विरोधश्च तथाऽधिक्यं ..
उपपत्तिदोषनिरूपणम्
मूलम्
विश्वास-प्रस्तुतिः
विरोधश् च तथाधिक्यं
न्यूनताऽसङ्गतिस् तथा ॥उपपत्ति-दोषा विज्ञेया
विरोधश् च स्वतो ऽन्यतः ।
जनकस्यात्ययो जातिः
स्वस्य वान्यस्य वा भवेत् ॥जनकं प्रमाणम् उद्दिष्टं
स्वस्यार्थस्य प्रकाशनात् ।
निग्रहा एत एव स्युः
संवादानुक्ति-संयुताः ॥
मूलम्
- विरोधश्च तथाऽधिक्यं न्यूनताऽसङ्गतिस्तथा ।
उपपत्तिदोषा विज्ञेया विरोधश्च स्वतोऽन्यतः ।
जनकस्यात्ययो जातिः स्वस्य वाऽन्यस्य वा भवेत् ।
जनकं प्रमाणमुद्दिश्व्ं स्वस्यार्थस्य प्रकाशनात् ।
निग्रहा एत एव स्युस्संवादानुक्तिसंयुताः ॥
तत्त्वमञ्जरी
(तं.मं.)
स विरोधो द्विविधः । स्वतो विरोधः स्वव्याहतिनामा । स्वदर्शनविरोधोऽपसिद्धान्ताख्यो वा । अन्यतो विरोधः प्रमाणान्तरविरोधः । जातेश्च विरोध एवान्तर्भाव इत्याह- जनकस्येति ॥ प्रमाणत्वेनाभिमतस्य स्वस्य वाक्यस्यान्यस्य प्रमाणस्य वाऽत्ययो विरोधो जातिर्नाम । एतेष्वेव प्रतिज्ञाहान्यादीनां सर्वनिग्रहस्थानानामन्तर्भाव इत्याह- निग्रहा इति ॥
टीका
एवं निर्दोषोपपत्तिरूपेऽनुमाने निरूपिते निर्दोषताया दोषज्ञानाधीनत्वात् के ते उपपत्तिदोषा इत्यपेक्षायामाह- विरोधश्चेति ॥ योग्यताविरहो विरोधः । सत्यां सङ्गतावधिकत्वमाधिक्यम् । विवक्षितासम्पूर्तिर्न्यूनता । आकाङ्क्षाविरहोऽसङ्गतिः । अत्र विरोधोऽसङ्गतिश्चार्थदोषौ । तद्द्वारा शब्दस्यापि । न्यूनता(न्यूनाधि)धिक्ये वचनदोषौ । तद्द्वाराऽर्थस्यापि । अत एवार्थशब्दात्म-कत्वेनानुमानविभागकथनप्रस्तावे तथाविभक्ततद्दोषकथनं नासङ्गतम् ।
ननु कालात्ययापदिष्टत्वादयोऽनुमानदोषाः परैः परिगणिताः, तत् कथमेतदित्यतस्तेषामेते-ष्वेवान्तर्भावं सूचयितुं विरोधविभागमाह- विरोधश्चेति ॥ इति द्विविध इति शेषः । स्वत इति ॥ स्ववचनेन स्वक्रियया स्वन्यायेन स्वाभ्युपगमेन चेत्यर्थः । अन्यतः प्रमाणान्तरेण । एवमन्योऽपि विभाग ऊहनीयः ।
एवं विभागे सति किं लब्धमित्यतो दिक्प्रदर्शनाय जातेरन्तर्भावः सिद्ध इति सूचयितुं तत्स्वरूपं निरूपयति- जनकस्येति ॥ स्वस्य वा जनकस्यान्यस्य वा जनकस्येति सामानाधिकरण्यम् । अत्ययोऽतिक्रमो विरोधः । किं जनकमित्यत आह- जनकमिति ॥ स्वस्यार्थस्य प्रकाशनात् स्वविषयप्रतिपादनात् । प्रमाणमिति ज्ञापकत्वमात्रेणोपचारः, स्वव्याहतस्य प्रामाण्यायोगात् । ‘अन्येष्वपि दृश्यते’ इति दृशिग्रहणान्निरुपपदात् प्रादुर्भावार्थाज्जनेरपादाने, ण्यन्ताद्वा कर्तरि डप्रत्यये कृते जमिति ज्ञापकं वाक्यमुच्यते । उपसर्गाश्च क्रियासन्निधाने सति तद्विशेषका भवन्ति । असन्निधाने तु ससाधनां क्रियामाहुः, यथा प्राचार्यः, प्रान्तेवासीति । ततोऽतिरत्ययस्य वाचकः । तथाच जस्य स्वाख्यस्यान्यस्य वा, जनकस्य ज्ञापकस्य, अतिः, अत्ययो जातिरित्युक्तं भवति । अन्यच्चात्र स्वक्रिया वा स्वन्यायो वा, अन्यथा कालातीतादेरपि जातित्वप्रसङ्गात् । एवं च स्वव्याहतिर्जातिः सा त्रिविधा, स्ववचनविरोधः स्वक्रियाविरोधः स्वन्यायविरोधश्चेति लभ्यते । तथाच स्वतो विरोधे जातेरन्तर्भावः सूचितो भवति । एवमन्येषामन्तर्भावो द्रष्टव्यः ।
न केवलमनुमानदोषाणां विरोधादिभिस्सङ्ग्रहः, किन्तु परनिरूपितानां सर्वनिग्रहस्थानाना-मपीत्याह- निग्रहा इति ॥ निग्रहस्थानानि । एत एव विरोधादयः प्रतिज्ञाहान्यादयः । प्रतिज्ञा-हान्यादीनां वक्तृदोषाणां कथमर्थवचनदोषेषु विरोधादिष्वन्तर्भाव इत्यत आह- संवादेति ॥ विप्रतिपन्नप्रमेयाभ्युपगमः संवादः । तूष्णीम्भावोऽनुक्तिः । एताभ्यां संयुता विरोधादयः । एतेन प्रत्यभिज्ञाविरोधादिना वर्णानित्यत्वाद्यनुमानदूषणमुपपादितं भवति ।
भावबोधः
नन्वर्थशब्दात्मकत्वेनानुमानविभागस्योक्तत्वात्तद्दोषा अपि ‘विरोधासङ्गती ह्यार्थे न्यूनाधिक्ये तु वाचिके’ इत्येवं विभक्ततया वक्तव्याः । विरोधासङ्गत्योरर्थसम्बन्धित्वं न्यूनाधिक्ययोर्वचनसम्बन्धित्वमनभिधाय व्यामिश्रत्वेन च तदुक्तिरसङ्गतेत्यत आह- अत एवेति ॥ चतुर्णामपि दोषाणामुक्तरीत्या द्विविधानु-मानसाधारण्यादेवेत्यर्थः । स्ववचनेनेति ॥ स्ववक्तृकवाक्यगतपदावान्तरवाक्ययोस्तदन्तर्गतपदान्तरा-वान्तरवाक्यान्तरलक्षणस्ववचनेनेत्यर्थः । एवं स्ववचनविरोध इत्यत्रापि ज्ञातव्यम् । स्वाभ्युपगमेन चेति ॥ स्वपूर्वाचार्याङ्गीकारेणेत्यर्थः । एवमन्योऽपीति ॥ हेतुविरोधो द्विविधो ऽसिद्धिरव्याप्तिश्च । दृष्टान्तविरोधो द्विविधः साध्यवैकल्यं साधनवैकल्यं चेत्यादिरूप इत्यर्थः । अन्यथा स्वरूपासिद्ध्यादेरन्तर्भावो न सिद्ध्येदिति भावः । सामानाधिकरण्यमिति ॥ न तु स्वस्यान्यस्य वा यज्जनकं तस्येति वैयधिकरण्यमित्यर्थः । ननु प्रकाशनं ज्ञानव्यापारो ज्ञानं वा । उभयथा करणनिष्ठत्वाभावात् कथं ज्ञापकत्वे हेतुत्वेनोच्यत इत्यतो व्याचश्व्े - स्वविषयेति ॥ ज्ञापकत्वमात्रेणेति ॥ स्वव्याहतवाक्यस्यापि ज्ञापकत्वेन तद्रूपगुणयोगेनेत्यर्थः । दृशि-ग्रहणादिति ॥ अनेन ‘सप्तम्यां जनेर्डः’ इत्युक्त्वा उपपदविशेषयोगेन तद्विधायक ‘पञ्चम्यामजातौ’ इत्यादिसूत्रवत् सामान्यत उपपदयोगेन डप्रत्ययविधायकस्यास्य सूत्रस्य ‘अन्येष्वपि’ इत्येतावता पूर्णत्वे यद् दृशिग्रहणं करोति पाणिनिस्तेनेदं ज्ञापयति यत्र यत्रोपपदे सत्यसति वा डप्रत्ययकार्यं दृश्यते तत्र सर्वत्र डप्रत्ययो भवति । तथा कारकान्तरेऽपि वाच्ये डप्रत्ययो भवतीत्युक्तं भवति । व्याहतवाक्यस्यार्थजनकत्वाभावादाह- प्रादुर्भावार्था-दिति ॥ ‘स्वस्यार्थस्य प्रकाशनात्’ इति मूलानुरोधेनैतदिति द्रष्टव्यम् । अन्यथा ज्ञानापेक्षया जनेरुत्पत्त्यर्थत्वोप-पत्तेः । ण्यन्ताद्वेति ॥ अत्रापि प्रादुर्भावार्थाज्जनेरित्यनुवर्तते । कर्तरि अर्थज्ञापनलक्षणक्रियायाम् । जमिति ज्ञापकमिति ॥ जन्यते ज्ञाप्यतेऽर्थोऽस्मादिति वा जनयति ज्ञापयत्यर्थमिदमिति वा जमिति वाक्यमुच्यत इत्यर्थः। जस्य स्वाख्यस्येति ॥ तथा च मूले जनकस्येति कर्तरि षष्ठी । तथा च जेन जनकेन स्वाख्येन स्ववचनेन स्वक्रियया स्वन्यायलक्षणाख्येन वा वाक्यस्य विरोधो जातिरिति भावः । विरोधादीनां परपराजयादि-रूपत्वाभावादाह- निग्रहस्थानानीति ॥ निगृह्यते पर एभिरिति व्युत्पत्तेरिति भावः ।
भावदीपः
योग्यतेति ॥ अन्योन्यान्वय (घटकयोग्यता) विरह इत्यर्थः । सत्यां सङ्गताविति ॥ आकाङ्क्षा-पूर्तौ सत्यामित्यर्थः । आकाङ्क्षेति ॥ पदानामन्योन्याकाङ्क्षाविरह इत्यर्थः । ननु व्याप्त्यादिमल्लिङ्ग-रूपानुमानस्यार्थरूपत्वेनाशब्दत्वादर्थदोष एवात्र वक्तव्यो न वचनदोष इत्यत आह- अत एवेति ॥ वचनद्वारा अर्थस्यापि दोषत्वादेवेत्यर्थः । परम्परया दोषरूपस्यात्रोक्तौ का सङ्गतिरित्यत उक्तम्- अर्थशब्दात्मकत्वे-नेति ॥ ‘युक्तिः प्रतिज्ञारूपा च’ इत्यादिना ‘त्रियाद्यवयवात्मिकाम्’ इत्यादिना च व्याप्त्यादिमल्लिङ्ग-परोपदेशरूपार्थशब्दात्मकत्वेन परार्थानुमानविभागकथनप्रस्ताव इत्यर्थः । एवमन्य इति ॥ असङ्गत्यादौ विभाग इत्यर्थः । स च पद्धत्यादौ व्यक्तः । यद्वा प्रमाणान्तरेणेत्यत्रापि समबलप्रमाणप्रबलप्रमाणेति प्रत्यक्ष-विरोधानुमानविरोधभेदेन अन्यविरोधविभाग इत्यर्थः । अथवा प्रतिज्ञाहेतुदृष्टान्तविरोधभेदेन अन्यो विरोधविभाग इत्यर्थः । एतेषामुदाहरणानि लक्षणादिग्रन्थान्तरे व्यक्तानि । स्वान्ययोर्जनकस्येति भ्रमनिरासायाऽह- इति सामानाधिकरण्यमिति ॥ स्वस्यार्थस्येत्यस्य व्याख्या- स्वविषयेति ॥ यस्य वाक्यस्य विरोध उच्यते तदत्र स्वपदेन गृह्यते । स्वस्य यो विषयः स स्वविषयः । वाक्यनिष्ठत्वलाभाय प्रकाशनादित्यस्य प्रतिपादनादित्यर्थ उक्तः । उपचारः कुत इत्यत आह- स्वव्याहतस्येति ॥ स्वेनैव व्याहतस्य विरुद्धस्येत्यर्थः । जनकस्येत्या-दिनोक्तोऽर्थो जातिपदेन कथं लब्ध इत्यत आह- अन्येष्वपीति ॥ ‘सप्तम्यां जनेर्डः’, ‘पञ्चम्यामजातौ’ इति सूत्रद्वयेन सप्तम्याद्युपपदे जनेर्डप्रत्ययं विधायान्येष्वपि प्रातिपदिकेषु निरुपपदेष्वपि डप्रत्ययो दृश्यत इत्युक्तत्वाद् दृशिग्रहणादित्युक्तम् । प्रादुर्भावार्थादिति ॥ ‘जनी प्रादुर्भावे’ इति धातुपाठादिति भावः । अपादान इति ॥ ‘अपादाने पञ्चमी’ इत्युक्तेर् जायते ज्ञायतेऽस्मादित्यर्थे डप्रत्यय इत्यर्थः । जनयतीति जनकं न तु जायत इति । अतो जनक इत्यर्थलाभायाऽह- ण्यन्ताद्वेति ॥ तथाच जन् णि ड इति स्थिते ‘चुटू’ इति डकारव्यञ्जनस्य, ‘णेरनिटि’ इति णिप्रत्ययस्य, ‘डित्यभस्यापि टिलोपः’ इत्यन् इत्यस्य च लोपे कृदन्तत्वेन ‘कृत्तद्धितसमासाश्च’ इति प्रातिपदिकसञ्ज्ञायां स्वाद्युत्पत्तौ जमिति रूपमिति भावः । नचात्र णिचि परतः ‘अत उपधायाः’ इत्युपधावृद्धिः शङ्क्या । टिलोपेन तस्यापि लोपात् । अतिरित्यनेन अत्यय इत्यर्थलाभप्रकारमाह- उपसर्गाश्चेति ॥ तद्विशेषका इति ॥ अर्थान्तरापादका इत्यर्थः । अतिशेतेऽनुभवति प्रतिष्ठत इत्यादौ तथा दृश्व्ेरिति भावः । यद्वा प्रभवतीत्यादौ प्रकृश्व्त्वाद्यतिशयाधायका इत्यर्थः । ससाधनामिति ॥ कर्तृकरणादिरूपं साधनं निमित्तं प्रत्ययोत्पत्तौ यस्याः क्रियायाः सा ससाधना, तामित्यर्थः । ‘यो व्यतीरवीविपत् । यो व्यतीरभाणयत्’ इत्यादौ विशेषेणाधि-कानित्यर्थदर्शनादिति भावः । प्राचार्य इति ॥ ‘प्रादयो गताद्यर्थे प्रथमया’ इति समासेन प्रगत आचार्यः प्राचार्यः प्रगतोऽन्तेवासी प्रान्तेवासीत्यत्र प्रेत्युपसर्गः कर्तृसाधनप्रत्ययान्तगमनक्रियां वक्ति यथा, तथाऽत्रापि ‘इण् गतौ’ इति क्रियां भावसाधनयुक्तां वक्तीत्यर्थः । तत इति ॥ उपसर्गाणां ससाधनक्रियावाचित्वस्यापि सत्त्वादित्यर्थः । उभयत्रापि जस्येत्यस्यार्थो- ज्ञापकस्येति ॥
ननु स्वस्य ज्ञापकस्यात्ययो विरोधः स्वेनैवेति व्यक्तः । अन्येन स्वस्य जस्यात्यय इत्यत्र अन्यत्किं प्रत्यक्षादिः प्रमाणान्तरं वा ततोऽन्यद्वेत्यत आह- अन्यच्चात्रेति ॥ कुत एवमित्यत आह- अन्यथेति ॥ अन्यपदेन प्रमाणान्तरग्रहणे सति प्रबलप्रमाणविरोधः कालातीतः, समबलप्रमाणविरोधः सत्प्रतिपक्ष इति तयोरपि जात्युत्तरत्वापत्त्या अनुमानदोषत्वेन सदुत्तरता न स्यादिति भावः । उदाहरणमेतेषां पद्धत्यादौ व्यक्तम् । त्रयाणां जातित्वे सङ्ग्राहकं धर्मं वदन् फलितमाह- एवं चेति ॥ अस्त्वेवं जातिस्वरूपं क्वान्तर्भावोऽस्या इत्यत आह- तथाचेति ॥ जातेरुक्तरूपत्वे सति ‘विरोधश्च स्वतोऽन्यतः’ इत्युक्तस्वतोविरोध इत्यर्थः । अन्येषामिति ॥ परोक्ताशेषानुमानदोषाणामित्यर्थः । स च व्यक्तोऽन्यत्रेति भावः । शङ्कते- प्रतिज्ञेति ॥ एताभ्यां संयुता इति ॥ द्वावर्थदोषौ द्वौ वचनदोषौ द्वौ पुरुषदोषौ । तथाच परोक्तार्थवचनपुरुषदोषाणां यथायोगं तेष्वन्तर्भाव इति भावः । एतेनेति ॥ विरोधविभागकथनेन । अन्यतो विरोध इत्युक्त्या प्रतिज्ञाविरोधस्याप्यन्यत इत्यनेन प्राप्तत्वादुपपादितमित्यर्थः । इति युक्तिदोषोक्तिः ।
वाक्यार्थदीपिका
(श्री.टि.)
तद्द्वारेति ॥ अर्थस्य दुष्टत्वे तत्प्रतिपादकशब्दस्यापि दुष्टत्वादिति भावः । तद्द्वारेति ॥ वचनस्य दुष्टत्वे तत्प्रतिपादितार्थस्यापि दुष्टत्वादिति भावः । ननु द्विविधमनुमानं स्वार्थं परार्थं चेत्यर्थशब्दात्मकत्वे-नानुमानविभागस्योक्तत्वात्तद्दोषा अपि ‘विरोधासङ्गती ह्यार्थे न्यूनाधिक्ये तु वाचिके’ इत्येवं विभक्ततया वक्तव्यम् । तथाच विरोधासङ्गत्योरर्थसम्बन्धित्वं न्यूनाधिक्ययोर्वचनसम्बन्धित्वं मनसि निधाय ‘विरोधश्च तथाऽऽधिक्यम्’ इत्यर्थवचनदोषयोर्न्यूनतासङ्गतिरिति वचनार्थदोषयोश्च व्यामिश्रतयोक्तिः कुत इत्यत आह- अत एवेति ॥ चतुर्णामपि दोषाणामुक्तरीत्या द्विविधानुमानसाधारण्यादेवेत्यर्थः । अर्थेति स्वार्थानुमानम्, तत्र शब्दप्रयोगाभावात् । शब्देति परार्थानुमानम् । तथा विभक्तेति ॥ अर्थशब्दात्मकत्वेन विभक्तेत्यर्थः । तद्दोषकथनम् अर्थशब्दात्मकानुमानदोषकथनम् । स्ववचनेनेति ॥ एकस्मिन्नेव वाक्ये पदयोरवान्तरवाक्ययोर्वा परस्परं विरोधः स्ववचनविरोधः । यथा मे माता वन्ध्या इति तदुदाहरणम् । स्वक्रियाविरोधो मूकोऽहमिति । मेयं मानसापेक्षं न भवतीति स्वन्यायविरोधः । स्वपूर्वाचार्याङ्गीकारेण विरोधः स्वाभ्युपगमविरोधः । पूर्वा-चार्यवचनस्यापि स्वेनाङ्गीकृतत्वात् । अपसिद्धान्त इति यावत् । यथा मीमांसकस्येश्वराभ्युपगम इति द्रष्टव्यम् । इदं च न साक्षाद्विरोधविभागकथनपरम् । किं नाम? विरोधप्रभेदरूपो यस्स्ववाक्यविरोधस् तत्प्रभेदरूपा या जातिस्तद्विभागकथनपरमित्यवधेयम् । एवमन्योऽपीति ॥ हेतुविरोधादिविभाग इत्यर्थः । इयमत्र विभाग-परिशुद्धिः । विरोधस्तावद् द्विविधः; समयबन्धप्रश्नस्वपक्षसाधनादिरूपकथासाधारणोऽनुमानमात्रनिष्ठश्चेति । अनुमानविरोधस्त्रिविधः, प्रतिज्ञाहेतुदृश्वन्तविरोधभेदेन । प्रतिज्ञाविरोधोऽपि द्विविधः प्रमाणविरोधः स्ववाक्य-विरोधश्चेति । प्रमाणविरोधोऽपि द्विविधः, प्रबलप्रमाणविरोधस्समबलप्रमाणविरोधश्चेति । स्ववाक्यविरोधोऽपि द्विविधः, अपसिद्धान्तो जातिरिति । जातिस्त्रिविधा स्ववचनविरोधस्स्वक्रियाविरोधस्स्वन्यायविरोधश्चेति । हेतुविरोधोऽपि द्विविधः, स्वरूपासिद्धिख्याप्तिश्चेति । अव्याप्तिस्त्रिविधा, साध्येन सम्बन्धस्तदभावेनापि सम्बन्धः साधारणानैकान्तिक इति यावत् । साध्यसम्बन्धाभावे सति तदभावेनैव सम्बन्धो विरुद्ध इति यावत् । उभय-सम्बन्धाभावोऽसाधारणानैकान्तिक इति यावदिति । दृष्टान्तविरोधोऽपि द्विविधः साध्यवैकल्यं साधनवैकल्यं चेति ।
॥ जातेरन्तर्भावः सिद्ध इति ॥ प्रतिज्ञाविरोधप्रभेदरूपस्ववाक्यविरोध इति शेषः । सामानाधिकरण्य-मिति ॥ स्वाख्यजनकस्य अन्यरूपजनकस्येति सामानाधिकरण्यं न तु स्वस्य यज्जनकं तस्य अन्यस्य यज्जनकं तस्येति वैयधिकरण्यमित्यर्थः । ननु प्रकाशनं ज्ञानव्यापारो ज्ञानं वा, उभयथा करणनिष्ठत्वाभावाद्वाक्यस्य ज्ञापकत्वे कथमयं हेतुः स्यादित्यत आह- स्वविषयप्रतिपादनादिति ॥ उपचार इति ॥ स्वव्याहतवाक्यस्यापि ज्ञापकत्वेन प्रमाणभूतवाक्यस्वव्याहतवाक्ययोर्ज्ञापकत्वरूपगुणयोगादित्याशयः। उपचारे बीजं स्वयमेव दर्शयति- स्वव्याहतस्येति ॥ ननु जातिरित्यत्र जशब्देन ज्ञापकं वाक्यम् अतीत्यनेनात्ययश्च कथं लभ्यत इत्यतस्तद्दर्शयति- अन्येष्वपीत्यादिना ॥ ‘जनी प्रादुर्भावे’ प्रादुर्भावो विषयप्रकाशनं विषयप्रतिपादनमिति यावत् । एवं च प्रादुर्भा-(श्री.टि.) वार्थाज्जनेरपादाने जन्यते ज्ञाप्यतेऽर्थोऽस्मादित्यपादानविवक्षायां डप्रत्यये डित्त्वविधानसामर्थ्यादभ-स्यापि टिभूतान् इत्यस्य लोपे ज् अ जेति ज्ञापकं वाक्यं जन्यते ज्ञाप्यतेऽर्थो यस्मादिति व्युत्पत्त्योच्यते । ननु कथमेतत्? ‘सप्तम्यां जनेर्डः’ सप्तम्यन्त उपपदे जनेर्धातोर्डप्रत्ययः स्यात् । यथा पङ्के जातं पङ्कजम् । ‘पञ्चम्यामजातौ’ जातिवर्जे पञ्चम्यन्ते उपपदे जनेर्डस्स्याद्भूते, पद्माज्जातः पद्मज इति । अजातौ किम् अश्वाज्जातो अश्वज इति नैव भवति । ‘अन्येष्वपि दृश्यते’ अन्येष्वप्युपपदेषु सत्सु जनेर्डो दृश्यते । यथा द्विर्जायते इति द्विज इति । एवं सूत्रत्रयेण सोपपदजनिधातोरेव डप्रत्ययविधानात् प्रकृते च जनेर्निरुपपदत्वात् कथमत्र डप्रत्ययप्राप्तिर्येन जमिति रूपं स्यादित्यत उक्तम्- अन्येष्वपि दृश्यत इति दृशिग्रहणान्निरुपपदादिति ॥ अयमर्थः । यद्यत्र सोपपद-जनिधातोरेव डप्रत्ययोऽभिप्रेतः स्यात्तदा अन्येष्वपीति सूत्रे दृशिग्रहणं व्यर्थं स्यात् । अन्येष्वपीत्येतावतैव विवक्षितार्थसिद्धेः । ‘पञ्चम्यामजातौ’ इत्यत्रेव अत्रापि जनेर्डप्रत्यय इत्यस्यानुवृत्तिसम्भवात् । अतो ‘व्यर्थं सत्किञ्चिदिश्व्ं ज्ञापयति’ इति न्यायेन दृशिग्रहणसामर्थ्याद्यत्र यत्रोपपदे सत्यसति च डप्रत्ययकार्यं दृश्यते तत्र सर्वत्र डप्रत्ययो भवतीति ज्ञायते । अतोऽत्र निरुपपदजनिधातोरेव डप्रत्यये जमिति रूपं युक्तमिति भावः । प्रकारान्तरमप्याह- ण्यन्ताद्वा कर्तरीति ॥ अत्र निरुपपदात्प्रादुर्भावार्थाज्जनेरित्येतावदनुवर्तते । तथा च ‘जनी प्रादुर्भावे’ अस्माण्णिच्, तस्य च ‘णेरनिटि’ इति लोपे जनिधातुर्णिजन्तस्तस्मादर्थज्ञापनलक्षणक्रियायां कर्तर्यभिधेये सति डप्रत्यये टिलोपे जनयति ज्ञापयत्यर्थमिति व्युत्पत्त्या जमिति ज्ञापकं वाक्यमुच्यत इत्यर्थः ।
ननु तथाऽप्यतीत्युपसर्गस्य अत्यय इत्यर्थप्रदर्शनमयुक्तम् । उपसर्गाणां क्रियागतविशेषप्रकाशकत्वात् । प्रकृते च क्रियासमभिहाराभावेन तदयोगादित्यत आह- उपसर्गाश्चेति ॥ तद्विशेषका इति ॥ क्रिया धात्वर्थस् तद्विशेषका इत्यर्थः, यथा प्रजयतीत्यादौ प्रादयः ‘धातावेव विलीनोऽर्थ उपसर्गेण काश्यते । प्रहाराहारसंहार-विहारपरिहारवत्’ इति वचनात् । ससाधनामिति ॥ कारकगतामित्यर्थः । यथा प्राचार्यः, प्रान्तेवासीत्यादौ प्रादिरुपसर्ग आचार्यादिरूपकर्तृकारकगतां गमनक्रियामेव वक्ति । तथा च प्रगत आचार्य आचार्यस्य गमनं जातमित्यर्थः । एवमन्तेवासिनोऽपि गमनं जातमित्यर्थः । ननु प्रगत आचार्य इत्यत्र गत इति कर्तारमपि वक्तीति प्रतीयते इति चेत्सत्यं कर्तृसम्बन्धं विहाय केवलक्रियामात्रस्य प्रदर्शयितुमशक्यत्वादेव तथा प्रदर्शनम् । न तु कर्तारमपि वक्तीत्याशयेनेति ध्येयम् । ततः किं प्रकृत इत्यत आह- तत इति ॥ प्रकृते क्रियासन्निधानाभावादि-त्यर्थः । अत्ययस्येति ॥ कर्तृभूतवाक्यनिष्ठविरोधरूपक्रियया इत्यर्थः । जस्य स्वाख्यस्येत्यादि । कर्तरि षष्ठी । स्वाख्येन जनकेन अन्येन वा जनकेनेत्यर्थः । स्वक्रिया स्वन्यायो वेति ॥ न तु प्रमाणान्तरमित्यर्थः । तथा च जेन जनकेन स्वाख्येन स्ववचनेन स्वक्रियास्वन्यायलक्षणान्येन वा वाक्यस्यातिरत्ययो विरोधो जातिरुच्यत इति भावः । ननु ‘अन्यच्चात्र स्वक्रिया स्वन्यायो वा’ इति कुतो व्याख्यायते । अन्यदित्यनेन प्रमाणान्तरं गृहीत्वा तद्विरोधो जातिरिति कस्मान्नोच्यत इत्यत आह- अन्यथेति ॥ अन्यदिति प्रमाणान्तरं गृहीत्वा तद्विरोधस्य जातित्वाभिधाने कालातीतसत्प्रतिपक्षयोरपि जातित्वप्रसङ्ग इत्यर्थः । ननु ‘जनकस्यात्ययो जातिः’ इत्यनेन (श्री.टि.) स्ववचनविरोधः स्वक्रियाविरोधः स्वन्यायविरोधश्च जातिरित्युक्तं स्यात् । तथा चाननुगम इत्याशङ्क्य सामान्यलक्षणं वदन् मूलं विभागकथनपरतया योजयति- एवं चेति ॥ ‘जातिमाहुरथान्ये तु स्वव्याघातकमुत्तरम्’ इति कारिकानुसारेणाऽह- स्वव्याहतिर्जातिरिति ॥ ‘जातेरन्तर्भावः सिद्ध इति सूचयितुं तत्स्वरूपं निरूपयति’ इत्युक्तम् । अनेन कुत्रान्तर्भावः सूचित इत्यत आह- तथा च स्वतो विरोध इति ॥ प्रतिज्ञाविरोधप्रभेदरूपे स्ववाक्यविरोध इत्यर्थः । अन्येषां हेत्वाभासानाम् । तत्र असिद्धविरुद्धसाधारणानैकान्तिकासाधारणा-नैकान्तिकानां हेतुविरोधेऽन्तर्भावः । बाधसत्प्रतिपक्षयोः प्रमाणविरोध इत्यादि द्रष्टव्यमित्यर्थः । ननु विरोधादीनां परपराजयरूपत्वाभावादेत एव निग्रहा इति परपराजयरूपनिग्रहत्वं कथमुच्यत इत्यत आह- निग्रहस्थाना-नीति ॥ परपराजयनिमित्तानीत्यर्थः । तथा च निगृह्यते पराजीयते एभिरिति व्युत्पत्त्या निग्रहशब्देन निग्रह-स्थानान्युच्यन्त इत्यर्थः । ‘अखण्डिताहङ्कृतिना पराहङ्कारखण्डनम् । निग्रहस्तन्निमित्तस्य निग्रहस्थानतोच्यते’ इति कारिकावचनादिति भावः । प्रकृतोपयोगं दर्शयति- एतेनेति ॥ विरोधस्यानुमानदूषणत्वकथनेनेत्यर्थः । तथा च विरोधस्यानुमानदूषणत्वाभावात्प्रत्यभिज्ञाविरोधेन वर्णानित्यत्वानुमानं कथं दूषितमिति शङ्काऽनव-काशः । प्रत्यभिज्ञाविरोधो हि प्रबलप्रमाणविरोधः । स चानुमानविरोधप्रभेदभूतो यः प्रतिज्ञाविरोधस् तत्प्रभेदभूतो यः प्रमाणविरोधस्तत्प्रभेदभूतः । एवं च तद्विरोधकथनेनानुमानदूषणं युक्तमिति भावः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
योग्यताविरह इति ॥ साधनाभिमतस्यार्थस्य साध्याभिमतेनार्थेन सम्भावितप्रतीतिकस्यापि साध्यसाधनभावस्य बाधलक्षणमयोग्यत्वमित्यर्थः । नन्वेवं सति सिद्धसाधनताऽपि विरोध एव स्यात् । न हि सिद्धस्य साध्यता सम्भवति । न चास्त्विति वाच्यम् । तथा सति ‘सिद्धसाधकोऽसङ्गतः’ इति स्ववचनविरोधात्, इति चेन्न । सति साकाङ्क्षत्वेऽन्वयायोग्यत्वं विरोधः । न च सिद्धसाधनस्य साकाङ्क्षताऽस्तीति नासौ विरोधेऽ-न्तर्भवतीति भावः । सत्यां सङ्गताविति ॥ सत्यामाकाङ्क्षायामित्यर्थः । आकाङ्क्षितस्याप्यन्येन कृतकार्यस्य प्रयोगोऽधिकमित्यर्थः । नित्यत्वानित्यत्वविप्रतिपत्तौ वर्णात्मकः शब्दो नित्यो गुणश्चेत्यादौ अनित्यत्वप्रतिज्ञयैव कृतकार्येऽर्थान्तरेऽतिव्याप्तिवारणाय अन्येन कृतकार्यस्येत्युक्तम् । विवक्षितेति ॥ अवश्यवक्तव्यस्य एकदेशावचनविशिश्व्मेकदेशवचनमित्यर्थः । अधिकापेक्षयैकदेशवचनत्वात्सम्पूर्णप्रयोगेऽतिव्याप्ति-वारणायावश्यवक्तव्यस्येत्युक्तम् । सम्पूर्णप्रयोगे एकदेशवचनस्यापि भावादतिव्याप्तिरित्यत उक्तम् । एक-देशावचनविशिष्टमिति ॥ अनुक्तावतिव्याप्तिवारणाय एकदेशवचनमित्युक्तम् । आकाङ्क्षाविरह इति ॥ प्रतिज्ञाविषये आकाङ्क्षालक्षणसम्बन्धविरह इत्यर्थः । अर्थदोषाविति ॥ साक्षादुपपत्तित्वाभिमतार्थदोषावि-त्यर्थः । परार्थानुमानसाधारण्यार्थमाह- तद्द्वारेति ॥ दुष्टार्थप्रतिपादकवचनस्यापि तेन दोषेण दुष्टत्वादि-त्यर्थः । न्यूनेति ॥ द्वन्द्वान्ते श्रूयमाणस्य भावशब्दस्य प्रत्येकमभिसम्बन्धान्न्यूनत्वाधिकत्वे इत्यर्थः । वचन-दोषाविति ॥ साक्षादिति शेषः । परार्थानुमान एव तद्दर्शनादिति भावः । तद्द्वारेति ॥ वचनदोषात्तत्प्रति-पादितोपपत्तेरपि दुष्टत्वादिति भावः । नन्वर्थशब्दात्मकत्वेनानुमानविभागस्योक्तत्वात्तद्दोषाणामपि ‘विरोधा-(पां.टि.) सङ्गती ह्यार्थे न्यूनाधिक्ये तु वाचिके’ इत्येवं विभक्ततया वक्तव्यत्वाद्विरोधासङ्गत्योरार्थत्वं न्यूनाधिक्य-योर्वचनसम्बन्धित्वमनभिधाय व्यामिश्रतया तत्कथनमसङ्गतमित्यत आह- अत एवेति ॥ साक्षात्परम्परा-साधारण्येन चतुर्णामपि द्विविधानुमानदोषत्वादेवेत्यर्थः । स्वत इति स्ववचनेनेत्यादि ॥ अनेन स्वेनेति स्वत इति मूले आद्यादित्वात्तृतीयान्तात्तसिरित्युक्तं भवति । प्रमाणान्तरेणेति ॥ अनेनान्येनेत्यन्यत इति तृतीयान्तादेव तसिरित्युक्तं भवति । एवमिति ॥ प्रबलप्रमाणविरोधः समबलप्रमाणविरोधश्चेति प्रमाणविरोधविभागः, असङ्गतिरप्यनेकविधेति तद्विभागश्च द्रश्व्व्य इत्यर्थः । स्वस्य यज्जनकं तस्येति, अन्यस्य यज्जनकं तस्येति च व्यधिकरणषष्ठीत्वभ्रमनिरासायाह- स्वस्य वा जनकस्येति ॥ मुख्यत्वे बाधकमाह- स्वव्याहतस्येति ॥ ननु ‘सप्तम्यां जनेर्डः’ इत्यादिना सोपपदादेव जनेर्डप्रत्ययविधानादत्र च पङ्कजादाविव सोपपदत्वाभावात् कथं निरुपपदाज्जनेर्डप्रत्यय इत्यत आह- अन्येष्वपीति ॥ यद्यप्यत्रापिशब्दस्य सर्वोपाधिव्यभिचारार्थताया वृत्त्यादौ स्थितेः, अपिशब्दबलादेव निरुपपदात् प्रादुर्भावार्थाज्जनेर्डप्रत्यय इत्येव वक्तुमुचितम् । तथाऽपि दृशिग्रहणस्य तत्र प्राप्तातिप्रसङ्गपरिहारार्थत्वस्य तत्रैव सिद्धेः केवलेन तेन तदसिद्धिरित्यभिप्रेत्य तदुक्तमिति द्रष्टव्यम् । अपादान इति ॥ जायतेऽस्मादित्यपादाने प्रादुर्भावार्थाज्जनेर्डप्रत्यये डित्त्वाट्टिलोपे जमिति ज्ञापकं वाक्यमुच्यत इति सम्बन्धः । ण्यन्ताद्वा कर्तरीति ॥ अन्तर्णीतण्यर्थात् प्रादुर्भावार्थाज्जनेर्जनयति ज्ञापयतीति कर्तरि डप्रत्यये डित्त्वाट्टिलोपे जमिति ज्ञापकं वाक्यमुच्यत इति सम्बन्धः ।
नन्वस्तु जमित्यनेन ज्ञापकस्य स्वस्यान्यस्य वा लाभस्तथापि न अतिरित्यनेनात्ययस्य लाभः सम्भवति । अतेरुपसर्गतया क्रियागतातिशयद्योतकत्वस्य व्युत्पन्नत्वेन क्रियासन्निधाने तद्गतातिशयद्योतकत्वेऽपि प्रकृते तदसन्निधानेन तद्गतातिशयद्योतकत्वासम्भवादित्यतो नायमस्ति नियमो य उपसर्गाः क्रियागतातिशयद्योतका एवेति । तथा सति प्राचार्यः प्रान्तेवासीत्यादौ क्रियाया असन्निधानेन तद्गतातिशयसमर्पकत्वासम्भवप्रसङ्गात् । यत्र क्रियासन्निधानं तत्रैव । यत्र त्वसन्निधानं तत्र सातिशयक्रियावाचका एवेत्यतोऽत्र अतेरत्ययवाचकत्वोप-पत्तेर्युक्तोऽनेनात्ययस्य लाभ इत्याह- उपसर्गाश्चेति ॥ स्वन्यायो वेति ॥ प्रागुक्तः स्वाभ्युपगमस्तु स्ववाक्य-विरोधीयापसिद्धान्तरूपद्वितीयकोटिघटक इति नेहोक्त इति ज्ञेयम् । ननु ‘विरोधश्च स्वतोऽन्यतः’ इत्यत्रेव अन्यशब्दस्य प्रमाणान्तरपरत्वमेवास्तु किं स्वक्रियादिमात्रपरत्वाश्रयणेनेत्यत आह- अन्यथेति ॥ एव-मिति ॥ अन्येषां बाधसत्प्रतिपक्षादीनां यथायोग्यं प्रमाणविरोधादावन्तर्भावो वाच्य इत्यर्थः । तूष्णीम्भाव इति ॥ परबोधनार्थं वक्तव्यस्यावचनमित्यर्थः ।
लघुप्रभा
(व्या.टि.)
दोषज्ञानेति ॥ अभावज्ञाने प्रतियोगिज्ञानस्य सामान्यसामग्रीत्वादिति भावः । मूले चतथाशब्दौ परस्परसमुच्चये । उद्देशक्रमेण विरोधादीन् लक्षयति- योग्यतेत्यादिना ॥ आधिक्यस्यानाकाङ्क्षिताभिधान-रूपत्वेनासङ्गतावन्तर्भावः स्यादित्यत आह- सत्यामिति ॥ साकाङ्क्षत्वेऽप्यन्येन कृतकार्यत्वात्तद्वचनं दोषान्तर-मिति भावः । असम्पूर्तिर्वचनेनेति शेषः । अत्रोपपत्तिदोषा इति सामान्योक्त्या साक्षाद्दोषत्वभ्रान्तिं वारयितुं (व्या.टि.) विविनक्ति- अत्रेति ॥ ननूपपत्तिदोषप्रश्ने तद्वचनदोषनिरूपणमसङ्गतमित्याशङ्क्योपपत्तेरपि परार्थाया अर्थशब्दात्मकत्वात् तथाविभक्ततद्दोषनिरूपणमपि नासङ्गतमित्याह (त्यत आह)- अत एवेति ॥ स्वार्थपरार्थभेदेनार्थशब्दात्मकत्वेनेत्यपरे । एतेषु विरोधादिषु । इतीति ॥ प्रतियोगिद्वैविध्येनेत्यर्थः । स्वत इत्यत्र स्वशब्देनाऽत्मीयवाचकेन वचनक्रियान्यायाभ्युपगमाश्चत्वारो विरोधप्रतियोगितयोपादीयन्त इत्याशयेन व्याचष्टे- स्वत इति ॥ विरोधप्रतियोग्यन्यपदार्थमाह- प्रमाणान्तरेणेति ॥ यथोक्तं प्रमाणलक्षणे - ‘विरोधो मानस्व-वाक्याभ्याम्’ इति । प्रमाणान्तरविरोधादेवमप्यवान्तरविभागो विज्ञेय इत्याह- एवमन्योऽपीति ॥ ऊहनीय इति ॥ ‘प्रतिज्ञाहेतुदृष्टान्तभेदेन’ इति प्रमाणलक्षणानुसारेणेति शेषः । दिक्प्रदर्शनायेति ॥ जात्यन्तर्भाव-वदशेषनिग्रहान्तर्भावसूचनायेत्यर्थः । सामानाधिकरण्यमिति ॥ स्वान्यपदाभ्यां जनकपदस्येत्यर्थः । सामाना-धिकरण्यं तु भिन्नप्रवृत्तिनिमित्तानामेकस्मिन्नर्थे वृत्तिः । अन्वयं दर्शयति- स्वस्येति ॥ स्वरूपस्येत्यर्थः । मूले स्वस्यार्थस्येति व्यधिकरणं मत्वा व्याचष्टे- विषयेति ॥ उपचारे बीजमाह- ज्ञापकत्वमात्रेणेति ॥ मुख्ये बाधकमाह- स्वव्याहतस्येति ॥
ननु ‘सप्तम्यां जनेर्डः’ इति ‘पञ्चम्यामजातौ’ इति वा सत्युपपदे कर्तरि डविधानात् कथं निरुपपदाज्जनेर्ड-प्रत्ययान्तपदप्रयोग इत्यतोऽपादाने कर्तरि च डं साधयति- अन्येष्वपीति ॥ श्रुतसप्तम्याद्यन्योपपदेषु द्विजादिपदेषु, अनुपपदेषु ‘अकृष्या(दि)असेधादपसद्मनोजाः’ इत्यादिषु दर्शनादत्रापि निरुपपदाड्डप्रत्ययो निष्प्रत्यूह एवेति भावः । अपादान इति कर्तरीति च व्युत्पत्तिप्रकारं दर्शयति- प्रादुर्भावार्थाज्जनेरिति ॥ जायते प्रादुर्भवत्यस्मादिति व्युत्पन्नोऽयं जशब्दोऽपादानसाधनः, जनयति प्रादुर्भावयतीति व्युत्पत्त्या कर्तृसाधनोऽयं जशब्द इति भावः । ण्यन्तादिति ॥ अन्तर्णीतण्यर्थादित्यर्थः । अन्यथा णिलोपस्य स्थानिवद्भावेन टिलोपानापत्तेरिति भावः । ननूपसर्गाणां सन्निहितधात्वर्थातिशयकत्वस्यार्थान्तरद्योतकत्वस्य वा प्रजयत्यनुभवतीत्यादौ दर्शनेन केवल-स्यातीत्यस्य नैरर्थक्येन कथं तेन समासोऽत्यय इत्यर्थकथनं वा कथमित्यत आह- उपसर्गाश्चेति ॥ क्रियासन्निधाने क्रियावाचकधातुसहपाठेत्यर्थः, यथा प्रजयन्तीति । ससाधनामिति ॥ साधनं प्रत्ययोत्पत्तौ निमित्तं कर्तृकर्म-भावादि, तद्युतमित्यर्थः । प्रकृते भावयुतत्वम् । तच्च सिद्धावस्थोपेतत्वम् । उपसर्गत्वव्यवहारश्च क्रियायोग-दशाभिप्रायकः । प्रकृते क्रियायोगाभावात् । अन्यथा कुगतिसूत्रे प्रादिग्रहणं च व्यर्थमित्यवधेयम् । निगमयति- तत इति ॥ किमत्रान्यदन्यो वेत्यत आह- अन्यच्चेति ॥ अत्रेत्यनेन न पूर्वत्रेव प्रमाणान्तरमिति भावः । कुतो नेत्यत आह- अन्यथेति ॥ प्रमाणविरोधस्याप्यत्र परिग्रह इत्यर्थः । निर्गलितं दर्शयति- तथा चेति ॥ ननु प्रमाणलक्षणादिनाऽस्य विरोधः । तत्र जातेः स्ववाक्यविरोधेऽन्तर्भाव उक्तः । अत्र तु स्वविरोधे, (न) तत्र जातित्वेनैकीकृताः स्ववचनविरोधादयस्त्रयः । अत्र तु विविक्ताः । अपसिद्धान्तस्तत्रोक्तः । अत्र तु स नोक्तः। स्वाभ्युपगमविरोधश्चोक्त इति चेन्न । स्ववाक्यविरोधपदस्य स्वविरोधपरत्वात् । ‘विरोधश्च स्वतोऽन्यतः’ इति स्वशब्दार्थत्वकथनाय विवेकः । एकीकरिष्यति च ‘स्वव्याहतिः’ इति । अपसिद्धान्तस्वाभ्युपगमविरोध-(व्या.टि.) पदयोरनतिभिन्नार्थत्वमिति । ननु कथमेवं जात्यन्तर्भावसिद्ध्या परोदीरिताशेषदोषान्तर्भावादिकं प्रदर्शितमित्यत आह- एवमन्येषामिति ॥ यथायथमन्यविरोध इति शेषः ‘प्रमाणविरुद्धार्था प्रतिज्ञा प्रतिज्ञा-विरोधः’ इति प्रमाणलक्षणानुसारेण कालातीतादीनां प्रमाणविरोधादिष्वन्तर्भावो द्रश्व्व्य इत्यर्थः । निग्रह-स्थानानीति ॥ अनेन मूले निग्रहा इत्यायुर्घृतमितिवदुपचार इत्युक्तं भवति । निगृह्यन्ते अनेनेति करणे ‘ग्रहवृदृ’ इत्यबन्तं वा । अर्थवचनदोषेष्विति ॥ अत्र द्वन्द्वान्ते श्रुतदोषपदमुभयत्र बुद्ध्या सम्बध्यार्थदोषौ च वचनदोषाश्च तेष्विति विग्रहो द्रष्टव्यः । अस्योपयोगं दर्शयति- एतेनेति ॥ इत्युपपत्तिदोषनिरूपणवादः ।