२२ विष्णुगुणोत्कर्षज्ञानस्योत्तमप्रीतिजनकत्वस्य समर्थनम्

प्रीतिश्च गुणोत्कर्षज्ञानादेव ..

विष्णुगुणोत्कर्षज्ञानस्योत्तमप्रीतिजनकत्वस्य समर्थनम्

मूलम्

- प्रीतिश्च गुणोत्कर्षज्ञानादेव विशेषतो दृष्टा; नाभेदज्ञानात् । अभेदज्ञाना-दप्रीतिरेवोत्तमानां भवति । घातयन्ति हि राजानो राजाऽहमिति वदन्तम् । ददति च सर्वमभिप्रेतं गुणोत्कर्षं वदतः ।**

‘न तादृशी प्रीतिरीड्यस्य विष्णोर्गुणोत्कर्षज्ञातरि यादृशी स्यात् ।

तत्प्रीणनान्मोक्षमाप्नोति सर्वस्ततो वेदास्तत्पराः सर्व एव ॥’ इति सौपर्णश्रुतिः ।

***‘यो मामेवमसम्मूढो जानाति पुरुषोत्तमम् । ***

***स सर्वविद् भजति मां सर्वभावेन भारत ॥’ ***

इति गुणोत्कर्षज्ञानादेव परमा प्रीतिर्भगवता स्वयमेवाभिहिता । अतो विष्णोर्गुणोत्कर्ष एव सर्वश्रुतिस्मृतीनां महातात्पर्यम् । नचाभेदे तात्पर्यमित्यत्र किञ्चिन्मानम् ।

तत्त्वमञ्जरी

अभेदज्ञानात् प्रसादः किं न स्यादित्यत आह- प्रीतिश्चेति ॥ ततो वेदाः सर्वे तत्परा एव । न हि मोक्षैकफलानां वेदानां मोक्षादन्यत्र तात्पर्यं स्यात् ।

विष्णोः सर्वगुणोत्कृष्टत्वेन जगतो वैलक्षण्यस्वरूपं भेदमेवं साधयित्वा विपक्षे दूषणमाह- न चाभेद इति ॥

टीका

अस्तु विष्णुप्रीतिरेव मोक्षसाधनम् । सा च कर्मादिना भविष्यतीत्यत आह- प्रीतिश्चेति ॥ यद्यपि कर्मादिना भगवत्प्रीतिर्भवति तथाऽपि नासौ मोक्षसाधनं किन्तु परमा प्रीतिरेव । सा च विशेषतः प्रीतिर्गुणोत्कर्षज्ञानादेव भवति न कर्मादिना । कुतः? तथा लोके दृष्टत्वादिति । ननु यदा राजा गुरुर्वा भृत्यं शिष्यं वा प्रति ब्रूते अहमेव त्वमिति, तदाऽसौ भृत्यादिर्वचनानुमितयाऽ-भेदप्रतिपत्त्या परमप्रीतिमान् दृश्यते । तत्कथं गुणोत्कर्षज्ञानादेव परमा प्रीतिरित्युच्यत इत्यत आह- नेति ॥ प्रतिपत्तिरिह ज्ञानशब्देनोच्यते ।

अयमभिप्रायः । यद्युत्तमोऽधमं प्रत्यभेदप्रतिपत्तिं करोति तदाऽधिकगुणारोपणेन ‘अहमनेन मानितः’ इति मन्यमानोऽधमस्तस्मिन् प्रीयते न त्वधमेनोत्तमं प्रत्यभेदप्रतिपत्तौ कृतायामुत्तमस्याधमे प्रीतिर्भवति । निमित्ताभावात् । ततश्चाधमो जीवः कथमुत्तमं भगवन्तं प्रति तत्प्रीतिकामोऽभेदप्रतिपत्तिं कुर्यात्, येन वेदो जीवं प्रत्यभेदप्रतिपत्त्यर्थमपि वदेदिति ।

न केवलमभेदज्ञानात् प्रीतिर्न भवति किं तर्हीत्यत आह- अभेदज्ञानादिति ॥ अभेदप्रतिपत्त्याऽ-धमत्वारोपात् । एतदेव दृष्टान्तेन दर्शयति- घातयन्ति हीति ॥ पाटलीपुत्राद्यधिपतयो भद्रसेनाद्या राजानः पाटलीपुत्रस्याधिपतिरिदानीमहमेवेति वदन्तमतदर्हं वचनेन तदीयां प्रतिपत्तिमनुमाय घातयन्तो दृश्यन्ते । तेन तेषां तत्राप्रीतिरनुमीयते । भवेदेवं लौकिकानां भयमत्सरादिग्रस्तानाम्, ईश्वरस्य तु नैवमिति चेन्न । तथा सत्यपराधपरिहारस्याप्यकर्तव्यतापातात् । अत एव ‘निन्दनस्तव-सत्कारन्यक्कारार्थं कलेवरम् । प्रधानपरयो राजन्नविवेकेन कल्पितम् ॥

‘सर्वात्मनः सर्वदृशो ह्यद्वयस्यानहङ्कृतेः ।’

‘तत्कृतं मतिवैषम्यं निरवद्यस्य न क्वचित् ॥’

इत्यादिकं भक्तकृतप्रामादिकापराधविषयं ज्ञातव्यम् । एतेन जीवेश्वरयोः पारमार्थिकभेदमङ्गी-कृत्याभेदश्रुतीनां प्रतिपत्त्यर्थतां व्याचक्षाणा नैयायिकादयो निरस्ता वेदितव्याः ।

‘प्रीतिश्च गुणोत्कर्षज्ञानादेव विशेषतो दृष्टा’ इत्युक्तं विवृणोति- ददति चेति ॥ राजान इति वर्तते । कर्मकरेभ्योऽप्यतिशयेनेति शेषः । वचनेन ज्ञानमनुमायेति च । तेन च तेषां तत्र परमा प्रीतिरनुमीयते । सम्प्रदानत्वस्याविवक्षितत्वाद् रजकस्य वस्त्रं ददातीत्यादिवच्छेषविवक्षया ‘वदतः’ इति षष्ठी । वदतः प्रतीति वा । तथा च प्रयोगः- ‘विष्णुर् गुणोत्कर्षज्ञातर्यतिशयेन प्रीयते सत्पुरुषत्वात् पुण्यश्लोकराजवत्’ इति । न केवलमनुमानसिद्धमेतत् । किं तर्हीत्यतोऽभिहिताशेषार्थसङ्ग्रहरूपां श्रुतिमपि पठति- न तादृशीति ॥ कर्मकरादिष्विति शेषः । तत्प्रीणनात् तथाविधात् । इतश्चैवमित्याह- यो मामिति ॥ अत्र ‘भजति मां सर्वभावेन’ इति परमप्रीतेर्द्योतकम् । परमा प्रीतिरात्मनः । तदेवं जीवानां मोक्षमुद्दिश्य प्रवर्तमानैः सदागमैस्तत्साधनभगवत्प्रीतिहेतुभूतगुणोत्कर्षज्ञानाय तत्रैव महातात्पर्यवद्भिर्भवितव्यमिति स्थितम् ।

‘विष्णोः सर्वोत्तमत्व एव’ इत्यादिनोक्तं स्वपक्षसाधनमुपसंहरति- अत इति ॥ स्मृतिग्रहणेन पौरुषेयाः सर्वेऽपि सदागमा गृह्यन्ते । तेन लोके वेदे चेति व्याख्यातं भवति ।

सर्वप्रमाणविरुद्धत्वेन जीवब्रह्मणोरभेदे तत्त्वमस्यादिवाक्यानां तात्पर्यायोगात् । प्रधान-वाक्याभावेन तत्र सर्वागमानां महातात्पर्यकल्पनमयुक्तमित्युक्तम् । इतोऽपि तदयुक्तमित्याह- नचेति ॥ यथाऽस्माभिर्भगवतो गुणोत्कर्षे सर्वागमानां महातात्पर्यमित्यत्र श्रुतिस्मृतियुक्तयः प्रमाणत्वेन प्रदर्शिताः, नच तथा पराभिमतार्थे किञ्चिदपि प्रमाणमस्ति । प्रक्रिया तु मन्दजनमनोहरा निर्मूलत्वादुपेक्ष(दुपलक्ष)णीयेति ।

भावबोधः

प्रतिपत्तिरिहेति ॥ भृत्यशिष्यादेः राजगुर्वादिना लोकेऽभेदज्ञानाभावेन ‘अभेदज्ञानादप्रीतिः’ इत्युत्तरवाक्ये ज्ञानपदेनार्थाभावेऽपि तथाभावनारूपप्रतिपत्तेरेव ग्राह्यत्वेनात्रापि ज्ञानपदेन सैवोच्यत इत्यर्थः । ‘तत्कृतम्’ इत्यत्र तच्छब्दार्थज्ञापनाय पूर्वश्लोकोदाहरणमिति द्रष्टव्यम् (ज्ञातव्यम्) । तथाविधादिति ॥ गुणोत्कर्षज्ञानसाध्योत्तमादित्यर्थः । प्रीतिरात्मन इति ॥ मामित्यात्मन एव भजनकर्मत्वोक्तेरिति भावः । ‘अतोऽपि’ इत्युपसंहारपरमूलवाक्ये अपिपदम् । ‘सर्वज्ञं सर्वकर्तारम्’ इत्यादिप्रमाणसमुच्चायार्थमिति ज्ञातव्यमिति भावः ।

भावदीपः

कर्मादिनेति ॥ ‘तत्कर्म हरितोषं यत्’ इत्युक्तेरिति भावः । विशेषशब्दार्थः परमेति । विरोधिनो भेदज्ञानस्य सत्त्वेन कदाऽप्यभेदज्ञानोदयासम्भवादाह- प्रतिपत्तिरिति ॥ अविद्यमानविषयभावनेत्यर्थः । अनेनोक्तशङ्कानिवृत्तेरस्फुटत्वादाह- अयमभिप्राय इति ॥ निमित्ताभावादिति ॥ मान्यत्वादिरूपेत्यर्थः । नन्वेवं तर्हि भागवते निन्दनादिकृतं मतिवैषम्यं चित्तविकारः सर्वान्तर्यामित्वादिगुणकस्य मात्सर्यादिदोषहीनस्य हरेर्नेति कथमुच्यत इत्यत आह- अत एवेति ॥ असत्कारस्य अप्रीतिहेतुत्वादेवेत्यर्थः । एतेनेति ॥ अभेदभाव-नाया अनर्थहेतुत्वकथनेनेत्यर्थः । वचनफलोक्तिर्ज्ञानफलोक्तिप्रकरणाननुगुणेत्यत आह- वचनेनेति ॥ इति चेति ॥ शेष इत्यनुषङ्गः । तेन चेति ॥ अभिमतसर्वदानेनेत्यर्थः । तेषां राज्ञाम् । ननु ‘कर्मणा यमभिप्रैति स सम्प्रदानम्’ इति सम्प्रदानसञ्ज्ञायां ‘चतुर्थी सम्प्रदाने’ इति वदद्भ्य इति चतुर्थ्या भाव्यमित्यत आह- सम्प्रदानत्वस्येति ॥ शेषविवक्षयेति ॥ अप्राधान्यविवक्षया सम्बन्धसामान्यविवक्षया वा ‘षष्ठी शेषे’ इति सूत्रेण षष्ठीत्यर्थः । द्वितीयाबहुवचनं वेत्याह- वदतः प्रतीति ॥ अभिहिताशेषार्थेति ॥ अत्युत्तमपुमर्थरूपो मोक्षो भगवत्प्रीत्यैकसाध्यः, सा च तत्र गुणोत्कर्षज्ञानसाध्या । तच्च वेदवचनानां महातात्पर्यप्रतिपादनाद् भवतीत्युक्ताशेषार्थेत्यर्थः । तथाविधादिति ॥ गुणोत्कर्षज्ञानसाध्यात् परमप्रीणनादित्यर्थः । इति परम-प्रीतेर्द्योतकमिति ॥ यथा लोके मामसौ सर्वप्रकारेण सेवत इति राजादिवचनेन तत्प्रीतिः सेवकेन ज्ञायते तथेति भावः । परमा प्रीतिरिति मूले कस्येत्याकाङ्क्षायामाह- आत्मन इति ॥ मामित्युक्तेरेतल्लाभ इति भावः । युक्तं चेत्यादिनोक्तमर्थं बुद्ध्यारोहाय सर्वं निष्कृष्योपसंहारमुखेन दर्शयति- तदेवमिति ॥ तेनेति ॥ सर्वसदागमग्रहणेन गीतागतं लोकपदं सर्वपौरुषेयग्रन्थपरमिति व्याख्यातं भवति मूलकृतैवेत्यर्थः । मूले अत इत्यस्य सर्वप्रमाणविरुद्धत्वेन जीवब्रह्मणोरभेदे तत्त्वमस्यादिवाक्यानां तात्पर्यायोगादित्यर्थः । प्रक्रिया त्विति ॥ ‘सर्वप्रमाणविरुद्धवचनानाम्’ इत्येतदाद्यवतारिकायामुक्तप्रक्रियेत्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

कर्मादिनेत्यादिपदेन श्रवणादिग्रहणम् । नासौ मोक्षसाधनमिति ॥ ‘कर्मणा त्वधमः प्रोक्तः प्रसादः श्रवणादिभिः । मध्यमः’ इत्युक्त्वा ‘प्रसादात्त्वधमाद् विष्णोः स्वर्गलोकः प्रकीर्तितः । मध्यमाज्जन-लोकादिः’ इत्युक्तत्वान्नासौ कर्मादिसाध्यः प्रसादो मोक्षसाधनमित्यर्थः । परमप्रीतिरेवेति ॥ अत्युत्तमप्रसाद एवेत्यर्थः । ‘ज्ञानसम्पत्त्या प्रसादस्तूत्तमो मतः’ इत्युक्त्वा ‘उत्तमस्त्वेव मुक्तिदः’ इत्युक्तत्वादिति भावः । प्रतिपत्तिरिहेति ॥ अभेदज्ञानादप्रीतिरित्युत्तरवाक्ये ज्ञानपदेन अन्यथोपासनारूपा प्रतिपत्तिरेव विवक्षिता । कुत इति चेत्, भृत्यस्य राज्ञा शिष्यस्य गुरुणा लोकेऽभेदज्ञानाभावात् । अतस्तत्र ज्ञानशब्देन प्रतिपत्तेरेव ग्राह्यत्वात् तदनुसारेणात्राप्यन्यथोपासनारूपा प्रतिपत्तिरेव ज्ञानशब्देनोच्यत इत्यर्थः । प्रीयते प्रीतिमान् भवति । निमित्ता-भावादिति ॥ उत्तमेनाधमं प्रत्यभेदप्रतिपत्तौ कृतायाम् अधिकगुणारोपणेन तन्मानितत्वं यथाऽधमस्य प्रीतौ निमित्तमस्ति तथाऽत्र निमित्ताभावादित्यर्थः । येनेति ॥ अभेदप्रतिपत्तेः कर्तव्यत्वेनेत्यर्थः । प्रतिपत्त्यर्थम-पीति ॥ अविद्यमानोपास्त्यर्थमपीत्यर्थः । नैवमिति ॥ भयमत्सरादिदोषशून्यत्वेन तदभेदप्रतिपत्तौ कृतायां तदप्रीतिर्न भवतीत्यर्थः । तथा सतीति ॥ तस्याप्रीत्यभाव इत्यर्थः । अपराधपरिहारस्यापीति ॥ ‘अपराध-सहस्राणि क्रियन्तेऽहर्निशं मया । तानि सर्वाणि मे देव क्षमस्व मधुसूदन ॥’ इत्यादिनेत्यर्थः । नन्वीश्वरस्याप्रीत्यादि-रूपबुद्धिवैषम्यसद्भावे ‘सर्वात्मनः समदृशः’ इत्यादिभागवतवाक्यविरोध इत्यत आह- अत एवेति ॥ अपराध-परिहारकरणान्यथाऽनुपपत्त्या अप्रीतिसद्भावादेवेत्यर्थः । ‘सर्वात्मनः’ इत्यादेरेव प्रकृतोपयोगित्वेऽपि तत्कृतमित्यत्र तच्छब्दपरामर्श्यं दर्शयितुं निन्दनेति पूर्वश्लोकोदाहरणमिति ज्ञातव्यम् । प्रधानपरयोर् देहात्मनोः । तत्कृतं निन्दनादिकृतम् । मतिवैषम्यम् अप्रीत्यादिरूपम् । भक्तकृतेति ॥ यदि भक्तः कदाचित् प्रमादादसुरावेश-प्रयुक्तद्वेषेण निन्दनाद्यपराधं करोति तर्हि तदीयां पूर्वतनी भक्तिमेवापेक्ष्यान्यावेशकृतं तात्कालिकद्वेषकृतं निन्दना-दिकमनिरूप्य तस्मिन् प्रीयत इत्येव न तु सर्वैरप्यपराधे कृते सतीत्यर्थः । अत एव शिशुपालदन्तवक्रविषय एव सप्तमस्कन्धे इदं श्लोकद्वयं प्रवृत्तमित्यवगन्तव्यम् । भक्ता एव हि ते पूर्वं शिशुपालादयः शापादेव विद्वेषिण इति प्रसिद्धेरिति भावः । एतेनेति ॥ अभेदेन प्रतिपत्तावीश्वरस्य अप्रीतिकथनेनेत्यर्थः । प्रतिपत्त्यर्थताम् उपा-सनार्थताम् । गुणोत्कर्षज्ञानादेवेति ॥ न कर्मादिनेत्यर्थः । कर्मकरेभ्य इति ॥ सेवाकारेभ्यो भृत्येभ्य इत्यर्थः । इति चेति ॥ शेष इति वर्तते । तेनेति ॥ तदभिप्रेतध(ना)रादिसर्वदानेन । तेषां राज्ञां तत्र गुणोत्कर्ष-वक्तरि ।

(श्री.टि.) ननु ‘कर्मणा यमभिप्रैति स सम्प्रदानम्’ दानकर्मणा यमभिप्रैति स सम्प्रदानसञ्ज्ञः स्यादिति सूत्रेण सम्प्रदानसञ्ज्ञायां ‘चतुर्थी सम्प्रदाने’ इति सूत्रेण विप्राय गां ददातीत्यत्र विप्रायेतिवद् वदते इति चतुर्थी स्यान्न तु वदत इति षष्ठीत्यत आह-सम्प्रदानत्वस्येति ॥ ‘विवक्षातः कारकाणि सम्भवन्ति’ इति वचनादिति भावः । शेषविवक्षयेति ॥ तथा च शेषे, उक्तकारकेभ्योऽन्यः शेषः, तद्विवक्षायां षष्ठी स्यादिति सूत्रेण वदतः षट्कारक-भिन्नत्वस्य विवक्षितत्वाद्रजकस्य वस्त्रं ददातीत्यत्र रजकस्येतिवदत्रापि षष्ठी युक्तेत्यर्थः । केचित्तु सम्प्रदानत्वस्या-विवक्षितत्वादित्यस्य ‘कर्मणा यमभिप्रैति स सम्प्रदानम्’ स्वत्वपरित्यागेन परस्वत्वापादनं दानम्, तत्कर्मणा यमभिप्रैति स सम्प्रदानसञ्ज्ञः स्यादिति सम्प्रदानत्वविधायकस्य कर्मणेति सूत्रस्य अविवक्षितत्वाद् वक्तुमिष्टत्वा-भावान्महाभाष्यकारेण प्रत्याख्यातत्वादिति यावदित्यर्थः । यथोक्तं महाभाष्ये ‘कर्मणा यमभिप्रैति’ इत्यत्र ‘अयं योगो न शक्यो वक्तुम्, खण्डिकोपाध्यायः शिष्याय चपेटिकां ददातीत्यादिप्रयोगे शिष्ये स्वत्वपरित्यागादि-रूपसम्प्रदानत्वासम्भवाच्छिष्यायेति चतुर्थी न श्रूयेत’ इतीत्याहुः । यद्वा वदत इत्येतद् द्वितीयाबहुवचनमित्यभिप्रेत्य योजनान्तरमाह- वदतः प्रतीति वेति ॥ तथा च ‘लक्षणेत्थम्भूताख्यानभागवीप्सासु प्रतिपर्यनवः’ इति सूत्रेण प्रतिशब्दस्य कर्मप्रवचनीयसञ्ज्ञाविधानात् तद्योगे ‘कर्मप्रवचनीययुक्ते द्वितीया’ इति सूत्रेण चतुर्थ्यपवादकत्वेन द्वितीयाविधानादत्रापि कर्मप्रवचनीयार्थकप्रतिशब्दाध्याहारकरणेन तद्योगे उक्तसूत्रेण द्वितीयैव जातेति न दोष इति भावः । सत्पुरुषत्वादिति ॥ उत्तमपुरुषत्वादित्यर्थः । नीचपुरुषे व्यभिचारपरिहाराय सदिति विशेषणम् । तथाविधादिति ॥ गुणोत्कर्षज्ञानसाध्यादुत्तमादित्यर्थः । आत्मनः स्वस्य कृष्णस्य भजति मामित्यात्मन एव भजनकर्मत्वोक्तेरित्यर्थः । ननु ‘जीवब्रह्मणोरभेदे सर्वागमानां महातात्पर्यम्’ इत्यत्र मत्प्रक्रियैव प्रमाणम् । ‘मन्त्रब्राह्मणलक्षणस्तावद्वेदः’ इत्यादिनैक्ये सर्वागमानां महातात्पर्यस्य मत्प्रक्रियाऽनुसारेणोपपादितत्वादित्यत आह- प्रक्रिया त्विति ॥

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

प्रतिपत्तिरिहेति ॥ भावनापरपर्यायोपासनैव इह ज्ञानशब्देनोच्यते । न प्रसिद्धज्ञानमित्यर्थः । भृत्यशिष्ययो राजगुरुभ्यां विरोधिभेदज्ञानस्य विद्यमानत्वेन अभेदज्ञानाभावेन ‘अभेदज्ञानादप्रीतिरेव’ इत्युत्तरवाक्ये ज्ञानशब्देन अर्थाभावेऽपि तथा भावनारूपप्रतिपत्तेरेव ग्राह्यत्वेन तदनुरोधेनात्रापि तस्या एव तेन ग्राह्यत्वादिति भावः । अभेदप्रतिपत्त्येति ॥ भावनापरपर्यायोपासनयेत्यर्थः । निन्दनस्तवसत्कारेत्यादिपूर्ववाक्योदाहरणं तु तत्कृतमित्युत्तरवाक्यस्थतच्छब्दार्थस्फुरणायैव कृतमिति ध्येयम् ।

ननु राजकर्तृकदानकर्मणा अभिप्रेतेन आप्तुमिष्टतमत्वाद् गुणोत्कर्षं वदतः ‘कर्मणा यमभिप्रैति स सम्प्रदानम्’ इति सम्प्रदानत्वमावश्यकम् । सम्प्रदानं च-

‘अनिराकरणात् कर्तुस्त्यागाङ्गं कर्मणेप्सितम् ।

प्रेरणानुमतिभ्यां च लभते सम्प्रदानम् ॥’

इति हरिणोक्तत्वात् त्रिविधम् अनिराकर्तृ प्रेरकम् अनुमन्तृ चेति । तत्र अनिराकर्तृ यथा- सूर्याय अर्घ्यं ददा-(पां.टि.) तीति । नात्र सूर्यः प्रार्थयते न चानुमन्यते न च निराकरोति । प्रेरकं यथा- विप्राय गां ददातीति । विप्रो हि गां मह्यं देहीति याचते । अनुमन्तृ यथा- उपाध्यायाय ददातीति । नोपाध्यायः पूर्वं प्रार्थितवान्, अथ च दीयमानमनुमन्यते भद्रं कृतमिति । तत्र प्रेरकत्वानुमन्तृत्वयोरभावेऽप्यनिराकर्तृत्वरूपं सम्प्रदानत्वं गुणोत्कर्षं वदतः सम्भवत्येव । न च अपुनर्ग्रहणाय स्वस्वत्वापरित्यागेन परस्वत्वापादनमेव दानम् । अत एव रजकस्य वस्त्रं ददातीत्यादौ ददातेर्भाक्तत्वात् षष्ठी भवति । प्रकृते च राज्ञाऽभिप्रेतविषये स्वस्वत्वापरित्यागेन परस्वत्वापाद-नस्य कदाऽप्यकरणान् न दानकर्मणा आप्तुमिष्टतमत्वमिति कथं गुणोत्कर्षं वदतः सम्प्रदानत्वमिति वाच्यम् । वृक्षाय जलं ददातीत्यादिचतुर्थ्युपपत्त्यर्थं किञ्चिदुद्दिश्य अपुनर्ग्रहणाय स्वद्रव्यत्यागमात्रस्य दानशब्दार्थतया विवक्षणीयत्वेन पदमञ्जर्यामुक्तत्वेन तत्रेव अत्रापि यथाकथञ्चित् तस्य प्रतिपादयितुं शक्यत्वेन दानकर्मत्वाविरोधाद् भाष्यकारेण दानकर्मणेत्यस्य अनाश्रयणीयत्वोक्त्या दानकर्मणा आप्तुमिष्टतमत्वस्य अनपेक्षितत्वात् । यदाह भाष्यकारः- ‘खण्डिकोपाध्यायस्तस्मै चपेटिकां ददाति’ इति । न चैवमजां नयति ग्राममित्यादावपि प्रसङ्गः । यमभिप्रैतीत्युक्त्या यमिति निर्दिष्टस्य शेषित्वं लभ्यते कर्मणश्च शेषत्वम् । न च अजां प्रति ग्रामस्य शेषित्वमिति न सम्प्रदानत्वप्रसङ्गः । गुणोत्कर्षं वदतस्तु दानकर्माभिप्रेतं प्रति शेषित्वात् स्यादेव सम्प्रदानत्वम् । तथा च ‘सम्प्रदाने चतुर्थी’ इति चतुर्थ्या ‘गुणोत्कर्षं वदते’ इति भवितव्यं ‘वदतः’ इति षष्ठी कथमित्यतो ‘घ्नतः पृष्ठं ददाति, रजकस्य वस्त्रं ददाति’ इत्यादाविव सम्प्रदानत्वाविवक्षया अशेषस्यापि शेषत्वविवक्षया च षष्ठ्युपपत्ति-रित्याशयेनाऽह- सम्प्रदानस्येति ॥ अस्मिन् पक्षे सतोऽपि सम्प्रदानत्वस्याविवक्षया असतोऽपि शेषत्वस्य विवक्षायाश्चाऽश्रयणाद्् गौरवमिति मन्वानो नेयं षष्ठी किन्तु प्रतिशब्दयोगे द्वितीयैवेति न काऽप्यनुपपत्तिरिति भावेन प्रतिशब्दाध्याहारेण तामुपपादयति- गुणोत्कर्षं वदतः प्रतीति वेति ॥ मूले षष्ठ्यन्तोपदर्शनादिना सूचितमभिमतार्थसाधकमनुमानप्रयोगं दर्शयति- तथा च प्रयोग इति ॥ साकाङ्क्षत्वप्रयुक्तवाक्याभासत्वशङ्का-परिहारायापेक्षितं पूरयति- कर्मकरादिष्विति शेष इति ॥ तथाविधादिति ॥ गुणोत्कर्षज्ञानसाध्यादुत्तमात् प्रसादादित्यर्थः । केचित्तु अस्तु सम्प्रदानत्वं विवक्षितम् । न च चतुर्थ्यापत्तिः कर्मप्रवचनीयसञ्ज्ञकप्रतियोगेन प्राप्तद्वितीयाया बाधकत्वादित्याह इति वदतः प्रतीति वेति ग्रन्थावतारमाहुः । द्योतकमिति ॥ परमप्रीतिं विना सर्वभावेन भजनस्यैवायोगादिति भावः ।

लघुप्रभा

(व्या.टि.)

प्रतिपत्तिर्भावना । प्रीयते, ‘प्रीङ् प्रीणने’ दैवादिकः । निमित्तेति ॥ अधिकगुणारोपेत्यर्थः । अनुमीयते । एते तस्मिन् प्रीयन्ते तद्दानोद्यमादिति भावः । अकर्तव्यतेति ॥ शतापराधस्तोत्रादिनेति शेषः । भक्तकृतेति ॥ ‘यदनिन्दत् पिता मह्यं त्वद्भक्ते मयि चाघवान् । तस्मात्पिता मे पूयेत दुरन्ताद् दुस्तरादघात्’ ‘न मे भक्तः प्रणश्यति’ ‘धर्मो भवत्यधर्मोऽपि’ इत्यादिवचनात् । प्रतिपत्त्यर्थतामिति ॥ उपासनार्थतामि-त्यर्थः । कर्मकरेभ्य इति ॥ कर्मशब्दे कर्मण्युपपदे ‘सुकर्मपापपुण्येषु कृञः’ इति टजिति भावः । वचनेन कार्येण । अनुमीयत इति ॥ अनुमानप्रकारस्तु एते तत्रातिप्रीतास्तदभिमतदातृत्वादिति । सम्प्रदानस्येति ॥ (व्या.टि.)स्वस्वत्वपरित्यागेन परस्वत्वापादनरूपदानकर्मणोऽत्राभिप्रेयमाणत्वस्यात्राविवक्षितत्वादित्यर्थः। उपपदविभक्तिं मत्वाऽह- प्रतीति ॥ प्रीणनं विशिनश्व्-ि तथाविधादिति ॥ द्योतकमिति ॥ तादृशवचनस्य प्रीत्यनुभावकवचनत्वादित्यर्थः । इतोऽपीति ॥ अप्रामाणिकत्वादपीत्यर्थः । ननु ‘युष्मदस्मत्प्रत्ययगोचरयोः’ इत्यादिना परभाष्ये महता प्रबन्धेन सर्वागमानामद्वैते महातात्पर्यमुपपादितम् । तत्कथं प्रमाणाभाव इत्यत आह- प्रक्रियेति ॥ वृथोक्तिरित्यर्थः । निर्मूलत्वादिति ॥ प्रमाणानुपन्यासादित्यर्थः । उपलक्षणीयेति ॥ गुडजिह्विका-न्यायेन । वस्तुतस्तु कामुकशास्त्रवदुत्प्रेक्षामूलत्वान्मुमुक्षुभिर्हेयमेवेति । यथोक्तमनुव्याख्याने ‘हेयं मायामतं शुभैः’ इति । स्वपक्षप्रमाणोपन्यासः ।