१९ श्रुत्युक्तयुक्तीनामपौरुषेयत्वसाधकत्वसमर्थनम्

नचानित्यत्वे..

श्रुत्युक्तयुक्तीनामपौरुषेयत्वसाधकत्वसमर्थनम्

मूलम्

  • नचानित्यत्वे श्रुतिर्वेद इत्यादिविशेषशब्द उपपद्यते ।

***‘वेदास्ते नित्यविन्नत्वाच्छ्रतयश्चाखिलैः श्रुतेः । ***

***आम्नायोऽनन्यथापाठादीशबुद्धिस्थिताः सदा ॥’ इति महावराहे । ***

***नच नित्यत्वं विना वेदानां दर्शनव्यवहारो युज्यते । ***

तत्त्वमञ्जरी

श्रुतिवेदादिशब्दव्यवहारान्यथाऽनुपपत्तितर्केणापि नित्यत्वं सिद्ध्यतीत्याह- न चा-नित्यत्व इति ॥ नित्यविन्नत्वान् नित्यलब्धत्वात् । विद लाभ इति धातोः । आम्नायः सम्प्र-दायः । तत्सम्बन्धी चाऽम्नाय एव । ‘तान् वा एतान् सम्पातान् विश्वामित्रः प्रथममपश्यत्’ इति दर्शनव्यवहारः ।

टीका

‘अतः श्रुतित्वमेतासाम्’ इति यदुक्तं तदुपलक्षणपरमित्यभिप्रायेण व्याचश्व्े - न चानित्यत्व इति ॥ अनित्यत्वे वेदानाम् । आदिग्रहणेनाऽम्नायशब्दो गृह्यते । विशिष्यत इति विशेषोऽसाधा-रणः ।

श्रवणकर्मत्वादौ साधारणेऽपि यदेषामेव श्रुतिवेदाऽम्नायशब्दवाच्यत्वं, तन् नित्यत्वं विनाऽनुप-पद्यमानं तद् गमयति । तथाहि । श्रुतिशब्दे तावदुक्तम् । वेदशब्दश्च सत्तार्थाद् विदेः पचाद्यचि कृते कर्तरि निष्पन्नः । सत्ता च सर्वार्थसाधारणी । असाधारण्येन व्यपदेशा भवन्ति । अतो नित्यं विद्यत इति लभ्यते । तथा आम्नायशब्द आङ्पूर्वात् ‘म्ना अभ्यासे’ इत्यस्मात्कर्मणि घञि कृते सिद्धः । अभ्यासश्चैकप्रकारासकृदुक्तिः । तत्कर्मत्वं च शब्दान्तरसाधारणम् । ततो भूतभवद्भविष्यद्भिरखि-लैरप्येकप्रकारेणैव पठ्यन्त इति लभ्यते । एतदेवानादिनित्यत्वमिति ।

स्यादेतदेवं यदि श्रुत्यादिशब्दानामेतदेव निर्वचनं स्यात् । सत्यपि च तस्मिन्निदमेव चासाधारण्ये निमित्तं स्यात् । सम्भवति चान्यदपीति चेत् । सत्यम् । तथाऽपि पौराणिकमिदमेव आदरणीयमिति भावेन तत्पुराणवाक्यं पठति- वेदास्त इति ॥ ते प्रसिद्धाः । नित्यविन्नत्वान् नित्यं विद्यमान-त्वात् । अकर्मकत्वात् कर्तरि क्तः । ‘गत्यर्थाकर्मक’ इति स्मरणात्, ‘विद्यतेर्विन्न इष्यते’ इति च । अनन्यथापाठादित्यत्रापि अखिलैरिति वर्तते । आम्नाय इत्येकवचनं बहुवचनार्थे ‘सुपां सुलुक्’ इति वचनात् । प्रलये विनाशात्कथं नित्यविन्नत्वादि इत्यत उक्तम्-ईशेति । ‘यतस्ता हरिणा दृष्टाः’इत्यनेन सूचितां युक्तिं विवृणोति- न च नित्यत्वं विनेति ॥ अस्ति तावदीश्वरादयो वेदस्य द्रष्टार इत्यादिव्यवहारः । ‘स इमं मन्त्रमपश्यत्’ इत्यादिश्रुतेः । दर्शनं च पूर्वसिद्धस्य भवति । न हि यो यत्करोति स तत् पश्यतीत्युच्यते । अतस्तदन्यथाऽनुपपत्त्याऽपि नित्यत्वं सिद्धमिति ।

भावबोधः

शब्दविशेष इत्युक्ते श्रुत्यादिशब्दानां नासाधारण्यं प्राप्नोति । तल्लाभाय विशेषशब्दस्य पूर्वप्रयोग इति भावेन व्याचश्व्े- विशिष्यत इति ॥ ननु वेदस्य जन्यत्वेऽपि पदवाक्यादिक्रमस्यैकप्रकारत्वेनाऽम्नायशब्दवाच्यत्वं सम्भवति । तथा च न तदन्यथाऽनुपपत्त्याऽनादिनित्यत्वं सिद्ध्यतीत्यत आह- एतदेव चेति ॥

भावदीपः

तावदुक्तमिति ॥ ‘श्रुता एवाखिलैर्जनैः’ इत्येतद्व्याख्यान इति भावः । पचाद्यचीति ॥ ‘नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः’ इति सूत्रे पचादेराकृतिगणत्वेनात्राप्यच्प्रत्यये ‘पुगन्तलघूपधस्य च’ इति गुणे च कृते निष्पन्न इत्यर्थः । कर्मणि घञीति ॥ ‘अकर्तरि च कारके सञ्ज्ञायाम्’ इति सूत्रेण घञि कृते ‘आतो युक् चिण्कृतोः’ इति युकि च सति सिद्ध इत्यर्थः । गत्यर्थेति ॥ ‘गत्यर्थाकर्मकश्लिषशीङ्-स्थासवसजनरुहजीर्यतिभ्यश्च’ इति सूत्रात् क्तप्रत्यये ‘रदाभ्यां निष्ठातो नः पूर्वस्य च दः’ इति नत्वे रूपमिति भावः । इति चेति ॥ स्मरणादित्यनुषङ्गः । इति वचनादिति ॥ ‘सुपां सुलुक्पूर्वसवर्णाच्छेयाडाड्यायाजालः’ इति सूत्रे सुर्भवति लुग्भवतीत्याद्युक्तेरत्र बहुवचनार्थे एकवचनं भवतीत्यर्थः । स इमं मन्त्रमपश्यदिति ॥ ध्यानकाले मनसा ज्ञातवानित्यर्थः ।

वाक्यार्थदीपिका

(श्री.टि.)

शब्दविशेष इत्युक्ते श्रुत्यादिशब्दानां नासाधारण्यं प्राप्नोति, तल्लाभाय विशेषशब्दस्य पूर्वप्रयोग इति भावेन व्याचश्व्े- विशिष्यत इतीति ॥ श्रवणकर्मत्वादाविति ॥ श्रुतिशब्दप्रवृत्तिनिमित्तं श्रुतत्वं, तच्च श्रवणकर्मत्वमेवेत्यर्थः । नित्यत्वमिति ॥ अनादिनित्यत्वमित्यर्थः । अनादित्वम् अपौरुषेयत्वम् । श्रुतिशब्दे तावदुक्तमिति ॥ अपौरुषेयत्वरूपानादित्वगमकत्वम् ‘अतः श्रुतित्वमेतासां श्रुता एव यतोऽखिलैः’ इत्यनेनोक्तमित्यर्थः । वेदशब्दश्चेति ॥ विद सत्तायाम्, अस्मात् ‘नन्दिग्रहिपचादिभ्यो ल्युणिन्यचः’ इति सूत्रेणास्य पचादिगणस्थत्वाद् विद्यत इति कर्त्रर्थे अच्प्रत्यये ‘हलन्त्यम्’ इति चकारलोपे ‘पुगन्तलघूपधस्य च’ पुगन्तस्य लघूपधस्य च इको गुणः स्यादिति सूत्रेण इकाररूपलघ्वक्षरोपधस्य इकारस्य एकाररूपे गुणे वेदेति रूपनिष्पत्तिरित्यर्थः । सर्वार्थेति ॥ घटादिसर्वपदार्थेत्यर्थः । आम्नायशब्द इति ॥ आङ्पूर्वात् ‘म्ना अभ्यासे’ अस्माद् आम्नायते अभ्यस्यते इति कर्मार्थे ‘अकर्तरि च कारके सञ्ज्ञायाम्’ इति सूत्रेण घञ्प्रत्यये घकार-ञकारयोर्लोपेन अकारमात्रे उर्वरिते सति ‘आतो युक् चिण्कृतोः’ आदन्तधातोर् युगागमः स्याच्चिणि ञिति णिति कृति च प्रत्यये परे इति सूत्रेण घञ्प्रत्ययस्य ञित्त्वात् तस्मिन् परे युगित्यागमे उक् इत्यस्य लोपे आम्नायेति सिद्ध्यतीत्यर्थः ।

(श्री.टि.) शब्दान्तरेति ॥ लौकिकशब्देत्यर्थः । एकप्रकारेणैवेति ॥ तथा च पदवाक्यादिक्रमस्यैकप्रकारेण पठ्यमानत्वमेवासाधारण्ये निमित्तमिति भावः । ननु कथमनेनानादिनित्यत्वलाभ इत्यत आह- एतदेवेति ॥ भूतभवद्भविष्यद्भिरखिलैरेकप्रकारेण पठ्यमानत्वमेवेत्यर्थः । अन्यदपीति ॥ श्रुतिवेदाम्नायशब्दानामसाधारण्ये आप्रलयं विद्यमानत्वमपि निमित्तं सम्भवतीत्यर्थः । ननु ‘ते वेदाः श्रुतय आम्नायः’ इत्येतेषामनुवादकोटौ प्रवेशे विधेयाभावाद्वाक्यं न्यूनमापद्यत इत्याशङ्क्याऽह- ते प्रसिद्धा इति ॥ अग्निमी इत्याद्या वाक्यविशेषा इत्यर्थः । तथा च त इत्येतावदेवानुवादो, वेदाः श्रुतय आम्नाय इत्येतद्विधेयम् । एवं च, ते- प्रसिद्धा वाक्यविशेषा, नित्यविन्नत्वाद्वेदा इत्यादि योज्यमित्याशयः । अकर्मकत्वादिति ॥ विद सत्तायाम् इति धातोः सत्तार्थाद् विद् इत्यस्मात् ‘गत्यर्थाकर्मकश्लिषशीङ्स्थासवसजनरुहजीर्यतिभ्यश्च’ एभ्यः कर्तरि क्तः स्याद् भावकर्मणोश्च इति सूत्रेण विदधातोरकर्मकत्वात्कर्तरि क्तप्रत्यये ककारस्य लोपे ‘रदाभ्यां निष्ठातो नः पूर्वस्य च दः’ रेफदकाराभ्यां परस्य निष्ठातः ‘क्तक्तवतू निष्ठा’ इति स्मरणान् निष्ठाप्रत्ययभूतक्तप्रत्ययतकारस्य नकारः स्यात्, पूर्वदकारस्य च नकारः स्यादिति सूत्रेण दकारतकारयोर्नकारादेशे विन् न विन्नेति रूपमित्यर्थः । नन्वत्र ‘पुगन्तलघूपधस्य च’ इत्यनेन इकारस्य एकाररूपे गुणे वेन्न इति स्यादिति चेन्न । ‘क्ङिति च’ किति ङिति च प्रत्यये परे इको गुणवृद्धी न स्त इति गुणस्य प्रतिषिद्धत्वेन क्तप्रत्ययस्य कित्त्वाद्गुणाभाव इत्यवधेयम् । ननु विद्धातोः क्तप्रत्यये तस्य सेट्त्वादिडागमे विद् इत विदित इति स्यादित्यत आह- विद्यतेरिति ॥ विद्यतेर्विद्यमानार्थाद्धातोर्विन्न इति रूपमिष्यत इत्यर्थः । तथा च वार्तिककारेण विन्न इत्येवोक्तत्वाद्विन्न इति साध्विति भावः । एकवचनं बहुवचनार्थ इति ॥ वेदाः श्रुतय इति प्रायपाठादिति भावः । तत्र ज्ञापकमाह- सुपामिति ॥ ‘सुपां सुलुक्-पूर्वसवर्णाऽऽच्छेयाडाड्यायाजालः’ सुश्च लुक् च पूर्वसवर्णश्च आश्च आच्च शे च या च डा च ड्या च याच्च आल् च ते तथा, सुपामेत आदेशाः स्युरिति सूत्रार्थः । यथा ‘ऋजवः सन्तु पन्थाः’ इत्यत्र पन्थान इति प्राप्ते बहुवचनस्य जसः सु इत्येकवचनादेशे पन्था इति भवति, एवं प्रकृतेऽप्याम्नायशब्दाद् बहुवचनस्य जसः सु इत्येकवचनादेशे आम्नाय इति युक्तमित्यर्थः । तदन्यथाऽनुपपत्त्येति ॥ दर्शनव्यवहारान्यथाऽनुपपत्त्येत्यर्थः ।

लघुप्रभा

(व्या.टि.)

उपलक्षणपरमिति ॥ अपौरुषेयत्वे युक्तित्वेन यत् श्रुतिशब्दव्याख्यानं तद्वेदादिशब्दोप-लक्षणश्रुतिशब्दपरं, न तन्मात्रपरमित्यर्थः । तेनोपलक्षणमित्येव वक्तव्ये परमित्यधिकोक्तिरिति परास्तम् । विशिष्यत इति ॥ विपूर्वाच्छिषेः कर्मणि घञिति भावः । पचाद्यचीति ॥ पचादिलक्षणोऽच् पचाद्यच् । लघूपधगुण इतिवल्लक्षणलक्ष्ययोरभेदव्यपदेशः । कर्तरीति ॥ ‘कर्तरि कृत्’ इति सूत्रादिति भावः । अचीत्युप-लक्षणम् । लघूपधगुणे चेत्यपि ग्राह्यम् । असाधारण्येनेति ॥ प्रवृत्तिनिमित्तस्येति शेषः । घञीत्युपलक्षणम् । ‘आतो युक्’ इति युकि चेत्यपि ग्राह्यम् । नन्वनादिनित्यत्वं वेदापौरुषेयत्ववादिना वक्तव्यम् । तत्किमनेनेत्यत आह- एतदेवेति ॥ सर्वदैकप्रकारत्वमेवेत्यर्थः । तस्मिन्निति ॥ उक्तनिर्वचनेऽपीत्यर्थः । असाधारण्ये शब्दा-साधारण्ये । अन्यदपीति ॥ निर्वचनान्तरम्, उक्ते वा निर्वचनेऽसाधारण्ये निमित्तान्तरमित्यर्थः । अकर्मक-(व्या.टि.) त्वादिति ॥ विद्यतेरिति शेषः । ननु ‘वित्तो भोगप्रत्यययोः’ इति निपातनात् कथं विन्नेति भिन्नं रूपमित्यत आह- विद्यतेरिति ॥ एतद्वार्तिकप्रयोगात् ‘रदाभ्याम्’ इति निष्ठानत्वमिति भावः । कश्चित्तु विद्यतेरिति श्यना निर्देशमविज्ञाय विद्यमानार्थादिति व्याख्यत् । अनन्यथापाठादित्यत्र कर्तुरश्रवणादाह- वर्तत इति ॥ अनुवर्तत इत्यर्थः । ‘द्व्येकयोः’ इत्येकत्वे तद्विधानात् कथं बहुवचनार्थ इत्यत आह- सुपामिति ॥ सुपां सुर्भवतीति बहुवचनस्य एकवचनादित्यर्थः । यथा ‘ये ते पन्थाः सवितः’ इति । मूले ‘ईशबुद्धिस्थिताः’ इति ईशबुद्धेरविनाशात् तन्निमित्तक्रमस्याप्यविनाश इति सूचितम् । विवरणप्रकारं दर्शयति- अस्ति तावदित्यादिना ॥ ईश्वरादय इत्यादिपदेन देवर्ष्यादयः, इत्यादीत्यादिपदेन अपश्यन् दर्शयाञ्चकार दृष्टा इत्यादिव्यवहारः, अपश्यदित्यादीत्यादि-पदेन ‘ते देवा एतद्यजुरपश्यन् तस्य ह त्रीन् गिरिरूपानविज्ञातानिव दर्शयाञ्चकार’ इत्यादयः । दर्शनं च कथं कृतकत्वं विरुणद्धीत्यत आह- दर्शनं चेति ॥ ननु कृत्युद्देश्यस्यापि दर्शनं भवत्वित्यत आह- न हीति ॥ व्यवहाराभावेन तन्निश्चय इति भावः । नित्यत्वमिति ॥ दर्शनान्यथाऽनुपपत्त्या पूर्वसिद्धत्वं, विनाशकाभावाच्च नित्यत्वं सिद्धमित्यर्थः ।