अतः श्रुतित्वमेतासां ..
वेदापौरुषेयत्वसाधकपुराणप्रमितयुक्तिकथनम्
मूलम्
- ‘अतः श्रुतित्वमेतासां श्रुता एव यतोऽखिलैः ।
जन्मान्तरे श्रुतास्तास्तु वासुदेवप्रसादतः ॥
मुनीनां प्रतिभास्यन्ति भागेनैव न सर्वशः ।
यतस्ता हरिणा दृष्टाः श्रुता एवापरैर्जनैः ।
श्रुतयो दृष्टयश्चेति तेनोच्यन्ते पुरातनैः ॥’
तत्त्वमञ्जरी
मुनयः श्रुतीः स्वयमेव पश्यन्ति हि । अतः कथमखिलैः श्रुता एवेत्यत आह- जन्मेति ॥
टीका
अपौरुषेयत्वे युक्त्यन्तरं चाऽह- अत इति ॥ श्रुतित्वमिति प्रसङ्गात् स्त्रीलिङ्गनिर्देशः । एतासां श्रुतीनां श्रुतित्वं श्रुतिशब्दवाच्यत्वम् अतो ऽपौरुषेयत्वादेवोपपद्यते नान्यथेत्यर्थः । तत्कथमित्यत आह- श्रुता एवेति ॥ श्रुतत्वाद्धि श्रुतयः । श्रुतत्वं च शब्दमात्रसाधारणम् । ततश्च ‘असाधारण्येन व्यपदेशा भवन्ति’ इति न्यायेन अब्भक्षो वायुभक्ष इतिवत्सावधारणं व्याख्येयम् । तथा चाखिलैः श्रुता एव, नतु केनापि कृता इति श्रुतिशब्दवाच्यत्वेन लभ्यत इत्यर्थः । ननु मुनयोऽनधीता अपि पठन्ति, तत्कथमखिलैः श्रुता एवेत्युच्यत इत्यत आह- जन्मान्तर इति ॥ तुशब्दोऽवधारणे । ननु जन्मान्तरानुभूतं कथं प्रतिभायात्, अस्मास्वदर्शनादित्यत उक्तम्- वासुदेवेति ॥ तर्हि ‘अमुनैवोद्गीर्यन्ते’ इति कथमुक्तमित्यत उक्तम्- भागेनैवेति ॥ तथाऽपि श्रुता एवाखिलैरित्ययुक्तम्, परमेश्वरेणोपाध्यायादनधीतत्वादित्यतः सोपपत्तिकमुक्तस्यापवाद-माह- यत इति ॥ कृतत्वव्यावृत्तिरेवावधारणप्रयोजनमिति भावः । दृष्टिशब्दवाच्यत्वमप्यपौरुषेयत्वे युक्तिरित्यनेन सूचितम् । तच्च विवरिष्यते ।
एतेनैतदपि प्रत्युक्तम् । काठकं कालापकमित्यादयः समाख्याविशेषाः शाखाविशेषाणां स्मर्यन्ते । न च तेऽध्ययनप्रवचनमात्रनिबन्धनाः । अध्येतॄणां प्रवक्तॄणां चानन्तत्वात् । अतस्तत्कृ-तत्वनिबन्धना एवेति । तज्जन्मन्यश्रुतानां सुप्तेः (सुप्त) प्रबुद्धैरिव कठादिभिर्दृष्टत्वस्य तन्निबन्धन-त्वोपपत्तेः ।
भावबोधः
स्त्रीलिङ्गनिर्देश इति ॥ एतासामिति स्त्रीलिङ्गनिर्देश इत्यर्थः । अन्यथा वेदा इति प्रकृतत्वादेतेषामिति भवेदिति भावः । सावधारणं व्याख्येयमिति ॥ निर्वाच्यश्रुतिपदमिति शेषः । तदर्थं श्रुता एवेत्येवकारः प्रयुक्त इत्युक्तं भवति । कृतत्वव्यावृत्तिरेवेति ॥ कृतत्वव्यावृत्तिरेव ‘श्रुता एव यतः’ इति वाक्यगतावधारणप्रयोजनं, न तु दृष्टत्वव्यावृत्तिरित्यर्थः । एतेनैतदपीति ॥ ‘जन्मान्तरे श्रुतास्तास्तु वासुदेवप्रसादतः । मुनीनां प्रतिभास्यन्ति’ इत्यनेनेत्यर्थः । अत एव व्यवहितत्वादेतस्य एतेनेत्युक्तं हेतुं विवृणोति- तज्जन्मनीति ॥
भावदीपः
ननु वेदा इति प्रकृतत्वादेतेषामिति वाच्यं, कथमेतासामिति, तत्राऽह- श्रुतित्वमिति प्रसङ्गा-दिति ॥ एवकारार्थलाभप्रकारमाह- श्रुतत्वं चेति ॥ लभ्यत इति ॥ अपौरुषेयत्वमिति योज्यम् । अवधारण इति ॥ श्रुता एवेत्यवधारण इत्यर्थः । उक्तस्येति ॥ श्रुता एवेत्युक्तस्य सोपपत्तिकमपवादं दृष्टत्वरूपमित्यर्थः। अवधारणेति ॥ श्रुता एवेत्यवधारणेत्यर्थः । नतु दृष्टत्वव्यावृत्तिरिति भावः । अनेनेति ॥ ‘दृष्टयश्चेति तेनोच्यन्ते’ इत्यनेनेत्यर्थः । पूर्वोक्तदिशा ‘असाधारण्येन व्यपदेशा भवन्ति’ इति न्यायाद् दृष्टा एव न कृता इति दृष्टत्वकथनेन लाभादिति भावः । विवरिष्यत इति ॥ ‘नच नित्यत्वं विना दर्शनव्यवहारो युज्यते’ इत्यनेनेति भावः । यद्वा तदित्यस्य श्रुतिदृष्ट्यादिशब्दवाच्यत्वपरिग्रहः । तच्च ‘नचानित्यत्वे श्रुतिर्वेद इत्यादिविशेषशब्दो युज्यते’ इत्यादिना विवरिष्यत इत्यर्थः । समाख्याविशेषा इति ॥ संज्ञाविशेषा इत्यर्थः । ‘यौगिकी सञ्ज्ञा समाख्या’ इति मीमांसकव्यवहारात् । एतेनेत्युक्तं व्यनक्ति- तज्जन्मन्यश्रुतानामिति ॥ सुप्तेरिति पञ्चमी । सुप्तितः प्रबुद्धैर्जनैः सुप्तेः प्राक् श्रुतानामनुसन्धानस्येवाधुना मनसा ध्यानकाले विषयीकृतत्वस्य तादृशसंज्ञाविशेषनिमित्तत्वोप-पत्तेरित्यर्थः ।
वाक्यार्थदीपिका
(श्री.टि.)
ननु वेदा इति प्रकृतत्वादेेतेषाम् इति वक्तव्यम् एतासामिति स्त्रीलिङ्गनिर्देशः किमर्थ इत्यत आह- श्रुतित्वमिति प्रसङ्गादिति ॥ श्रुतीनां भावः श्रुतित्वम् इति श्रुतित्वोक्त्या श्रुतित्वाधिकरणतया श्रुतीनामपि प्रसक्तत्वादित्यर्थः । शब्दमात्रेति ॥ लौकिकालौकिकसर्वशब्देत्यर्थः । अब्भक्ष इत्यादि ॥ अबादिभक्षणस्य सर्वसाधारण्यादम्मात्रभक्षो, वायुमात्रभक्ष इति यथा व्याख्यायते तद्वदित्यर्थः । व्याख्येयमिति ॥ निर्वाच्यश्रुति-(श्री.टि.) पदमिति शेषः । अत एव श्रुता एवेत्येवकारः प्रयुक्त इत्याशयेनाऽह- तथा चेति ॥ तर्हीति ॥ मुनीनामपि प्रतिभासेन तैरप्युद्गीर्यमाणत्वादित्यर्थः । अनधीतत्वाद् अश्रुतत्वात् । उक्तस्येति ॥ अखिलैः श्रुता इत्यस्येत्यर्थः । विविच्य कथनात् सोपपत्तिकत्वं द्रष्टव्यम् । ननु ‘यतस्ता हरिणा दृष्टाः’ इत्ययुक्तम्, ‘श्रुता एव यतः’ इत्युक्त्या दृष्टत्वस्यापि प्रतिषिद्धत्वादित्यत आह- कृतत्वव्यावृत्तिरेवेति ॥ न दृष्टत्वव्यावृत्तिः ‘श्रुता एव यत इति वाक्यगतावधारणप्रयोजनमित्यर्थः । तथा च ‘श्रुता एव यतोऽखिलैः’ इत्यत्र अखिलैरित्यस्य हरिव्यतिरिक्तजनपरत्वान्न दोष इति भावः । विवरिष्यत इति ॥ ‘न च नित्यत्वं विना’ इत्यादिनेति भावः । एतेनेति ॥ ‘जन्मान्तरे श्रुतास्तास्तु वासुदेवप्रसादतः । मुनीनां प्रतिभास्यन्ति’ इत्यनेनेत्यर्थः । समाख्याविशेषाः सम्यङ्नामविशेषाः । अनन्तत्वादिति ॥ तथा च तन्नामभिरपि शाखानां व्यवहारः स्यादिति भावः । एतेनेत्युक्तं विशदयति- तज्जन्मनीति ॥ सुप्तप्रबुद्धैरिवेति ॥ आदौ सुप्तानां पश्चात्प्रबुद्धानां यथा पदार्थदर्शनं सहसा भवति तद्वदित्यर्थः । तन्निबन्धनत्वोपपत्तेरिति ॥ तस्मिन् समाख्याविशेषे निमित्तत्वोपपत्तेरित्यर्थः ।
विषमपदवाक्यार्थविवृतिः
(पां.टि.)
विवरिष्यत इति ॥ ‘न चानित्यत्वे दर्शनव्यवहारः’ इत्यत्रेति शेषः ।
लघुप्रभा
(व्या.टि.)
वेदा इति घञन्तेन प्रकृतानां कथमेतासामिति स्त्रीलिङ्गेन परामर्श इत्यत आह- श्रुतित्वमिति ॥ क्तिन्नन्तप्रकृत्याः स्त्रीलिङ्गस्मरणादित्यर्थः । सर्वं वाक्यं सावधारणम् इति मत्वा व्यापकमवधारयति- अपौरुषेय-त्वादिति ॥ श्रुतत्वादिति ॥ अत्र श्रवणमध्ययनं, श्रोतव्य इतिवत् । कर्मणि क्तिन्निति भावः । न कृता इति ॥ ‘नरं च नारायणमेव चाऽदौ’ इत्यादिवदनभिमतस्यैव व्यावर्तनीयत्वादित्यर्थः । अनेनाध्ययनपरम्परा-रूपापौरुषेयत्वे युक्तिः सूचितेति ज्ञातव्यम् । मूले प्रसादत इत्यनेनाघटितघटनापटीयसी तच्छक्तिः ‘पराऽस्य’ इति श्रुतिसिद्धेति सूचितम् । मूले न सर्वश इत्यनेन सर्ववेदोद्गिरणापेक्षया अमुनैवेत्यवधारणं युक्तमिति सूचि-तम् । व्यावृत्तिरेवेति ॥ एवेत्य(न)भिमतदृष्टत्वयोगव्यवच्छेदं व्यवच्छिनत्ति । तेनान्यदृश्व्त्वमप्यनिवारितम् । युक्तिरिति ॥ असाधारण्येन व्यपदेशा भवन्तीति दृष्टा एव न कृता इत्यर्थलाभादिति भावः । तच्चेति ॥ श्रुतत्वदृष्टत्वयोरुपपत्तित्वम् इत्यर्थः । विवरिष्यत इति ॥ ‘न चानित्यत्वे श्रुतिः’ इत्यादिनेति शेषः । एतेने-ति ॥ अन्यदृष्टत्वाभ्युपगमेनेत्यर्थः । एतदिति निर्दिष्टचोद्यं दर्शयति- काठकमित्यादिना ॥ समाख्येति ॥ यौगिकसंज्ञेत्यर्थः । न च तेषां प्रोक्तप्रत्ययान्तत्वेन प्रवचनादिनाऽन्यथासिद्धिरित्यतोऽतिप्रसङ्गेन दूषयति- अध्येतॄणा-मिति ॥ दर्शनप्रकारं दर्शयति- तज्जन्मनीति ॥