तदुत्पत्तिवचश्चैव ..
वेदोत्पत्तिवाचकश्रुतितात्पर्यसमर्थनम्
मूलम्
- ‘तदुत्पत्तिवचश्चैव भवेद् व्यक्तिमपेक्ष्य तु ।
चेतनस्य जनिर्यद्वदुच्यते सर्वलौकिकैः ॥
पुराणानि तदर्थानि सर्गेसर्गेऽन्यथैव तु ।
क्रियन्तेऽतस्त्वनित्यानि तदर्थाः पूर्वसर्गवत् ॥’
‘वेदानां सृष्टिवाक्यानि भवेयुर्व्यक्त्यपेक्षया ।
अवान्तराभिमानानां देवानां वा व्यपेक्षया ।
*नानित्यत्वात्, कुतस्तेषामनित्यत्वं स्थिरात्मनाम् ॥’ इति ब्रह्माण्डे ॥ ***
तत्त्वमञ्जरी
‘ऋचः सामानि जज्ञिरे’ इति वेदस्योत्पत्तिवचनात् कथमनुत्पत्तिरित्यतो वक्ति- तदुत्पत्तीति ॥ तर्हि पुराणोत्पत्तिवचनमप्येवं स्यादित्यत आह- पुराणानीति ॥ अन्यथैव तु क्रियन्ते शब्दतः । वेदानामित्यादिना सृश्व्विाक्यानां गतेः पुनरुक्तिस्तात्पर्यात् । विषयान्तरस्या-प्युक्त्यर्थं च । वेदानां मुख्याभिमानिन्याः श्रीदेव्या अनुत्पत्तेर् अवान्तराभिमानानामित्युक्तम् ।
टीका
‘ऋचः सामानि जज्ञिरे’ इत्याद्युत्पत्तिश्रवणात् कथं वेदानामपौरुषेयत्वमुच्यत इत्यत आह- तदुत्पत्तीति ॥ व्यक्तिमपेक्ष्यैवेति सम्बन्धः । तुशब्दो विशेषा(षणा)र्थ आदिकालीनां व्यक्ति-मिति । तेन प्रत्यहमप्युपाध्यायैर्व्यज्यमानत्वादुत्पत्तिव्यवहारप्रसङ्ग इति निरस्तम् । उपचारप्रयोगे किं प्रयोजनमित्यतो रूढोपचारोऽयमित्याह- चेतनस्येति ॥ व्यक्तिमपेक्ष्येत्यनुवर्तते । विष्णुबुद्धि-गत्वयुक्त्या यदि वेदानां नित्यत्वमुच्यते तर्हि पुराणादीनामपि तत्साम्यान्नित्यत्वं स्यात् । ततश्च ‘श्रुतिर्वाव नित्या’ इत्यादिविभागो नोपपद्यत इत्यत आह- पुराणानीति ॥ पौरुषेयत्वनिमित्त एवानित्यत्वव्यपदेशो न तु विनाशनिमित्त इत्यर्थः । अत एव त्वनित्यानीति सम्बन्धः । अन्यथाऽपि क्रियन्त इत्यनेनार्थव्यत्यासेऽपि प्राप्ते सत्याह- तदर्था इति ॥ ततश्च पदादिक्रमव्यत्यास एवेत्युक्तं भवति । एतच्च वेदानुसारिणामेव । अन्येषां त्वर्थव्यत्यासस्यापि सद्भावात् । उत्प्रे(क्षा)क्षाऽऽदिमूलो हि तदर्थ इति भावेनोक्तम् । तदर्थानीति ॥ स वेदार्थ एवार्थो विषयः प्रयोजनं च येषां तानि तथोक्तानि । एतेन हरिश्चन्द्रजनमेजयाद्यनित्यसम्बन्धात् कथं वेदानामनादिनित्यत्वम् इत्यपि निरस्तम् । हरिश्चन्द्रादीनामपि प्रवाहेणानादिनित्यत्वात् । ‘ऋचः सामानि’ इत्यादिवाक्य-व्याख्यानन्तरं ब्रह्माण्डपुराणान्तर्गतमेव प्रदेशान्तरस्थं वाक्यान्तरमपि पठति- वेदानामिति ॥ देवानां शरीरजन्मापेक्षया इत्यर्थः । शरीरजन्म मुख्याभिमानिदेवतायाः श्रियो नास्तीत्यत उक्तम्- अवान्तरेति ॥ अवान्तरोऽमुख्योऽभिमानः स्वामित्वं परमेश्वराधीनं येषां ते तथोक्ताः । स्थिरात्मनाम् अनादिनित्यत्वेन प्रमितानामित्यर्थः । पूर्वोक्तानुवादेन गत्यन्तरप्रदर्शनार्थं निरन्तरमेवैतद्वाक्यमिति केचित् ।
भावबोधः
एतेन हरिश्चन्द्रेति ॥ ‘पुराणानि तदर्थानि’ इत्युक्त्वा वेदार्थार्थकपुराणविषयभूतहरिश्चन्द्रादीनां प्रवाहतोऽनादित्वप्रतिपादकेन ‘तदर्थाः पूर्वसर्गवत्’ इत्यनेनेत्यर्थः ।
भावदीपः
विशेषार्थ इत्युक्तं व्यनक्ति- आदीति ॥ उपचार इति ॥ जज्ञिर इत्यस्य व्यक्तिरूपामुख्यार्थत्व-वचनमित्यर्थः । व्यक्तिमपेक्ष्येति ॥ देहयोगोऽत्र व्यक्तिर्ज्ञेया । एवशब्द-तुशब्दयोरन्वयोक्तिः- अत एव त्वनित्यानीति ॥ ततश्चेति ॥ अर्थानामैकरूप्योक्तितश्चेत्यर्थः । अर्थशब्दो द्व्यर्थ इति भावेनाऽह- विषयः प्रयोजनं चेति ॥ हरिश्चन्द्रेति ॥ ‘हरिश्चन्द्रो ह वैधस ऐक्ष्वाको राजा पुत्र आस’ इति श्रवणादित्यर्थः । तदुत्पत्ति-वचश्चैवेत्यनेनापौनरुक्त्यायाऽह- ऋचस्सामानीत्यादि ॥ काङ्क्षित पूरयति- देवानां शरीरजन्मापेक्षयेति ॥ कूटस्थानामिति भ्रमनिरासाय वा साध्याविशिष्टतानिरासाय वाऽऽह- अनादिनित्यत्वेन प्रमितानामिति ॥ पूर्वोक्तानुवादेनेति ॥ पूर्वार्धेनेति । गत्यन्तरेति ॥ उत्तरार्धेनेति भावः । निरन्तरेति ॥ पूर्वाव्यवहितेत्यर्थः।
वाक्यार्थदीपिका
(श्री.टि.)
विशेषणार्थ इति ॥ व्यक्तौ किञ्चिद्विशेषणं देयमित्यर्थक इत्यर्थः । तदेव विशेषणं दर्शयति- आदिकालीनामिति ॥ तेनेति ॥ व्यक्तावादिकालीनत्वरूपविशेषणदानेनेत्यर्थः । प्रत्यहमिति ॥ व्यक्ति-मात्रस्यैव उत्पत्तिव्यवहारनिमित्तत्व इति शेषः । उपचारप्रयोग इति ॥ व्यक्तिमपेक्ष्योत्पत्तिव्यवहारस्यौप-चारिकत्वादिति भावः । तत्साम्याद् विष्णुबुद्धिगत्वसाम्यात् । नोपपद्यत इत्यनन्तरम्, ‘इति चेन्न । पुराणानामपि नित्यत्वाङ्गीकारेण इष्टापत्तेः । तर्हि पुराणानामनित्यत्वप्रतिपादिकायाः ‘अनित्या वाव स्मृतयः’ इति श्रुतेः का गतिः’ इत्येतावान् वाक्यशेषः । अनेन श्रुतेः का गतिरुक्तेत्यत आह- पौरुषेयत्वेति ॥ सम्बन्ध इति ॥ एवं सम्बन्धकरणेन पौरुषेयत्वनिमित्त एवानित्यत्वव्यपदेशो न विनाशनिमित्त इति सूचितमिति भावः । पदा-दीति ॥ पदानां वाक्यानां च यः क्रमस्तद्व्यत्यास एवेत्यर्थः । तथा च न वेदवन्नियतक्रमवत्त्वं पुराणानां, किन्तु पूर्वकल्पस्थपुराणक्रमापेक्षया एतत्कल्पस्थपुराणे पदवाक्यादिक्रमस्य व्यत्यास एव भवतीति भावः । एतच्चेति ॥ अर्थव्यत्यासाभाववचनमित्यर्थः । अन्येषां वेदाननुसारिणां राजसतामसपुराणानाम् । निर्मूला बुद्धिर् उत्प्रेक्षा । आदिपदेन विप्रलम्भसङ्ग्रहः । येषां तानीति ॥ वेदप्रतिपाद्यप्रतिपादकानि वेदप्रयोजनप्रयोजनानी-त्यर्थः । एतेनेति ॥ ‘पुराणानि तदर्थानि’ इत्युक्त्वा वेदार्थार्थकपुराणविषयीभूतहरिश्चन्द्रादीनां प्रवाहतोऽ-नादिनित्यत्वप्रतिपादकेन ‘तदर्थाः पूर्वसर्गवत्’ इत्यनेनेत्यर्थः । अनित्यसम्बन्धादिति ॥ अनित्यार्थ-प्रतिपादकत्वादित्यर्थः । तथा च प्रतिपाद्यानामनित्यत्वे तत्प्रतिपादकस्य वेदस्य कथं नित्यत्वमिति भावः । एतेनेत्युक्तं विशदयति- हरिश्चन्द्रादीनामपीति ॥ ‘वेदानां सृश्व्विाक्यानि भवेयुर्व्यक्त्यपेक्षया’ इत्यस्यैकानुपूर्वी-गतत्वे ‘तदुत्पत्तिवचश्चैव’ इत्यनेन पौनरुक्त्यं स्यादित्यभिप्रेत्यावतारयति- ऋचस्सामानीत्यादीति ॥ प्रदेशान्त-रस्थमिति ॥ स्थानान्तरस्थम् अध्यायान्तरस्थमित्यर्थः । देवानां वेदाभिमानिनाम् । ‘कुतस्तेषामनित्यत्वं स्थिरात्मनाम्’ इत्यत वेदा नित्याः स्थिरात्मत्वादित्यनुमानमुक्तं भवति । तदयुक्तम् । स्थिरात्मत्वं हि स्थिर-(श्री.टि.) स्वरूपत्वं, तच्च नित्यत्वमेव, अतः साध्याविशिष्टतेत्यत आह- स्थिरात्मनामिति ॥ तथा च नित्यत्वेन प्रमितत्वं हेतुः, तेन नित्यत्वं साध्यत इति न साध्याविशिष्टतेति भावः । नरहरितीर्थानां व्याख्यानमनु-वदति- पूर्वोक्तेति ॥ निरन्तरमिति ॥ अन्तरं व्यवधानं तच्छून्यं निरन्तरम् एकानुपूर्वीगतमेवेत्यर्थः । तथा च वेदानां सृष्टिवाक्यानि भवेयुर्व्यक्त्यपेक्षयेत्येव न, किन्त्ववान्तराभिमानानां देवानां वा व्यपेक्षया भवेयुरित्यर्थः।
लघुप्रभा
(व्या.टि.)
एवकारो भिन्नक्रम इत्युपेत्यान्वयं दर्शयति- अपेक्ष्यैवेति ॥ विशेषं दर्शयति- आदिकालीना-मिति ॥ ब्रह्मादीनामिति शेषः । ‘यो ब्रह्माणं विदधाति पूर्वं यो वै वेदांश्च प्रहिणोति तस्मै’ इति श्रुतेः । यथोक्तं तन्त्रसारसङ्ग्रहे ‘व्यक्तिक्रमं ब्रह्मबुद्धावपेक्ष्य’ इति । तेनेति ॥ विशिश्व्व्यक्तेरेवोपचारनिमित्तत्वेनेत्यर्थः । तत्राप्युपचारनिमित्तमाह- अनुवर्तत इति ॥ अनेन, एक एव क्रमः । स ईश्वरबुद्ध्युपाधिक एव, न जीव-बुद्ध्युपाधिकः । स ईश्वरेणाऽदिकाल इव प्रत्यहमप्युपाध्यायैर्व्यज्यते । इयांस्तु विशेषः । आदिकालीना व्यक्तिरुत्पत्तिव्यवहारनिमित्तं न प्रात्याहिकीति, वेदस्य कौटस्थ्यमभिसंहितमुद्घाटितं वेदितव्यम् । प्रसङ्गस्येष्टापत्तिं मनसि निधायानित्यत्वव्यपदेशे कृतकत्वं निमित्तयति- पौरुषेयत्वेति ॥ अन्वयप्रदर्शनेन तदर्थं मूलमारोहयति- अत एवेति ॥ तथा च किंविषयमन्यथाकरणमित्यतः पदवाक्यविषयमित्याह- ततश्चेति ॥ अर्थव्यत्या-साभावादित्यर्थः । ननु किं पुराणमात्रस्यार्थव्यत्यासाभाव इत्यतो नेत्याह- एतच्चेति ॥ उत्प्रेक्षादीत्यादि-पदेनासुरव्यामोहनं गृह्यते । अर्थपदस्य विषयप्रयोजनोभयार्थत्वं, तच्छब्देन बहुव्रीहिं च मत्वा व्याचश्व्े- स इति ॥ तदर्था इति वाक्यशेषे तच्छब्देन पुराणं परामृष्टम्, अधुना वेदपरामर्शेन तस्यानित्यसंयोगशङ्का परिहृतेत्याह- एतेनेति ॥ ‘हरिश्चन्द्रो ह वैधसः’ ‘जनमेजयस्य यज्ञान्ते’ इत्यादीनामिति शेषः । ‘ह्रस्वाच्चन्द्रोत्तरपदे मन्त्रे’ इति सुडागमे हरिश्चन्द्रेति रूपं साधु । प्रवाहेणेति ॥ यथोक्तम् ‘समाननामरूपत्वाच्चाऽवृत्तावप्यविरोधो दर्शनात्स्मृतेश्च’, ‘धाता यथापूर्वमकल्पयत्’ इति च । पुनरुक्तिपरिहारायाऽह- प्रदेशान्तरस्थमिति ॥ देवाना-मित्यस्यापेक्षितं पूरयति- शरीरजन्मापेक्षयेति ॥ श्रिय इति ॥ ‘असृत्युपक्रमात्’ इति सूत्रादिति भावः । ननु श्रियो मुख्यतो वेदाभिमानित्वमसिद्धमिति वाच्यम् । ‘वाग् वै सरस्वती’ इति ‘वाग्देवी जुषताम्’ इति ‘चोदयित्री सूनृतानाम्’ इति च सरस्वत्या वाग्देवतात्वोक्तेः । न च लक्ष्म्याः किमायातमिति वाच्यम् । ‘मन्त्रादिवद्वा विरोधः’ इति न्यायेन नीचदेवतावाचकानाम् उच्चदेवेषु प्रवृत्तेः । ‘सिद्धलक्ष्मीर्मोक्षलक्ष्मीर्जयलक्ष्मीः सरस्वती’ इति लक्ष्मीनामसु पाठाच्च । तन्नियमे तन्नियामकनियम्यत्वस्य कैमुत्यसिद्धत्वाच्च । ‘तदधीनत्वादर्थवत्’ इति न्यायेन तच्छब्दस्य तत्स्वामिन्येव मुख्यत्वाच्च । प्रवृत्तिनिमित्तपौष्कल्याच्च । स्थिरात्मनामिति विशेषणं हेतुगर्भं मत्वा साध्यावैशिष्ट्यपरिहाराय व्याचश्व्े- प्रमितानामिति ॥ निरन्तरमेवेति ॥ तत्पक्षेऽधिकविधानान्न पुनरुक्तिः ।