०४ अननुवादकभेदाऽगमविरोधेनाभेदवाक्यानामप्रामाण्यस्य समर्थनम्

प्रत्यक्षानुमानसिद्धत्वे..

अननुवादकभेदाऽगमविरोधेनाभेदवाक्यानामप्रामाण्यस्य समर्थनम्

मूलम्

  • प्रत्यक्षानुमानसिद्धत्वे च भेदस्य तद्विरोधादेवाप्रामाण्यमभेदागमस्य । तेनाभेदागमस्याप्रामाण्याभावे (तेनाभेदवाक्यस्याप्रामाण्याभावे च) नानुवादकत्वं भेदवाक्यानाम् । न हि बलवतोऽनुवादकत्वम् ; दार्ढ्यहेतुत्वात् ।

तत्त्वमञ्जरी

प्रत्यक्षानुमानयोरागमापेक्षया दुर्बलत्वात् कथं तद्विरोधादभेदागमस्याप्रामाण्यमित्यत आह- तेनेति ॥ न हि प्रत्यक्षादेर्बलवत आगमस्य तद्विषयवादेऽप्यनुवादकत्वं स्यात् ।

टीका

तदेवमीश्वरस्यैवासिद्धेस्तद्भेदस्य प्रत्यक्षानुमानाभ्यां सुतरामसिद्धिरिति न भेदवाक्याना-मनुवादकत्वमित्युक्तम् । अधुना व्यर्थश्चायं भेदवाक्यानामनुवादकत्वव्युत्पादनप्रयासः परस्ये-त्याशयेनाऽह- प्रत्यक्षेति ॥ येन भेदवाक्यानामनुवादकत्वमुच्यते तेनावश्यं भेदस्य प्रत्यक्षा-नुमानसिद्धत्वं वाच्यम् । असिद्धस्यानुवदितुमशक्यत्वात् । तथा च तिष्ठन्तु तावद्भेदवाक्यानि । भेदग्राहकप्रत्यक्षादिविरोधादेवाप्रामाण्यमभेदागमस्यापरिहार्यम् । तथा चाभेदागमप्रामाण्य-परिरक्षणार्थं भेदागमानामनुवादकत्वव्युत्पादनं क्रियमाणं तदप्रामाण्यमेव द्रढयतीति व्यर्थमेव । नन्वपौरुषेयत्वेनानाशङ्कितदोषत्वादागमः प्रबलः । प्रत्यक्षानुमाने तु दोषशङ्काकलङ्कितत्वाद्दुर्बले । तत्कथं दुर्बलभेदग्राहकप्रत्यक्षादिविरोधेन प्रबलस्याभेदागमस्याप्रामाण्यप्राप्तिरित्यत आह - तेनेति ॥ तेन प्रत्यक्षादिविरोधेन । नानुवादकत्वमित्यत्रापि तेनेति वर्तते । भेदस्य प्रत्यक्षादिना सिद्धत्वेनेति । कुतो नेति चेत्, परोक्तयुक्त्यैवेत्याह- नहीति ॥ यद्यागमस्य प्रबलत्वाद्दुर्बल-प्रत्यक्षादिविरोधेनापि नाप्रामाण्यमित्युच्यते तर्हि भेदवाक्यानाम् अपि वेदत्वेन प्रबलत्वाद्दुर्बल-प्रत्यक्षादिप्रतिपन्नभेदप्रतिपादकत्वेऽपि नानुवादकत्वम् । बलवतोऽपि कुतो नानुवादकत्वमित्यत आह- दार्ढ्येति ॥

अयमाशयः । न तावत्पूर्वप्रवृत्तप्रमाणावच्छिन्नविषयत्वमनुवादकत्वं भेदवाक्यानामस्ति, तथाऽनुपलम्भात् । तथात्वे ह्यर्थासंस्पर्शितया दौर्बल्यं स्यात् । ततः प्रतिपन्नार्थप्रतिपादकत्वमात्र-मनुवादकत्वमिति वक्तव्यम् । तस्यापि परानपेक्षस्वकारणायत्तस्य वैयर्थ्यमेवानुवादकत्वे बीजमङ्गीकर्तव्यम् । नच तत्प्रकृतेऽस्ति । दुर्बलाभ्यां प्रत्यक्षानुमानाभ्यां प्रतिपन्नेऽपि भेदे साशङ्के सति तत्रैव प्रवृत्तानां प्रबलानां भेदवाक्यानां निःशङ्कभेदप्रतिपत्तिहेतुत्वेन सार्थकत्वात् । तथा चाननुवादकतद्विरोधेनाभेदागमस्याप्रामाण्यं तदवस्थमिति ।

भावबोधः

‘तद्विरोधादेव’ इत्येवकाराभिप्रायमाह- तिष्ठन्तु तावदिति ॥ भेदवाक्यानामनुवादकत्वे प्रत्यक्षादि-विरोधस्य निमित्तत्वेन परैरनुक्तत्वात्कथं तेनेत्यस्यानुवृत्तिरित्यतस्तेनेत्यस्यार्थमाह- भेदस्येति ॥ बलवत्त्व-लक्षणहेतोरप्रयोजकत्वशङ्कायां किमनेन बाधकमुपन्यस्तमित्यत आह- अयमाशय इति ॥ प्रमाणावच्छि-न्नेति ॥ प्रमाणविषयत्वावच्छिन्नेत्यर्थः । अर्थासंस्पर्शितयेति ॥ भेदे प्रत्यक्षादिविषयत्वप्रतिपादकत्वापत्त्या भेदरूपार्थसत्त्वे उदासीनतया दौर्बल्यं स्यादित्यर्थः । तथा च हेतूच्छित्तिरेव विपक्षे बाधिकेति भावः । निःशङ्के-ति ॥ अन्यथा प्रत्यक्षाद्यपेक्षया प्राबल्यं न स्यादिति भावः ।

भावदीपः

उत्तरवाक्यस्य सङ्गतिसौलभ्याय उपसंहारव्याजेन प्रकृतप्रमेयमनुवदति- तदेवमिति ॥ तत् तस्मादि-त्यर्थः । भेदवाक्यानीति ॥ अभेदवाक्यविरोधितयोक्तानि ‘द्वे ब्रह्मणी’ इत्यादीनीति योज्यम् । तेनेत्यनुवर्तत इत्युक्तं तस्यात्रोपयुक्तमर्थमाह- भेदस्य प्रत्यक्षादिना सिद्धत्वेनेति ॥ ननु प्रत्यक्षादिप्राप्तार्थाप्रतिपादनेन भेदवाक्यानामननुवादित्वे सत्येकार्थे प्रमाणद्वयाप्रवृत्तेर्दार्ढ्यहेतुत्वादित्युक्तिर्न लगतीत्यतोऽस्त्यनुवादकत्वम्, अथापि सप्रयोजनानुवादत्वान्न दौर्बल्यमिति भावेनाऽह- अयमाशय इति ॥ पूर्वप्रवृत्तेरिति ॥ धारावाहिकज्ञानेषु द्वितीयादिज्ञानस्येवेति भावः । अर्थेति ॥ मानान्तरानवगतस्वमात्रप्रमाणको योऽर्थस् तदसंस्पर्शितयेत्यर्थः । प्रतिपन्नार्थेति ॥ ज्ञातार्थेत्यर्थः । परानपेक्षेति ॥ धारावाहिकज्ञानेषु द्वितीयादिज्ञानस्येव परानपेक्षं स्वकारणायत्तं यत् तस्येत्यर्थः । तथाचाननुवादकेति ॥ यस्य पुंसः प्रत्यक्षादिना भेदनिश्चयस् तं प्रत्यनुवादकत्वेऽपि अनिश्चयवन्तं प्रत्यननुवादकताऽस्तीत्येवमुक्तम् । अनिर्णीतार्थप्रतिपादकेत्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

पूर्वग्रन्थफलितमर्थमनुवदन्नुत्तरग्रन्थमवतारयति- तदेवमिति ॥ तद्विरोधादेवेत्येवकाराभिप्राय-(श्री.टि.) माह- तिष्ठन्तु तावदिति ॥ तथा चेति ॥ भेदग्राहकप्रत्यक्षादिविरोधे सतीत्यर्थः । तदिति ॥ तस्याभेदागमस्येत्यर्थः । तेनेति ॥ वर्तत इति ॥ अनुवर्तत इत्यर्थः । अनुवृत्तस्य तेनेत्यस्य प्रत्यक्षादिविरोधेने-त्यस्यार्थस्यासम्भवादाह- भेदस्येति ॥ आगमस्य अभेदागमस्य । वेदत्वेनेति ॥ अपौरुषेयवाक्यत्वेनेत्यर्थः । ननु कथमनेनानुवादकत्वपरिहार इत्यत आह- अयमाशय इति ॥ पूर्वप्रवृत्तप्रमाणावच्छिन्नेति ॥ पूर्वप्रवृत्त-प्रमाणप्रतिपाद्यत्वावच्छिन्नार्थप्रतिपादकत्वमित्यर्थः । यथा लोके, प्रत्यक्षादिकं प्रमाणमेवं प्रतिपादयतीत्यनुवादक-वाक्यस्य पूर्वप्रवृत्तप्रत्यक्षादिप्रमाणप्रतिपाद्यत्वविशिश्वर्थप्रतिपादकत्वमस्ति । एवं तादृशानुवादकत्वं द्वा सुपर्णे-त्यादिभेदवाक्यानां नास्ति तथाऽनुपलम्भादित्यर्थः । तथात्वे हीति ॥ यद्येतादृशानुवादकत्वमुच्येत तदैव ह्यर्थासंस्पर्शितया अयमेवमाहेत्यादिवद् भेदरूपार्थसत्त्व उदासीनत्वेनार्थसत्त्वनिश्चायकत्वाभावप्राप्त्या भेद-वाक्यानां दौर्बल्येनाप्रामाण्यशङ्का स्यात् । न ह्येवमस्ति । अनुपलम्भादित्यर्थः । तस्यापीति ॥ प्रतिपन्नार्थ-प्रतिपादकस्याप्यागमस्येत्यर्थः । परानपेक्षेति ॥ पूर्वप्रवृत्तप्रत्यक्षादिप्रमाणरूपपरापेक्षां विना स्वकारणायत्तस्य स्वस्यार्थबोधने यत्कारणं शक्तियोग्यतादिसहकारितन्मात्राधीनस्य तन्मात्रमपेक्ष्य प्रवृत्तस्येत्यर्थः । अयं भावः। यद्यागमः प्रत्यक्षादिरूपपूर्वप्रमाणापेक्षया तदुपजीवनेनेति यावत्, स्वार्थप्रतिपादने प्रवर्तेत तर्ह्येवानुवादितया दौर्बल्यशङ्का स्यात् । न चैवमस्ति । आगमः प्रत्यक्षाद्यनुपजीवनेन शक्त्यादिसहकारिवशात् स्वार्थं प्रतिपाद-यति । सोऽर्थो वस्तुगत्या प्रमाणान्तरप्रतिपादित इत्येव । तथा चैतादृशस्यापि वाक्यस्यानुवादित्वे प्रमाणान्तरेणापि तस्यार्थस्य प्रतिपादितत्वाद्वैयर्थ्यमिति वैयर्थ्यमेव बीजतया वाच्यम् । न च तत्प्रकृतेऽस्तीति । तद्वैयर्थ्यरूपं बीजं प्रकृते नास्तीत्यर्थः । कुतो नास्तीत्यत आह- दुर्बलाभ्यामित्यादिना ॥ तथा च निश्शङ्कतया भेदप्रतीतेर्द्वा सुपर्णेत्यादि-भेदागमेनैव जायमानत्वेन प्रत्यक्षादिना तदजननात् । अनुवादकत्वे बीजभूतं वैयर्थ्यं नास्तीति भावः । तद्विरोधे-नेति ॥ भेदवाक्यविरोधेनेत्यर्थः । भेदवाक्यैः प्रतिरुद्धत्वादित्यन्वयः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

व्यर्थश्चेति ॥ ऐक्यागमस्य भेदागमविरोधाभावोपपादनद्वाराऽप्रामाण्याभावोपपादनार्थस्य भेदागमानुवादकत्वप्रतिपादनप्रयासस्य प्रत्यक्षादिविरोधेनैक्यागमाप्रामाण्यसम्पादकत्वेन वैयर्थ्यमित्यर्थः । नन्वैक्यागमस्य भेदवाक्यविरोधेनाप्रामाण्यस्य समर्थितत्वेन तद्व्यावृत्त्यनुपपत्त्या तदर्थकैवकारानुपपत्तिरित्यतोऽ-र्थान्तरपरत्वादत्रैवकारस्य भेदागमविरोधव्यावृत्तिपरत्वाभावान्न तदनुपपत्तिरिति भावेन तदभिप्रायमाह- तिष्ठन्तु तावदिति ॥ कथमनेनोक्तशङ्कानिरास इत्यत आह- अयमाशय इति ॥ बलवतां भेदवाक्यानामनुवादकत्वं वदन् प्रश्व्व्यः, किं तेषां पूर्वप्रवृत्तप्रमाणावच्छिन्नविषयत्वरूपमेवानुवादकत्वमभिमतम् उत प्रतिपन्नार्थ-प्रतिपादकत्वमिति । नाऽद्यः । पूर्वप्रवृत्तप्रमाणावच्छिन्नविषयत्वस्यैव भेदवाक्येष्वसत्त्वेन तस्यानुवादकत्वरूपताया असम्भवादित्याह- न तावत्पूर्वप्रवृत्तेति ॥ श्रुतसाक्षिवाक्यवत् ‘प्रत्यक्षादिकं भेदं विषयीकरोति’ इत्येवं पूर्वप्रवृत्त-प्रमाणविषयत्वावच्छिन्नविषयकत्वमित्यर्थः । कुत उक्तरूपस्यानुवादकत्वस्य भेदवाक्येष्वसत्त्वमित्यतस्तत्किं भेदवाक्येभ्यस्तथा प्रतिभासात्सिद्धम् उत तदङ्गीकारे बाधकाभावात् । नाऽद्यः । ‘द्वा सुपर्णा’ इत्यादिवाक्यात् (पां.टि.) प्रत्यक्षादिप्रमाणविषयो भेद इत्यप्रतिभासादित्याह- तथाऽनुपलम्भादिति ॥ न द्वितीय इत्याह- तथात्वे हीति ॥ अर्थासंस्पर्शितयेति ॥ भेदे प्रत्यक्षादिप्रमाणविषयत्वप्रतिपादकत्वेन स्वातन्त्र्येण भेदरूपार्था-प्रतिपादकत्वादित्यर्थः । दौर्बल्यं स्यादिति ॥ ततश्चोक्तरूपानुवादकत्वाङ्गीकारे त्वदङ्गीकृततद्बलवत्त्वहानिरेव बाधिकेति भावः । अस्तु तर्हि प्रतिपन्नार्थप्रतिपादकत्वमेव तेषामनुवादकत्वमित्यतस्तस्यानुवादत्वरूपत्वं किं पूर्वप्रवृत्तप्रमाणसापेक्षप्रयुक्तम् आहोस्विद्वैयर्थ्यप्रयुक्तमिति विकल्पद्वयं मनसि निधाय भेदवाक्यानां भेदप्रति-पादकतायाः शाब्दसामग्रीरूपस्वकारणायत्तत्वेन पूर्वप्रवृत्तप्रत्यक्षादिप्रमाणानपेक्षत्वेनाऽद्यपक्षानुपपत्तेर्द्वितीय एवाङ्गीकर्तव्य इत्याह- तस्यापीति ॥ अस्तु तर्हि स एव पक्षो निरवद्यत्वादित्यतो भवेदेव यद्यत्र वैयर्थ्यं स्यात् । न चैतदस्तीत्याह- न चेति ॥ तत्कथमित्यतस्तत्सार्थक्यमुपपादयति- दुर्बलाभ्यामिति ॥ अस्त्वननुवादकत्वं भेदवाक्यानां किं तावताऽपीत्यतस्तत्सिद्धमर्थं दर्शयति- तथा चेति ॥

लघुप्रभा

(व्या.टि.)

शिष्यमनःसमाधानाय पूर्वोक्तमनूद्योत्तरग्रन्थसन्दर्भगर्भितमाह- तदेवमिति ॥ तद्भेदस्य तद्धर्मिकस्य तत्प्रतियोगिकस्य वा भेदस्येत्यर्थः । व्यर्थ इति ॥ विगतप्रयोजनो विरुद्धप्रयोजनश्चेत्यर्थः । आपादकासिद्धिमाशङ्क्य तत्साधयति- येनेति ॥ वादिनेति शेषः । कुतोऽयं निर्बन्ध इत्यत आह- असिद्धस्येति ॥ तिष्ठन्त्विति ॥ विरोधितया वक्तव्यानीत्यर्थः । तद्विरोधमपि पश्चाद्वक्ष्याम इति भावः । अपरिहार्यमिति प्रसङ्गस्य व्याप्त्यादिमत्तया बलवत्तामाह । अप्रामाण्यमेवेत्यनेन प्रामाण्यसिद्धिं व्यावर्तयति । द्रढयतीति ‘तत्करोति’ इति णिच् । निगमयति- व्यर्थमेवेति ॥ अभिमतासिद्धेरनभिमतसिद्धेश्चोभयविधं वैयर्थ्यं सिद्धमेवेत्यर्थः । प्रत्यक्षादेरागमविरोधकत्वेऽपि दौर्बल्यान्न तद्विषयापहारकत्वलक्षणं बाधकत्वम् । अतो निर्बाधमागमप्रामाण्यं सेत्स्यतीत्याशङ्कते- नन्वित्या-दिना ॥ वर्तते अनुवर्तते । तदर्थमाह- भेदस्येति ॥ वेदत्वेन अपौरुषेयत्वेन । तदेतत्सङ्गृहीतं न्यायामृते-

‘यथा नापहरेद् द्वैताभावश्रुत्यर्थमक्षधीः ।

तथा नोपहरेद् द्वैतश्रुत्यर्थमपि दुर्बला’ इति ।

अनुवादकत्वं द्वेधा निरुच्य तद्दूषकताबीजाभावान् न दोषत्वमित्याह- अयमाशय इति ॥ पूर्वप्रवृत्तेति ॥ प्रमाणविषयतयाऽर्थविषयत्वं प्रमाणावच्छिन्नविषयत्वं, यथा रजतं देवदत्तेन ज्ञातमितिवत् ‘इदं तत्प्रत्यक्षसिद्धम्, एतदनुमानसाध्यं, तद्वाक्योक्तम्’ इत्यादि । तथेति ॥ प्रमाणपरिग्रहेणेत्यर्थः । आद्यानुवादकत्वस्य दुष्टिबीजमाह- तथात्वे हीति ॥ द्वितीयं परिशेषयति- तत इति ॥ तस्यापीति ॥ प्रतिपन्नार्थप्रतिपादनस्यापि । स्वकारणाऽ-यातस्येति ॥ स्वेत्यावर्तनीयम् । स्वस्वकारणायातस्येति । सामग्रीद्वयार्थिकसमाजायातस्येत्यर्थः । वैयर्थ्यमे-वेति ॥ नैष्फल्यमेवेत्यर्थः । अनुवादकत्वे दौर्बल्यहेतावनुवादकत्वे बीजम् ईदृशानुवादकत्वस्य दूषकताबीज-मित्यर्थः । तदभावमाह- न चेति ॥ चकारादाद्यानुवादकत्वबीजनिषेधसमुच्चयः । सार्थकत्वादिति ॥ शङ्का-निवृत्तेः फलस्य स्फुटत्वादित्यर्थः । परमप्रकृतमुपसंहरति- तथा चेति ॥