वितीयं शङ्कते- नेह नानेति ॥ प्राप्त्यभावादिति ॥ अप्राप्तप्रतिषेधा-योगेन ‘नान्तरिक्षे न दिवि’ इत्यग्निचयनप्रतिषेधवन्नित्यानुवादत्वापत्तेरिति भावः । वेद एव तत्प्रापक इति चेत् तत्राऽह- वेदप्राप्तेति ॥ प्रतिषेध इति ॥ वेदेनेति शेषः । अप्रामाण्येति ॥ स्वव्याहतत्वादित्यर्थः । एवं वेदैकदेशस्य तत्त्वावेदकत्वमभ्युपेत्य बौद्धवादाविशेष उक्तः । अधुना तदेव नास्तीत्याशयेन तदविशेषं स्थिरी-करोति- किञ्चेति ॥ औतपरो वेदभागस्तत्त्वावेदक इति हि परस्येष्टम् । तदद्वैतं ब्रह्मभिन्नमभिन्नं वा । नाऽद्यः। औतहानेः । अन्त्ये त्वाह- तत्त्वस्येति ॥ अवेद्यत्वेनेति ॥ तस्यैव स्वप्रकाशरूपत्वादित्यर्थः । पुनः शङ्कते- तथाऽपीति ॥ तत्त्वावेदकत्वाभावेऽपीत्यर्थः । किमेवंवदतो प्रयोजनवत्त्वमेव प्रामाण्यमित्युच्यते तद्व्याप्तमिति वा । नाऽद्यमित्याह- प्रयोजनवत्त्वस्येति ॥ पदार्थत्वाभावादिति ॥ रूढियोगयोरभावादिति भावः । द्वितीये त्वाह- अन्यथेति ॥ ननु नदीवृद्ध्यादिवदयमपि मामकीनसङ्केत इत्याह- लोकेति ॥ अन्यथा पारिभाषिकत्वेन तत्त्वविचाराभावादिति भावः । वाक्यशेष इति ॥ वाक्यस्यापेक्षितपदपूरणमित्यर्थः ।