१४ अप्रामाण्यस्योत्पत्तिपरतस्त्ववादः

अप्रामाण्यस्य च..

अप्रामाण्यस्योत्पत्तिपरतस्त्ववादः

मूलम्

  • अप्रामाण्यस्य च परतस्त्वानङ्गीकारे दुष्टेन्द्रियादेरप्यप्रामाण्यहेतुत्वं न स्यात् । तदनङ्गीकारे चानुभवविरोधः । अतः प्रामाण्यं स्वतः परतोऽप्रामाण्यमिति (च) सिद्धम् ।

तत्त्वमञ्जरी

निगमनप्रसङ्गे परतोऽप्रामाण्यं द्रढयति - अप्रामाण्यस्येति ॥ आदिशब्दादज्ञानविप्रलम्भौ द्रष्टव्यौ ।

टीका

ननु यदि वाक्यमात्रस्य यथार्थज्ञानजनकत्वं तदा बौद्धादिवाक्यस्यापि तत् स्यात् । ततश्च तज्जन्यं ज्ञानं यथार्थमापद्येतेति चेन्मैवम् । तस्याज्ञानविप्रलम्भादिदोषमूलत्वेनायथार्थज्ञानजनक-त्वात् । वाक्यगता हि दोषास्तस्य यथार्थज्ञानजननशक्तिं प्रतिबध्य विपरीतज्ञानजननशक्ति-माविर्भावयन्ति । औत्सर्गिकत्वात्स्वतःप्रामाण्यस्यापवादेनाप्रामाण्यं भवतीति किमनुपपन्नम् ।

वाक्यगतस्याप्रामाण्यस्य दोषाधीनत्वं कुत इत्यतस्तद्विपक्षे बाधकेनोपपादयति- अप्रामाण्यस्य चेति ॥ वाक्यगतस्यायथार्थज्ञानजनकत्वलक्षणस्याप्रामाण्यस्य परतस्त्वानङ्गीकारे पुरुष-दोषनिबन्धनत्वानङ्गीकारे काचादिव्यभिचारादिदुश्व्योरिन्द्रियलिङ्गयोरपि अप्रामाण्यहेतुत्वं ज्ञानगतायाथार्थ्यहेतुत्वं न स्यात् ।

पुरुषदोषाणां वाक्याप्रामाण्यनिमित्तत्वाभावो हि द्वेधा भवति । तस्याप्रामाण्याभावेन अप्रामाण्यस्य स्वतस्त्वेन वा । आद्ये दुष्टेन्द्रियादेरप्यप्रामाण्यं न स्यात् । द्वितीये काचादीनाम-पीन्द्रियाद्यप्रामाण्ये निमित्तत्वं न स्यात् । अस्ति च दुष्टेन्द्रियादेरप्यप्रामाण्यं काचादेश्च तन्निमित्तत्व-मिति । उभयस्याप्यनभ्युपगमे किं बाधकमित्यत आह- तदनङ्गीकारे चेति ॥ यदि दुष्टेन्द्रियादेर-प्रामाण्यं नाऽङ्गीक्रियते तदाऽपि द्वयी गतिः । ज्ञानकरणत्वाभावो वा याथार्थ्यं वा । आद्ये ज्ञान-स्येन्द्रियाद्यन्वयव्यतिरेकानुविधानानुभवविरोधः । ज्ञानस्यैवानङ्गीकारे साक्ष्यनुभवविरोधः । द्वितीये तु बाधानुभवविरोधः । तृतीये त्वप्रामाण्यस्य काचाद्यन्वयव्यतिरेकानुभवविरोध एव ।

ननु यादृच्छिकसंवादिषु सत्यपि दोषेऽप्रामाण्याभावात्कथमप्रामाण्यस्य दोषान्वयव्यति-रेकानुविधानमिति चेन्न । तस्य सद्भाव एवोत्पादो नासद्भाव इत्यन्वयव्यतिरेकयोः कार्यकारण-भावहेतुत्वात् । कारणे सत्यपि कार्यानुत्पादस्य सामग््रयभावेन प्रतिबन्धेन वा उपपत्तिरिति । अत एव दोषाभावोऽपि न प्रामाण्यकारणम् । यादृच्छिकसंवादिषु सत्यपि दोषे प्रामाण्यज्ञानोद-यादित्याशयवानुपसंहरति - अत इति ॥

भावबोधः

ननु ‘अधिकं प्रविश्व्ं न तु तद्धानिकरम्’ इति न्यायेन बौद्धादिवाक्यस्य प्रमाजनकत्वं दुष्परिहरम् इत्यत आह - वाक्यगता हीति ॥ वाक्यगतस्यायथार्थज्ञानजनकत्वलक्षणस्येति ॥ मूलेऽप्रामाण्यस्येत्यप्रामाण्य-पदस्य ज्ञानगतायाथार्थ्यपरत्वे दोषान्वयव्यतिरेकित्वेन दुश्व्ेन्द्रियादेरित्यस्य सङ्गतत्वेऽपि अपिपदमसङ्गतम् । सकलकरणगताप्रामाण्यपरत्वे तु दुश्व्ेन्द्रियादेरपीत्यापादनानुपपत्तिः, उक्ताप्रामाण्यस्वतस्त्ववादिनं प्रति तस्येष्टत्वादिति भावः । इन्द्रियादिगतायथार्थज्ञानजनकत्वलक्षणाप्रामाण्यस्य काचादिदोषनिबन्धनत्वाभावस्यैव विवक्षितापादकापाद्यत्वेनेन्द्रियादिगताप्रामाण्यस्य दोषनिबन्धनत्वं न स्यादित्येव वक्तव्ये दुष्टेन्द्रियादेरपीत्येवं विन्यासः किमर्थमित्यत आपादके विवक्षितपक्षद्वयदूषणार्थमेवमुक्तमित्यभिप्रेत्य तत्पक्षद्वयप्रदर्शनपूर्वकं वाक्यं योजयति- पुरुषदोषाणामित्यादिना ॥ दुश्व्ेन्द्रियादेरप्यप्रामाण्यं न स्यादिति ॥ अनेन दुष्टेन्द्रियादेरपि ज्ञानगतायाथार्थ्यहेतुत्वलक्षणं यदप्रामाण्यं तन्न स्यादिति दुष्टेन्द्रियादेरपीति वाक्यं व्याख्यातं भवति । काचादीनामपीति ॥ अनेन दुश्व्ेन्द्रियादेरपीत्यत्र विशेषणत्वेन प्रविष्टदोषाणां बुद्ध्या विवेकेन तेषामपीत्यपिशब्दं संयोज्य इन्द्रियादेर्यदप्रामाण्यं ज्ञानगतायाथार्थ्यजनकत्वलक्षणं तद्धेतुत्वं न स्यादिति प्रकारान्तरेण दुश्व्ेन्द्रियादेरपीति वाक्यं व्याख्यातं भवति ॥ तृतीय इति ॥ काचादिदोषाणामिन्द्रियादिगताप्रामाण्यनिमित्तत्वानङ्गीकार इत्यर्थः ॥ तस्य सद्भाव एवेति ॥ अनेन ‘अतः प्रामाण्यं स्वतः परतोऽप्रामाण्यम्’ इत्येतन्मूलगतातश्शब्दः ‘अप्रामाण्यं परतः’ इत्यत्र दोषस्याप्रामाण्यं प्रति कारणत्वग्राहकान्वयव्यतिरेकसद्भावरूपहेतुप्रदर्शकत्वेन व्याख्यातो भवति ॥ अत एव दोषाभावोऽपीति ॥ अनेन ‘प्रामाण्यं स्वतः’ इत्यत्रापि हेतुप्रदर्शकत्वेनातश्शब्दो व्याख्यातो भवति । न च ‘दोषाभावस्य कारणत्वे च नास्माकमनिश्व्म्’ इति भाष्यटीकाविरोधः । तस्याभ्युपगम-वादत्वात्, दोषस्य प्रतिबन्धकत्वेन तदभावस्य प्रयोजकत्वाभिप्रायकत्वाद्वा । अत एव तत्रैव ‘प्रदीपावरणनिवृ-त्त्यादीनामपि प्रकाशनादिकारणत्वापत्तेः’ इति प्रतिबन्धकीभूतावरणनिवृत्त्यादेरपि कारणत्वमापादितम् ।

भावदीपः

प्रामाण्यस्य स्वतस्त्वे बाधकमाशङ्कते- ननु यदीति ॥ तर्हि प्रमाजननस्वभावो व्याहन्येतेत्यत आह- वाक्यगता हीति ॥ प्रकृताभिप्रायेणेयमुक्तिः, कारणगता हीत्यर्थः । औत्सर्गिकत्वादिति ॥ यद् ज्ञानकरणं तत् प्रमां जनयतीत्येव, नतु सर्वथाऽपवादादौ सत्यपि तामेव जनयतीति नियम इत्यनियतसहचारमात्रत्वादि-त्यर्थः ॥ अप्रामाण्यं न स्यादिति ॥ सत्यपि दोषे तदकार्यत्वात्तस्येति भावः । दुश्व्ेत्यत्र विशेषणमात्रे तात्पर्यमिति भावेनाऽह- काचादीनामिति ॥ विपर्यये पर्यवसानमाह- अस्ति चेति ॥ ज्ञानकरणत्वाभाव इति ॥ दुष्टेन्द्रि-यादेरित्यनुकर्षः । अप्रामाण्यस्वतस्त्वेनेति तृतीयपक्षोऽप्यत्र ध्येयः । अग्रे तृतीय इत्युक्तेः । बाधेति ॥ चक्षुषा विपरीतमेवाज्ञासिषम् इत्यादिरूपबाधानुभवविरोध इत्यर्थः । इत्यन्वयव्यतिरेकयोरिति ॥ धूमाग्न्योरिवेति भावः । अत एवेत्युक्तं व्यनक्ति- यादृच्छिकेति ॥ इत्याशयवानिति ॥ एतेन वक्तव्यं सर्वमनुक्त्वा कथमुपसंहार इति शङ्काऽपास्ता ।

वाक्यार्थदीपिका

(श्री.टि.)

तस्य बौद्धादिवाक्यस्य ॥ अज्ञानेत्यादि ॥ अज्ञानविप्रलम्भप्रमादापटुकरणत्वरूपपुरुषदोष-मूलकत्वेनेत्यर्थः । ननु ‘अधिकं प्रविश्व्ं न तु तद्धानिकरम्’ इति न्यायेन बौद्धादिवाक्यस्य प्रमाजनकत्वं तु स्यादेवेति चेत्तत्राऽह- वाक्यगता हीति ॥ दोषा अज्ञानविप्रलम्भमूलकत्वादयः ॥ अप्रामाण्याभावेनेति ॥ तस्य वाक्यस्य अप्रामाण्यस्यैवाभावेन पुरुषदोषाणां वाक्याप्रामाण्यनिमित्तत्वाभाव इत्यर्थः । अप्रामाण्य-स्येति ॥ सत्यप्यप्रामाण्ये तस्य ज्ञानजनकजन्यत्वरूपस्वतस्त्वेन पुरुषदोषाणां वाक्याप्रामाण्यनिमित्तत्वं नास्ति । तथात्वे परतस्त्वापत्तेरित्यर्थः । पक्षद्वयेऽपि प्रतिबन्द्योत्तरं वक्तुं प्रवृत्तं दुश्व्ेन्द्रियादेरपीत्यादिवाक्यं योजयति- आद्य इत्यादिना ॥ दुश्व्ेन्द्रियादेरपीत्यत्रेन्द्रियविशेषणतया प्रविश्व्दोषाणां बुद्ध्या विवेकं कृत्वा अपिशब्दं तैः संयोज्य द्वितीयपक्षोत्तरत्वेनाप्येतदेव योजनीयमित्याह- द्वितीय इति ॥ वाक्याप्रामाण्यस्य स्वतस्त्वेन पुरुष-दोषाणां वाक्याप्रामाण्यनिमित्तत्वं नास्तीति यद्युच्यते तर्हि काचादिदोषाणामपि अयथार्थज्ञानजनकत्वरूपेन्द्रि-याद्यप्रामाण्ये हेतुत्वं निमित्तत्वं न स्यात् । तत्रापि इन्द्रियाद्यप्रामाण्यस्य स्वतस्त्वेन काचादीनां तन्निमित्तत्वं नास्ति । तथात्वे परतस्त्वापत्तेरिति वक्तुं शक्यत्वादिति भावः । विपर्ययपर्यवसानं दर्शयति- अस्ति चेति ॥ उभयस्येति ॥ दुष्टेन्द्रियादेरप्रामाण्यस्य, काचादिदोषाणामपीन्द्रियादिनिष्ठायथार्थज्ञानजनकत्वलक्षणा-प्रामाण्यहेतुत्वस्य चानभ्युपगम इत्यर्थः । तथा च तर्कद्वयेऽपि इश्वपत्तिरिति भावः ॥ ज्ञानेति ॥ दुष्टेन्द्रिया-देर्ज्ञानकरणत्वाभावेनैवायथार्थज्ञानसाधनत्वरूपाप्रामाण्यं नास्तीत्यर्थः ॥ याथार्थ्यं वेति ॥ दुष्टेन्द्रियादेर्यथार्थ-ज्ञानसाधनत्वादेव निरुक्तमप्रामाण्यं नास्तीत्यर्थः । ज्ञानकारणत्वाभावरूपाद्यपक्षेऽपि ज्ञानमुत्पद्यते, परन्तु इन्द्रियादेस्तत्कारणत्वाभावादेव दुष्टेन्द्रियादेस्तत्कारणत्वं नास्तीत्यर्थः, उत ज्ञानस्वरूपमेव नास्तीति कृत्वा दुष्टेन्द्रियादेस्तत्कारणत्वं नास्तीत्यर्थ इति द्वेधा विकल्पं हृदि निधायाऽद्ये दूषणमाह- ज्ञानस्येति ॥ ‘इदं रजतम्’ इत्यादिज्ञानस्येत्यर्थः । दुष्टेन्द्रिये सतीदं रजतमित्यादिज्ञानं जायते, तदभावे तदभाव इत्यन्वयव्यतिरेकानु-विधानावगाह्यनुभवविरोध इत्यर्थः ।

द्वितीये दूषणमाह- ज्ञानस्यैवेति ॥ शुक्तिकां रजतत्वेन जानामीति भ्रमरूपज्ञानस्वरूपावगाहिसाक्षि-रूपानुभवविरोध इत्यर्थः ॥ द्वितीय इति ॥ इदं रजतमित्यादिज्ञानस्य यथार्थत्वेन दुश्व्ेन्द्रियादेरयथार्थज्ञानहेतुत्वा-नङ्गीकारे नेदं रजतमिति रजताभावावगाहिबाधस्वरूपानुभवविरोध इत्यर्थः । काचादेर्दोषस्येन्द्रियादेरयथार्थ-ज्ञानहेतुत्वरूपाप्रामाण्ये निमित्तत्वं नाङ्गीक्रियत इति पक्षे दोषमाह - तृतीये त्विति ॥ दुश्व्ेन्द्रियादेर्ज्ञानगताया-थार्थ्यहेतुत्वं नाङ्गीक्रियत इति प्रथमपक्षस्य द्वेधा विकल्पितत्वाद् द्वितीयस्याप्यस्य तृतीयत्वमित्यवगन्तव्यम् ॥ काचादीति ॥ काचादिदोषे सतीन्द्रियादेरयथार्थज्ञानहेतुत्वं, तदभावे तदभाव इत्यन्वयव्यतिरेकानुविधानानुभव-विरोध इत्यर्थः । तस्य दोषस्य । उत्पादोऽप्रामाण्यस्य । अप्रामाण्यमुत्पद्यते चेत्तर्हि दोषसद्भाव एवोत्पादः, (श्री.टि.) नासद्भाव इति कार्यमुखान्वयव्यतिरेकयोर्विवक्षितत्वान्न यादृच्छिकसंवादादिस्थले व्यभिचारः । तत्राप्रामाण्योत्पत्तेरेवाभावादिति भावः । किञ्चैतादृशान्वयव्यतिरेकयोर्बहुसांव्यवहारिकत्वाभावात्पूर्वोक्तौ कारण-मुखान्वयव्यतिरेकावेवाभिप्रेतौ । तर्हि यादृच्छिकसंवादादिषु व्यभिचार इत्यत आह - कारणे सतीति ॥ मङ्गलस्य समाप्तिं प्रति हेतुत्वे कादम्बर्यादौ ग्रन्थे अन्वयव्यभिचारे प्राप्ते यथा समाधीयते- अन्वयव्यभिचारो न समाप्तिं प्रति मङ्गलस्याकारणत्वकल्पकः, किं नाम? तत्र तावन्मात्रे मङ्गले सत्यपि विघ्नसमसङ्ख्याकमङ्गलरूपसामग्य्रा-भावात्, अन्तरा विघ्नोत्पत्तिरूपप्रतिबन्धकेन वा समाप्त्यभावो युक्तः । न हि प्रतिबद्धं कारणं कार्यमजनयदकारणं भवति अतिप्रसङ्गादिति । तथा प्रकृते यादृच्छिकसंवादादिस्थले दोषरूपे कारणे सत्यपि विषयासत्त्वस्याप्रामा-ण्योत्पत्तौ सामग्रीत्वात्तदभावेन वा, विषयसत्त्वस्याप्रामाण्योत्पत्तौ प्रतिबन्धकत्वेन प्रतिबन्धकीभूतविषयसत्त्वस्य सत्त्वाद्वाऽप्रामाण्यरूपकार्यानुत्पादो युक्त इति नान्वयव्यभिचारो दोषस्याकारणत्वकल्पक इत्याशयः । दोषा-भाव इति ॥ दोषस्याप्रामाण्यकारणत्वेन तदभावः प्रामाण्योत्पत्तौ कारणमिति नेत्यर्थः । अत एवेत्युक्तं विशदयति- यादृच्छिकेति ॥ दोषाभावे सति प्रामाण्योत्पत्तिर्दोषे सति प्रामाण्योत्पत्त्यभाव इति वक्तुं न युज्यते व्यतिरेकव्यभिचारादित्यर्थः ।

विषमपदवाक्यार्थविवृतिः

(पां.टि.)

वाक्यमात्रस्येति ॥ आप्तोक्तत्वरूपगुणनिरपेक्षवाक्यस्येत्यर्थः । इश्वपत्तिं परिहरति- ततश्चेति ॥ न चात्रापीश्वपत्तिरिति वाच्यम् । तस्य वेदविरोधित्वेन तदयोगात् । वेदविरोधिनोऽपि तस्य प्रामाण्ये वेदस्या-प्रामाण्यप्रसङ्गात् । विरुद्धयोर्द्वयोः प्रामाण्यस्यायोगात् । योगे वा वस्तुनो द्वैरूप्यप्रसङ्गादित्यशयात् । ननु यथार्थ-ज्ञानजननशक्तिमतो वाक्यस्य कथं दोषसहकारमात्रेण यथार्थज्ञानाजनकत्वम् अयथार्थज्ञानजनकत्वं च स्यादित्यत आह - वाक्यगता हीति ॥

ननु दोषाणां सहजशक्तिप्रतिबन्धकत्वेऽपि न विपरीतशक्त्याधायकत्वमपि वक्तुं युक्तम् । दुश्व्स्य कुटजबीजस्य कुटजाङ्कुराजनकत्ववद्वटाङ्कुरजनकत्वाभावात् । विपरीतशक्त्याधायकत्वे च भर्जितकुटजबीजस्य वटाङ्कुरजनकत्व-प्रसङ्गात् । ततश्च दुष्टस्य वाक्यस्य यथार्थज्ञानाजनकत्वमेव युक्तम् । न त्वयथार्थज्ञानजनकत्वमपीति कथं तदङ्गीकार इत्यतो भर्जनादिदोषाणां सहजशक्तिमात्रप्रतिबन्धकत्वेऽपि न दोषमात्रस्य तन्नियमः । किन्तु केचित्सहजशक्ति-प्रतिबन्धेन विपरीतशक्तिमप्यादधति । विषस्य मारकत्वशक्तिं प्रतिबध्याऽरोग्यादिजननशक्तिमादधानानां पदार्थानामपि बहुलमुपलम्भात् । अतो दोषवैचित्र्याद्वाक्यगतदोषाणां सहजशक्तिप्रतिबन्धकत्वस्य विपरीत-शक्त्याधायकत्वस्य चोपपन्नत्वाद्, युक्ते एव वाक्यस्य यथार्थज्ञानाजनकत्वायथार्थज्ञानजनकत्वे इत्याशयेन दोषवैचित्र्यप्रसिद्ध्यर्थकस्य हिशब्दस्य प्रयोगः ।

नन्वेवं ज्ञानकरणस्य वाक्यस्य यथार्थज्ञानजनकत्ववदयथार्थज्ञानजनकत्वस्याप्यभ्युपगमे प्रामाण्यं स्वतोऽ-प्रामाण्यं परत इति सिद्धान्तो भज्येतेत्यतो वाक्यादीनामुभयजनकत्वेऽपि तन्निष्ठयथार्थज्ञानजननशक्तेः सहजत्वम्, (पां.टि.) अयथार्थज्ञानजननशक्तेस्तु अन्याहितत्वमित्येतावन्मात्रेणैव स्वतस्त्वपरतस्त्वविभागस्याभिप्रेतत्वान्न सिद्धान्तभङ्गोऽपीत्याशयेनाऽह- औत्सर्गिकत्वादिति ॥ उभयत्रापीष्टापत्तिं निरस्यति- अस्ति चेति ॥ उभय-स्येति ॥ दुष्टेन्द्रियादेरप्रामाण्ये, काचादीनां चेन्द्रियाद्यप्रामाण्ये निमित्तत्वमित्युभयस्येत्यर्थः । दुष्टेन्द्रियादेर्ज्ञान-करणत्वाभाव इत्याद्येऽपि, सत्यपि ज्ञाने तस्य तत्करणत्वाभावोऽभिप्रेतः, किं वा ज्ञानस्यैवासत्त्वेन तत्करणत्वा-भाव इति विकल्पं मनसि निधायाऽद्यं दूषयति- आद्ये ज्ञानस्येति ॥ तत्र ज्ञानस्यानन्यथासिद्धेन्द्रियाद्यन्वय-व्यतिरेकानुविधानेन दुश्व्ेन्द्रियजन्यत्वसिद्ध्या तस्य ज्ञानकरणतायाः सिद्धत्वेन ज्ञानकरणत्वाभावविवक्षायां तद्ग्राहकेन्द्रियाद्यन्वयव्यतिरेकानुविधानानुभवविरोधः स्यादित्यर्थः । ज्ञानस्यैवासत्त्वात्तत्करणत्वाभावो दुष्टेन्द्रि-यादेरित्यभिप्रेतं द्वितीयं पक्षं दूषयति- ज्ञानस्यैवेति ॥ साक्ष्यनुभवेन तत्र ज्ञानसत्तायाः सिद्धत्वेन तदसत्त्वे तत्सत्ताग्राहकसाक्ष्यनुभवविरोधः स्यादित्यर्थः । दुष्टेन्द्रियादेर्याथार्थ्यं वेति प्राक् कण्ठतो विकल्पितं द्वितीयं पक्षं दूषयति- द्वितीये त्विति ॥ बाधानुभवेन दुष्टेन्द्रियादेरयथार्थत्वस्यैव सिद्धत्वेन तद्याथार्थ्याभ्युपगमे बाधानु-भवविरोधः स्यादित्यर्थः । अप्रामाण्यस्य स्वतस्त्वेनेत्याद्यद्वितीयं दूषयति- तृतीये त्विति ॥ अप्रामाण्यस्य काचाद्यन्वयव्यतिरेकानुविधानेनोत्पत्तौ दोषाधीनत्वेन परतस्त्वस्यैव सिद्धत्वात्तत्स्वतस्त्वाभ्युपगमे तस्य दोषाद्य-न्वयव्यतिरेकानुविधानानुभवविरोध इत्यर्थः । दोषाभावोऽपीति ॥ न चास्य ग्रन्थस्य भाष्यटीकया विरोधः, ‘दोषाभावस्य कारणत्वे च’ इत्यादिना तत्र दोषाभावस्य कारणत्वोक्तेरिति वाच्यम् । तत्र कारणशब्दस्य घटं प्रति कुलालपित्रादिसाधारणं यत् तद्व्यतिरेकप्रयुक्तव्यतिरेकप्रतियोगित्वरूपं प्रयोजकत्वं तन्मात्रपरत्वेन कारणत्व-परत्वाभावात् । आप्तोक्तत्वरूपगुणजन्यत्वस्येव दोषाभावजन्यत्वस्यापौरुषेयत्वाविघातकत्वाद् अपौरुषेयत्व-साधनस्यैव तत्र प्रस्तुतत्वात् प्रकृताभिप्रायेणाभ्युपगमवादेन तत्र दोषाभावस्य कारणत्वोक्तिः । अत एव ‘दोषाभावस्य कारणत्वेऽपि नास्माकमनिष्टम् । तावता वेदापौरुषेयत्वाव्याघातात्’ इत्युत्तरत्र वेदापौरुषेयत्वा-व्याघातकत्वेनानिश्व्त्वाभावप्रतिपादनम् । अत्र तु प्रामाण्यस्वतस्त्वस्यैवोपपादनीयतया तदर्थं वस्तुस्थितिकथन-मिति तु गुरवः ।

लघुप्रभा

(व्या.टि.)

प्रामाण्यस्योत्पत्तिस्वतस्त्वे बाधकमाशङ्कते- नन्विति ॥ वाक्यमात्रस्य गुणानपेक्षस्येत्यर्थः । ननु दोषस्य दुष्टबीजादाविव स्वभावशक्तिप्रतिबन्धकत्वं युक्तम्, न विपरीतकार्यजनकत्वमित्यतो दोषाणां तदभावेऽपि एषामेष स्वभाव इत्याह- वाक्यगता हीति ॥ आविर्भावयन्ति आदधति । अनेन कथमस्याः शङ्कायाः परिहार इत्यतोऽभिसन्धिमुद्घाटयति- औत्सर्गिकत्वादिति ॥ स्वसामग्रीवशसम्पन्नमौत्सर्गिकं, तत्प्रतिबन्धक-मपवाद इत्यर्थः ।

इन्द्रियलिङ्गयोरप्रामाण्यस्योत्पत्तिपरतस्त्वमभ्युपेत्य शब्दे तदसहमानः शङ्कते- वाक्यगतस्येति ॥ तत् शब्दाप्रामाण्यपरतस्त्वम् । बाधकेन अतिप्रसङ्गेन । वाक्यगतस्य दुष्टवाक्यगतस्य । ज्ञानगतेति ॥ अयथार्थज्ञान-हेतुत्वं न स्यादित्यर्थः । ननु दुष्टवाक्यगताप्रमासाधनत्वस्य वाक्यदोषानधीनत्वे दुष्टेन्द्रियलिङ्गगताप्रामाण्य-(व्या.टि.) साधनत्वस्यापि तद्दोषाधीनत्वं न स्याद् इति वक्तव्ये किमिदमसङ्गताभिधानमित्यतः ‘अप्रामाण्य-हेतुत्वं न स्यात्’ इति मूलम् ‘अप्रामाण्यं न स्यात्, दोषस्य तद्धेतुत्वं न स्यात्’ इति (भावेन) विभागेन प्रसङ्ग-परतया व्याख्याति- पुरुष-दोषाणामिति ॥ तस्येति ॥ दुष्टवाक्यस्येत्यर्थः । अप्रामाण्यस्येति ॥ दुष्टवाक्या-प्रामाण्यस्येत्यर्थः । अप्रामाण्याभावस्याप्यापाद्यत्वाभिप्रायेणाऽद्यं निरस्यति- आद्य इति ॥ तद्धेतुत्वाभावस्या-प्यापाद्यत्वाभिप्रायेण द्वितीयमपास्यति- द्वितीय इति ॥ अनेन अप्रामाण्यस्य दुष्टवाक्यीयाप्रमाकरणत्वस्य, दोषानधीनत्वे दुष्टेन्द्रियादेर् इन्द्रियादिदोषाणां तदीयाप्रमासाधनत्वनिमित्तत्वं न स्यात्, दुष्टेऽप्यर्धजरतीयानुप-पत्तेरिति प्रतिबन्दीग्रहणतया मूलं योजितं वेदितव्यम् । अतिप्रसङ्गस्य विपर्ययपर्यवसानमाह- अस्ति चेति ॥ उभयस्येति ॥ पर्यवसितोभयस्येत्यर्थः । ‘उभादुदात्तो नित्यम्’ इत्युभशब्दात् तयपोऽयज् विज्ञेयः । ‘तदनङ्गीकारे च’ इति मूलेऽप्रामाण्यानङ्गीकारे, दोषहेतुत्वानङ्गीकारे चेत्युभयम् एकोक्त्याऽनूद्यते । अप्रामाण्यानङ्गीकारे हेतुं विकल्प्य सर्वेष्वपि पक्षेषु अनुभवविरोधं दर्शयति- तदाऽपि द्वयी गतिरिति ॥ ‘द्वित्रिभ्यां तयपोऽयज्वा’ इति तयपोऽयच्, तस्य स्थानिवद्भावेन ‘टिड्ढाणञ्’ इति ङीबिति भावः । अनुविधानं तत्प्रयोज्यान्वयव्यतिरेक-प्रतियोगित्वम् । चक्षुषा पश्यामीत्यनुभवादिति भावः ॥ ज्ञानस्यैवेति ॥ भ्रमस्यैवेत्यर्थः ॥ साक्ष्यनुभवेति ॥ भ्रान्तोऽस्मीति तत्सत्त्वानुभवादित्यर्थः ॥ बाधानुभवेति ॥ विपरीतमपश्यम् इत्यनुभवेत्यर्थः ॥ तृतीय इति ॥ दोषहेतुत्वानङ्गीकार इत्यर्थः । प्रामाण्यं नाङ्गीक्रियत इत्यस्य द्वेधा विकल्पितत्वाद्दोषाणां तद्धेतुत्वं नास्तीति द्वितीयस्य तृतीयत्वं बोध्यम् । गुणस्य प्रामाण्ये व्यतिरेकाभावेनाकारणत्ववद् दोषाणामन्वयाभावेनाप्रामाण्याहेतुत्वं शङ्कते- नन्विति ॥ सद्भाव एवेति ॥ एवकारेणान्वये सद्भावो व्यापको नतु व्याप्य इति द्योतयति, वह्निमानेव धूमवानितिवत् । कारणे सति कार्यं भवत्येवेति वैभाषिकपरिभाषा नास्माकं सम्मतेति भावः । तथाऽप्यन्वय-व्यभिचारमन्यथा परिहरति- कारणे सत्यपीति ॥ दोषान्वयव्यतिरेकित्वेनाप्रामाण्यस्य परतस्त्वे दोषाभावान्वय-व्यतिरेकानुविधानात् प्रामाण्यस्यापि परतस्त्वं स्यादिति प्रतिबन्दीमाशङ्क्य निराकरोति- अत एवेति ॥ व्यतिरेकाभावादेवेत्यर्थः। तमेवोपपादयति- यादृच्छिकेति ॥ न चैवं ‘दोषाभावस्य कारणत्वेऽपि नास्माकम-निश्व्म् । तावता वेदापौरुषेयत्वाव्याघातात्’ इति भाष्यटीकाविरोध इति वाच्यम् । कारणतावच्छेदकप्रतिबन्धका-भावसाधारणप्रयोजकत्वमात्रस्य तत्राभिप्रेतत्वादित्यवोचाम । विस्तरस्तु तर्कताण्डवे बोध्यः । अप्रामाण्य-स्योत्पत्तिपरतस्त्ववादः ।