‘इयं माता’ ..
प्राभाकराभिमतकार्यान्वितार्थव्युत्पत्तिग्रहणप्रकारनिरासः
मूलम्
- ‘इयं माता’ ‘अयं पिता’ इत्यादावङ्गुलिप्रसारणादिपूर्वकनिर्देशेनैव हि तज्जानाति । कार्यान्वित एव व्युत्पत्तिरिति वदतः कार्यस्य कार्यान्वयाभावात् कल्पनागौरवम् ।
तत्त्वमञ्जरी
सिद्धान्विते व्युत्पत्तिमुपपादयति- इयमिति ॥ बालस्य मात्रादावेवाऽकाङ्क्षा सन्निधि-श्चाङ्गुलिप्रसारणादिविषय एव योग्यता च । तस्मादत्राऽकाङ्क्षादिसद्भावादन्यत्राऽकाङ्क्षाद्यभावादत्रैव हि बालस्तद्विवक्षितं जानाति । कार्यस्येत्यादेरयमर्थः- गामानयेत्यादौ कार्यान्विते व्युत्पत्तिरिति वदतस्तत्राऽनयपदार्थे कार्ये ‘आनय’पदस्य व्युत्पत्त्याकाङ्क्षायां कार्यान्वयाभावात् का गतिरिति वक्तव्यम् । केवलकार्य इति चेत् कल्पनागौरवम् । कार्यान्विते व्युत्पत्तिरित्युक्त्वा पुनः केवलकार्ये चेत्यङ्गीकारादनन्वितवादित्वप्रसङ्गश्च ।
टीका
अथवा इष्टसाधनतातिरिक्तायाः कृत्युद्देश्यताया निरूपयितुमशक्यत्वेनेष्टसाधनतैव लिङाद्यर्थ इत्यन्यत्रोपपादितत्वात् पराभिमतस्य कार्यस्यैवाभावं सूचयितुं सिद्धान्वित एवेत्युक्तम् । तत्प्रपञ्च-यति- इयमिति ॥ इत्यादौ वाक्ये व्युत्पादकेन प्रयुक्ते सति । अङ्गुलिप्रसारणमादिर्यस्य भ्रूविक्षे(पणा)पादेर्व्यापारस्य स तथोक्तः । अङ्गुलिप्रसारणादिः पूर्वो यस्य निर्देशस्य स तथोक्तः । एवशब्देन वृद्धव्यवहारदर्शनं व्यावर्तयति । तन् मात्रादिकं मात्रादिशब्दवाच्यतया जानाति हि बालः ।
मातुः पितुर्वाऽङ्के स्थितं बालमन्यमनस्कं सन्तमङ्गुलिप्रसारणादिना स्ववचनश्रवणाभिमुखं मात्राद्यभिमुखं च विधाय यदा व्युत्पादयिता वाक्यं प्रयुङ्क्ते ‘बाल तवेयं माता’ ‘तवायं पिता’ ‘अयं ते भ्राता कदलीफलमभ्यवहरति’ इत्यादि, तदा वृद्धव्यवहारदर्शनं विना तेन निर्देशेनैव तस्य शब्दसमुदायस्य कार्यान्वयरहित एव तस्मिन्नर्थसमुदाये विषयविषयिभावं तावदवगच्छति बाल इदमनेनायं बोधयतीति । पुनरियं ते स्वसा, अयं ते सखाऽपूपं खाद(य)ति इत्यादिवाक्यान्तरेषु शब्दार्थयोरावापोद्धाराभ्यां शब्दविभागादिकमवगत्य मात्रादिपदानां योग्येतरान्विते जनन्यादौ वाचकत्वमाकलयतीति किमनुपपन्नम् । लघीयांश्चायमुपायो व्युत्पत्तौ व्यवहारदर्शनात् । शश्वद्वि-स्मरणशीलो बालकः शब्दमनुसन्धाय वृद्धस्याऽगामिप्रत्यागमनं स्वानपेक्षितमेव प्रतीक्षत इति गुरुतरेयं कल्पना । पुरोवस्थितेष्विष्टसाधनतयाऽपेक्षितेषु मात्रादिषु श्रूयमाणस्यैव शब्दस्य वाचकत्वं कल्पयतीति (आकलयतीति) लघुतरमेतत् कल्पनम् । वर्तमानापदेशेषु व्युत्पन्नो जातजिज्ञासः पश्चाद्व्यवहारदर्शनेनान्यत्रापि व्युत्पद्यत एव । एतेनैतदपि निरस्तम् । यावती सिद्धार्थपरादपि वाक्याद्व्युत्पत्तिः सा सर्वा प्रथमभाविकार्यव्युत्पत्त्यनन्तरभावित्वात्कार्यव्युत्पत्तिरेवेति । प्रथमव्युत्पत्तेरेव सिद्धार्थे समर्थितत्वात् ।
एवं कार्यान्वयं विनाऽपि व्युत्पत्तिदर्शनाद्योग्येतरान्विते व्युत्पत्तिरिति सामान्यमेवाङ्गीकार्यम् । कार्यान्वित एवेति विशेषनिर्बन्धस्त्याज्य इत्युक्तम् । इतश्चैवमेवेत्याह- कार्यान्वित इति ॥ कार्यान्विते स्वार्थे शब्दस्य व्युत्पत्तिरिति वदतः प्राभाकरस्य कल्पनागौरवं स्यात् । कथम् । सर्वेषामपि शब्दानां कार्यान्विते स्वार्थे व्युत्पत्तिरित्येकमेव प्रयोजकं तावदङ्गीकर्तुं न शक्यते, लिङादीनां हि कार्यमेव स्वार्थः । नच तस्य कार्यस्य कार्यान्तरेणान्वयोऽस्ति । गुणप्रधानभावेन खलु पदार्थानामन्वयो भवति । कार्यं च प्रधानतया शब्देनैव बोध्यते । तथाच कथं कार्यद्वयस्य युगपद्गुणप्रधानभावः सम्भवति । अतः कार्यस्य कार्यान्वयाभावाद् लिङादीनां कार्यमात्रे सिद्धान्विते वा कार्ये व्युत्पत्तिरित्यङ्गीकार्यम् । गवादिपदानां तु कार्यान्विते स्वार्थ इति । तथा च प्रयोजक-द्वैविध्याङ्गीकारे कथं न कल्पनागौरवम् । योग्येतरान्विते स्वार्थे व्युत्पत्तिरित्यङ्गीकारे त्वेकप्रयोजक-लाभाद् लाघवमित्ययमेव पक्षः समाश्रयणीयः ।
ननु कार्यान्वयिनि स्वार्थे व्युत्पत्तिरित्यङ्गीकारान्न कल्पनागौरवम् । कार्येण सह योऽन्वयस्तद्वत्त्वं कार्यस्य सिद्धस्य चास्तीत्येकप्रयोजकलाभादिति चेन्मैवम् । कार्येण सह सिद्धस्य योऽन्वयः स गुणभाव एव । नच कार्यं प्रति गुणभावः कार्यस्यास्ति । नच गुणे प्रधाने चानुगतमन्वयमात्रं शब्देन बोध्यते । अतः शब्दमात्रमत्रैकं नार्थ इति यत्किञ्चिदेतत् ।
एतेन कार्यान्वयान्वयिनि व्युत्पत्तिरित्येकप्रयोजकवर्णनमपि परास्तम् । कार्यपरपदार्थान्विते स्वार्थे व्युत्पत्तिरिति चेन्न । अत्राप्येकप्रयोजकासिद्धेः । कार्यपरं यत्पदं तस्य योऽर्थस्तेनान्वित इति ह्यस्यार्थः । तत्र लिङादीनां कार्यपरत्वं नाम कार्यवाचित्वं गवादिपदानां तु तदुद्देशित्वमात्रमिति द्वैविध्यमेवेति ।
भावबोधः
प्राभाकरस्यान्विताभिधानवादित्वात् कथं कार्यमात्रे लिङादीनां व्युत्पत्तिरित्यत आह- सिद्धान्विते वेति ॥ न च गुण इति ॥ विशेषान्वयाभिधानवादिना प्राभाकरेण तथाऽनङ्गीकारादिति भावः ।
भावदीपः
पूर्वं पराभिमतकार्यमभ्युपेत्यार्थ उक्तोऽधुना तदभावसूचकतया व्याचश्व्े- अथ वेति ॥ अन्यत्रेति ॥ ‘कार्यता च न काचित्स्यादिष्टसाधनतां विना’ इत्यनुव्याख्यान इत्यर्थः । बहुव्रीहिगर्भबहुव्रीहिरित्युपेत्याऽह- अङ्गुलीति ॥ तदित्यनुवादो मात्रादिकमिति व्याख्या । परोक्तस्वोक्तरीत्योः को विशेष इत्यतो मात्रादिपदप्रयोग-सूचितयुक्तिमाह- लघीयांश्चेति ॥ अयमिति ॥ मूलकृदुक्त इत्यर्थः । परोक्तेर्गौरवं स्वोक्तेर्लाघवं च व्यनक्ति- शश्वदिति ॥ व्यवहाराधीनव्युत्पत्तिदृष्टेर्गतिमाह- वर्तमानेति ॥ अन्यत्रेति ॥ कार्यपरेऽपीत्यर्थः । एतेनेत्युक्तं व्यनक्ति- प्रथमेति ॥ इत्युक्तमिति ॥ ‘सिद्धान्वित एव व्युत्पत्तिगृहीतेः’ इत्यादिनेति भावः । इतश्चेति ॥ कल्पनागौरवरूपदोषादपीत्यर्थः । प्रयोजकमिति ॥ वाच्यवाचकसम्बन्धग्रहणरूपव्युत्पत्ताविति योज्यम् । कार्यमेवेति ॥ यजेतेत्यादावपूर्वशब्दितं कार्यमेवेत्यर्थः । कुतो नास्तीत्यतस्तत्र स्वयं युक्तिमाह- गुणेति ॥ कार्यान्विते गुणत्वस्यान्वयप्रतियोगिनश्च प्राधान्यस्य स्वीकार्यत्वात् । कार्यमात्रं प्राधान्येन शब्दबोध्यमिति वदतो गुणादिभावो न सम्भवतीत्यर्थः । उपलक्षणमेतत् । एकेन लिङ्प्रत्ययेन कार्यद्वयाबोधनादन्यस्य च तत्प्रत्या-यकस्याभावादेकस्मिन् वाक्ये कार्यद्वयमसम्भवि चेत्यपि ध्येयम् । अन्वितत्वमावश्यकं चेत्तत्राऽह- सिद्धान्वित इति ॥ गामानयेत्यादिवाक्ये गवादिरूपसिद्धार्थान्वितानयनादिरूपकार्य इत्यर्थः । कार्यस्य सिद्धस्य चेति ॥ अन्वयस्य द्विष्ठत्वादिति भावः । अन्वयो हि शब्दार्थयोर्न संयोगो नापि समवायः किन्तु गुणादिभावरूपः । स च भिन्न एव तत्तत्स्वभाव इति भावेनाऽह- कार्येणेति ॥ गुणत्वप्रधानत्वत्यागेनान्वयमात्रं बोध्यतामित्यतः शब्दस्थले तथा बोधोऽनुभवविरुद्ध इति भावेनाऽह- नचेति ॥ बोध्यते इत्यन्वयः । अत्रैकमिति ॥ कार्यान्वयिनी-त्यत्रेत्यर्थः । एतेनेति ॥ गुणप्रधानभावासम्भवेनेत्यर्थः । कार्येण सहान्वयो येषामिति बहुव्रीहिः । कार्यान्वयिनः सिद्धार्था गवादयस्तदन्वयि च कार्यं तत्र व्युत्पत्तिरित्यर्थः । परास्तमिति ॥ अन्यान्वयप्रतियोगित्वेन प्राधान्यस्य तदन्वितत्वेन गुणत्वस्य प्राप्तेरेकस्य तदयोगाद्गुणभावस्य त्वयाऽनङ्गीकाराच्चेति भावः ।
वाक्यार्थदीपिका
(श्री.टि.)
परोक्तकार्यान्विते व्युत्पत्तिमङ्गीकृत्य नियमनिराकरणमेवकाराभिप्राय इत्युक्तम् । इदानी प्रकारान्तरेण तदभिप्रायमाह- अथ वेति ॥ अन्यत्रेति ॥ ‘लिङाद्यर्थस्त्विष्टसाधनत्वमेव’ इत्यादिना कर्मनिर्णये, ‘कार्यता च न काचित्स्यादिष्टसाधनतां विना’ इत्यनुव्याख्याने चेत्यर्थः । पराभिमतस्येति । कृतिसाध्यत्वे सति कृत्यु-द्देश्यत्वरूपस्येत्यर्थः । एवेत्युक्तमिति ॥ तथा च सिद्धान्वित एव व्युत्पत्तिर्दृष्टा न परोक्तकार्यान्विते, तस्यैवा-भावात् । न हि शशशृङ्गान्विते व्युत्पत्तिर्दृश्व, इत्येवं परोक्तकार्यान्विते व्युत्पत्तिनिराकरणमेवैवकाराभिप्राय इत्यर्थः । तत् सिद्धान्वित एव व्युत्पत्तिदर्शनम् । आदिपूर्वकशब्दयोरेकार्थत्वादन्यतरवैयर्थ्यमित्याशङ्क्य व्याख्याति- अङ्गुलीति ॥ भ्रूविक्षेपादेरित्यत्राऽदिपदेन छोटिकावादनं ग्राह्यम् । तथोक्तो ऽङ्गुलिप्रसारणादिरित्युक्तः । पूर्वः कारणभूतः । निर्देशस्य इयं मातेत्यादिनिर्देशस्य । नन्वियं मातेत्यादिना भगवत्पादैः पिकः कोकिल इतिवदुपदेशतो जायमान एव व्युत्पत्तिप्रकारो दर्शितः । अवधारणेन च प्रकारान्तरं व्यावर्तितम् । तन्न सम्भ-वति । सास्नादिमान् गौरित्युपदेशानन्तरं सास्नादिमत्त्वेन गोशब्दवाच्यत्वज्ञानमनुमानेनापि भवति । तथा (श्री.टि.) प्रभिन्नकमलोदरे मधूनि मधुकरः पिबतीति वाक्यश्रवणानन्तरं प्रभिन्नकमलोदरे यं मधुपानकर्तारं पश्यति तं मधुकरशब्दवाच्यं प्रत्यक्षेणैव प्रत्येति । एवं
‘शक्तिग्रहं व्याकरणोपमानकोशाप्तवाक्यैर्व्यवहारतश्च ।
वाक्यस्य शेषाद्विवृतेर्वदन्ति सान्निध्यतः सिद्धपदस्य वृद्धाः ॥’
इत्युक्तप्रकारेण व्युत्पत्तिप्रकाराणां बहूनां सत्त्वान्निर्देशेनैव तज्जानातीत्यवधारणं कथमित्यत आह- एवशब्दे-नेति ॥ वृद्धव्यवहारेति ॥ ‘तथाहि । चैत्र जलमाहर’ इत्यादिनोपपादितप्रकारेण वृद्धव्यवहारदर्शनेन जायमानं कार्यान्विते प्राथमिकव्युत्पत्तिप्रकारं व्यावर्तयतीत्यर्थः । विषयविषयिभावं प्रतिपाद्यप्रतिपादकभावम् । आवापोद्धा-राभ्यामिति ॥ आवापः स्थापनम् । उद्धारः परित्यागः । यदर्थावापे यच्छब्दावापो यदर्थोद्धारे यच्छब्दोद्धार इत्यावापोद्धाराभ्यामित्यर्थः । खादयतीति स्वार्थे णिच् । सखिकर्तृकापूपखादनरूपार्थावापेऽयं ते सखाऽपूपं खादतीति शब्दावापः । भ्रातृकर्तृककदलीफलाभ्यवहाररूपार्थोद्धारे सत्ययं ते भ्राता कदलीफलमभ्यवहतीति शब्दोद्धार इति द्रष्टव्यम् ।
ननूपायद्वयस्याप्यविशेषान्मदीय एवोपायः किं नाङ्गीक्रियत इत्यत आह- लघीयांश्चेति ॥ वृद्धव्यवहार-दर्शनापेक्षया व्युत्पत्तौ कथमस्योपायस्य लघीयस्त्वमित्यतः परकीयस्योपायस्य गुरुत्वं
‘……………..नानयेत्यादिवाक्यतः ।
आनीयमानदृष्ट्यैव व्युत्पत्तेः सम्भवे सति । एष्यदानयनायायं कुत एव प्रतीक्षते’
इत्यनुव्याख्यानं मनसि निधायोपपादयति- शश्वद्विस्मरणेति ॥
‘अत्त्यपूपांस्तव भ्रातेत्यादावावापतोऽपि च ।
उद्वापाद्वर्तमानत्वादाकाङ्क्षादिबलादपि । बालो व्युत्पत्तिमप्येति’
इत्यनुव्याख्यानं मनसि निधाय स्वोपायस्य लघीयस्त्वमुपपादयति- पुरोऽवस्थितेष्विति ॥ नन्वनागतादौ पदार्थे कथं व्युत्पत्तिः । तस्यावर्तमानत्वेन पुरोऽवस्थितत्वाभावादनपेक्षितत्वाच्चेत्यतो
‘दृष्ट्या ज्ञातपदार्थस्य स्यादाकाङ्क्षा भविष्यति ।
व्युत्पत्तिः प्रथमा यस्माद्वर्तमानेऽगते ततः ॥’
इत्यनुव्याख्यानं हृदि निधायानागतादौ व्युत्पत्तिमुपपादयति- वर्तमानापदेशेष्विति ॥ वर्तमान इत्यपदेशो व्यवहारो येषां ते तथा तेषु वर्तमानपदार्थेष्वित्यर्थः । जातजिज्ञास इति ॥ वर्तमानादन्यत्र अनागतादौ जात-जिज्ञास इत्यर्थः । एतेनेत्युक्तं विशदयति- प्रथमव्युत्पत्तेरेवेति ॥ तथा च प्रथमभाविकार्यव्युत्पत्तीत्युक्तमसदिति भावः । एवमेवेति ॥ योग्येतरान्विते स्वार्थे व्युत्पत्तिरिति सामान्यमेवाङ्गीकार्यमित्याहेत्यर्थः । कुतो नास्तीत्य-तस्तदुपपादयति- गुणप्रधानभावेन खल्विति ॥ तर्ह्यत्राप्यस्तु कार्यस्य कार्यान्तरेण गुणप्रधानभावेनान्वय (श्री.टि.) इत्यत आह- कार्यं चेति ॥ तथा चेति ॥ कार्यस्य येन कार्यान्तरेणान्वयो बोधनीयस्तस्यापि कार्यस्य प्राधान्येनैव लिङादिशब्दबोध्यत्वादित्यर्थः । कार्यद्वयस्येति ॥ प्रधानतया लिङादिशब्दबोधितस्ये-त्यर्थः । ननु प्रयाजाद्यङ्गसाध्यावान्तरकार्यस्य दर्शपौर्णमासादिसाध्यप्रधानकार्यस्य च गुणप्रधानभावेन अन्वयोऽस्त्येव । तथा च कथं कार्यद्वयस्य गुणप्रधानभावेनान्वयो न सम्भवतीत्युक्तमित्यत उक्तम्- युगप-दिति ॥ एकस्मिन्नेव वाक्य इत्यर्थः । तत्र तु भिन्नवाक्यस्थकार्ययोरेव गुणप्रधानभावेनान्वय इति भावः । ननु प्राभाकरस्य अन्विताभिधानवादित्वात्कथं कार्यमात्रे लिङादीनां व्युत्पत्तिस्तेन अङ्गीकर्तुं शक्यत इत्यत उक्तम्- सिद्धान्विते वा कार्य इति ॥ गवादिपदानामिति ॥ सिद्धपदानामित्यर्थः । एकप्रयोजकमाशङ्कते- ननु कार्यान्वयिनीति ॥ अन्वयस्सम्बन्धः । तद्वत्त्वं कार्यस्य सिद्धस्य चास्तीति ॥ अन्वयस्य सम्बन्धरूपत्वेन द्विष्ठत्वादिति भावः । न च कार्यं प्रतीति ॥ गुणप्रधानभावस्य भेदव्याप्तत्वेनैकस्मिन् कार्ये तस्य विरुद्धत्वादिति भावः । ननु कार्यान्वयशब्देन गुणप्रधानानुगतमन्वयसामान्यमेव बोध्यत इति नोक्तदोष इत्यत आह- न च गुण इति ॥ विशिष्यान्विताभिधानवादिना प्राभाकरेण कार्यान्वयशब्दस्य गुणप्रधानानुगतान्वयसामान्य-बोधकत्वानङ्गीकारादिति भावः । कार्यान्वयान्वयिनीति ॥ कार्येण उक्तं योऽन्वयस्सम्बन्धस्तदन्वयवत्त्वं कार्ये सिद्धे चास्ति सम्बन्धस्य द्विष्ठत्वादिति भावः । एतदप्येतेनैव परास्तम् । उक्तरीत्या शब्दैक्येऽप्यर्थैक्या-भावादिति भावः । पुनरेकप्रयोजकमाशङ्कते- कार्यपरेति ॥ कार्यपरं यत्पदं तस्य योऽर्थस्तदन्वित इत्यर्थः । तथा च ‘स्वर्गकामो यजेत’ इत्यादौ लिङादेः कार्यवाचकत्वेन कार्ये तात्पर्योपेतत्वात्सिद्धपदस्यापि कार्योपयुक्त-कर्त्रादिकारकप्रतिपादकत्वेन कार्ये तात्पर्योपेतत्वात्कार्यपरत्वं कार्यसिद्धोभयसाधारणमित्येकप्रयोजकलाभ इति भावः । तदुद्देशित्वमात्रमिति ॥ कार्योद्देशित्वमात्रं, तदुपयुक्तार्थप्रतिपादकत्वमात्रं न वाचकत्वमित्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
कार्यान्विते व्युत्पत्तिनिवृत्त्यर्थतया स्पष्टप्रतिभास्यमानैवकारस्य तन्नियमनिवर्तकत्वाश्रयणं क्लिष्टमिति पूर्वत्रारुच्या पक्षान्तरमाह- अथ वेति ॥ निरूपयितुमशक्यत्वेनेति ॥ कृत्युद्देश्यत्वस्य मुख्यत्वे इश्व्त्वप्रसक्त्या अमुख्यत्वविवक्षायामिष्टसाधनत्वप्रसक्त्या चेति शेषः । अन्यत्रेति ॥ अनुव्याख्यानादावित्यर्थः । इयं माताऽयं पितेत्यादिवाक्यस्य व्युत्पत्त्यनधिकरणत्वाद् इत्यादौ इति सप्तम्यनुपपत्तिमाशङ्क्य तत्प्रयोगस्य व्युत्पत्तिहेतुत्वान्न तदनुपपत्तिरित्याशयेन प्रयुक्तपदाध्याहारं सतिसप्तमीत्वं चाऽश्रित्य योजयति- इत्यादावित्यादिना ॥ एवं सिद्धार्थे व्युत्पत्तिसम्भवमभिधायेदानी परव्युत्पादितव्युत्पत्तिप्रकारं निराचिकीर्षुः, किं सिद्धे व्युत्पत्त्यनुपपत्त्या वृद्धव्यवहारदर्शनं तदुपायतया कल्प्यते किं वा सम्भवन्त्यामपि सिद्धार्थव्युत्पत्तौ तदनादरेण व्युत्पित्सुरेव वैतां शक्तिप्रक्रियामाश्रयतीति कृत्वा । नाऽद्यः । सिद्धार्थे प्राथमिकव्युत्पत्तिसम्भवस्योक्तत्वात् । नान्त्यः । प्रयो-जनार्थिनो हि प्रयोजन एव निर्बन्धो न तूपायविशेषे । तत्र उपायानेकत्वे च गुरुभूतमुपायं परित्यज्य लघुभूतं तमाश्रयते, न तु लघुं परित्यज्य गुरुमिति स्वात्मन्येवानुभवसिद्धमतो व्युत्पित्समानेऽपि एवमेव कल्पयितुं युक्तम् । न तु लघीयांसमुपायमनादृत्य गरीयांसमुपायं व्युत्पित्सुरनुतिष्ठतीति कल्पना युक्ता निर्मूलत्वादित्यभिप्रेत्य, (पां.टि.)भवेदेतदेवं यदि परोदीरितप्रकारस्य गुरुतरत्वं स्वाभिमतप्रकारस्य लघुतरत्वं स्यात् । न चैतदस्ति । तत्कथमेतदित्यभिप्रेत्य प्रतिज्ञापूर्वकं पक्षद्वयस्य गुरुतरत्वं लघुतरत्वं चोपपादयति- लघीयांश्चायमित्यादि-ना ॥ तत्किं प्रयत्नगौरवाद्भविष्यत्क्रियायां तदन्वितेषु च व्युत्पत्तिरेव नास्ति । तथा सति तच्छब्दव्यवहारोऽपि कथमित्यतो न ब्रूमो वयं भविष्यत्क्रियायां तदन्वितेषु च सर्वथा व्युत्पत्तिरेव नास्तीति येनोक्तदोषः स्यात् । किन्तु वर्तमानक्रियायां तदन्वितेषु चार्थेषु गामानयतीत्यादिपदानां सम्बन्धं प्रथमतोऽधिगच्छति । भविष्यत्क्रियायां तदन्वितेषु च गामानयेत्यादिपदानां सम्बन्धं तदुक्तप्रकारेणैव पश्चाज्जानातीत्येव । अतो न काऽप्यनुपपत्तिरित्या-शयेनाऽह- वर्तमानापदेशेष्विति ॥ ननु भविष्यदर्थक्रियायां शब्दव्युत्पत्तिसम्भवोऽभिमतस्तर्हि तस्याः प्राथमिकत्वमेवास्तु । वर्तमानार्थक्रियाशब्दव्युत्पत्त्यनन्तरभावित्वे तस्या नियामकाभावादित्याशङ्क्य प्रथमत एवानागतार्थजिज्ञासाप्रतीक्षयोरसम्भवादेव हि तत्र व्युत्पत्त्यसम्भवोऽभिहितः । वर्तमानार्थस्य तु दृष्टिसम्भवेन जिज्ञासोपपत्तौ प्रतीक्षाया अभावाच्च वर्तमानक्रियायां तदन्वितेषु चार्थेषु देवदत्तो गामानयतीत्यादिपदानां प्रथमं व्युत्पत्तौ जातायां देवदत्त गामानयेत्युक्ते गवादिपदानामानयतेश्च ज्ञातार्थत्वेनोर्वरितप्रत्ययार्थमात्रे जिज्ञासा-प्रतीक्षयोः सम्भवेन वर्तमानार्थव्युत्पत्तेराकाङ्क्षादिजननद्वारेण कारणत्वाद्भविष्यदाद्यर्थकव्युत्पत्तेश्च कार्यत्वात् कार्यकारणभावस्यैव पौर्वापर्यनियामकतया पौर्वापर्योपपत्तिरित्याशयेनाऽह- जातजिज्ञास इति ॥
ननु धात्वर्थस्यापि कार्यत्वात् तदन्वितनियोगरूपकार्याभिधायकत्वाल्लिङादीनां कार्यान्वितस्वार्थाभिधाय-कत्वमस्त्येवेति सम्भवत्येवैकं प्रयोजकं मन्मतेऽपीत्याशङ्क्य ‘कृतिसाध्यं प्रधानं यत्तत्कार्यमित्यभिधीयते’ इति वदद्भिः प्राभाकरैः कृत्युद्देश्यलक्षणस्यैव कार्यस्याभ्युपगतत्वात् तथाविधकार्यद्वयस्य चैकस्मिन् वाक्येऽसम्भवेन कृत्युद्देश्यलक्षणकार्यान्वितस्वार्थाभिधायकत्वं लिङादिशब्दानां न सम्भवति । कृतिसाध्यमात्रस्य च धात्वर्थादेः शब्दशक्तिप्रतियोगिकार्यत्वेन तैरभ्युपगमान् न तदन्वितस्वार्थाभिधायकत्वेनैकप्रयोजकसमर्थनं सम्भवती-त्याशयेनाऽह- गुणप्रधानभावेन हीत्यादिना ॥ युगपदिति ॥ एकस्मिन्नेव वाक्य इत्यर्थः । उक्तदूषणातिदेशेन प्रयोजकान्तरमपि निराकरोति- एतेनेति ॥ कार्यनिरूप्योऽन्वयः कार्यान्वयः । तदन्वयी तदाधारः । स च कार्यमितरच्च भवति । सम्बन्धस्य द्वयाधारत्वात् । तत्र सामर्थ्यं सर्वपदानामस्ति कार्यपदस्य चेत्यर्थः । नयविवेककारोक्तं प्रयोजकमाशङ्कते- कार्यपरेति ॥ अस्यार्थ इति ॥ न तु कार्यपरो यः पदार्थस्तेनान्विते व्युत्पत्तिरित्यर्थः । पदार्थानां कार्यपरत्वं हि न तद्वाचकत्वं युक्तम् । पदार्थानां कार्यवाचकत्वाभावात् । वाचकत्वस्य शब्दधर्मत्वात् । धूमादिवल्लिङ्गतया बोधकत्वाश्रयणे च कार्यस्यानुमेयत्वापत्त्याऽशाब्दत्वप्रसङ्गात् । नापि कार्यसाधनत्वरूपं कार्यशेषत्वं तत् । तथा सति कार्यशेषत्वं गवादिपदार्थस्यास्तीति तदन्विताभिधायिकार्यपदस्य कार्यपरपदार्थान्विताभिधायित्वप्राप्तावपि, भेदाभावेन कार्यपदार्थस्य कार्यशेषत्वाभावेन तदन्विताभिधायि-कारकपदानां कार्यपरपदार्थान्विताभिधायित्वाभावप्रसङ्गादिति भावः । अस्तु तर्हि कार्यपरत्वस्य पदधर्मत्वा-श्रयणेनोक्त एवार्थ इत्यत आह- तत्रेति ॥ तदुद्देशित्वमात्रमिति ॥ लिङादिपदवत्सर्वपदानामपि कार्यपरत्वाश्रयणे च तेषां लिङादिपर्यायत्वप्रसक्त्या सहप्रयोगानुपपत्तिप्रसङ्गादिति भावः ।
लघुप्रभा
(व्या.टि.)
एवं पराभिमतं कार्यमुपेत्य तदन्वयनियमनिवारणपरतयाऽवधारणं व्याख्यायाधुना पराभिमत-कार्यव्यावृत्तिपरतया व्याचश्व्े- अथवेति ॥ आदिपूर्वपदयोरैकार्थ्याद्बहुव्रीहावन्यतरवैयर्थ्यमाशङ्क्य बहुव्रीहि-गर्भबहुव्रीहिं दर्शयति- भ्रूविक्षेपणादेरिति ॥ आदिपदेन छोटिकावादनं गृह्यते । तदिति द्वितीयान्तं मत्वाऽह- मात्रादिकमिति ॥ कर्तृपदमध्याहरति- बाल इति ॥ निर्देशेन बालस्य व्युत्पत्तिप्रकारं दर्शयति- मातुरित्यादिना किमनुपपन्नमित्यन्तेन ॥ शब्दविभागादिकमिति ॥ यदर्थप्रक्षेपे यच्छब्दप्रक्षेपो यदर्थोद्धारे यच्छब्दोद्धारः स तस्य वाचक इति शब्दविभागादिकमित्यर्थः । ननु ‘उपेयप्रतिपत्त्यर्था उपाया अव्यवस्थिताः’ इत्युक्तेरुपा-यान्तरव्यवच्छेदः किन्निबन्धन इत्यत आह- लघीयांश्चेति ॥ लघुशब्दाद् गुणवचनात् ‘द्विवचनविभज्योपपदे तरबीयसुनौ’ इतीयसुनि ‘टेः’ इति टिलोपे रूपम् । कल्पनागौरवप्रदर्शनाय शश्वद्विस्मरणशील इत्यादि-विरुद्धहेतूक्तिः । एवं स्वोपाये लाघवप्रदर्शनाय पुरोवस्थितेष्वित्यादि बोध्यम् । तर्हि किं व्यवहारो नोपाय इत्यत आह- वर्तमानेति ॥ एतेनेति ॥ सिद्धान्विते व्युत्पत्तिगृहीतेः प्राथमिकत्वकथनेनेत्यर्थः । विना प्रमाणेन बहुतरकल्पनया कल्पनागौरवमभिधाय प्रयोजनद्वयकल्पनयाऽपि तदभिधित्सुराह- इतश्चेति ॥ कार्यस्य कृत्युद्देश्यस्य । कार्यान्तरेण अन्येन कार्येण । तस्य मुख्यविशेष्यतया अन्येन तादृशेनान्वयासम्भवादिति भावः । तदेवोपपादयति- कार्यं चेति ॥ ‘क्रियाप्रधानमाख्यातम्’ इत्युक्तेरिति भावः । नन्वङ्गभूतदीक्षणीयाद्यपूर्वस्य प्रधानज्योतिश्वेमार्थत्वेन कार्ययोरपि परस्परमङ्गाङ्गिभावेनान्वयो मीमांसकसम्मत इत्यतो युगपदित्युक्तम् । एकस्मिन् वाक्य इत्यर्थः । स्वमतेऽप्येकप्रयोजकलाभं शङ्कते- नन्विति ॥ अस्तीति ॥ सम्बन्धस्य द्विष्ठत्वादि-त्याशयः । गुणभाव एवेति ॥ प्रकारभावेनान्वयादित्यर्थः । न चेति ॥ व्याघातादिति भावः । बोध्यत इति ॥ आकाङ्क्षाविरहादिति बोध्यम् । तथा च अर्थैक्याभावान्नानुगम इत्यर्थः । उक्तदोषमन्यत्राप्यतिदिशति- एतेनेति ॥ विरुद्धगुणप्रधानभावापातेनेत्यर्थः । उपलक्षणमेतत् । अन्वयस्यैव शब्दबोध्यत्वेन तदन्वयस्य शब्दाबोध्यत्वेन चेति, अन्वयस्य अन्वयप्रतियोगितया भाने पदार्थत्वापाताच्चेत्यपि बोध्यम् । पुनः प्रयोजकैक्यं शङ्कते- कार्येति ॥ दूषयितुमर्थं विवेचयति- कार्यपरमिति ॥ एवेति प्रयोजकैक्यदौर्लभ्यमाह ।